Sūkta 50
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Svastyātreya Ātreya
- Chandas छन्दस्
- Anuṣṭubh, Paṅkti
Metres by ṛk
1st set of styles nicṛdanuṣṭup (4, 5); svarāḍuṣnik (1); nicṛduṣṇik (2); bhuriguṣṇik (3)
2nd set of styles anuṣṭubh (1-4); paṅkti (5)
-
Ṛk 1
विश्वो॑ दे॒वस्य॑ ने॒तुर्मर्तो॑ वुरीत स॒ख्यं ।
विश्वो॑ रा॒य इ॑षुध्यति द्यु॒म्नं वृ॑णीत पु॒ष्यसे॑ ॥विश्वो देवस्य नेतुर् मर्तो वुरीत सख्यम् |
विश्वो राय इषुध्यति द्युम्नं वृणीत पुष्यसे ||víśvo devásya netúrmárto vurīta sakhyám ǀ
víśvo rāyá iṣudhyati dyumnám vṛṇīta puṣyáse ǁviśvo devasya netur marto vurīta sakhyam |
viśvo rāya iṣudhyati dyumnaṃ vṛṇīta puṣyase ||विश्वः॑ । दे॒वस्य॑ । ने॒तुः । मर्तः॑ । वु॒री॒त॒ । स॒ख्यम् ।
विश्वः॑ । रा॒ये । इ॒षु॒ध्य॒ति॒ । द्यु॒म्नम् । वृ॒णी॒त॒ । पु॒ष्यसे॑ ॥विश्वः । देवस्य । नेतुः । मर्तः । वुरीत । सख्यम् ।
विश्वः । राये । इषुध्यति । द्युम्नम् । वृणीत । पुष्यसे ॥víśvaḥ ǀ devásya ǀ netúḥ ǀ mártaḥ ǀ vurīta ǀ sakhyám ǀ
víśvaḥ ǀ rāyé ǀ iṣudhyati ǀ dyumnám ǀ vṛṇīta ǀ puṣyáse ǁviśvaḥ ǀ devasya ǀ netuḥ ǀ martaḥ ǀ vurīta ǀ sakhyam ǀ
viśvaḥ ǀ rāye ǀ iṣudhyati ǀ dyumnam ǀ vṛṇīta ǀ puṣyase ǁ5.50.1 Aṣṭaka 4.3.4.1Anuvāka 5.4.37
-
Ṛk 2
ते ते॑ देव नेत॒र्ये चे॒माँ अ॑नु॒शसे॑ ।
ते रा॒या ते ह्या॒३॒॑पृचे॒ सचे॑महि सच॒थ्यैः॑ ॥ते ते देव नेतर् ये चेमां अनुशसे |
ते राया ते ह्य् आपृचे सचेमहि सचथ्यैः ||té te deva netaryé cemā́m̐ anuśáse ǀ
té rāyā́ té hyā́pṛ́ce sácemahi sacathyáiḥ ǁte te deva netar ye cemāṃ anuśase |
te rāyā te hy āpṛce sacemahi sacathyaiḥ ||ते । ते॒ । दे॒व॒ । ने॒तः॒ । ये । च॒ । इ॒मान् । अ॒नु॒ऽशसे॑ ।
ते । रा॒या । ते । हि । आ॒ऽपृचे॑ । सचे॑महि । स॒च॒थ्यैः॑ ॥ते । ते । देव । नेतः । ये । च । इमान् । अनुऽशसे ।
ते । राया । ते । हि । आऽपृचे । सचेमहि । सचथ्यैः ॥té ǀ te ǀ deva ǀ netaḥ ǀ yé ǀ ca ǀ imā́n ǀ anu-śáse ǀ
té ǀ rāyā́ ǀ té ǀ hí ǀ ā-pṛ́ce ǀ sácemahi ǀ sacathyáiḥ ǁte ǀ te ǀ deva ǀ netaḥ ǀ ye ǀ ca ǀ imān ǀ anu-śase ǀ
te ǀ rāyā ǀ te ǀ hi ǀ ā-pṛce ǀ sacemahi ǀ sacathyaiḥ ǁ5.50.2 Aṣṭaka 4.3.4.2Anuvāka 5.4.38
-
Ṛk 3
अतो॑ न॒ आ नॄनति॑थी॒नतः॒ पत्नी॑र्दशस्यत ।
आ॒रे विश्वं॑ पथे॒ष्ठां द्वि॒षो यु॑योतु॒ यूयु॑विः ॥अतो न आ नॄन् अतिथीन् अतः पत्नीर् दशस्यत |
आरे विश्वम् पथेष्ठां द्विषो युयोतु यूयुविः ||áto na ā́ nṝ́nátithīnátaḥ pátnīrdaśasyata ǀ
āré víśvam patheṣṭhā́m dviṣó yuyotu yū́yuviḥ ǁato na ā nṝn atithīn ataḥ patnīr daśasyata |
āre viśvam patheṣṭhāṃ dviṣo yuyotu yūyuviḥ ||अतः॑ । नः॒ । आ । नॄन् । अति॑थीन् । अतः॑ । पत्नीः॑ । द॒श॒स्य॒त॒ ।
आ॒रे । विश्व॑म् । प॒थे॒ऽस्थाम् । द्वि॒षः । यु॒यो॒तु॒ । युयु॑विः ॥अतः । नः । आ । नॄन् । अतिथीन् । अतः । पत्नीः । दशस्यत ।
आरे । विश्वम् । पथेऽस्थाम् । द्विषः । युयोतु । युयुविः ॥átaḥ ǀ naḥ ǀ ā́ ǀ nṝ́n ǀ átithīn ǀ átaḥ ǀ pátnīḥ ǀ daśasyata ǀ
āré ǀ víśvam ǀ pathe-sthā́m ǀ dviṣáḥ ǀ yuyotu ǀ yúyuviḥ ǁataḥ ǀ naḥ ǀ ā ǀ nṝn ǀ atithīn ǀ ataḥ ǀ patnīḥ ǀ daśasyata ǀ
āre ǀ viśvam ǀ pathe-sthām ǀ dviṣaḥ ǀ yuyotu ǀ yuyuviḥ ǁ5.50.3 Aṣṭaka 4.3.4.3Anuvāka 5.4.39
-
Ṛk 4
यत्र॒ वह्नि॑र॒भिहि॑तो दु॒द्रव॒द्द्रोण्यः॑ प॒शुः ।
नृ॒मणा॑ वी॒रप॒स्त्योऽर्णा॒ धीरे॑व॒ सनि॑ता ॥यत्र वह्निर् अभिहितो दुद्रवद् द्रोण्यः पशुः |
नृमणा वीरपस्त्यो ऽर्णा धीरेव सनिता ||yátra váhnirabhíhito dudrávaddróṇyaḥ paśúḥ ǀ
nṛmáṇā vīrápastyó’rṇā dhī́reva sánitā ǁyatra vahnir abhihito dudravad droṇyaḥ paśuḥ |
nṛmaṇā vīrapastyo 'rṇā dhīreva sanitā ||यत्र॑ । वह्निः॑ । अ॒भिऽहि॑तः । दु॒द्रव॑त् । द्रोण्यः॑ । प॒शुः ।
नृ॒ऽमनाः॑ । वी॒रऽप॑स्त्यः । अर्णा॑ । धीरा॑ऽइव । सनि॑ता ॥यत्र । वह्निः । अभिऽहितः । दुद्रवत् । द्रोण्यः । पशुः ।
नृऽमनाः । वीरऽपस्त्यः । अर्णा । धीराऽइव । सनिता ॥yátra ǀ váhniḥ ǀ abhí-hitaḥ ǀ dudrávat ǀ dróṇyaḥ ǀ paśúḥ ǀ
nṛ-mánāḥ ǀ vīrá-pastyaḥ ǀ árṇā ǀ dhī́rā-iva ǀ sánitā ǁyatra ǀ vahniḥ ǀ abhi-hitaḥ ǀ dudravat ǀ droṇyaḥ ǀ paśuḥ ǀ
nṛ-manāḥ ǀ vīra-pastyaḥ ǀ arṇā ǀ dhīrā-iva ǀ sanitā ǁ5.50.4 Aṣṭaka 4.3.4.4Anuvāka 5.4.40
-
Ṛk 5
ए॒ष ते॑ देव नेता॒ रथ॒स्पतिः॒ शं र॒यिः ।
शं रा॒ये शं स्व॒स्तय॑ इषः॒स्तुतो॑ मनामहे देव॒स्तुतो॑ मनामहे ॥एष ते देव नेता रथस्पतिः शं रयिः |
शं राये शं स्वस्तय इषस्तुतो मनामहे देवस्तुतो मनामहे ||eṣá te deva netā ráthaspátiḥ śám rayíḥ ǀ
śám rāyé śám svastáya iṣaḥstúto manāmahe devastúto manāmahe ǁeṣa te deva netā rathaspatiḥ śaṃ rayiḥ |
śaṃ rāye śaṃ svastaya iṣastuto manāmahe devastuto manāmahe ||ए॒षः । ते॒ । दे॒व॒ । ने॒त॒रिति॑ । रथः॒पतिः॑ । शम् । र॒यिः ।
शम् । रा॒ये । शम् । स्व॒स्तये॑ । इ॒षः॒ऽस्तुतः॑ । म॒ना॒म॒हे॒ । दे॒व॒ऽस्तुतः॑ । म॒ना॒म॒हे॒ ॥एषः । ते । देव । नेतरिति । रथःपतिः । शम् । रयिः ।
शम् । राये । शम् । स्वस्तये । इषःऽस्तुतः । मनामहे । देवऽस्तुतः । मनामहे ॥eṣáḥ ǀ te ǀ deva ǀ netaríti ǀ ráthaḥpátiḥ ǀ śám ǀ rayíḥ ǀ
śám ǀ rāyé ǀ śám ǀ svastáye ǀ iṣaḥ-stútaḥ ǀ manāmahe ǀ deva-stútaḥ ǀ manāmahe ǁeṣaḥ ǀ te ǀ deva ǀ netariti ǀ rathaḥpatiḥ ǀ śam ǀ rayiḥ ǀ
śam ǀ rāye ǀ śam ǀ svastaye ǀ iṣaḥ-stutaḥ ǀ manāmahe ǀ deva-stutaḥ ǀ manāmahe ǁ5.50.5 Aṣṭaka 4.3.4.5Anuvāka 5.4.41
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.