Ṛk 5.85.4
Saṃhitā
उ॒नत्ति॒ भूमिं॑ पृथि॒वीमु॒त द्यां य॒दा दु॒ग्धं वरु॑णो॒ वष्ट्यादित् ।
सम॒भ्रेण॑ वसत॒ पर्व॑तासस्तविषी॒यंतः॑ श्रथयंत वी॒राः ॥
उनत्ति भूमिम् पृथिवीम् उत द्यां यदा दुग्धं वरुणो वष्ट्य् आद् इत् |
सम् अभ्रेण वसत पर्वतासस् तविषीयन्तः श्रथयन्त वीराः ||
unátti bhū́mim pṛthivī́mutá dyā́m yadā́ dugdhám váruṇo váṣṭyā́dít ǀ
sámabhréṇa vasata párvatāsastaviṣīyántaḥ śrathayanta vīrā́ḥ ǁ
unatti bhūmim pṛthivīm uta dyāṃ yadā dugdhaṃ varuṇo vaṣṭy ād it |
sam abhreṇa vasata parvatāsas taviṣīyantaḥ śrathayanta vīrāḥ ||
Padapāṭha
उ॒नत्ति॑ । भूमि॑म् । पृ॒थि॒वीम् । उ॒त । द्याम् । य॒दा । दु॒ग्धम् । वरु॑णः । वष्टि॑ । आत् । इत् ।
सम् । अ॒भ्रेण॑ । व॒स॒त॒ । पर्व॑तासः । त॒वि॒षी॒ऽयन्तः॑ । श्र॒थ॒य॒न्त॒ । वी॒राः ॥
उनत्ति । भूमिम् । पृथिवीम् । उत । द्याम् । यदा । दुग्धम् । वरुणः । वष्टि । आत् । इत् ।
सम् । अभ्रेण । वसत । पर्वतासः । तविषीऽयन्तः । श्रथयन्त । वीराः ॥
unátti ǀ bhū́mim ǀ pṛthivī́m ǀ utá ǀ dyā́m ǀ yadā́ ǀ dugdhám ǀ váruṇaḥ ǀ váṣṭi ǀ ā́t ǀ ít ǀ
sám ǀ abhréṇa ǀ vasata ǀ párvatāsaḥ ǀ taviṣī-yántaḥ ǀ śrathayanta ǀ vīrā́ḥ ǁ
unatti ǀ bhūmim ǀ pṛthivīm ǀ uta ǀ dyām ǀ yadā ǀ dugdham ǀ varuṇaḥ ǀ vaṣṭi ǀ āt ǀ it ǀ
sam ǀ abhreṇa ǀ vasata ǀ parvatāsaḥ ǀ taviṣī-yantaḥ ǀ śrathayanta ǀ vīrāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.085.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.4.30.04
- Maṇḍala · Anuvāka · Ṛk
- 05.06.095
- Devatā देवता
- Varuṇa
- Ṛṣi ऋषि
- Atri Bhauma
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.