Ṛk 5.85.8
Saṃhitā
कि॒त॒वासो॒ यद्रि॑रि॒पुर्न दी॒वि यद्वा॑ घा स॒त्यमु॒त यन्न वि॒द्म ।
सर्वा॒ ता वि ष्य॑ शिथि॒रेव॑ दे॒वाधा॑ ते स्याम वरुण प्रि॒यासः॑ ॥
कितवासो यद् रिरिपुर् न दीवि यद् वा घा सत्यम् उत यन् न विद्म |
सर्वा ता वि ष्य शिथिरेव देवाधा ते स्याम वरुण प्रियासः ||
kitavā́so yádriripúrná dīví yádvā ghā satyámutá yánná vidmá ǀ
sárvā tā́ ví ṣya śithiréva devā́dhā te syāma varuṇa priyā́saḥ ǁ
kitavāso yad riripur na dīvi yad vā ghā satyam uta yan na vidma |
sarvā tā vi ṣya śithireva devādhā te syāma varuṇa priyāsaḥ ||
Padapāṭha
कि॒त॒वासः॑ । यत् । रि॒रि॒पुः । न । दी॒वि । यत् । वा॒ । घ॒ । स॒त्यम् । उ॒त । यत् । न । वि॒द्म ।
सर्वा॑ । ता । वि । स्य॒ । शि॒थि॒राऽइ॑व । दे॒व॒ । अध॑ । ते॒ । स्या॒म॒ । व॒रु॒ण॒ । प्रि॒यासः॑ ॥
कितवासः । यत् । रिरिपुः । न । दीवि । यत् । वा । घ । सत्यम् । उत । यत् । न । विद्म ।
सर्वा । ता । वि । स्य । शिथिराऽइव । देव । अध । ते । स्याम । वरुण । प्रियासः ॥
kitavā́saḥ ǀ yát ǀ riripúḥ ǀ ná ǀ dīví ǀ yát ǀ vā ǀ gha ǀ satyám ǀ utá ǀ yát ǀ ná ǀ vidmá ǀ
sárvā ǀ tā́ ǀ ví ǀ sya ǀ śithirā́-iva ǀ deva ǀ ádha ǀ te ǀ syāma ǀ varuṇa ǀ priyā́saḥ ǁ
kitavāsaḥ ǀ yat ǀ riripuḥ ǀ na ǀ dīvi ǀ yat ǀ vā ǀ gha ǀ satyam ǀ uta ǀ yat ǀ na ǀ vidma ǀ
sarvā ǀ tā ǀ vi ǀ sya ǀ śithirā-iva ǀ deva ǀ adha ǀ te ǀ syāma ǀ varuṇa ǀ priyāsaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.085.08
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.4.31.03
- Maṇḍala · Anuvāka · Ṛk
- 05.06.099
- Devatā देवता
- Varuṇa
- Ṛṣi ऋषि
- Atri Bhauma
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.