Sūkta 79
- Devatā देवता
- Uṣas
- Ṛṣi ऋषि
- Satyaśravas Ātreya
- Chandas छन्दस्
- Paṅkti
Metres by ṛk
1st set of styles bhurigbṛhatī (2, 3, 7); paṅktiḥ (4, 5, 8); nicṛtpaṅkti (6, 9); svarāḍbrāhmīgāyatrī (1); svarāḍbṛhatī (10)
2nd set of styles paṅkti
-
Ṛk 1
म॒हे नो॑ अ॒द्य बो॑ध॒योषो॑ रा॒ये दि॒वित्म॑ती ।
यथा॑ चिन्नो॒ अबो॑धयः स॒त्यश्र॑वसि वा॒य्ये सुजा॑ते॒ अश्व॑सूनृते ॥महे नो अद्य बोधयोषो राये दिवित्मती |
यथा चिन् नो अबोधयः सत्यश्रवसि वाय्ये सुजाते अश्वसूनृते ||mahé no adyá bodhayóṣo rāyé divítmatī ǀ
yáthā cinno ábodhayaḥ satyáśravasi vāyyé sújāte áśvasūnṛte ǁmahe no adya bodhayoṣo rāye divitmatī |
yathā cin no abodhayaḥ satyaśravasi vāyye sujāte aśvasūnṛte ||म॒हे । नः॒ । अ॒द्य । बो॒ध॒य॒ । उषः॑ । रा॒ये । दि॒वित्म॑ती ।
यथा॑ । चि॒त् । नः॒ । अबो॑धयः । स॒त्यऽश्र॑वसि । वा॒य्ये । सुऽजा॑ते । अश्व॑ऽसूनृते ॥महे । नः । अद्य । बोधय । उषः । राये । दिवित्मती ।
यथा । चित् । नः । अबोधयः । सत्यऽश्रवसि । वाय्ये । सुऽजाते । अश्वऽसूनृते ॥mahé ǀ naḥ ǀ adyá ǀ bodhaya ǀ úṣaḥ ǀ rāyé ǀ divítmatī ǀ
yáthā ǀ cit ǀ naḥ ǀ ábodhayaḥ ǀ satyá-śravasi ǀ vāyyé ǀ sú-jāte ǀ áśva-sūnṛte ǁmahe ǀ naḥ ǀ adya ǀ bodhaya ǀ uṣaḥ ǀ rāye ǀ divitmatī ǀ
yathā ǀ cit ǀ naḥ ǀ abodhayaḥ ǀ satya-śravasi ǀ vāyye ǀ su-jāte ǀ aśva-sūnṛte ǁ5.79.1 Aṣṭaka 4.4.21.1Anuvāka 5.6.49
-
Ṛk 2
या सु॑नी॒थे शौ॑चद्र॒थे व्यौच्छो॑ दुहितर्दिवः ।
सा व्यु॑च्छ॒ सही॑यसि स॒त्यश्र॑वसि वा॒य्ये सुजा॑ते॒ अश्व॑सूनृते ॥या सुनीथे शौचद्रथे व्य् औच्छो दुहितर् दिवः |
सा व्य् उच्छ सहीयसि सत्यश्रवसि वाय्ये सुजाते अश्वसूनृते ||yā́ sunīthé śaucadrathé vyáuccho duhitardivaḥ ǀ
sā́ vyúccha sáhīyasi satyáśravasi vāyyé sújāte áśvasūnṛte ǁyā sunīthe śaucadrathe vy auccho duhitar divaḥ |
sā vy uccha sahīyasi satyaśravasi vāyye sujāte aśvasūnṛte ||या । सु॒ऽनी॒थे । शौ॒च॒त्ऽर॒थे । वि । औच्छः॑ । दु॒हि॒तः॒ । दि॒वः॒ ।
सा । वि । उ॒च्छ॒ । सही॑यसि । स॒त्यऽश्र॑वसि । वा॒य्ये । सुऽजा॑ते । अश्व॑ऽसूनृते ॥या । सुऽनीथे । शौचत्ऽरथे । वि । औच्छः । दुहितः । दिवः ।
सा । वि । उच्छ । सहीयसि । सत्यऽश्रवसि । वाय्ये । सुऽजाते । अश्वऽसूनृते ॥yā́ ǀ su-nīthé ǀ śaucat-rathé ǀ ví ǀ áucchaḥ ǀ duhitaḥ ǀ divaḥ ǀ
sā́ ǀ ví ǀ uccha ǀ sáhīyasi ǀ satyá-śravasi ǀ vāyyé ǀ sú-jāte ǀ áśva-sūnṛte ǁyā ǀ su-nīthe ǀ śaucat-rathe ǀ vi ǀ aucchaḥ ǀ duhitaḥ ǀ divaḥ ǀ
sā ǀ vi ǀ uccha ǀ sahīyasi ǀ satya-śravasi ǀ vāyye ǀ su-jāte ǀ aśva-sūnṛte ǁ5.79.2 Aṣṭaka 4.4.21.2Anuvāka 5.6.50
-
Ṛk 3
सा नो॑ अ॒द्याभ॒रद्व॑सु॒र्व्यु॑च्छा दुहितर्दिवः ।
यो व्यौच्छः॒ सही॑यसि स॒त्यश्र॑वसि वा॒य्ये सुजा॑ते॒ अश्व॑सूनृते ॥सा नो अद्याभरद्वसुर् व्य् उच्छा दुहितर् दिवः |
यो व्य् औच्छः सहीयसि सत्यश्रवसि वाय्ये सुजाते अश्वसूनृते ||sā́ no adyā́bharádvasurvyúcchā duhitardivaḥ ǀ
yó vyáucchaḥ sáhīyasi satyáśravasi vāyyé sújāte áśvasūnṛte ǁsā no adyābharadvasur vy ucchā duhitar divaḥ |
yo vy aucchaḥ sahīyasi satyaśravasi vāyye sujāte aśvasūnṛte ||सा । नः॒ । अ॒द्य । आ॒भ॒रत्ऽव॑सुः । वि । उ॒च्छ॒ । दु॒हि॒तः॒ । दि॒वः॒ ।
यो इति॑ । वि । औच्छः॑ । सही॑यसि । स॒त्यऽश्र॑वसि । वा॒य्ये । सुऽजा॑ते । अश्व॑ऽसूनृते ॥सा । नः । अद्य । आभरत्ऽवसुः । वि । उच्छ । दुहितः । दिवः ।
यो इति । वि । औच्छः । सहीयसि । सत्यऽश्रवसि । वाय्ये । सुऽजाते । अश्वऽसूनृते ॥sā́ ǀ naḥ ǀ adyá ǀ ābharát-vasuḥ ǀ ví ǀ uccha ǀ duhitaḥ ǀ divaḥ ǀ
yó íti ǀ ví ǀ áucchaḥ ǀ sáhīyasi ǀ satyá-śravasi ǀ vāyyé ǀ sú-jāte ǀ áśva-sūnṛte ǁsā ǀ naḥ ǀ adya ǀ ābharat-vasuḥ ǀ vi ǀ uccha ǀ duhitaḥ ǀ divaḥ ǀ
yo iti ǀ vi ǀ aucchaḥ ǀ sahīyasi ǀ satya-śravasi ǀ vāyye ǀ su-jāte ǀ aśva-sūnṛte ǁ5.79.3 Aṣṭaka 4.4.21.3Anuvāka 5.6.51
-
Ṛk 4
अ॒भि ये त्वा॑ विभावरि॒ स्तोमै॑र्गृ॒णंति॒ वह्न॑यः ।
म॒घैर्म॑घोनि सु॒श्रियो॒ दाम॑न्वंतः सुरा॒तयः॒ सुजा॑ते॒ अश्व॑सूनृते ॥अभि ये त्वा विभावरि स्तोमैर् गृणन्ति वह्नयः |
मघैर् मघोनि सुश्रियो दामन्वन्तः सुरातयः सुजाते अश्वसूनृते ||abhí yé tvā vibhāvari stómairgṛṇánti váhnayaḥ ǀ
magháirmaghoni suśríyo dā́manvantaḥ surātáyaḥ sújāte áśvasūnṛte ǁabhi ye tvā vibhāvari stomair gṛṇanti vahnayaḥ |
maghair maghoni suśriyo dāmanvantaḥ surātayaḥ sujāte aśvasūnṛte ||अ॒भि । ये । त्वा॒ । वि॒भा॒ऽव॒रि॒ । स्तोमैः॑ । गृ॒णन्ति॑ । वह्न॑यः ।
म॒घैः । म॒घो॒नि॒ । सु॒ऽश्रियः॑ । दाम॑न्ऽवन्तः । सु॒ऽरा॒तयः॑ । सुऽजा॑ते । अश्व॑ऽसूनृते ॥अभि । ये । त्वा । विभाऽवरि । स्तोमैः । गृणन्ति । वह्नयः ।
मघैः । मघोनि । सुऽश्रियः । दामन्ऽवन्तः । सुऽरातयः । सुऽजाते । अश्वऽसूनृते ॥abhí ǀ yé ǀ tvā ǀ vibhā-vari ǀ stómaiḥ ǀ gṛṇánti ǀ váhnayaḥ ǀ
magháiḥ ǀ maghoni ǀ su-śríyaḥ ǀ dā́man-vantaḥ ǀ su-rātáyaḥ ǀ sú-jāte ǀ áśva-sūnṛte ǁabhi ǀ ye ǀ tvā ǀ vibhā-vari ǀ stomaiḥ ǀ gṛṇanti ǀ vahnayaḥ ǀ
maghaiḥ ǀ maghoni ǀ su-śriyaḥ ǀ dāman-vantaḥ ǀ su-rātayaḥ ǀ su-jāte ǀ aśva-sūnṛte ǁ5.79.4 Aṣṭaka 4.4.21.4Anuvāka 5.6.52
-
Ṛk 5
यच्चि॒द्धि ते॑ ग॒णा इ॒मे छ॒दयं॑ति म॒घत्त॑ये ।
परि॑ चि॒द्वष्ट॑यो दधु॒र्दद॑तो॒ राधो॒ अह्र॑यं॒ सुजा॑ते॒ अश्व॑सूनृते ॥यच् चिद् धि ते गणा इमे छदयन्ति मघत्तये |
परि चिद् वष्टयो दधुर् ददतो राधो अह्रयं सुजाते अश्वसूनृते ||yácciddhí te gaṇā́ imé chadáyanti magháttaye ǀ
pári cidváṣṭayo dadhurdádato rā́dho áhrayam sújāte áśvasūnṛte ǁyac cid dhi te gaṇā ime chadayanti maghattaye |
pari cid vaṣṭayo dadhur dadato rādho ahrayaṃ sujāte aśvasūnṛte ||यत् । चि॒त् । हि । ते॒ । ग॒णाः । इ॒मे । छ॒दय॑न्ति । म॒घत्त॑ये ।
परि॑ । चि॒त् । वष्ट॑यः । द॒धुः॒ । दद॑तः । राधः॑ । अह्र॑यम् । सुऽजा॑ते । अश्व॑ऽसूनृते ॥यत् । चित् । हि । ते । गणाः । इमे । छदयन्ति । मघत्तये ।
परि । चित् । वष्टयः । दधुः । ददतः । राधः । अह्रयम् । सुऽजाते । अश्वऽसूनृते ॥yát ǀ cit ǀ hí ǀ te ǀ gaṇā́ḥ ǀ imé ǀ chadáyanti ǀ magháttaye ǀ
pári ǀ cit ǀ váṣṭayaḥ ǀ dadhuḥ ǀ dádataḥ ǀ rā́dhaḥ ǀ áhrayam ǀ sú-jāte ǀ áśva-sūnṛte ǁyat ǀ cit ǀ hi ǀ te ǀ gaṇāḥ ǀ ime ǀ chadayanti ǀ maghattaye ǀ
pari ǀ cit ǀ vaṣṭayaḥ ǀ dadhuḥ ǀ dadataḥ ǀ rādhaḥ ǀ ahrayam ǀ su-jāte ǀ aśva-sūnṛte ǁ5.79.5 Aṣṭaka 4.4.21.5Anuvāka 5.6.53
-
Ṛk 6
ऐषु॑ धा वी॒रव॒द्यश॒ उषो॑ मघोनि सू॒रिषु॑ ।
ये नो॒ राधां॒स्यह्र॑या म॒घवा॑नो॒ अरा॑सत॒ सुजा॑ते॒ अश्व॑सूनृते ॥ऐषु धा वीरवद् यश उषो मघोनि सूरिषु |
ये नो राधांस्य् अह्रया मघवानो अरासत सुजाते अश्वसूनृते ||áiṣu dhā vīrávadyáśa úṣo maghoni sūríṣu ǀ
yé no rā́dhāṃsyáhrayā maghávāno árāsata sújāte áśvasūnṛte ǁaiṣu dhā vīravad yaśa uṣo maghoni sūriṣu |
ye no rādhāṃsy ahrayā maghavāno arāsata sujāte aśvasūnṛte ||आ । ए॒षु॒ । धाः॒ । वी॒रऽव॑त् । यशः॑ । उषः॑ । म॒घो॒नि॒ । सू॒रिषु॑ ।
ये । नः॒ । राधां॑सि । अह्र॑या । म॒घऽवा॑नः । अरा॑सत । सुऽजा॑ते । अश्व॑ऽसूनृते ॥आ । एषु । धाः । वीरऽवत् । यशः । उषः । मघोनि । सूरिषु ।
ये । नः । राधांसि । अह्रया । मघऽवानः । अरासत । सुऽजाते । अश्वऽसूनृते ॥ā́ ǀ eṣu ǀ dhāḥ ǀ vīrá-vat ǀ yáśaḥ ǀ úṣaḥ ǀ maghoni ǀ sūríṣu ǀ
yé ǀ naḥ ǀ rā́dhāṃsi ǀ áhrayā ǀ maghá-vānaḥ ǀ árāsata ǀ sú-jāte ǀ áśva-sūnṛte ǁā ǀ eṣu ǀ dhāḥ ǀ vīra-vat ǀ yaśaḥ ǀ uṣaḥ ǀ maghoni ǀ sūriṣu ǀ
ye ǀ naḥ ǀ rādhāṃsi ǀ ahrayā ǀ magha-vānaḥ ǀ arāsata ǀ su-jāte ǀ aśva-sūnṛte ǁ5.79.6 Aṣṭaka 4.4.22.1Anuvāka 5.6.54
-
Ṛk 7
तेभ्यो॑ द्यु॒म्नं बृ॒हद्यश॒ उषो॑ मघो॒न्या व॑ह ।
ये नो॒ राधां॒स्यश्व्या॑ ग॒व्या भजं॑त सू॒रयः॒ सुजा॑ते॒ अश्व॑सूनृते ॥तेभ्यो द्युम्नम् बृहद् यश उषो मघोन्य् आ वह |
ये नो राधांस्य् अश्व्या गव्या भजन्त सूरयः सुजाते अश्वसूनृते ||tébhyo dyumnám bṛhádyáśa úṣo maghonyā́ vaha ǀ
yé no rā́dhāṃsyáśvyā gavyā́ bhájanta sūráyaḥ sújāte áśvasūnṛte ǁtebhyo dyumnam bṛhad yaśa uṣo maghony ā vaha |
ye no rādhāṃsy aśvyā gavyā bhajanta sūrayaḥ sujāte aśvasūnṛte ||तेभ्यः॑ । द्यु॒म्नम् । बृ॒हत् । यशः॑ । उषः॑ । म॒घो॒नि॒ । आ । व॒ह॒ ।
ये । नः॒ । राधां॑सि । अश्व्या॑ । ग॒व्या । भज॑न्त । सू॒रयः॑ । सुऽजा॑ते । अश्व॑ऽसूनृते ॥तेभ्यः । द्युम्नम् । बृहत् । यशः । उषः । मघोनि । आ । वह ।
ये । नः । राधांसि । अश्व्या । गव्या । भजन्त । सूरयः । सुऽजाते । अश्वऽसूनृते ॥tébhyaḥ ǀ dyumnám ǀ bṛhát ǀ yáśaḥ ǀ úṣaḥ ǀ maghoni ǀ ā́ ǀ vaha ǀ
yé ǀ naḥ ǀ rā́dhāṃsi ǀ áśvyā ǀ gavyā́ ǀ bhájanta ǀ sūráyaḥ ǀ sú-jāte ǀ áśva-sūnṛte ǁtebhyaḥ ǀ dyumnam ǀ bṛhat ǀ yaśaḥ ǀ uṣaḥ ǀ maghoni ǀ ā ǀ vaha ǀ
ye ǀ naḥ ǀ rādhāṃsi ǀ aśvyā ǀ gavyā ǀ bhajanta ǀ sūrayaḥ ǀ su-jāte ǀ aśva-sūnṛte ǁ5.79.7 Aṣṭaka 4.4.22.2Anuvāka 5.6.55
-
Ṛk 8
उ॒त नो॒ गोम॑ती॒रिष॒ आ व॑हा दुहितर्दिवः ।
सा॒कं सूर्य॑स्य र॒श्मिभिः॑ शु॒क्रैः शोच॑द्भिर॒र्चिभिः॒ सुजा॑ते॒ अश्व॑सूनृते ॥उत नो गोमतीर् इष आ वहा दुहितर् दिवः |
साकं सूर्यस्य रश्मिभिः शुक्रैः शोचद्भिर् अर्चिभिः सुजाते अश्वसूनृते ||utá no gómatīríṣa ā́ vahā duhitardivaḥ ǀ
sākám sū́ryasya raśmíbhiḥ śukráiḥ śócadbhirarcíbhiḥ sújāte áśvasūnṛte ǁuta no gomatīr iṣa ā vahā duhitar divaḥ |
sākaṃ sūryasya raśmibhiḥ śukraiḥ śocadbhir arcibhiḥ sujāte aśvasūnṛte ||उ॒त । नः॒ । गोऽम॑तीः । इषः॑ । आ । व॒ह॒ । दु॒हि॒तः॒ । दि॒वः॒ ।
सा॒कम् । सूर्य॑स्य । र॒श्मिऽभिः॑ । शु॒क्रैः । शोच॑त्ऽभिः । अ॒र्चिऽभिः॑ । सुऽजा॑ते । अश्व॑ऽसूनृते ॥उत । नः । गोऽमतीः । इषः । आ । वह । दुहितः । दिवः ।
साकम् । सूर्यस्य । रश्मिऽभिः । शुक्रैः । शोचत्ऽभिः । अर्चिऽभिः । सुऽजाते । अश्वऽसूनृते ॥utá ǀ naḥ ǀ gó-matīḥ ǀ íṣaḥ ǀ ā́ ǀ vaha ǀ duhitaḥ ǀ divaḥ ǀ
sākám ǀ sū́ryasya ǀ raśmí-bhiḥ ǀ śukráiḥ ǀ śócat-bhiḥ ǀ arcí-bhiḥ ǀ sú-jāte ǀ áśva-sūnṛte ǁuta ǀ naḥ ǀ go-matīḥ ǀ iṣaḥ ǀ ā ǀ vaha ǀ duhitaḥ ǀ divaḥ ǀ
sākam ǀ sūryasya ǀ raśmi-bhiḥ ǀ śukraiḥ ǀ śocat-bhiḥ ǀ arci-bhiḥ ǀ su-jāte ǀ aśva-sūnṛte ǁ5.79.8 Aṣṭaka 4.4.22.3Anuvāka 5.6.56
-
Ṛk 9
व्यु॑च्छा दुहितर्दिवो॒ मा चि॒रं त॑नुथा॒ अपः॑ ।
नेत्त्वा॑ स्ते॒नं यथा॑ रि॒पुं तपा॑ति॒ सूरो॑ अ॒र्चिषा॒ सुजा॑ते॒ अश्व॑सूनृते ॥व्य् उच्छा दुहितर् दिवो मा चिरं तनुथा अपः |
नेत् त्वा स्तेनं यथा रिपुं तपाति सूरो अर्चिषा सुजाते अश्वसूनृते ||vyúcchā duhitardivo mā́ cirám tanuthā ápaḥ ǀ
néttvā stenám yáthā ripúm tápāti sū́ro arcíṣā sújāte áśvasūnṛte ǁvy ucchā duhitar divo mā ciraṃ tanuthā apaḥ |
net tvā stenaṃ yathā ripuṃ tapāti sūro arciṣā sujāte aśvasūnṛte ||वि । उ॒च्छ॒ । दु॒हि॒तः॒ । दि॒वः॒ । मा । चि॒रम् । त॒नु॒थाः॒ । अपः॑ ।
न । इत् । त्वा॒ । स्ते॒नम् । यथा॑ । रि॒पुम् । तपा॑ति । सूरः॑ । अ॒र्चिषा॑ । सुऽजा॑ते । अश्व॑ऽसूनृते ॥वि । उच्छ । दुहितः । दिवः । मा । चिरम् । तनुथाः । अपः ।
न । इत् । त्वा । स्तेनम् । यथा । रिपुम् । तपाति । सूरः । अर्चिषा । सुऽजाते । अश्वऽसूनृते ॥ví ǀ uccha ǀ duhitaḥ ǀ divaḥ ǀ mā́ ǀ cirám ǀ tanuthāḥ ǀ ápaḥ ǀ
ná ǀ ít ǀ tvā ǀ stenám ǀ yáthā ǀ ripúm ǀ tápāti ǀ sū́raḥ ǀ arcíṣā ǀ sú-jāte ǀ áśva-sūnṛte ǁvi ǀ uccha ǀ duhitaḥ ǀ divaḥ ǀ mā ǀ ciram ǀ tanuthāḥ ǀ apaḥ ǀ
na ǀ it ǀ tvā ǀ stenam ǀ yathā ǀ ripum ǀ tapāti ǀ sūraḥ ǀ arciṣā ǀ su-jāte ǀ aśva-sūnṛte ǁ5.79.9 Aṣṭaka 4.4.22.4Anuvāka 5.6.57
-
Ṛk 10
ए॒ताव॒द्वेदु॑ष॒स्त्वं भूयो॑ वा॒ दातु॑मर्हसि ।
या स्तो॒तृभ्यो॑ विभावर्यु॒च्छंती॒ न प्र॒मीय॑से॒ सुजा॑ते॒ अश्व॑सूनृते ॥एतावद् वेद् उषस् त्वम् भूयो वा दातुम् अर्हसि |
या स्तोतृभ्यो विभावर्य् उच्छन्ती न प्रमीयसे सुजाते अश्वसूनृते ||etā́vadvéduṣastvám bhū́yo vā dā́tumarhasi ǀ
yā́ stotṛ́bhyo vibhāvaryucchántī ná pramī́yase sújāte áśvasūnṛte ǁetāvad ved uṣas tvam bhūyo vā dātum arhasi |
yā stotṛbhyo vibhāvary ucchantī na pramīyase sujāte aśvasūnṛte ||ए॒ताव॑त् । वा॒ । इत् । उ॒षः॒ । त्वम् । भूयः॑ । वा॒ । दातु॑म् । अ॒र्ह॒सि॒ ।
या । स्तो॒तृऽभ्यः॑ । वि॒भा॒ऽव॒रि॒ । उ॒च्छन्ती॑ । न । प्र॒ऽमीय॑से । सुऽजा॑ते । अश्व॑ऽसूनृते ॥एतावत् । वा । इत् । उषः । त्वम् । भूयः । वा । दातुम् । अर्हसि ।
या । स्तोतृऽभ्यः । विभाऽवरि । उच्छन्ती । न । प्रऽमीयसे । सुऽजाते । अश्वऽसूनृते ॥etā́vat ǀ vā ǀ ít ǀ uṣaḥ ǀ tvám ǀ bhū́yaḥ ǀ vā ǀ dā́tum ǀ arhasi ǀ
yā́ ǀ stotṛ́-bhyaḥ ǀ vibhā-vari ǀ ucchántī ǀ ná ǀ pra-mī́yase ǀ sú-jāte ǀ áśva-sūnṛte ǁetāvat ǀ vā ǀ it ǀ uṣaḥ ǀ tvam ǀ bhūyaḥ ǀ vā ǀ dātum ǀ arhasi ǀ
yā ǀ stotṛ-bhyaḥ ǀ vibhā-vari ǀ ucchantī ǀ na ǀ pra-mīyase ǀ su-jāte ǀ aśva-sūnṛte ǁ5.79.10 Aṣṭaka 4.4.22.5Anuvāka 5.6.58
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.