Sūkta 16
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Pūru Ātreya
- Chandas छन्दस्
- Anuṣṭubh, Paṅkti
Metres by ṛk
1st set of styles virāṭtrisṭup (1-3); bhuriguṣṇik (4); bṛhatī (5)
2nd set of styles anuṣṭubh (1-4); paṅkti (5)
-
Ṛk 1
बृ॒हद्वयो॒ हि भा॒नवेऽर्चा॑ दे॒वाया॒ग्नये॑ ।
यं मि॒त्रं न प्रश॑स्तिभि॒र्मर्ता॑सो दधि॒रे पु॒रः ॥बृहद् वयो हि भानवे ऽर्चा देवायाग्नये |
यम् मित्रं न प्रशस्तिभिर् मर्तासो दधिरे पुरः ||bṛhádváyo hí bhānávé’rcā devā́yāgnáye ǀ
yám mitrám ná práśastibhirmártāso dadhiré puráḥ ǁbṛhad vayo hi bhānave 'rcā devāyāgnaye |
yam mitraṃ na praśastibhir martāso dadhire puraḥ ||बृ॒हत् । वयः॑ । हि । भा॒नवे॑ । अर्च॑ । दे॒वाय॑ । अ॒ग्नये॑ ।
यम् । मि॒त्रम् । न । प्रश॑स्तिऽभिः । मर्ता॑सः । द॒धि॒रे । पु॒रः ॥बृहत् । वयः । हि । भानवे । अर्च । देवाय । अग्नये ।
यम् । मित्रम् । न । प्रशस्तिऽभिः । मर्तासः । दधिरे । पुरः ॥bṛhát ǀ váyaḥ ǀ hí ǀ bhānáve ǀ árca ǀ devā́ya ǀ agnáye ǀ
yám ǀ mitrám ǀ ná ǀ práśasti-bhiḥ ǀ mártāsaḥ ǀ dadhiré ǀ puráḥ ǁbṛhat ǀ vayaḥ ǀ hi ǀ bhānave ǀ arca ǀ devāya ǀ agnaye ǀ
yam ǀ mitram ǀ na ǀ praśasti-bhiḥ ǀ martāsaḥ ǀ dadhire ǀ puraḥ ǁ5.16.1 Aṣṭaka 4.1.8.1Anuvāka 5.2.6
-
Ṛk 2
स हि द्युभि॒र्जना॑नां॒ होता॒ दक्ष॑स्य बा॒ह्वोः ।
वि ह॒व्यम॒ग्निरा॑नु॒षग्भगो॒ न वार॑मृण्वति ॥स हि द्युभिर् जनानां होता दक्षस्य बाह्वोः |
वि हव्यम् अग्निर् आनुषग् भगो न वारम् ऋण्वति ||sá hí dyúbhirjánānām hótā dákṣasya bāhvóḥ ǀ
ví havyámagnírānuṣágbhágo ná vā́ramṛṇvati ǁsa hi dyubhir janānāṃ hotā dakṣasya bāhvoḥ |
vi havyam agnir ānuṣag bhago na vāram ṛṇvati ||सः । हि । द्युऽभिः॑ । जना॑नाम् । होता॑ । दक्ष॑स्य । बा॒ह्वोः ।
वि । ह॒व्यम् । अ॒ग्निः । आ॒नु॒षक् । भगः॑ । न । वार॑म् । ऋ॒ण्व॒ति॒ ॥सः । हि । द्युऽभिः । जनानाम् । होता । दक्षस्य । बाह्वोः ।
वि । हव्यम् । अग्निः । आनुषक् । भगः । न । वारम् । ऋण्वति ॥sáḥ ǀ hí ǀ dyú-bhiḥ ǀ jánānām ǀ hótā ǀ dákṣasya ǀ bāhvóḥ ǀ
ví ǀ havyám ǀ agníḥ ǀ ānuṣák ǀ bhágaḥ ǀ ná ǀ vā́ram ǀ ṛṇvati ǁsaḥ ǀ hi ǀ dyu-bhiḥ ǀ janānām ǀ hotā ǀ dakṣasya ǀ bāhvoḥ ǀ
vi ǀ havyam ǀ agniḥ ǀ ānuṣak ǀ bhagaḥ ǀ na ǀ vāram ǀ ṛṇvati ǁ5.16.2 Aṣṭaka 4.1.8.2Anuvāka 5.2.7
-
Ṛk 3
अ॒स्य स्तोमे॑ म॒घोनः॑ स॒ख्ये वृ॒द्धशो॑चिषः ।
विश्वा॒ यस्मिं॑तुवि॒ष्वणि॒ सम॒र्ये शुष्म॑माद॒धुः ॥अस्य स्तोमे मघोनः सख्ये वृद्धशोचिषः |
विश्वा यस्मिन् तुविष्वणि सम् अर्ये शुष्मम् आदधुः ||asyá stóme maghónaḥ sakhyé vṛddháśociṣaḥ ǀ
víśvā yásmintuviṣváṇi sámaryé śúṣmamādadhúḥ ǁasya stome maghonaḥ sakhye vṛddhaśociṣaḥ |
viśvā yasmin tuviṣvaṇi sam arye śuṣmam ādadhuḥ ||अ॒स्य । स्तोमे॑ । म॒घोनः॑ । स॒ख्ये । वृ॒द्धऽशो॑चिषः ।
विश्वा॑ । यस्मि॑न् । तु॒वि॒ऽस्वनि॑ । सम् । अ॒र्ये । शुष्म॑म् । आ॒ऽद॒धुः ॥अस्य । स्तोमे । मघोनः । सख्ये । वृद्धऽशोचिषः ।
विश्वा । यस्मिन् । तुविऽस्वनि । सम् । अर्ये । शुष्मम् । आऽदधुः ॥asyá ǀ stóme ǀ maghónaḥ ǀ sakhyé ǀ vṛddhá-śociṣaḥ ǀ
víśvā ǀ yásmin ǀ tuvi-sváni ǀ sám ǀ aryé ǀ śúṣmam ǀ ā-dadhúḥ ǁasya ǀ stome ǀ maghonaḥ ǀ sakhye ǀ vṛddha-śociṣaḥ ǀ
viśvā ǀ yasmin ǀ tuvi-svani ǀ sam ǀ arye ǀ śuṣmam ǀ ā-dadhuḥ ǁ5.16.3 Aṣṭaka 4.1.8.3Anuvāka 5.2.8
-
Ṛk 4
अधा॒ ह्य॑ग्न एषां सु॒वीर्य॑स्य मं॒हना॑ ।
तमिद्य॒ह्वं न रोद॑सी॒ परि॒ श्रवो॑ बभूवतुः ॥अधा ह्य् अग्न एषां सुवीर्यस्य मंहना |
तम् इद् यह्वं न रोदसी परि श्रवो बभूवतुः ||ádhā hyágna eṣām suvī́ryasya maṃhánā ǀ
támídyahvám ná ródasī pári śrávo babhūvatuḥ ǁadhā hy agna eṣāṃ suvīryasya maṃhanā |
tam id yahvaṃ na rodasī pari śravo babhūvatuḥ ||अध॑ । हि । अ॒ग्ने॒ । ए॒षा॒म् । सु॒ऽवीर्य॑स्य । मं॒हना॑ ।
तम् । इत् । य॒ह्वम् । न । रोद॑सी॒ इति॑ । परि॑ । श्रवः॑ । ब॒भू॒व॒तुः॒ ॥अध । हि । अग्ने । एषाम् । सुऽवीर्यस्य । मंहना ।
तम् । इत् । यह्वम् । न । रोदसी इति । परि । श्रवः । बभूवतुः ॥ádha ǀ hí ǀ agne ǀ eṣām ǀ su-vī́ryasya ǀ maṃhánā ǀ
tám ǀ ít ǀ yahvám ǀ ná ǀ ródasī íti ǀ pári ǀ śrávaḥ ǀ babhūvatuḥ ǁadha ǀ hi ǀ agne ǀ eṣām ǀ su-vīryasya ǀ maṃhanā ǀ
tam ǀ it ǀ yahvam ǀ na ǀ rodasī iti ǀ pari ǀ śravaḥ ǀ babhūvatuḥ ǁ5.16.4 Aṣṭaka 4.1.8.4Anuvāka 5.2.9
-
Ṛk 5
नू न॒ एहि॒ वार्य॒मग्ने॑ गृणा॒न आ भ॑र ।
ये व॒यं ये च॑ सू॒रयः॑ स्व॒स्ति धाम॑हे॒ सचो॒तैधि॑ पृ॒त्सु नो॑ वृ॒धे ॥नू न एहि वार्यम् अग्ने गृणान आ भर |
ये वयं ये च सूरयः स्वस्ति धामहे सचोतैधि पृत्सु नो वृधे ||nū́ na éhi vā́ryamágne gṛṇāná ā́ bhara ǀ
yé vayám yé ca sūráyaḥ svastí dhā́mahe sácotáidhi pṛtsú no vṛdhé ǁnū na ehi vāryam agne gṛṇāna ā bhara |
ye vayaṃ ye ca sūrayaḥ svasti dhāmahe sacotaidhi pṛtsu no vṛdhe ||नु । नः॒ । आ । इ॒हि॒ । वार्य॑म् । अग्ने॑ । गृ॒णा॒नः । आ । भ॒र॒ ।
ये । व॒यम् । ये । च॒ । सू॒रयः॑ । स्व॒स्ति । धाम॑हे । सचा॑ । उ॒त । ए॒धि॒ । पृ॒त्ऽसु । नः॒ । वृ॒धे ॥नु । नः । आ । इहि । वार्यम् । अग्ने । गृणानः । आ । भर ।
ये । वयम् । ये । च । सूरयः । स्वस्ति । धामहे । सचा । उत । एधि । पृत्ऽसु । नः । वृधे ॥nú ǀ naḥ ǀ ā́ ǀ ihi ǀ vā́ryam ǀ ágne ǀ gṛṇānáḥ ǀ ā́ ǀ bhara ǀ
yé ǀ vayám ǀ yé ǀ ca ǀ sūráyaḥ ǀ svastí ǀ dhā́mahe ǀ sácā ǀ utá ǀ edhi ǀ pṛt-sú ǀ naḥ ǀ vṛdhé ǁnu ǀ naḥ ǀ ā ǀ ihi ǀ vāryam ǀ agne ǀ gṛṇānaḥ ǀ ā ǀ bhara ǀ
ye ǀ vayam ǀ ye ǀ ca ǀ sūrayaḥ ǀ svasti ǀ dhāmahe ǀ sacā ǀ uta ǀ edhi ǀ pṛt-su ǀ naḥ ǀ vṛdhe ǁ5.16.5 Aṣṭaka 4.1.8.5Anuvāka 5.2.10
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.