Ṛk 5.16.1
Saṃhitā
बृ॒हद्वयो॒ हि भा॒नवेऽर्चा॑ दे॒वाया॒ग्नये॑ ।
यं मि॒त्रं न प्रश॑स्तिभि॒र्मर्ता॑सो दधि॒रे पु॒रः ॥
बृहद् वयो हि भानवे ऽर्चा देवायाग्नये |
यम् मित्रं न प्रशस्तिभिर् मर्तासो दधिरे पुरः ||
bṛhádváyo hí bhānávé’rcā devā́yāgnáye ǀ
yám mitrám ná práśastibhirmártāso dadhiré puráḥ ǁ
bṛhad vayo hi bhānave 'rcā devāyāgnaye |
yam mitraṃ na praśastibhir martāso dadhire puraḥ ||
Padapāṭha
बृ॒हत् । वयः॑ । हि । भा॒नवे॑ । अर्च॑ । दे॒वाय॑ । अ॒ग्नये॑ ।
यम् । मि॒त्रम् । न । प्रश॑स्तिऽभिः । मर्ता॑सः । द॒धि॒रे । पु॒रः ॥
बृहत् । वयः । हि । भानवे । अर्च । देवाय । अग्नये ।
यम् । मित्रम् । न । प्रशस्तिऽभिः । मर्तासः । दधिरे । पुरः ॥
bṛhát ǀ váyaḥ ǀ hí ǀ bhānáve ǀ árca ǀ devā́ya ǀ agnáye ǀ
yám ǀ mitrám ǀ ná ǀ práśasti-bhiḥ ǀ mártāsaḥ ǀ dadhiré ǀ puráḥ ǁ
bṛhat ǀ vayaḥ ǀ hi ǀ bhānave ǀ arca ǀ devāya ǀ agnaye ǀ
yam ǀ mitram ǀ na ǀ praśasti-bhiḥ ǀ martāsaḥ ǀ dadhire ǀ puraḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.016.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.1.08.01
- Maṇḍala · Anuvāka · Ṛk
- 05.02.006
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Pūru Ātreya
- Chandas छन्दस्
- Anuṣṭubh, Paṅkti
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.