Ṛk 5.86.1
Saṃhitā
इंद्रा॑ग्नी॒ यमव॑थ उ॒भा वाजे॑षु॒ मर्त्यं॑ ।
दृ॒ळ्हा चि॒त्स प्र भे॑दति द्यु॒म्ना वाणी॑रिव त्रि॒तः ॥
इन्द्राग्नी यम् अवथ उभा वाजेषु मर्त्यम् |
दृऌहा चित् स प्र भेदति द्युम्ना वाणीर् इव त्रितः ||
índrāgnī yámávatha ubhā́ vā́jeṣu mártyam ǀ
dṛḷhā́ citsá prá bhedati dyumnā́ vā́ṇīriva tritáḥ ǁ
indrāgnī yam avatha ubhā vājeṣu martyam |
dṛḷhā cit sa pra bhedati dyumnā vāṇīr iva tritaḥ ||
Padapāṭha
इन्द्रा॑ग्नी॒ इति॑ । यम् । अव॑थः । उ॒भा । वाजे॑षु । मर्त्य॑म् ।
दृ॒ळ्हा । चि॒त् । सः । प्र । भे॒द॒ति॒ । द्यु॒म्ना । वाणीः॑ऽइव । त्रि॒तः ॥
इन्द्राग्नी इति । यम् । अवथः । उभा । वाजेषु । मर्त्यम् ।
दृळ्हा । चित् । सः । प्र । भेदति । द्युम्ना । वाणीःऽइव । त्रितः ॥
índrāgnī íti ǀ yám ǀ ávathaḥ ǀ ubhā́ ǀ vā́jeṣu ǀ mártyam ǀ
dṛḷhā́ ǀ cit ǀ sáḥ ǀ prá ǀ bhedati ǀ dyumnā́ ǀ vā́ṇīḥ-iva ǀ tritáḥ ǁ
indrāgnī iti ǀ yam ǀ avathaḥ ǀ ubhā ǀ vājeṣu ǀ martyam ǀ
dṛḷhā ǀ cit ǀ saḥ ǀ pra ǀ bhedati ǀ dyumnā ǀ vāṇīḥ-iva ǀ tritaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.086.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.4.32.01
- Maṇḍala · Anuvāka · Ṛk
- 05.06.100
- Devatā देवता
- Agni, Indra
- Ṛṣi ऋषि
- Atri Bhauma
- Chandas छन्दस्
- Anuṣṭubh, Virāṭpūrvā
- Svara स्वरः
- ऋषभः
Text and interpretations from the Ṛgveda database of theveda.org.in.