Ṛgveda · Maṇḍala 6

Sūkta 48

Agni · Maruts · Maruts Or Liṅgoktadevatās · Pūṣan · Maruts Or Heaven And Earth Or Pṛśni · Śaṃyu Bārhaspatya · 22 ṛks

Link
Devatā देवता
1-10: Agni; 11, 12, 20, 21: Maruts; 13-15: Maruts Or Liṅgoktadevatās; 16-19: Pūṣan; 22: Maruts Or Heaven And Earth Or Pṛśni
Ṛṣi ऋषि
Śaṃyu Bārhaspatya
Chandas छन्दस्
Bṛhatī, Satobṛhatī, Triṣṭubh, Kakubh, Pura-Uṣṇih, Mahāsatobṛhatī, Atijagatī, Yavamadhyā Mahābṛhatī, Anuṣṭubh
Metres by ṛk

1st set of styles bṛhatī (1, 4, 5, 14); bhurigbṛhatī (10, 12, 17); virāḍabṛhatī (3, 19); triṣṭup (6, 21); uṣṇik (11, 16); nicṛduṣṇik (13, 18); ārcījagatī (2); nicṛttriṣṭup (7); bhuriktriṣṭup (8); bhuriganuṣṭup (9); nicṛdatijagatī (15); svarāḍanuṣṭup (20); anuṣṭup (22)

2nd set of styles bṛhatī (1, 3, 5, 9, 14, 19, 20); satobṛhatī (2, 4, 10, 12, 17); triṣṭubh (6, 7); kakubh (11, 16); pura-uṣṇih (13, 18); mahāsatobṛhatī (8); atijagatī (15); yavamadhyā mahābṛhatī (21); anuṣṭubh (22)

  1. Ṛk 1

    य॒ज्ञाय॑ज्ञा वो अ॒ग्नये॑ गि॒रागि॑रा च॒ दक्ष॑से ।
    प्रप्र॑ व॒यम॒मृतं॑ जा॒तवे॑दसं प्रि॒यं मि॒त्रं न शं॑सिषं ॥

    यज्ञा-यज्ञा वो अग्नये गिरा-गिरा च दक्षसे |
    प्र-प्र वयम् अमृतं जातवेदसम् प्रियम् मित्रं न शंसिषम् ||

    yajñā́yajñā vo agnáye girā́girā ca dákṣase ǀ
    prápra vayámamṛ́tam jātávedasam priyám mitrám ná śaṃsiṣam ǁ

    yajñā-yajñā vo agnaye girā-girā ca dakṣase |
    pra-pra vayam amṛtaṃ jātavedasam priyam mitraṃ na śaṃsiṣam ||

    य॒ज्ञाऽय॑ज्ञा । वः॒ । अ॒ग्नये॑ । गि॒राऽगि॑रा । च॒ । दक्ष॑से ।
    प्रऽप्र॑ । व॒यम् । अ॒मृत॑म् । जा॒तऽवे॑दसम् । प्रि॒यम् । मि॒त्रम् । न । शं॒सि॒ष॒म् ॥

    यज्ञाऽयज्ञा । वः । अग्नये । गिराऽगिरा । च । दक्षसे ।
    प्रऽप्र । वयम् । अमृतम् । जातऽवेदसम् । प्रियम् । मित्रम् । न । शंसिषम् ॥

    yajñā́-yajñā ǀ vaḥ ǀ agnáye ǀ girā́-girā ǀ ca ǀ dákṣase ǀ
    prá-pra ǀ vayám ǀ amṛ́tam ǀ jātá-vedasam ǀ priyám ǀ mitrám ǀ ná ǀ śaṃsiṣam ǁ

    yajñā-yajñā ǀ vaḥ ǀ agnaye ǀ girā-girā ǀ ca ǀ dakṣase ǀ
    pra-pra ǀ vayam ǀ amṛtam ǀ jāta-vedasam ǀ priyam ǀ mitram ǀ na ǀ śaṃsiṣam ǁ

    6.48.1 Aṣṭaka 4.8.1.1Anuvāka 6.4.103

  2. Ṛk 2

    ऊ॒र्जो नपा॑तं॒ स हि॒नायम॑स्म॒युर्दाशे॑म ह॒व्यदा॑तये ।
    भुव॒द्वाजे॑ष्ववि॒ता भुव॑द्वृ॒ध उ॒त त्रा॒ता त॒नूनां॑ ॥

    ऊर्जो नपातं स हिनायम् अस्मयुर् दाशेम हव्यदातये |
    भुवद् वाजेष्व् अविता भुवद् वृध उत त्राता तनूनाम् ||

    ūrjó nápātam sá hinā́yámasmayúrdā́śema havyádātaye ǀ
    bhúvadvā́jeṣvavitā́ bhúvadvṛdhá utá trātā́ tanū́nām ǁ

    ūrjo napātaṃ sa hināyam asmayur dāśema havyadātaye |
    bhuvad vājeṣv avitā bhuvad vṛdha uta trātā tanūnām ||

    ऊ॒र्जः । नपा॑तम् । सः । हि॒न । अ॒यम् । अ॒स्म॒ऽयुः । दाशे॑म । ह॒व्यऽदा॑तये ।
    भुव॑त् । वाजे॑षु । अ॒वि॒ता । भुव॑त् । वृ॒धः । उ॒त । त्रा॒ता । त॒नूना॑म् ॥

    ऊर्जः । नपातम् । सः । हिन । अयम् । अस्मऽयुः । दाशेम । हव्यऽदातये ।
    भुवत् । वाजेषु । अविता । भुवत् । वृधः । उत । त्राता । तनूनाम् ॥

    ūrjáḥ ǀ nápātam ǀ sáḥ ǀ hiná ǀ ayám ǀ asma-yúḥ ǀ dā́śema ǀ havyá-dātaye ǀ
    bhúvat ǀ vā́jeṣu ǀ avitā́ ǀ bhúvat ǀ vṛdháḥ ǀ utá ǀ trātā́ ǀ tanū́nām ǁ

    ūrjaḥ ǀ napātam ǀ saḥ ǀ hina ǀ ayam ǀ asma-yuḥ ǀ dāśema ǀ havya-dātaye ǀ
    bhuvat ǀ vājeṣu ǀ avitā ǀ bhuvat ǀ vṛdhaḥ ǀ uta ǀ trātā ǀ tanūnām ǁ

    6.48.2 Aṣṭaka 4.8.1.2Anuvāka 6.4.104

  3. Ṛk 3

    वृषा॒ ह्य॑ग्ने अ॒जरो॑ म॒हान्वि॒भास्य॒र्चिषा॑ ।
    अज॑स्रेण शो॒चिषा॒ शोशु॑चच्छुचे सुदी॒तिभिः॒ सु दी॑दिहि ॥

    वृषा ह्य् अग्ने अजरो महान् विभास्य् अर्चिषा |
    अजस्रेण शोचिषा शोशुचच् छुचे सुदीतिभिः सु दीदिहि ||

    vṛ́ṣā hyágne ajáro mahā́nvibhā́syarcíṣā ǀ
    ájasreṇa śocíṣā śóśucacchuce sudītíbhiḥ sú dīdihi ǁ

    vṛṣā hy agne ajaro mahān vibhāsy arciṣā |
    ajasreṇa śociṣā śośucac chuce sudītibhiḥ su dīdihi ||

    वृषा॑ । हि । अ॒ग्ने॒ । अ॒जरः॑ । म॒हान् । वि॒ऽभासि॑ । अ॒र्चिषा॑ ।
    अज॑स्रेण । शो॒चिषा॑ । शोशु॑चत् । शु॒चे॒ । सु॒दी॒तिऽभिः॑ । सु । दी॒दि॒हि॒ ॥

    वृषा । हि । अग्ने । अजरः । महान् । विऽभासि । अर्चिषा ।
    अजस्रेण । शोचिषा । शोशुचत् । शुचे । सुदीतिऽभिः । सु । दीदिहि ॥

    vṛ́ṣā ǀ hí ǀ agne ǀ ajáraḥ ǀ mahā́n ǀ vi-bhā́si ǀ arcíṣā ǀ
    ájasreṇa ǀ śocíṣā ǀ śóśucat ǀ śuce ǀ sudītí-bhiḥ ǀ sú ǀ dīdihi ǁ

    vṛṣā ǀ hi ǀ agne ǀ ajaraḥ ǀ mahān ǀ vi-bhāsi ǀ arciṣā ǀ
    ajasreṇa ǀ śociṣā ǀ śośucat ǀ śuce ǀ sudīti-bhiḥ ǀ su ǀ dīdihi ǁ

    6.48.3 Aṣṭaka 4.8.1.3Anuvāka 6.4.105

  4. Ṛk 4

    म॒हो दे॒वान्यज॑सि॒ यक्ष्या॑नु॒षक्तव॒ क्रत्वो॒त दं॒सना॑ ।
    अ॒र्वाचः॑ सीं कृणुह्य॒ग्नेऽव॑से॒ रास्व॒ वाजो॒त वं॑स्व ॥

    महो देवान् यजसि यक्ष्य् आनुषक् तव क्रत्वोत दंसना |
    अर्वाचः सीं कृणुह्य् अग्ने ऽवसे रास्व वाजोत वंस्व ||

    mahó devā́nyájasi yákṣyānuṣáktáva krátvotá daṃsánā ǀ
    arvā́caḥ sīm kṛṇuhyagné’vase rā́sva vā́jotá vaṃsva ǁ

    maho devān yajasi yakṣy ānuṣak tava kratvota daṃsanā |
    arvācaḥ sīṃ kṛṇuhy agne 'vase rāsva vājota vaṃsva ||

    म॒हः । दे॒वान् । यज॑सि । यक्षि॑ । आ॒नु॒षक् । तव॑ । क्रत्वा॑ । उ॒त । दं॒सना॑ ।
    अ॒र्वाचः॑ । सी॒म् । कृ॒णु॒हि॒ । अ॒ग्ने॒ । अव॑से । रास्व॑ । वाजा॑ । उ॒त । वं॒स्व॒ ॥

    महः । देवान् । यजसि । यक्षि । आनुषक् । तव । क्रत्वा । उत । दंसना ।
    अर्वाचः । सीम् । कृणुहि । अग्ने । अवसे । रास्व । वाजा । उत । वंस्व ॥

    maháḥ ǀ devā́n ǀ yájasi ǀ yákṣi ǀ ānuṣák ǀ táva ǀ krátvā ǀ utá ǀ daṃsánā ǀ
    arvā́caḥ ǀ sīm ǀ kṛṇuhi ǀ agne ǀ ávase ǀ rā́sva ǀ vā́jā ǀ utá ǀ vaṃsva ǁ

    mahaḥ ǀ devān ǀ yajasi ǀ yakṣi ǀ ānuṣak ǀ tava ǀ kratvā ǀ uta ǀ daṃsanā ǀ
    arvācaḥ ǀ sīm ǀ kṛṇuhi ǀ agne ǀ avase ǀ rāsva ǀ vājā ǀ uta ǀ vaṃsva ǁ

    6.48.4 Aṣṭaka 4.8.1.4Anuvāka 6.4.106

  5. Ṛk 5

    यमापो॒ अद्र॑यो॒ वना॒ गर्भ॑मृ॒तस्य॒ पिप्र॑ति ।
    सह॑सा॒ यो म॑थि॒तो जाय॑ते॒ नृभिः॑ पृथि॒व्या अधि॒ सान॑वि ॥

    यम् आपो अद्रयो वना गर्भम् ऋतस्य पिप्रति |
    सहसा यो मथितो जायते नृभिः पृथिव्या अधि सानवि ||

    yámā́po ádrayo vánā gárbhamṛtásya píprati ǀ
    sáhasā yó mathitó jā́yate nṛ́bhiḥ pṛthivyā́ ádhi sā́navi ǁ

    yam āpo adrayo vanā garbham ṛtasya piprati |
    sahasā yo mathito jāyate nṛbhiḥ pṛthivyā adhi sānavi ||

    यम् । आपः॑ । अद्र॑यः । वना॑ । गर्भ॑म् । ऋ॒तस्य॑ । पिप्र॑ति ।
    सह॑सा । यः । म॒थि॒तः । जाय॑ते । नृऽभिः॑ । पृ॒थि॒व्याः । अधि॑ । सान॑वि ॥

    यम् । आपः । अद्रयः । वना । गर्भम् । ऋतस्य । पिप्रति ।
    सहसा । यः । मथितः । जायते । नृऽभिः । पृथिव्याः । अधि । सानवि ॥

    yám ǀ ā́paḥ ǀ ádrayaḥ ǀ vánā ǀ gárbham ǀ ṛtásya ǀ píprati ǀ
    sáhasā ǀ yáḥ ǀ mathitáḥ ǀ jā́yate ǀ nṛ́-bhiḥ ǀ pṛthivyā́ḥ ǀ ádhi ǀ sā́navi ǁ

    yam ǀ āpaḥ ǀ adrayaḥ ǀ vanā ǀ garbham ǀ ṛtasya ǀ piprati ǀ
    sahasā ǀ yaḥ ǀ mathitaḥ ǀ jāyate ǀ nṛ-bhiḥ ǀ pṛthivyāḥ ǀ adhi ǀ sānavi ǁ

    6.48.5 Aṣṭaka 4.8.1.5Anuvāka 6.4.107

  6. Ṛk 6

    आ यः प॒प्रौ भा॒नुना॒ रोद॑सी उ॒भे धू॒मेन॑ धावते दि॒वि ।
    ति॒रस्तमो॑ ददृश॒ ऊर्म्या॒स्वा श्या॒वास्व॑रु॒षो वृषा श्या॒वा अ॑रु॒षो वृषा॑ ॥

    आ यः पप्रौ भानुना रोदसी उभे धूमेन धावते दिवि |
    तिरस् तमो ददृश ऊर्म्यास्व् आ श्यावास्व् अरुषो वृषा श्यावा अरुषो वृषा ||

    ā́ yáḥ papráu bhānúnā ródasī ubhé dhūména dhāvate diví ǀ
    tirástámo dadṛśa ū́rmyāsvā́ śyāvā́svaruṣó vṛ́ṣā́ śyāvā́ aruṣó vṛ́ṣā ǁ

    ā yaḥ paprau bhānunā rodasī ubhe dhūmena dhāvate divi |
    tiras tamo dadṛśa ūrmyāsv ā śyāvāsv aruṣo vṛṣā śyāvā aruṣo vṛṣā ||

    आ । यः । प॒प्रौ । भा॒नुना॑ । रोद॑सी॒ इति॑ । उ॒भे इति॑ । धू॒मेन॑ । धा॒व॒ते॒ । दि॒वि ।
    ति॒रः । तमः॑ । द॒दृ॒शे॒ । ऊर्म्या॑सु । आ । श्या॒वासु॑ । अ॒रु॒षः । वृषा॑ । आ । श्या॒वाः । अ॒रु॒षः । वृषा॑ ॥

    आ । यः । पप्रौ । भानुना । रोदसी इति । उभे इति । धूमेन । धावते । दिवि ।
    तिरः । तमः । ददृशे । ऊर्म्यासु । आ । श्यावासु । अरुषः । वृषा । आ । श्यावाः । अरुषः । वृषा ॥

    ā́ ǀ yáḥ ǀ papráu ǀ bhānúnā ǀ ródasī íti ǀ ubhé íti ǀ dhūména ǀ dhāvate ǀ diví ǀ
    tiráḥ ǀ támaḥ ǀ dadṛśe ǀ ū́rmyāsu ǀ ā́ ǀ śyāvā́su ǀ aruṣáḥ ǀ vṛ́ṣā ǀ ā́ ǀ śyāvā́ḥ ǀ aruṣáḥ ǀ vṛ́ṣā ǁ

    ā ǀ yaḥ ǀ paprau ǀ bhānunā ǀ rodasī iti ǀ ubhe iti ǀ dhūmena ǀ dhāvate ǀ divi ǀ
    tiraḥ ǀ tamaḥ ǀ dadṛśe ǀ ūrmyāsu ǀ ā ǀ śyāvāsu ǀ aruṣaḥ ǀ vṛṣā ǀ ā ǀ śyāvāḥ ǀ aruṣaḥ ǀ vṛṣā ǁ

    6.48.6 Aṣṭaka 4.8.2.1Anuvāka 6.4.108

  7. Ṛk 7

    बृ॒हद्भि॑रग्ने अ॒र्चिभिः॑ शु॒क्रेण॑ देव शो॒चिषा॑ ।
    भ॒रद्वा॑जे समिधा॒नो य॑विष्ठ्य रे॒वन्नः॑ शुक्र दीदिहि द्यु॒मत्पा॑वक दीदिहि ॥

    बृहद्भिर् अग्ने अर्चिभिः शुक्रेण देव शोचिषा |
    भरद्वाजे समिधानो यविष्ठ्य रेवन् नः शुक्र दीदिहि द्युमत् पावक दीदिहि ||

    bṛhádbhiragne arcíbhiḥ śukréṇa deva śocíṣā ǀ
    bharádvāje samidhānó yaviṣṭhya revánnaḥ śukra dīdihi dyumátpāvaka dīdihi ǁ

    bṛhadbhir agne arcibhiḥ śukreṇa deva śociṣā |
    bharadvāje samidhāno yaviṣṭhya revan naḥ śukra dīdihi dyumat pāvaka dīdihi ||

    बृ॒हत्ऽभिः॑ । अ॒ग्ने॒ । अ॒र्चिऽभिः॑ । शु॒क्रेण॑ । दे॒व॒ । शो॒चिषा॑ ।
    भ॒रत्ऽवा॑जे । स॒म्ऽइ॒धा॒नः । य॒वि॒ष्ठ्य॒ । रे॒वत् । नः॒ । शु॒क्र॒ । दी॒दि॒हि॒ । द्यु॒ऽमत् । पा॒व॒क॒ । दी॒दि॒हि॒ ॥

    बृहत्ऽभिः । अग्ने । अर्चिऽभिः । शुक्रेण । देव । शोचिषा ।
    भरत्ऽवाजे । सम्ऽइधानः । यविष्ठ्य । रेवत् । नः । शुक्र । दीदिहि । द्युऽमत् । पावक । दीदिहि ॥

    bṛhát-bhiḥ ǀ agne ǀ arcí-bhiḥ ǀ śukréṇa ǀ deva ǀ śocíṣā ǀ
    bharát-vāje ǀ sam-idhānáḥ ǀ yaviṣṭhya ǀ revát ǀ naḥ ǀ śukra ǀ dīdihi ǀ dyu-mát ǀ pāvaka ǀ dīdihi ǁ

    bṛhat-bhiḥ ǀ agne ǀ arci-bhiḥ ǀ śukreṇa ǀ deva ǀ śociṣā ǀ
    bharat-vāje ǀ sam-idhānaḥ ǀ yaviṣṭhya ǀ revat ǀ naḥ ǀ śukra ǀ dīdihi ǀ dyu-mat ǀ pāvaka ǀ dīdihi ǁ

    6.48.7 Aṣṭaka 4.8.2.2Anuvāka 6.4.109

  8. Ṛk 8

    विश्वा॑सां गृ॒हप॑तिर्वि॒शाम॑सि॒ त्वम॑ग्ने॒ मानु॑षीणां ।
    श॒तं पू॒र्भिर्य॑विष्ठ पा॒ह्यंह॑सः समे॒द्धारं॑ श॒तं हिमाः॑ स्तो॒तृभ्यो॒ ये च॒ दद॑ति ॥

    विश्वासां गृहपतिर् विशाम् असि त्वम् अग्ने मानुषीणाम् |
    शतम् पूर्भिर् यविष्ठ पाह्य् अंहसः समेद्धारं शतं हिमा स्तोतृभ्यो ये च ददति ||

    víśvāsām gṛhápatirviśā́masi tvámagne mā́nuṣīṇām ǀ
    śatám pūrbhíryaviṣṭha pāhyáṃhasaḥ sameddhā́ram śatám hímāḥ stotṛ́bhyo yé ca dádati ǁ

    viśvāsāṃ gṛhapatir viśām asi tvam agne mānuṣīṇām |
    śatam pūrbhir yaviṣṭha pāhy aṃhasaḥ sameddhāraṃ śataṃ himā stotṛbhyo ye ca dadati ||

    विश्वा॑साम् । गृ॒हऽप॑तिः । वि॒शाम् । असि॑ । त्वम् । अ॒ग्ने॒ । मानु॑षीणाम् ।
    श॒तम् । पूः॒ऽभिः । य॒वि॒ष्ठ॒ । पा॒हि॒ । अंह॑सः । स॒म्ऽए॒द्धार॑म् । श॒तम् । हिमाः॑ । स्तो॒तृऽभ्यः॑ । ये । च॒ । दद॑ति ॥

    विश्वासाम् । गृहऽपतिः । विशाम् । असि । त्वम् । अग्ने । मानुषीणाम् ।
    शतम् । पूःऽभिः । यविष्ठ । पाहि । अंहसः । सम्ऽएद्धारम् । शतम् । हिमाः । स्तोतृऽभ्यः । ये । च । ददति ॥

    víśvāsām ǀ gṛhá-patiḥ ǀ viśā́m ǀ ási ǀ tvám ǀ agne ǀ mā́nuṣīṇām ǀ
    śatám ǀ pūḥ-bhíḥ ǀ yaviṣṭha ǀ pāhi ǀ áṃhasaḥ ǀ sam-eddhā́ram ǀ śatám ǀ hímāḥ ǀ stotṛ́-bhyaḥ ǀ yé ǀ ca ǀ dádati ǁ

    viśvāsām ǀ gṛha-patiḥ ǀ viśām ǀ asi ǀ tvam ǀ agne ǀ mānuṣīṇām ǀ
    śatam ǀ pūḥ-bhiḥ ǀ yaviṣṭha ǀ pāhi ǀ aṃhasaḥ ǀ sam-eddhāram ǀ śatam ǀ himāḥ ǀ stotṛ-bhyaḥ ǀ ye ǀ ca ǀ dadati ǁ

    6.48.8 Aṣṭaka 4.8.2.3Anuvāka 6.4.110

  9. Ṛk 9

    त्वं न॑श्चि॒त्र ऊ॒त्या वसो॒ राधां॑सि चोदय ।
    अ॒स्य रा॒यस्त्वम॑ग्ने र॒थीर॑सि वि॒दा गा॒धं तु॒चे तु नः॑ ॥

    त्वं नश् चित्र ऊत्या वसो राधांसि चोदय |
    अस्य रायस् त्वम् अग्ने रथीर् असि विदा गाधं तुचे तु नः ||

    tvám naścitrá ūtyā́ váso rā́dhāṃsi codaya ǀ
    asyá rāyástvámagne rathī́rasi vidā́ gādhám tucé tú naḥ ǁ

    tvaṃ naś citra ūtyā vaso rādhāṃsi codaya |
    asya rāyas tvam agne rathīr asi vidā gādhaṃ tuce tu naḥ ||

    त्वम् । नः॒ । चि॒त्रः । ऊ॒त्या । वसो॒ इति॑ । राधां॑सि । चो॒द॒य॒ ।
    अ॒स्य । रा॒यः । त्वम् । अ॒ग्ने॒ । र॒थीः । अ॒सि॒ । वि॒दाः । गा॒धम् । तु॒चे । तु । नः॒ ॥

    त्वम् । नः । चित्रः । ऊत्या । वसो इति । राधांसि । चोदय ।
    अस्य । रायः । त्वम् । अग्ने । रथीः । असि । विदाः । गाधम् । तुचे । तु । नः ॥

    tvám ǀ naḥ ǀ citráḥ ǀ ūtyā́ ǀ váso íti ǀ rā́dhāṃsi ǀ codaya ǀ
    asyá ǀ rāyáḥ ǀ tvám ǀ agne ǀ rathī́ḥ ǀ asi ǀ vidā́ḥ ǀ gādhám ǀ tucé ǀ tú ǀ naḥ ǁ

    tvam ǀ naḥ ǀ citraḥ ǀ ūtyā ǀ vaso iti ǀ rādhāṃsi ǀ codaya ǀ
    asya ǀ rāyaḥ ǀ tvam ǀ agne ǀ rathīḥ ǀ asi ǀ vidāḥ ǀ gādham ǀ tuce ǀ tu ǀ naḥ ǁ

    6.48.9 Aṣṭaka 4.8.2.4Anuvāka 6.4.111

  10. Ṛk 10

    पर्षि॑ तो॒कं तन॑यं प॒र्तृभि॒ष्ट्वमद॑ब्धै॒रप्र॑युत्वभिः ।
    अग्ने॒ हेळां॑सि॒ दैव्या॑ युयोधि॒ नोऽदे॑वानि॒ ह्वरां॑सि च ॥

    पर्षि तोकं तनयम् पर्तृभिष् ट्वम् अदब्धैर् अप्रयुत्वभिः |
    अग्ने हेऌआंसि दैव्या युयोधि नो ऽदेवानि ह्वरांसि च ||

    párṣi tokám tánayam partṛ́bhiṣṭvámádabdhairáprayutvabhiḥ ǀ
    ágne héḷāṃsi dáivyā yuyodhi nó’devāni hvárāṃsi ca ǁ

    parṣi tokaṃ tanayam partṛbhiṣ ṭvam adabdhair aprayutvabhiḥ |
    agne heḷāṃsi daivyā yuyodhi no 'devāni hvarāṃsi ca ||

    पर्षि॑ । तो॒कम् । तन॑यम् । प॒र्तृऽभिः॑ । त्वम् । अद॑ब्धैः । अप्र॑युत्वऽभिः ।
    अग्ने॑ । हेळां॑सि । दैव्या॑ । यु॒यो॒धि॒ । नः॒ । अदे॑वानि । ह्वरां॑सि । च॒ ॥

    पर्षि । तोकम् । तनयम् । पर्तृऽभिः । त्वम् । अदब्धैः । अप्रयुत्वऽभिः ।
    अग्ने । हेळांसि । दैव्या । युयोधि । नः । अदेवानि । ह्वरांसि । च ॥

    párṣi ǀ tokám ǀ tánayam ǀ partṛ́-bhiḥ ǀ tvám ǀ ádabdhaiḥ ǀ áprayutva-bhiḥ ǀ
    ágne ǀ héḷāṃsi ǀ dáivyā ǀ yuyodhi ǀ naḥ ǀ ádevāni ǀ hvárāṃsi ǀ ca ǁ

    parṣi ǀ tokam ǀ tanayam ǀ partṛ-bhiḥ ǀ tvam ǀ adabdhaiḥ ǀ aprayutva-bhiḥ ǀ
    agne ǀ heḷāṃsi ǀ daivyā ǀ yuyodhi ǀ naḥ ǀ adevāni ǀ hvarāṃsi ǀ ca ǁ

    6.48.10 Aṣṭaka 4.8.2.5Anuvāka 6.4.112

  11. Ṛk 11

    आ स॑खायः सब॒र्दुघां॑ धे॒नुम॑जध्व॒मुप॒ नव्य॑सा॒ वचः॑ ।
    सृ॒जध्व॒मन॑पस्फुरां ॥

    आ सखायः सबर्दुघां धेनुम् अजध्वम् उप नव्यसा वचः |
    सृजध्वम् अनपस्फुराम् ||

    ā́ sakhāyaḥ sabardúghām dhenúmajadhvamúpa návyasā vácaḥ ǀ
    sṛjádhvamánapasphurām ǁ

    ā sakhāyaḥ sabardughāṃ dhenum ajadhvam upa navyasā vacaḥ |
    sṛjadhvam anapasphurām ||

    आ । स॒खा॒यः॒ । स॒बः॒ऽदुघा॑म् । धे॒नुम् । अ॒ज॒ध्व॒म् । उप॑ । नव्य॑सा । वचः॑ ।
    सृ॒जध्व॑म् । अन॑पऽस्फुराम् ॥

    आ । सखायः । सबःऽदुघाम् । धेनुम् । अजध्वम् । उप । नव्यसा । वचः ।
    सृजध्वम् । अनपऽस्फुराम् ॥

    ā́ ǀ sakhāyaḥ ǀ sabaḥ-dúghām ǀ dhenúm ǀ ajadhvam ǀ úpa ǀ návyasā ǀ vácaḥ ǀ
    sṛjádhvam ǀ ánapa-sphurām ǁ

    ā ǀ sakhāyaḥ ǀ sabaḥ-dughām ǀ dhenum ǀ ajadhvam ǀ upa ǀ navyasā ǀ vacaḥ ǀ
    sṛjadhvam ǀ anapa-sphurām ǁ

    6.48.11 Aṣṭaka 4.8.3.1Anuvāka 6.4.113

  12. Ṛk 12

    या शर्धा॑य॒ मारु॑ताय॒ स्वभा॑नवे॒ श्रवोऽमृ॑त्यु॒ धुक्ष॑त ।
    या मृ॑ळी॒के म॒रुतां॑ तु॒राणां॒ या सु॒म्नैरे॑व॒याव॑री ॥

    या शर्धाय मारुताय स्वभानवे श्रवो ऽमृत्यु धुक्षत |
    या मृऌईके मरुतां तुराणां या सुम्नैर् एवयावरी ||

    yā́ śárdhāya mā́rutāya svábhānave śrávó’mṛtyu dhúkṣata ǀ
    yā́ mṛḷīké marútām turā́ṇām yā́ sumnáirevayā́varī ǁ

    yā śardhāya mārutāya svabhānave śravo 'mṛtyu dhukṣata |
    yā mṛḷīke marutāṃ turāṇāṃ yā sumnair evayāvarī ||

    या । शर्धा॑य । मारु॑ताय । स्वऽभा॑नवे । श्रवः॑ । अमृ॑त्यु । धुक्ष॑त ।
    या । मृ॒ळी॒के । म॒रुता॑म् । तु॒राणा॑म् । या । सु॒म्नैः । ए॒व॒ऽयाव॑री ॥

    या । शर्धाय । मारुताय । स्वऽभानवे । श्रवः । अमृत्यु । धुक्षत ।
    या । मृळीके । मरुताम् । तुराणाम् । या । सुम्नैः । एवऽयावरी ॥

    yā́ ǀ śárdhāya ǀ mā́rutāya ǀ svá-bhānave ǀ śrávaḥ ǀ ámṛtyu ǀ dhúkṣata ǀ
    yā́ ǀ mṛḷīké ǀ marútām ǀ turā́ṇām ǀ yā́ ǀ sumnáiḥ ǀ eva-yā́varī ǁ

    yā ǀ śardhāya ǀ mārutāya ǀ sva-bhānave ǀ śravaḥ ǀ amṛtyu ǀ dhukṣata ǀ
    yā ǀ mṛḷīke ǀ marutām ǀ turāṇām ǀ yā ǀ sumnaiḥ ǀ eva-yāvarī ǁ

    6.48.12 Aṣṭaka 4.8.3.2Anuvāka 6.4.114

  13. Ṛk 13

    भ॒रद्वा॑जा॒याव॑ धुक्षत द्वि॒ता ।
    धे॒नुं च॑ वि॒श्वदो॑हस॒मिषं॑ च वि॒श्वभो॑जसं ॥

    भरद्वाजायाव धुक्षत द्विता |
    धेनुं च विश्वदोहसम् इषं च विश्वभोजसम् ||

    bharádvājāyā́va dhukṣata dvitā́ ǀ
    dhenúm ca viśvádohasamíṣam ca viśvábhojasam ǁ

    bharadvājāyāva dhukṣata dvitā |
    dhenuṃ ca viśvadohasam iṣaṃ ca viśvabhojasam ||

    भ॒रत्ऽवा॑जाय । अव॑ । धु॒क्ष॒त॒ । द्वि॒ता ।
    धे॒नुम् । च॒ । वि॒श्वऽदो॑हसम् । इष॑म् । च॒ । वि॒श्वऽभो॑जसम् ॥

    भरत्ऽवाजाय । अव । धुक्षत । द्विता ।
    धेनुम् । च । विश्वऽदोहसम् । इषम् । च । विश्वऽभोजसम् ॥

    bharát-vājāya ǀ áva ǀ dhukṣata ǀ dvitā́ ǀ
    dhenúm ǀ ca ǀ viśvá-dohasam ǀ íṣam ǀ ca ǀ viśvá-bhojasam ǁ

    bharat-vājāya ǀ ava ǀ dhukṣata ǀ dvitā ǀ
    dhenum ǀ ca ǀ viśva-dohasam ǀ iṣam ǀ ca ǀ viśva-bhojasam ǁ

    6.48.13 Aṣṭaka 4.8.3.3Anuvāka 6.4.115

  14. Ṛk 14

    तं व॒ इंद्रं॒ न सु॒क्रतुं॒ वरु॑णमिव मा॒यिनं॑ ।
    अ॒र्य॒मणं॒ न मं॒द्रं सृ॒प्रभो॑जसं॒ विष्णुं॒ न स्तु॑ष आ॒दिशे॑ ॥

    तं व इन्द्रं न सुक्रतुं वरुणम् इव मायिनम् |
    अर्यमणं न मन्द्रं सृप्रभोजसं विष्णुं न स्तुष आदिशे ||

    tám va índram ná sukrátum váruṇamiva māyínam ǀ
    aryamáṇam ná mandrám sṛprábhojasam víṣṇum ná stuṣa ādíśe ǁ

    taṃ va indraṃ na sukratuṃ varuṇam iva māyinam |
    aryamaṇaṃ na mandraṃ sṛprabhojasaṃ viṣṇuṃ na stuṣa ādiśe ||

    तम् । वः॒ । इन्द्र॑म् । न । सु॒ऽक्रतु॑म् । वरु॑णम्ऽइव । मा॒यिन॑म् ।
    अ॒र्य॒मण॑म् । न । म॒न्द्रम् । सृ॒प्रऽभो॑जसम् । विष्णु॑म् । न । स्तु॒षे॒ । आ॒ऽदिशे॑ ॥

    तम् । वः । इन्द्रम् । न । सुऽक्रतुम् । वरुणम्ऽइव । मायिनम् ।
    अर्यमणम् । न । मन्द्रम् । सृप्रऽभोजसम् । विष्णुम् । न । स्तुषे । आऽदिशे ॥

    tám ǀ vaḥ ǀ índram ǀ ná ǀ su-krátum ǀ váruṇam-iva ǀ māyínam ǀ
    aryamáṇam ǀ ná ǀ mandrám ǀ sṛprá-bhojasam ǀ víṣṇum ǀ ná ǀ stuṣe ǀ ā-díśe ǁ

    tam ǀ vaḥ ǀ indram ǀ na ǀ su-kratum ǀ varuṇam-iva ǀ māyinam ǀ
    aryamaṇam ǀ na ǀ mandram ǀ sṛpra-bhojasam ǀ viṣṇum ǀ na ǀ stuṣe ǀ ā-diśe ǁ

    6.48.14 Aṣṭaka 4.8.3.4Anuvāka 6.4.116

  15. Ṛk 15

    त्वे॒षं शर्धो॒ न मारु॑तं तुवि॒ष्वण्य॑न॒र्वाणं॑ पू॒षणं॒ सं यथा॑ श॒ता ।
    सं स॒हस्रा॒ कारि॑षच्चर्ष॒णिभ्य॒ आँ आ॒विर्गू॒ळ्हा वसू॑ करत्सु॒वेदा॑ नो॒ वसू॑ करत् ॥

    त्वेषं शर्धो न मारुतं तुविष्वण्य् अनर्वाणम् पूषणं सं यथा शता |
    सं सहस्रा कारिषच् चर्षणिभ्य आं आविर् गूऌहा वसू करत् सुवेदा नो वसू करत् ||

    tveṣám śárdho ná mā́rutam tuviṣváṇyanarvā́ṇam pūṣáṇam sám yáthā śatā́ ǀ
    sám sahásrā kā́riṣaccarṣaṇíbhya ā́m̐ āvírgūḷhā́ vásū karatsuvédā no vásū karat ǁ

    tveṣaṃ śardho na mārutaṃ tuviṣvaṇy anarvāṇam pūṣaṇaṃ saṃ yathā śatā |
    saṃ sahasrā kāriṣac carṣaṇibhya āṃ āvir gūḷhā vasū karat suvedā no vasū karat ||

    त्वे॒षम् । शर्धः॑ । न । मारु॑तम् । तु॒वि॒ऽस्वनि॑ । अ॒न॒र्वाण॑म् । पू॒षण॑म् । सम् । यथा॑ । श॒ता ।
    सम् । स॒हस्रा॑ । कारि॑षत् । च॒र्ष॒णिऽभ्यः॑ । आ । आ॒विः । गू॒ळ्हा । वसु॑ । क॒र॒त् । सु॒ऽवेदा॑ । नः॒ । वसु॑ । क॒र॒त् ॥

    त्वेषम् । शर्धः । न । मारुतम् । तुविऽस्वनि । अनर्वाणम् । पूषणम् । सम् । यथा । शता ।
    सम् । सहस्रा । कारिषत् । चर्षणिऽभ्यः । आ । आविः । गूळ्हा । वसु । करत् । सुऽवेदा । नः । वसु । करत् ॥

    tveṣám ǀ śárdhaḥ ǀ ná ǀ mā́rutam ǀ tuvi-sváni ǀ anarvā́ṇam ǀ pūṣáṇam ǀ sám ǀ yáthā ǀ śatā́ ǀ
    sám ǀ sahásrā ǀ kā́riṣat ǀ carṣaṇí-bhyaḥ ǀ ā́ ǀ āvíḥ ǀ gūḷhā́ ǀ vásu ǀ karat ǀ su-védā ǀ naḥ ǀ vásu ǀ karat ǁ

    tveṣam ǀ śardhaḥ ǀ na ǀ mārutam ǀ tuvi-svani ǀ anarvāṇam ǀ pūṣaṇam ǀ sam ǀ yathā ǀ śatā ǀ
    sam ǀ sahasrā ǀ kāriṣat ǀ carṣaṇi-bhyaḥ ǀ ā ǀ āviḥ ǀ gūḷhā ǀ vasu ǀ karat ǀ su-vedā ǀ naḥ ǀ vasu ǀ karat ǁ

    6.48.15 Aṣṭaka 4.8.3.5Anuvāka 6.4.117

  16. Ṛk 16

    आ मा॑ पूष॒न्नुप॑ द्रव॒ शंसि॑षं॒ नु ते॑ अपिक॒र्ण आ॑घृणे ।
    अ॒घा अ॒र्यो अरा॑तयः ॥

    आ मा पूषन्न् उप द्रव शंसिषं नु ते अपिकर्ण आघृणे |
    अघा अर्यो अरातयः ||

    ā́ mā pūṣannúpa drava śáṃsiṣam nú te apikarṇá āghṛṇe ǀ
    aghā́ aryó árātayaḥ ǁ

    ā mā pūṣann upa drava śaṃsiṣaṃ nu te apikarṇa āghṛṇe |
    aghā aryo arātayaḥ ||

    आ । मा॒ । पू॒ष॒न् । उप॑ । द्र॒व॒ । शंसि॑षम् । नु । ते॒ । अ॒पि॒ऽक॒र्णे । आ॒घृ॒णे॒ ।
    अ॒घाः । अ॒र्यः । अरा॑तयः ॥

    आ । मा । पूषन् । उप । द्रव । शंसिषम् । नु । ते । अपिऽकर्णे । आघृणे ।
    अघाः । अर्यः । अरातयः ॥

    ā́ ǀ mā ǀ pūṣan ǀ úpa ǀ drava ǀ śáṃsiṣam ǀ nú ǀ te ǀ api-karṇé ǀ āghṛṇe ǀ
    aghā́ḥ ǀ aryáḥ ǀ árātayaḥ ǁ

    ā ǀ mā ǀ pūṣan ǀ upa ǀ drava ǀ śaṃsiṣam ǀ nu ǀ te ǀ api-karṇe ǀ āghṛṇe ǀ
    aghāḥ ǀ aryaḥ ǀ arātayaḥ ǁ

    6.48.16 Aṣṭaka 4.8.3.6Anuvāka 6.4.118

  17. Ṛk 17

    मा का॑कं॒बीर॒मुद्वृ॑हो॒ वन॒स्पति॒मश॑स्ती॒र्वि हि नीन॑शः ।
    मोत सूरो॒ अह॑ ए॒वा च॒न ग्री॒वा आ॒दध॑ते॒ वेः ॥

    मा काकम्बीरम् उद् वृहो वनस्पतिम् अशस्तीर् वि हि नीनशः |
    मोत सूरो अह एवा चन ग्रीवा आदधते वेः ||

    mā́ kākambī́ramúdvṛho vánaspátimáśastīrví hí nī́naśaḥ ǀ
    mótá sū́ro áha evā́ caná grīvā́ ādádhate véḥ ǁ

    mā kākambīram ud vṛho vanaspatim aśastīr vi hi nīnaśaḥ |
    mota sūro aha evā cana grīvā ādadhate veḥ ||

    मा । का॒क॒म्बीर॑म् । उत् । वृ॒हः॒ । वन॒स्पति॑म् । अश॑स्तीः । वि । हि । नीन॑शः ।
    मा । उ॒त । सूरः॑ । अह॒रिति॑ । ए॒व । च॒न । ग्री॒वाः । आ॒ऽदध॑ते । वेरिति॒ वेः ॥

    मा । काकम्बीरम् । उत् । वृहः । वनस्पतिम् । अशस्तीः । वि । हि । नीनशः ।
    मा । उत । सूरः । अहरिति । एव । चन । ग्रीवाः । आऽदधते । वेरिति वेः ॥

    mā́ ǀ kākambī́ram ǀ út ǀ vṛhaḥ ǀ vánaspátim ǀ áśastīḥ ǀ ví ǀ hí ǀ nī́naśaḥ ǀ
    mā́ ǀ utá ǀ sū́raḥ ǀ áharíti ǀ evá ǀ caná ǀ grīvā́ḥ ǀ ā-dádhate ǀ véríti véḥ ǁ

    mā ǀ kākambīram ǀ ut ǀ vṛhaḥ ǀ vanaspatim ǀ aśastīḥ ǀ vi ǀ hi ǀ nīnaśaḥ ǀ
    mā ǀ uta ǀ sūraḥ ǀ ahariti ǀ eva ǀ cana ǀ grīvāḥ ǀ ā-dadhate ǀ veriti veḥ ǁ

    6.48.17 Aṣṭaka 4.8.4.1Anuvāka 6.4.119

  18. Ṛk 18

    दृते॑रिव तेऽवृ॒कम॑स्तु स॒ख्यं ।
    अच्छि॑द्रस्य दध॒न्वतः॒ सुपू॑र्णस्य दध॒न्वतः॑ ॥

    दृतेर् इव ते ऽवृकम् अस्तु सख्यम् |
    अच्छिद्रस्य दधन्वतः सुपूर्णस्य दधन्वतः ||

    dṛ́teriva te’vṛkámastu sakhyám ǀ
    ácchidrasya dadhanvátaḥ súpūrṇasya dadhanvátaḥ ǁ

    dṛter iva te 'vṛkam astu sakhyam |
    acchidrasya dadhanvataḥ supūrṇasya dadhanvataḥ ||

    दृतेः॑ऽइव । ते॒ । अ॒वृ॒कम् । अ॒स्तु॒ । स॒ख्यम् ।
    अच्छि॑द्रस्य । द॒ध॒न्ऽवतः॑ । सुऽपू॑र्णस्य । द॒ध॒न्ऽवतः॑ ॥

    दृतेःऽइव । ते । अवृकम् । अस्तु । सख्यम् ।
    अच्छिद्रस्य । दधन्ऽवतः । सुऽपूर्णस्य । दधन्ऽवतः ॥

    dṛ́teḥ-iva ǀ te ǀ avṛkám ǀ astu ǀ sakhyám ǀ
    ácchidrasya ǀ dadhan-vátaḥ ǀ sú-pūrṇasya ǀ dadhan-vátaḥ ǁ

    dṛteḥ-iva ǀ te ǀ avṛkam ǀ astu ǀ sakhyam ǀ
    acchidrasya ǀ dadhan-vataḥ ǀ su-pūrṇasya ǀ dadhan-vataḥ ǁ

    6.48.18 Aṣṭaka 4.8.4.2Anuvāka 6.4.120

  19. Ṛk 19

    प॒रो हि मर्त्यै॒रसि॑ स॒मो दे॒वैरु॒त श्रि॒या ।
    अ॒भि ख्यः॑ पूष॒न्पृत॑नासु न॒स्त्वमवा॑ नू॒नं यथा॑ पु॒रा ॥

    परो हि मर्त्यैर् असि समो देवैर् उत श्रिया |
    अभि ख्यः पूषन् पृतनासु नस् त्वम् अवा नूनं यथा पुरा ||

    paró hí mártyairási samó deváirutá śriyā́ ǀ
    abhí khyaḥ pūṣanpṛ́tanāsu nastvámávā nūnám yáthā purā́ ǁ

    paro hi martyair asi samo devair uta śriyā |
    abhi khyaḥ pūṣan pṛtanāsu nas tvam avā nūnaṃ yathā purā ||

    प॒रः । हि । मर्त्यैः॑ । असि॑ । स॒मः । दे॒वैः । उ॒त । श्रि॒या ।
    अ॒भि । ख्यः॒ । पू॒ष॒न् । पृत॑नासु । नः॒ । त्वम् । अव॑ । नू॒नम् । यथा॑ । पु॒रा ॥

    परः । हि । मर्त्यैः । असि । समः । देवैः । उत । श्रिया ।
    अभि । ख्यः । पूषन् । पृतनासु । नः । त्वम् । अव । नूनम् । यथा । पुरा ॥

    paráḥ ǀ hí ǀ mártyaiḥ ǀ ási ǀ samáḥ ǀ deváiḥ ǀ utá ǀ śriyā́ ǀ
    abhí ǀ khyaḥ ǀ pūṣan ǀ pṛ́tanāsu ǀ naḥ ǀ tvám ǀ áva ǀ nūnám ǀ yáthā ǀ purā́ ǁ

    paraḥ ǀ hi ǀ martyaiḥ ǀ asi ǀ samaḥ ǀ devaiḥ ǀ uta ǀ śriyā ǀ
    abhi ǀ khyaḥ ǀ pūṣan ǀ pṛtanāsu ǀ naḥ ǀ tvam ǀ ava ǀ nūnam ǀ yathā ǀ purā ǁ

    6.48.19 Aṣṭaka 4.8.4.3Anuvāka 6.4.121

  20. Ṛk 20

    वा॒मी वा॒मस्य॑ धूतयः॒ प्रणी॑तिरस्तु सू॒नृता॑ ।
    दे॒वस्य॑ वा मरुतो॒ मर्त्य॑स्य वेजा॒नस्य॑ प्रयज्यवः ॥

    वामी वामस्य धूतयः प्रणीतिर् अस्तु सूनृता |
    देवस्य वा मरुतो मर्त्यस्य वेजानस्य प्रयज्यवः ||

    vāmī́ vāmásya dhūtayaḥ práṇītirastu sūnṛ́tā ǀ
    devásya vā maruto mártyasya vejānásya prayajyavaḥ ǁ

    vāmī vāmasya dhūtayaḥ praṇītir astu sūnṛtā |
    devasya vā maruto martyasya vejānasya prayajyavaḥ ||

    वा॒मी । वा॒मस्य॑ । धू॒त॒यः॒ । प्रऽनी॑तिः । अ॒स्तु॒ । सू॒नृता॑ ।
    दे॒वस्य॑ । वा॒ । म॒रु॒तः॒ । मर्त्य॑स्य । वा॒ । ई॒जा॒नस्य॑ । प्र॒ऽय॒ज्य॒वः॒ ॥

    वामी । वामस्य । धूतयः । प्रऽनीतिः । अस्तु । सूनृता ।
    देवस्य । वा । मरुतः । मर्त्यस्य । वा । ईजानस्य । प्रऽयज्यवः ॥

    vāmī́ ǀ vāmásya ǀ dhūtayaḥ ǀ prá-nītiḥ ǀ astu ǀ sūnṛ́tā ǀ
    devásya ǀ vā ǀ marutaḥ ǀ mártyasya ǀ vā ǀ ījānásya ǀ pra-yajyavaḥ ǁ

    vāmī ǀ vāmasya ǀ dhūtayaḥ ǀ pra-nītiḥ ǀ astu ǀ sūnṛtā ǀ
    devasya ǀ vā ǀ marutaḥ ǀ martyasya ǀ vā ǀ ījānasya ǀ pra-yajyavaḥ ǁ

    6.48.20 Aṣṭaka 4.8.4.4Anuvāka 6.4.122

  21. Ṛk 21

    स॒द्यश्चि॒द्यस्य॑ चर्कृ॒तिः परि॒ द्यां दे॒वो नैति॒ सूर्यः॑ ।
    त्वे॒षं शवो॑ दधिरे॒ नाम॑ य॒ज्ञियं॑ म॒रुतो॑ वृत्र॒हं शवो॒ ज्येष्ठं॑ वृत्र॒हं शवः॑ ॥

    सद्यश् चिद् यस्य चर्कृतिः परि द्यां देवो नैति सूर्यः |
    त्वेषं शवो दधिरे नाम यज्ञियम् मरुतो वृत्रहं शवो ज्येष्ठं वृत्रहं शवः ||

    sadyáścidyásya carkṛtíḥ pári dyā́m devó náiti sū́ryaḥ ǀ
    tveṣám śávo dadhire nā́ma yajñíyam marúto vṛtrahám śávo jyéṣṭham vṛtrahám śávaḥ ǁ

    sadyaś cid yasya carkṛtiḥ pari dyāṃ devo naiti sūryaḥ |
    tveṣaṃ śavo dadhire nāma yajñiyam maruto vṛtrahaṃ śavo jyeṣṭhaṃ vṛtrahaṃ śavaḥ ||

    स॒द्यः । चि॒त् । यस्य॑ । च॒र्कृ॒तिः । परि॑ । द्याम् । दे॒वः । न । एति॑ । सूर्यः॑ ।
    त्वे॒षम् । शवः॑ । द॒धि॒रे॒ । नाम॑ । य॒ज्ञिय॑म् । म॒रुतः॑ । वृत्र॒ऽहम् । शवः॑ । ज्येष्ठ॑म् । वृत्र॒ऽहम् । शवः॑ ॥

    सद्यः । चित् । यस्य । चर्कृतिः । परि । द्याम् । देवः । न । एति । सूर्यः ।
    त्वेषम् । शवः । दधिरे । नाम । यज्ञियम् । मरुतः । वृत्रऽहम् । शवः । ज्येष्ठम् । वृत्रऽहम् । शवः ॥

    sadyáḥ ǀ cit ǀ yásya ǀ carkṛtíḥ ǀ pári ǀ dyā́m ǀ deváḥ ǀ ná ǀ éti ǀ sū́ryaḥ ǀ
    tveṣám ǀ śávaḥ ǀ dadhire ǀ nā́ma ǀ yajñíyam ǀ marútaḥ ǀ vṛ́tra-hám ǀ śávaḥ ǀ jyéṣṭham ǀ vṛ́tra-hám ǀ śávaḥ ǁ

    sadyaḥ ǀ cit ǀ yasya ǀ carkṛtiḥ ǀ pari ǀ dyām ǀ devaḥ ǀ na ǀ eti ǀ sūryaḥ ǀ
    tveṣam ǀ śavaḥ ǀ dadhire ǀ nāma ǀ yajñiyam ǀ marutaḥ ǀ vṛtra-ham ǀ śavaḥ ǀ jyeṣṭham ǀ vṛtra-ham ǀ śavaḥ ǁ

    6.48.21 Aṣṭaka 4.8.4.5Anuvāka 6.4.123

  22. Ṛk 22

    स॒कृद्ध॒ द्यौर॑जायत स॒कृद्भूमि॑रजायत ।
    पृश्न्या॑ दु॒ग्धं स॒कृत्पय॒स्तद॒न्यो नानु॑ जायते ॥

    सकृद् ध द्यौर् अजायत सकृद् भूमिर् अजायत |
    पृश्न्या दुग्धं सकृत् पयस् तद् अन्यो नानु जायते ||

    sakṛ́ddha dyáurajāyata sakṛ́dbhū́mirajāyata ǀ
    pṛ́śnyā dugdhám sakṛ́tpáyastádanyó nā́nu jāyate ǁ

    sakṛd dha dyaur ajāyata sakṛd bhūmir ajāyata |
    pṛśnyā dugdhaṃ sakṛt payas tad anyo nānu jāyate ||

    स॒कृत् । ह॒ । द्यौः । अ॒जा॒य॒त॒ । स॒कृत् । भूमिः॑ । अ॒जा॒य॒त॒ ।
    पृश्न्याः॑ । दु॒ग्धम् । स॒कृत् । पयः॑ । तत् । अ॒न्यः । न । अनु॑ । जा॒य॒ते॒ ॥

    सकृत् । ह । द्यौः । अजायत । सकृत् । भूमिः । अजायत ।
    पृश्न्याः । दुग्धम् । सकृत् । पयः । तत् । अन्यः । न । अनु । जायते ॥

    sakṛ́t ǀ ha ǀ dyáuḥ ǀ ajāyata ǀ sakṛ́t ǀ bhū́miḥ ǀ ajāyata ǀ
    pṛ́śnyāḥ ǀ dugdhám ǀ sakṛ́t ǀ páyaḥ ǀ tát ǀ anyáḥ ǀ ná ǀ ánu ǀ jāyate ǁ

    sakṛt ǀ ha ǀ dyauḥ ǀ ajāyata ǀ sakṛt ǀ bhūmiḥ ǀ ajāyata ǀ
    pṛśnyāḥ ǀ dugdham ǀ sakṛt ǀ payaḥ ǀ tat ǀ anyaḥ ǀ na ǀ anu ǀ jāyate ǁ

    6.48.22 Aṣṭaka 4.8.4.6Anuvāka 6.4.124

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 6.48 · Agni · Maruts · Maruts Or Liṅgoktadevatās · Pūṣan · Maruts Or Heaven And Earth Or Pṛśni

Interpretations

Ralph T. H. Griffith

Ṛk 1

SING to your Agni with each song, at every sacrifice, for strength. Come, let us praise the Wise and Everlasting God, even as a well-beloved Friend,

Ṛk 2

The Son of Strength; for is he not our gracious Lord? Let us serve him who bears our gifts. In battle may he be our help and strengthener, yea, be the saviour of our lives.

Ṛk 3

Agni, thou beamest forth with light, great Hero, never changed by time. Shining, pure Agni! with a light that never fades, beam with thy fair beams brilliantly.

Ṛk 4

Thou worshippest great Gods: bring them without delay by wisdom and thy wondrous power. O Agni, make them turn hither to succour us. Give strength, and win it for thyself.

Ṛk 5

He whom floods, stones, and trees support, the offspring of eternal Law; He who when rubbed with force is brought to life by men upon the lofty height of earth;

Ṛk 6

He who hath filled both worlds fult with his brilliant shine, who hastens with his smoke to heaven; He made himself apparent through the gloom by night, the Red Bull in the darksome nights, the Red Bull in the darksome nights.

Ṛk 7

O Agni, with thy lofty beams, with thy pure brilliancy, O God, Kindled, Most Youthful One! by Bharadvāja's hand, shine on us, O pure God, with wealth, shine, Purifier! splendidly.

Ṛk 8

Thou art the Lord of house and home of all the tribes, O Agni, of all tribes of men. Guard with a hundred forts thy kindler from distress, through hundred winters, Youngest God! and those who make thy singers rich.

Ṛk 9

Wonderful, with thy favouring help, send us thy bounties, gracious Lord. Thou art the Charioteer, Agni, of earthly wealth: find rest and safety for our seed.

Ṛk 10

With guards unfailing never negligent speed thou our children and our progeny. Keep far from us, O Agni, all celestial wrath and wickedness of godless men.

Ṛk 11

Hither, O friends, with newest song drive her who freely pours her milk; Loose her who never turns away;

Ṛk 12

Who, for the host of Maruts bright with native sheen, hath shed immortal fame like milk; Whom the impetuous Maruts look upon with love, who moves in splendour on their ways.

Ṛk 13

For Bharadvāja she poured down in days of old The milch-cow yielding milk for all, and food that gives all nourishment.

Ṛk 14

Your friend like Indra passing wise, with magic power like Varuṇa. Like Aryaman joy-giving, bringing plenteous food like ViSnxu for my wish, I praise,

Ṛk 15

Bright as the host of Maruts mighty in their roar. May they bring Pūṣan free from foes; May they bring hither hundreds, thousands for our men: may they bring hidden stores to light, and make wealth easy to be found.

Ṛk 16

Haste to me, Pūṣan, in thine car, bright Deity: I fain would speak: Most sinful is our foeman's hate.

Ṛk 17

Tear not up by the roots the Kakambira tree: destroy thou all malignity. Let them not snare by day the neck of that Celestial Bird the Sun.

Ṛk 18

Uninjured let thy friendship be, like the smooth surface of a skin, A flawless skin, containing curds, full to the mouth, containing curds.

Ṛk 19

For thou art high above mankind, in glory equal to the Gods. Therefore, O Pūṣan, look upon us in the fight: now help us as in days of old.

Ṛk 20

May the kind excellence of him the Kind, loud Roarers! be our guide, Be it the God's, O Maruts, or a mortal man's who worships, ye impetuous Ones!

Ṛk 21

They whose high glory in a moment like the God, the Sun, goes round the space of heaven, The Maruts have obtained bright strength, a sacred name, strength that destroys the Vṛtras, strength Vṛtra-destroying excellent.