Ṛk 6.1.3
Saṃhitā
वृ॒तेव॒ यंतं॑ ब॒हुभि॑र्वस॒व्यै॒३॒॑स्त्वे र॒यिं जा॑गृ॒वांसो॒ अनु॑ ग्मन् ।
रुशं॑तम॒ग्निं द॑र्श॒तं बृ॒हंतं॑ व॒पावं॑तं वि॒श्वहा॑ दीदि॒वांसं॑ ॥
वृतेव यन्तम् बहुभिर् वसव्यैस् त्वे रयिं जागृवांसो अनु ग्मन् |
रुशन्तम् अग्निं दर्शतम् बृहन्तं वपावन्तं विश्वहा दीदिवांसम् ||
vṛtéva yántam bahúbhirvasavyáistvé rayím jāgṛvā́ṃso ánu gman ǀ
rúśantamagním darśatám bṛhántam vapā́vantam viśváhā dīdivā́ṃsam ǁ
vṛteva yantam bahubhir vasavyais tve rayiṃ jāgṛvāṃso anu gman |
ruśantam agniṃ darśatam bṛhantaṃ vapāvantaṃ viśvahā dīdivāṃsam ||
Padapāṭha
वृ॒ताऽइ॑व । यन्त॑म् । ब॒हुऽभिः॑ । व॒स॒व्यैः॑ । त्वे इति॑ । र॒यिम् । जा॒गृ॒ऽवांसः॑ । अनु॑ । ग्म॒न् ।
रुश॑न्तम् । अ॒ग्निम् । द॒र्श॒तम् । बृ॒हन्त॑म् । व॒पाऽव॑न्तम् । वि॒श्वहा॑ । दी॒दि॒ऽवांस॑म् ॥
वृताऽइव । यन्तम् । बहुऽभिः । वसव्यैः । त्वे इति । रयिम् । जागृऽवांसः । अनु । ग्मन् ।
रुशन्तम् । अग्निम् । दर्शतम् । बृहन्तम् । वपाऽवन्तम् । विश्वहा । दीदिऽवांसम् ॥
vṛtā́-iva ǀ yántam ǀ bahú-bhiḥ ǀ vasavyáiḥ ǀ tvé íti ǀ rayím ǀ jāgṛ-vā́ṃsaḥ ǀ ánu ǀ gman ǀ
rúśantam ǀ agním ǀ darśatám ǀ bṛhántam ǀ vapā́-vantam ǀ viśváhā ǀ dīdi-vā́ṃsam ǁ
vṛtā-iva ǀ yantam ǀ bahu-bhiḥ ǀ vasavyaiḥ ǀ tve iti ǀ rayim ǀ jāgṛ-vāṃsaḥ ǀ anu ǀ gman ǀ
ruśantam ǀ agnim ǀ darśatam ǀ bṛhantam ǀ vapā-vantam ǀ viśvahā ǀ dīdi-vāṃsam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.001.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.4.35.03
- Maṇḍala · Anuvāka · Ṛk
- 06.01.003
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.