Ṛgveda · Maṇḍala 6

Sūkta 1

Agni · Bharadvāja Bārhaspatya · 13 ṛks

Link
Devatā देवता
Agni
Ṛṣi ऋषि
Bharadvāja Bārhaspatya
Chandas छन्दस्
Triṣṭubh
Metres by ṛk

1st set of styles nicṛttriṣṭup (3, 4, 6, 11, 12); bhurikpaṅkti (1, 7, 13); triṣṭup (8, 10); svarāṭpaṅkti (2); paṅktiḥ (5); virāṭtrisṭup (9)

2nd set of styles triṣṭubh

  1. Ṛk 1

    त्वं ह्य॑ग्ने प्रथ॒मो म॒नोता॒स्या धि॒यो अभ॑वो दस्म॒ होता॑ ।
    त्वं सीं॑ वृषन्नकृणोर्दु॒ष्टरी॑तु॒ सहो॒ विश्व॑स्मै॒ सह॑से॒ सह॑ध्यै ॥

    त्वं ह्य् अग्ने प्रथमो मनोतास्या धियो अभवो दस्म होता |
    त्वं सीं वृषन्न् अकृणोर् दुष्टरीतु सहो विश्वस्मै सहसे सहध्यै ||

    tvám hyágne prathamó manótāsyā́ dhiyó ábhavo dasma hótā ǀ
    tvám sīm vṛṣannakṛṇorduṣṭárītu sáho víśvasmai sáhase sáhadhyai ǁ

    tvaṃ hy agne prathamo manotāsyā dhiyo abhavo dasma hotā |
    tvaṃ sīṃ vṛṣann akṛṇor duṣṭarītu saho viśvasmai sahase sahadhyai ||

    त्वम् । हि । अ॒ग्ने॒ । प्र॒थ॒मः । म॒नोता॑ । अ॒स्याः । धि॒यः । अभ॑वः । द॒स्म॒ । होता॑ ।
    त्वम् । सी॒म् । वृ॒ष॒न् । अ॒कृ॒णोः॒ । दु॒स्तरी॑तु । सहः॑ । विश्व॑स्मै । सह॑से । सह॑ध्यै ॥

    त्वम् । हि । अग्ने । प्रथमः । मनोता । अस्याः । धियः । अभवः । दस्म । होता ।
    त्वम् । सीम् । वृषन् । अकृणोः । दुस्तरीतु । सहः । विश्वस्मै । सहसे । सहध्यै ॥

    tvám ǀ hí ǀ agne ǀ prathamáḥ ǀ manótā ǀ asyā́ḥ ǀ dhiyáḥ ǀ ábhavaḥ ǀ dasma ǀ hótā ǀ
    tvám ǀ sīm ǀ vṛṣan ǀ akṛṇoḥ ǀ dustárītu ǀ sáhaḥ ǀ víśvasmai ǀ sáhase ǀ sáhadhyai ǁ

    tvam ǀ hi ǀ agne ǀ prathamaḥ ǀ manotā ǀ asyāḥ ǀ dhiyaḥ ǀ abhavaḥ ǀ dasma ǀ hotā ǀ
    tvam ǀ sīm ǀ vṛṣan ǀ akṛṇoḥ ǀ dustarītu ǀ sahaḥ ǀ viśvasmai ǀ sahase ǀ sahadhyai ǁ

    6.1.1 Aṣṭaka 4.4.35.1Anuvāka 6.1.1

  2. Ṛk 2

    अधा॒ होता॒ न्य॑सीदो॒ यजी॑यानि॒ळस्प॒द इ॒षय॒न्नीड्यः॒ सन् ।
    तं त्वा॒ नरः॑ प्रथ॒मं दे॑व॒यंतो॑ म॒हो रा॒ये चि॒तयं॑तो॒ अनु॑ ग्मन् ॥

    अधा होता न्य् असीदो यजीयान् इऌअस् पद इषयन्न् ईड्यः सन् |
    तं त्वा नरः प्रथमं देवयन्तो महो राये चितयन्तो अनु ग्मन् ||

    ádhā hótā nyásīdo yájīyāniḷáspadá iṣáyannī́ḍyaḥ sán ǀ
    tám tvā náraḥ prathamám devayánto mahó rāyé citáyanto ánu gman ǁ

    adhā hotā ny asīdo yajīyān iḷas pada iṣayann īḍyaḥ san |
    taṃ tvā naraḥ prathamaṃ devayanto maho rāye citayanto anu gman ||

    अध॑ । होता॑ । नि । अ॒सी॒दः॒ । यजी॑यान् । इ॒ळः । प॒दे । इ॒षय॑न् । ईड्यः॑ । सन् ।
    तम् । त्वा॒ । नरः॑ । प्र॒थ॒मम् । दे॒व॒ऽयन्तः॑ । म॒हः । रा॒ये । चि॒तय॑न्तः । अनु॑ । ग्म॒न् ॥

    अध । होता । नि । असीदः । यजीयान् । इळः । पदे । इषयन् । ईड्यः । सन् ।
    तम् । त्वा । नरः । प्रथमम् । देवऽयन्तः । महः । राये । चितयन्तः । अनु । ग्मन् ॥

    ádha ǀ hótā ǀ ní ǀ asīdaḥ ǀ yájīyān ǀ iḷáḥ ǀ padé ǀ iṣáyan ǀ ī́ḍyaḥ ǀ sán ǀ
    tám ǀ tvā ǀ náraḥ ǀ prathamám ǀ deva-yántaḥ ǀ maháḥ ǀ rāyé ǀ citáyantaḥ ǀ ánu ǀ gman ǁ

    adha ǀ hotā ǀ ni ǀ asīdaḥ ǀ yajīyān ǀ iḷaḥ ǀ pade ǀ iṣayan ǀ īḍyaḥ ǀ san ǀ
    tam ǀ tvā ǀ naraḥ ǀ prathamam ǀ deva-yantaḥ ǀ mahaḥ ǀ rāye ǀ citayantaḥ ǀ anu ǀ gman ǁ

    6.1.2 Aṣṭaka 4.4.35.2Anuvāka 6.1.2

  3. Ṛk 3

    वृ॒तेव॒ यंतं॑ ब॒हुभि॑र्वस॒व्यै॒३॒॑स्त्वे र॒यिं जा॑गृ॒वांसो॒ अनु॑ ग्मन् ।
    रुशं॑तम॒ग्निं द॑र्श॒तं बृ॒हंतं॑ व॒पावं॑तं वि॒श्वहा॑ दीदि॒वांसं॑ ॥

    वृतेव यन्तम् बहुभिर् वसव्यैस् त्वे रयिं जागृवांसो अनु ग्मन् |
    रुशन्तम् अग्निं दर्शतम् बृहन्तं वपावन्तं विश्वहा दीदिवांसम् ||

    vṛtéva yántam bahúbhirvasavyáistvé rayím jāgṛvā́ṃso ánu gman ǀ
    rúśantamagním darśatám bṛhántam vapā́vantam viśváhā dīdivā́ṃsam ǁ

    vṛteva yantam bahubhir vasavyais tve rayiṃ jāgṛvāṃso anu gman |
    ruśantam agniṃ darśatam bṛhantaṃ vapāvantaṃ viśvahā dīdivāṃsam ||

    वृ॒ताऽइ॑व । यन्त॑म् । ब॒हुऽभिः॑ । व॒स॒व्यैः॑ । त्वे इति॑ । र॒यिम् । जा॒गृ॒ऽवांसः॑ । अनु॑ । ग्म॒न् ।
    रुश॑न्तम् । अ॒ग्निम् । द॒र्श॒तम् । बृ॒हन्त॑म् । व॒पाऽव॑न्तम् । वि॒श्वहा॑ । दी॒दि॒ऽवांस॑म् ॥

    वृताऽइव । यन्तम् । बहुऽभिः । वसव्यैः । त्वे इति । रयिम् । जागृऽवांसः । अनु । ग्मन् ।
    रुशन्तम् । अग्निम् । दर्शतम् । बृहन्तम् । वपाऽवन्तम् । विश्वहा । दीदिऽवांसम् ॥

    vṛtā́-iva ǀ yántam ǀ bahú-bhiḥ ǀ vasavyáiḥ ǀ tvé íti ǀ rayím ǀ jāgṛ-vā́ṃsaḥ ǀ ánu ǀ gman ǀ
    rúśantam ǀ agním ǀ darśatám ǀ bṛhántam ǀ vapā́-vantam ǀ viśváhā ǀ dīdi-vā́ṃsam ǁ

    vṛtā-iva ǀ yantam ǀ bahu-bhiḥ ǀ vasavyaiḥ ǀ tve iti ǀ rayim ǀ jāgṛ-vāṃsaḥ ǀ anu ǀ gman ǀ
    ruśantam ǀ agnim ǀ darśatam ǀ bṛhantam ǀ vapā-vantam ǀ viśvahā ǀ dīdi-vāṃsam ǁ

    6.1.3 Aṣṭaka 4.4.35.3Anuvāka 6.1.3

  4. Ṛk 4

    प॒दं दे॒वस्य॒ नम॑सा॒ व्यंतः॑ श्रव॒स्यवः॒ श्रव॑ आप॒न्नमृ॑क्तं ।
    नामा॑नि चिद्दधिरे य॒ज्ञिया॑नि भ॒द्रायां॑ ते रणयंत॒ संदृ॑ष्टौ ॥

    पदं देवस्य नमसा व्यन्तः श्रवस्यवः श्रव आपन्न् अमृक्तम् |
    नामानि चिद् दधिरे यज्ञियानि भद्रायां ते रणयन्त संदृष्टौ ||

    padám devásya námasā vyántaḥ śravasyávaḥ śráva āpannámṛktam ǀ
    nā́māni ciddadhire yajñíyāni bhadrā́yām te raṇayanta sáṃdṛṣṭau ǁ

    padaṃ devasya namasā vyantaḥ śravasyavaḥ śrava āpann amṛktam |
    nāmāni cid dadhire yajñiyāni bhadrāyāṃ te raṇayanta saṃdṛṣṭau ||

    प॒दम् । दे॒वस्य॑ । नम॑सा । व्यन्तः॑ । श्र॒व॒स्यवः॑ । श्रवः॑ । आ॒प॒न् । अमृ॑क्तम् ।
    नामा॑नि । चि॒त् । द॒धि॒रे॒ । य॒ज्ञिया॑नि । भ॒द्राया॑म् । ते॒ । र॒ण॒य॒न्त॒ । सम्ऽदृ॑ष्टौ ॥

    पदम् । देवस्य । नमसा । व्यन्तः । श्रवस्यवः । श्रवः । आपन् । अमृक्तम् ।
    नामानि । चित् । दधिरे । यज्ञियानि । भद्रायाम् । ते । रणयन्त । सम्ऽदृष्टौ ॥

    padám ǀ devásya ǀ námasā ǀ vyántaḥ ǀ śravasyávaḥ ǀ śrávaḥ ǀ āpan ǀ ámṛktam ǀ
    nā́māni ǀ cit ǀ dadhire ǀ yajñíyāni ǀ bhadrā́yām ǀ te ǀ raṇayanta ǀ sám-dṛṣṭau ǁ

    padam ǀ devasya ǀ namasā ǀ vyantaḥ ǀ śravasyavaḥ ǀ śravaḥ ǀ āpan ǀ amṛktam ǀ
    nāmāni ǀ cit ǀ dadhire ǀ yajñiyāni ǀ bhadrāyām ǀ te ǀ raṇayanta ǀ sam-dṛṣṭau ǁ

    6.1.4 Aṣṭaka 4.4.35.4Anuvāka 6.1.4

  5. Ṛk 5

    त्वां व॑र्धंति क्षि॒तयः॑ पृथि॒व्यां त्वां राय॑ उ॒भया॑सो॒ जना॑नां ।
    त्वं त्रा॒ता त॑रणे॒ चेत्यो॑ भूः पि॒ता मा॒ता सद॒मिन्मानु॑षाणां ॥

    त्वां वर्धन्ति क्षितयः पृथिव्यां त्वां राय उभयासो जनानाम् |
    त्वं त्राता तरणे चेत्यो भूः पिता माता सदम् इन् मानुषाणाम् ||

    tvā́m vardhanti kṣitáyaḥ pṛthivyā́m tvā́m rā́ya ubháyāso jánānām ǀ
    tvám trātā́ taraṇe cétyo bhūḥ pitā́ mātā́ sádamínmā́nuṣāṇām ǁ

    tvāṃ vardhanti kṣitayaḥ pṛthivyāṃ tvāṃ rāya ubhayāso janānām |
    tvaṃ trātā taraṇe cetyo bhūḥ pitā mātā sadam in mānuṣāṇām ||

    त्वाम् । व॒र्ध॒न्ति॒ । क्षि॒तयः॑ । पृ॒थि॒व्याम् । त्वाम् । रायः॑ । उ॒भया॑सः । जना॑नाम् ।
    त्वम् । त्रा॒ता । त॒र॒णे॒ । चेत्यः॑ । भूः॒ । पि॒ता । मा॒ता । सद॑म् । इत् । मानु॑षाणाम् ॥

    त्वाम् । वर्धन्ति । क्षितयः । पृथिव्याम् । त्वाम् । रायः । उभयासः । जनानाम् ।
    त्वम् । त्राता । तरणे । चेत्यः । भूः । पिता । माता । सदम् । इत् । मानुषाणाम् ॥

    tvā́m ǀ vardhanti ǀ kṣitáyaḥ ǀ pṛthivyā́m ǀ tvā́m ǀ rā́yaḥ ǀ ubháyāsaḥ ǀ jánānām ǀ
    tvám ǀ trātā́ ǀ taraṇe ǀ cétyaḥ ǀ bhūḥ ǀ pitā́ ǀ mātā́ ǀ sádam ǀ ít ǀ mā́nuṣāṇām ǁ

    tvām ǀ vardhanti ǀ kṣitayaḥ ǀ pṛthivyām ǀ tvām ǀ rāyaḥ ǀ ubhayāsaḥ ǀ janānām ǀ
    tvam ǀ trātā ǀ taraṇe ǀ cetyaḥ ǀ bhūḥ ǀ pitā ǀ mātā ǀ sadam ǀ it ǀ mānuṣāṇām ǁ

    6.1.5 Aṣṭaka 4.4.35.5Anuvāka 6.1.5

  6. Ṛk 6

    स॒प॒र्येण्यः॒ स प्रि॒यो वि॒क्ष्व१॒॑ग्निर्होता॑ मं॒द्रो नि ष॑सादा॒ यजी॑यान् ।
    तं त्वा॑ व॒यं दम॒ आ दी॑दि॒वांस॒मुप॑ ज्ञु॒बाधो॒ नम॑सा सदेम ॥

    सपर्येण्यः स प्रियो विक्ष्व् अग्निर् होता मन्द्रो नि षसादा यजीयान् |
    तं त्वा वयं दम आ दीदिवांसम् उप ज्ञुबाधो नमसा सदेम ||

    saparyéṇyaḥ sá priyó vikṣvágnírhótā mandró ní ṣasādā yájīyān ǀ
    tám tvā vayám dáma ā́ dīdivā́ṃsamúpa jñubā́dho námasā sadema ǁ

    saparyeṇyaḥ sa priyo vikṣv agnir hotā mandro ni ṣasādā yajīyān |
    taṃ tvā vayaṃ dama ā dīdivāṃsam upa jñubādho namasā sadema ||

    स॒प॒र्येण्यः॑ । सः । प्रि॒यः । वि॒क्षु । अ॒ग्निः । होता॑ । म॒न्द्रः । नि । स॒सा॒द॒ । यजी॑यान् ।
    तम् । त्वा॒ । व॒यम् । दमे॑ । आ । दी॒दि॒ऽवांस॑म् । उप॑ । ज्ञु॒ऽबाधः॑ । नम॑सा । स॒दे॒म॒ ॥

    सपर्येण्यः । सः । प्रियः । विक्षु । अग्निः । होता । मन्द्रः । नि । ससाद । यजीयान् ।
    तम् । त्वा । वयम् । दमे । आ । दीदिऽवांसम् । उप । ज्ञुऽबाधः । नमसा । सदेम ॥

    saparyéṇyaḥ ǀ sáḥ ǀ priyáḥ ǀ vikṣú ǀ agníḥ ǀ hótā ǀ mandráḥ ǀ ní ǀ sasāda ǀ yájīyān ǀ
    tám ǀ tvā ǀ vayám ǀ dáme ǀ ā́ ǀ dīdi-vā́ṃsam ǀ úpa ǀ jñu-bā́dhaḥ ǀ námasā ǀ sadema ǁ

    saparyeṇyaḥ ǀ saḥ ǀ priyaḥ ǀ vikṣu ǀ agniḥ ǀ hotā ǀ mandraḥ ǀ ni ǀ sasāda ǀ yajīyān ǀ
    tam ǀ tvā ǀ vayam ǀ dame ǀ ā ǀ dīdi-vāṃsam ǀ upa ǀ jñu-bādhaḥ ǀ namasā ǀ sadema ǁ

    6.1.6 Aṣṭaka 4.4.36.1Anuvāka 6.1.6

  7. Ṛk 7

    तं त्वा॑ व॒यं सु॒ध्यो॒३॒॑ नव्य॑मग्ने सुम्ना॒यव॑ ईमहे देव॒यंतः॑ ।
    त्वं विशो॑ अनयो॒ दीद्या॑नो दि॒वो अ॑ग्ने बृह॒ता रो॑च॒नेन॑ ॥

    तं त्वा वयं सुध्यो नव्यम् अग्ने सुम्नायव ईमहे देवयन्तः |
    त्वं विशो अनयो दीद्यानो दिवो अग्ने बृहता रोचनेन ||

    tám tvā vayám sudhyó návyamagne sumnāyáva īmahe devayántaḥ ǀ
    tvám víśo anayo dī́dyāno divó agne bṛhatā́ rocanéna ǁ

    taṃ tvā vayaṃ sudhyo navyam agne sumnāyava īmahe devayantaḥ |
    tvaṃ viśo anayo dīdyāno divo agne bṛhatā rocanena ||

    त्वम् । त्वा॒ । व॒यम् । सु॒ऽध्यः॑ । नव्य॑म् । अ॒ग्ने॒ । सु॒म्न॒ऽयवः॑ । ई॒म॒हे॒ । दे॒व॒ऽयन्तः॑ ।
    त्वम् । विशः॑ । अ॒न॒यः॒ । दीद्या॑नः । दि॒वः । अ॒ग्ने॒ । बृ॒ह॒ता । रो॒च॒नेन॑ ॥

    त्वम् । त्वा । वयम् । सुऽध्यः । नव्यम् । अग्ने । सुम्नऽयवः । ईमहे । देवऽयन्तः ।
    त्वम् । विशः । अनयः । दीद्यानः । दिवः । अग्ने । बृहता । रोचनेन ॥

    tvám ǀ tvā ǀ vayám ǀ su-dhyáḥ ǀ návyam ǀ agne ǀ sumna-yávaḥ ǀ īmahe ǀ deva-yántaḥ ǀ
    tvám ǀ víśaḥ ǀ anayaḥ ǀ dī́dyānaḥ ǀ diváḥ ǀ agne ǀ bṛhatā́ ǀ rocanéna ǁ

    tvam ǀ tvā ǀ vayam ǀ su-dhyaḥ ǀ navyam ǀ agne ǀ sumna-yavaḥ ǀ īmahe ǀ deva-yantaḥ ǀ
    tvam ǀ viśaḥ ǀ anayaḥ ǀ dīdyānaḥ ǀ divaḥ ǀ agne ǀ bṛhatā ǀ rocanena ǁ

    6.1.7 Aṣṭaka 4.4.36.2Anuvāka 6.1.7

  8. Ṛk 8

    वि॒शां क॒विं वि॒श्पतिं॒ शश्व॑तीनां नि॒तोश॑नं वृष॒भं च॑र्षणी॒नां ।
    प्रेती॑षणिमि॒षयं॑तं पाव॒कं राजं॑तम॒ग्निं य॑ज॒तं र॑यी॒णां ॥

    विशां कविं विश्पतिं शश्वतीनां नितोशनं वृषभं चर्षणीनाम् |
    प्रेतीषणिम् इषयन्तम् पावकं राजन्तम् अग्निं यजतं रयीणाम् ||

    viśā́m kavím viśpátim śáśvatīnām nitóśanam vṛṣabhám carṣaṇīnā́m ǀ
    prétīṣaṇimiṣáyantam pāvakám rā́jantamagním yajatám rayīṇā́m ǁ

    viśāṃ kaviṃ viśpatiṃ śaśvatīnāṃ nitośanaṃ vṛṣabhaṃ carṣaṇīnām |
    pretīṣaṇim iṣayantam pāvakaṃ rājantam agniṃ yajataṃ rayīṇām ||

    वि॒शाम् । क॒विम् । वि॒श्पति॑म् । शश्व॑तीनाम् । नि॒ऽतोश॑नम् । वृ॒ष॒भम् । च॒र्ष॒णी॒नाम् ।
    प्रेति॑ऽइषणिम् । इ॒षय॑न्तम् । पा॒व॒कम् । राज॑न्तम् । अ॒ग्निम् । य॒ज॒तम् । र॒यी॒णाम् ॥

    विशाम् । कविम् । विश्पतिम् । शश्वतीनाम् । निऽतोशनम् । वृषभम् । चर्षणीनाम् ।
    प्रेतिऽइषणिम् । इषयन्तम् । पावकम् । राजन्तम् । अग्निम् । यजतम् । रयीणाम् ॥

    viśā́m ǀ kavím ǀ viśpátim ǀ śáśvatīnām ǀ ni-tóśanam ǀ vṛṣabhám ǀ carṣaṇīnā́m ǀ
    préti-iṣaṇim ǀ iṣáyantam ǀ pāvakám ǀ rā́jantam ǀ agním ǀ yajatám ǀ rayīṇā́m ǁ

    viśām ǀ kavim ǀ viśpatim ǀ śaśvatīnām ǀ ni-tośanam ǀ vṛṣabham ǀ carṣaṇīnām ǀ
    preti-iṣaṇim ǀ iṣayantam ǀ pāvakam ǀ rājantam ǀ agnim ǀ yajatam ǀ rayīṇām ǁ

    6.1.8 Aṣṭaka 4.4.36.3Anuvāka 6.1.8

  9. Ṛk 9

    सो अ॑ग्न ईजे शश॒मे च॒ मर्तो॒ यस्त॒ आन॑ट् स॒मिधा॑ ह॒व्यदा॑तिं ।
    य आहु॑तिं॒ परि॒ वेदा॒ नमो॑भि॒र्विश्वेत्स वा॒मा द॑धते॒ त्वोतः॑ ॥

    सो अग्न ईजे शशमे च मर्तो यस् त आनट् समिधा हव्यदातिम् |
    य आहुतिम् परि वेदा नमोभिर् विश्वेत् स वामा दधते त्वोतः ||

    só agna īje śaśamé ca márto yásta ā́naṭ samídhā havyádātim ǀ
    yá ā́hutim pári védā námobhirvíśvétsá vāmā́ dadhate tvótaḥ ǁ

    so agna īje śaśame ca marto yas ta ānaṭ samidhā havyadātim |
    ya āhutim pari vedā namobhir viśvet sa vāmā dadhate tvotaḥ ||

    सः । अ॒ग्ने॒ । ई॒जे॒ । श॒श॒मे । च॒ । मर्तः॑ । यः । ते॒ । आन॑ट् । स॒म्ऽइधा॑ । ह॒व्यऽदा॑तिम् ।
    यः । आऽहु॑तिम् । परि॑ । वे॒द॒ । नमः॑ऽभिः । विश्वा॑ । इत् । सः । वा॒मा । द॒ध॒ते॒ । त्वाऽऊ॑तः ॥

    सः । अग्ने । ईजे । शशमे । च । मर्तः । यः । ते । आनट् । सम्ऽइधा । हव्यऽदातिम् ।
    यः । आऽहुतिम् । परि । वेद । नमःऽभिः । विश्वा । इत् । सः । वामा । दधते । त्वाऽऊतः ॥

    sáḥ ǀ agne ǀ īje ǀ śaśamé ǀ ca ǀ mártaḥ ǀ yáḥ ǀ te ǀ ā́naṭ ǀ sam-ídhā ǀ havyá-dātim ǀ
    yáḥ ǀ ā́-hutim ǀ pári ǀ veda ǀ námaḥ-bhiḥ ǀ víśvā ǀ ít ǀ sáḥ ǀ vāmā́ ǀ dadhate ǀ tvā́-ūtaḥ ǁ

    saḥ ǀ agne ǀ īje ǀ śaśame ǀ ca ǀ martaḥ ǀ yaḥ ǀ te ǀ ānaṭ ǀ sam-idhā ǀ havya-dātim ǀ
    yaḥ ǀ ā-hutim ǀ pari ǀ veda ǀ namaḥ-bhiḥ ǀ viśvā ǀ it ǀ saḥ ǀ vāmā ǀ dadhate ǀ tvā-ūtaḥ ǁ

    6.1.9 Aṣṭaka 4.4.36.4Anuvāka 6.1.9

  10. Ṛk 10

    अ॒स्मा उ॑ ते॒ महि॑ म॒हे वि॑धेम॒ नमो॑भिरग्ने स॒मिधो॒त ह॒व्यैः ।
    वेदी॑ सूनो सहसो गी॒र्भिरु॒क्थैरा ते॑ भ॒द्रायां॑ सुम॒तौ य॑तेम ॥

    अस्मा उ ते महि महे विधेम नमोभिर् अग्ने समिधोत हव्यैः |
    वेदी सूनो सहसो गीर्भिर् उक्थैर् आ ते भद्रायां सुमतौ यतेम ||

    asmā́ u te máhi mahé vidhema námobhiragne samídhotá havyáiḥ ǀ
    védī sūno sahaso gīrbhíruktháirā́ te bhadrā́yām sumatáu yatema ǁ

    asmā u te mahi mahe vidhema namobhir agne samidhota havyaiḥ |
    vedī sūno sahaso gīrbhir ukthair ā te bhadrāyāṃ sumatau yatema ||

    अ॒स्मै । ऊं॒ इति॑ । ते॒ । महि॑ । म॒हे । वि॒धे॒म॒ । नमः॑ऽभिः । अ॒ग्ने॒ । स॒म्ऽइधा॑ । उ॒त । ह॒व्यैः ।
    वेदी॑ । सू॒नो॒ इति॑ । स॒ह॒सः॒ । गीः॒ऽभिः । उ॒क्थैः । आ । ते॒ । भ॒द्राया॑म् । सु॒ऽम॒तौ । य॒ते॒म॒ ॥

    अस्मै । ऊं इति । ते । महि । महे । विधेम । नमःऽभिः । अग्ने । सम्ऽइधा । उत । हव्यैः ।
    वेदी । सूनो इति । सहसः । गीःऽभिः । उक्थैः । आ । ते । भद्रायाम् । सुऽमतौ । यतेम ॥

    asmái ǀ ūṃ íti ǀ te ǀ máhi ǀ mahé ǀ vidhema ǀ námaḥ-bhiḥ ǀ agne ǀ sam-ídhā ǀ utá ǀ havyáiḥ ǀ
    védī ǀ sūno íti ǀ sahasaḥ ǀ gīḥ-bhíḥ ǀ uktháiḥ ǀ ā́ ǀ te ǀ bhadrā́yām ǀ su-matáu ǀ yatema ǁ

    asmai ǀ ūṃ iti ǀ te ǀ mahi ǀ mahe ǀ vidhema ǀ namaḥ-bhiḥ ǀ agne ǀ sam-idhā ǀ uta ǀ havyaiḥ ǀ
    vedī ǀ sūno iti ǀ sahasaḥ ǀ gīḥ-bhiḥ ǀ ukthaiḥ ǀ ā ǀ te ǀ bhadrāyām ǀ su-matau ǀ yatema ǁ

    6.1.10 Aṣṭaka 4.4.36.5Anuvāka 6.1.10

  11. Ṛk 11

    आ यस्त॒तंथ॒ रोद॑सी॒ वि भा॒सा श्रवो॑भिश्च श्रव॒स्य१॒॑स्तरु॑त्रः ।
    बृ॒हद्भि॒र्वाजैः॒ स्थवि॑रेभिर॒स्मे रे॒वद्भि॑रग्ने वित॒रं वि भा॑हि ॥

    आ यस् ततन्थ रोदसी वि भासा श्रवोभिश् च श्रवस्यस् तरुत्रः |
    बृहद्भिर् वाजै स्थविरेभिर् अस्मे रेवद्भिर् अग्ने वितरं वि भाहि ||

    ā́ yástatántha ródasī ví bhāsā́ śrávobhiśca śravasyástárutraḥ ǀ
    bṛhádbhirvā́jaiḥ sthávirebhirasmé revádbhiragne vitarám ví bhāhi ǁ

    ā yas tatantha rodasī vi bhāsā śravobhiś ca śravasyas tarutraḥ |
    bṛhadbhir vājai sthavirebhir asme revadbhir agne vitaraṃ vi bhāhi ||

    आ । यः । त॒तन्थ॑ । रोद॑सी॒ इति॑ । वि । भा॒सा । श्रवः॑ऽभिः । च॒ । श्र॒व॒स्यः॑ । तरु॑त्रः ।
    बृ॒हत्ऽभिः॑ । वाजैः॑ । स्थवि॑रेभिः । अ॒स्मे इति॑ । रे॒वत्ऽभिः॑ । अ॒ग्ने॒ । वि॒ऽत॒रम् । वि । भा॒हि॒ ॥

    आ । यः । ततन्थ । रोदसी इति । वि । भासा । श्रवःऽभिः । च । श्रवस्यः । तरुत्रः ।
    बृहत्ऽभिः । वाजैः । स्थविरेभिः । अस्मे इति । रेवत्ऽभिः । अग्ने । विऽतरम् । वि । भाहि ॥

    ā́ ǀ yáḥ ǀ tatántha ǀ ródasī íti ǀ ví ǀ bhāsā́ ǀ śrávaḥ-bhiḥ ǀ ca ǀ śravasyáḥ ǀ tárutraḥ ǀ
    bṛhát-bhiḥ ǀ vā́jaiḥ ǀ sthávirebhiḥ ǀ asmé íti ǀ revát-bhiḥ ǀ agne ǀ vi-tarám ǀ ví ǀ bhāhi ǁ

    ā ǀ yaḥ ǀ tatantha ǀ rodasī iti ǀ vi ǀ bhāsā ǀ śravaḥ-bhiḥ ǀ ca ǀ śravasyaḥ ǀ tarutraḥ ǀ
    bṛhat-bhiḥ ǀ vājaiḥ ǀ sthavirebhiḥ ǀ asme iti ǀ revat-bhiḥ ǀ agne ǀ vi-taram ǀ vi ǀ bhāhi ǁ

    6.1.11 Aṣṭaka 4.4.36.6Anuvāka 6.1.11

  12. Ṛk 12

    नृ॒वद्व॑सो॒ सद॒मिद्धे॑ह्य॒स्मे भूरि॑ तो॒काय॒ तन॑याय प॒श्वः ।
    पू॒र्वीरिषो॑ बृह॒तीरा॒रेअ॑घा अ॒स्मे भ॒द्रा सौ॑श्रव॒सानि॑ संतु ॥

    नृवद् वसो सदम् इद् धेह्य् अस्मे भूरि तोकाय तनयाय पश्वः |
    पूर्वीर् इषो बृहतीर् आरे-अघा अस्मे भद्रा सौश्रवसानि सन्तु ||

    nṛvádvaso sádamíddhehyasmé bhū́ri tokā́ya tánayāya paśváḥ ǀ
    pūrvī́ríṣo bṛhatī́rāréaghā asmé bhadrā́ sauśravasā́ni santu ǁ

    nṛvad vaso sadam id dhehy asme bhūri tokāya tanayāya paśvaḥ |
    pūrvīr iṣo bṛhatīr āre-aghā asme bhadrā sauśravasāni santu ||

    नृ॒ऽवत् । व॒सो॒ इति॑ । सद॑म् । इत् । धे॒हि॒ । अ॒स्मे इति॑ । भूरि॑ । तो॒काय॑ । तन॑याय । प॒श्वः ।
    पू॒र्वीः । इषः॑ । बृ॒ह॒तीः । आ॒रेऽअ॑घाः । अ॒स्मे इति॑ । भ॒द्रा । सौ॒श्र॒व॒सानि॑ । स॒न्तु॒ ॥

    नृऽवत् । वसो इति । सदम् । इत् । धेहि । अस्मे इति । भूरि । तोकाय । तनयाय । पश्वः ।
    पूर्वीः । इषः । बृहतीः । आरेऽअघाः । अस्मे इति । भद्रा । सौश्रवसानि । सन्तु ॥

    nṛ-vát ǀ vaso íti ǀ sádam ǀ ít ǀ dhehi ǀ asmé íti ǀ bhū́ri ǀ tokā́ya ǀ tánayāya ǀ paśváḥ ǀ
    pūrvī́ḥ ǀ íṣaḥ ǀ bṛhatī́ḥ ǀ āré-aghāḥ ǀ asmé íti ǀ bhadrā́ ǀ sauśravasā́ni ǀ santu ǁ

    nṛ-vat ǀ vaso iti ǀ sadam ǀ it ǀ dhehi ǀ asme iti ǀ bhūri ǀ tokāya ǀ tanayāya ǀ paśvaḥ ǀ
    pūrvīḥ ǀ iṣaḥ ǀ bṛhatīḥ ǀ āre-aghāḥ ǀ asme iti ǀ bhadrā ǀ sauśravasāni ǀ santu ǁ

    6.1.12 Aṣṭaka 4.4.36.7Anuvāka 6.1.12

  13. Ṛk 13

    पु॒रूण्य॑ग्ने पुरु॒धा त्वा॒या वसू॑नि राजन्व॒सुता॑ ते अश्यां ।
    पु॒रूणि॒ हि त्वे पु॑रुवार॒ संत्यग्ने॒ वसु॑ विध॒ते राज॑नि॒ त्वे ॥

    पुरूण्य् अग्ने पुरुधा त्वाया वसूनि राजन् वसुता ते अश्याम् |
    पुरूणि हि त्वे पुरुवार सन्त्य् अग्ने वसु विधते राजनि त्वे ||

    purū́ṇyagne purudhā́ tvāyā́ vásūni rājanvasútā te aśyām ǀ
    purū́ṇi hí tvé puruvāra sántyágne vásu vidhaté rā́jani tvé ǁ

    purūṇy agne purudhā tvāyā vasūni rājan vasutā te aśyām |
    purūṇi hi tve puruvāra santy agne vasu vidhate rājani tve ||

    पु॒रूणि॑ । अ॒ग्ने॒ । पु॒रु॒धा । त्वा॒ऽया । वसू॑नि । रा॒ज॒न् । व॒सुता॑ । ते॒ । अ॒श्या॒म् ।
    पु॒रूणि॑ । हि । त्वे इति॑ । पु॒रु॒ऽवा॒र॒ । सन्ति॑ । अग्ने॑ । वसु॑ । वि॒ध॒ते । राज॑नि । त्वे इति॑ ॥

    पुरूणि । अग्ने । पुरुधा । त्वाऽया । वसूनि । राजन् । वसुता । ते । अश्याम् ।
    पुरूणि । हि । त्वे इति । पुरुऽवार । सन्ति । अग्ने । वसु । विधते । राजनि । त्वे इति ॥

    purū́ṇi ǀ agne ǀ purudhā́ ǀ tvā-yā́ ǀ vásūni ǀ rājan ǀ vasútā ǀ te ǀ aśyām ǀ
    purū́ṇi ǀ hí ǀ tvé íti ǀ puru-vāra ǀ sánti ǀ ágne ǀ vásu ǀ vidhaté ǀ rā́jani ǀ tvé íti ǁ

    purūṇi ǀ agne ǀ purudhā ǀ tvā-yā ǀ vasūni ǀ rājan ǀ vasutā ǀ te ǀ aśyām ǀ
    purūṇi ǀ hi ǀ tve iti ǀ puru-vāra ǀ santi ǀ agne ǀ vasu ǀ vidhate ǀ rājani ǀ tve iti ǁ

    6.1.13 Aṣṭaka 4.4.36.8Anuvāka 6.1.13

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 6.1 · Agni

Interpretations

Sri Aurobindo

Ṛk 1

O potent Fire, thou wert the first thinker of this thought and the priest of the call. O Male, thou hast created everywhere around thee a force invulnerable to overpower every force. (HTMF PG 53)

Ṛk 2

And now strong for sacrifice, thou hast taken thy session in the seat of aspiration, one aspired to, a flamen of the call, an imparter of the impulse. Men, building the godheads, have

grown conscious of thee, the chief and first, and followed to a mighty treasure. (HTMF PG 53)

Ṛk 3

In thee awake, they followed after the Treasure as in the wake of one who walks on a path with many possessions, in the wake of the vast glowing visioned embodied Fire that casts its light always and forever. (HTMF PG 53)

Ṛk 4

Travellers with surrender to the plane of the godhead, seekers of inspired knowledge, they won an inviolate inspiration, they held the sacrificial Names and had delight in thy happy vision. (HTMF PG 53)

Ṛk 5

The peoples increase thee on the earth; both kinds of riches of men increase thee. O Fire, our pilot through the battle, thou art the deliverer whom we must know, ever a father and mother to human beings. (HTMF PG 54)

Ṛk 6

Dear and servable is this Fire in men; a rapturous priest of the call has taken up his session, strong for sacrifice. Pressing the knee may we come to thee with obeisance of surrender when thou flamest alight in the house. (HTMF PG 54)

Ṛk 7

O Fire, we desire thee, the god to whom must rise our cry, we the right thinkers, the seekers of bliss, the builders of the godheads. O Fire, shining with light thou leadest men through the vast luminous world of heaven. (HTMF PG 54)

Ṛk 8

To the seer, the Master of creatures who rules over the eternal generations of peoples, the Smiter, the Bull of those that see, the mover to the journey beyond who drives us, the purifying Flame, the Power in the sacrifice, Fire the Regent of the Treasures! (HTMF PG 54)

Ṛk 9

O Fire, the mortal has done his sacrifice and achieved his labour who has worked out the gift of the oblation with the fuel of thy flame and wholly learned the way of the offering by his prostrations of surrender; he lives in thy guard and holds in himself all desirable things.(HTMF PG 55)

Ṛk 10

O Fire, O Son of Force, may we offer to thy greatness that which is great, worshipping thee with the obeisance and the fuel and the offering, the altar and the word and the utterance. For we would work and strive in thy happy right thinking, O Fire. (HTMF PG 55)

Ṛk 11

O thou who art filled with inspiration and a passer of barriers, O thou who hast extended earth and heaven by the wideness of thy light and thy inspired discoveries of knowledge, shine wider yet in us with thy large and solid and opulent amassings, O Fire. (HTMF PG 55)

Ṛk 12

O Prince of Riches, fix always in us that in which are the Gods, settle here many herds for the begotten son. In us may there be the happy things of true inspiration and the multitude of the large impulsions from which evil is far. (HTMF PG 55)

Ṛk 13

O King, O Fire, let me enjoy by thee and thy princehood of the riches many riches in many ways; for, O Fire of many blessings, there are many treasures for thy worshipper in thee, the King. (HTMF PG 56)