Ṛgveda · Maṇḍala 6

Sūkta 52

Viśvedevās · Ṛjiśvan Bhāradvāja · 17 ṛks

Link
Devatā देवता
Viśvedevās
Ṛṣi ऋषि
Ṛjiśvan Bhāradvāja
Chandas छन्दस्
Triṣṭubh, Gāyatrī, Jagatī
Metres by ṛk

1st set of styles triṣṭup (2, 3, 6, 13, 17); nicṛttriṣṭup (1, 4, 15, 16); gāyatrī (7, 8, 11); nicṛdgāyatrī (9, 10, 12); bhurikpaṅkti (5); virāḍjagatī (14)

2nd set of styles triṣṭubh (1-6, 13, 15-17); gāyatrī (7-12); jagatī (14)

  1. Ṛk 1

    न तद्दि॒वा न पृ॑थि॒व्यानु॑ मन्ये॒ न य॒ज्ञेन॒ नोत शमी॑भिरा॒भिः ।
    उ॒ब्जंतु॒ तं सु॒भ्वः१॒॑ पर्व॑तासो॒ नि ही॑यतामतिया॒जस्य॑ य॒ष्टा ॥

    न तद् दिवा न पृथिव्यानु मन्ये न यज्ञेन नोत शमीभिर् आभिः |
    उब्जन्तु तं सुभ्वः पर्वतासो नि हीयताम् अतियाजस्य यष्टा ||

    ná táddivā́ ná pṛthivyā́nu manye ná yajñéna nótá śámībhirābhíḥ ǀ
    ubjántu tám subhváḥ párvatāso ní hīyatāmatiyājásya yaṣṭā́ ǁ

    na tad divā na pṛthivyānu manye na yajñena nota śamībhir ābhiḥ |
    ubjantu taṃ subhvaḥ parvatāso ni hīyatām atiyājasya yaṣṭā ||

    न । तत् । दि॒वा । न । पृ॒थि॒व्या । अनु॑ । म॒न्ये॒ । न । य॒ज्ञेन॑ । न । उ॒त । शमी॑भिः । आ॒भिः ।
    उ॒ब्जन्तु॑ । तम् । सु॒ऽभ्वः॑ । पर्व॑तासः । नि । ही॒य॒ता॒म् । अ॒ति॒ऽया॒जस्य॑ । य॒ष्टा ॥

    न । तत् । दिवा । न । पृथिव्या । अनु । मन्ये । न । यज्ञेन । न । उत । शमीभिः । आभिः ।
    उब्जन्तु । तम् । सुऽभ्वः । पर्वतासः । नि । हीयताम् । अतिऽयाजस्य । यष्टा ॥

    ná ǀ tát ǀ divā́ ǀ ná ǀ pṛthivyā́ ǀ ánu ǀ manye ǀ ná ǀ yajñéna ǀ ná ǀ utá ǀ śámībhiḥ ǀ ābhíḥ ǀ
    ubjántu ǀ tám ǀ su-bhváḥ ǀ párvatāsaḥ ǀ ní ǀ hīyatām ǀ ati-yājásya ǀ yaṣṭā́ ǁ

    na ǀ tat ǀ divā ǀ na ǀ pṛthivyā ǀ anu ǀ manye ǀ na ǀ yajñena ǀ na ǀ uta ǀ śamībhiḥ ǀ ābhiḥ ǀ
    ubjantu ǀ tam ǀ su-bhvaḥ ǀ parvatāsaḥ ǀ ni ǀ hīyatām ǀ ati-yājasya ǀ yaṣṭā ǁ

    6.52.1 Aṣṭaka 4.8.14.1Anuvāka 6.5.32

  2. Ṛk 2

    अति॑ वा॒ यो म॑रुतो॒ मन्य॑ते नो॒ ब्रह्म॑ वा॒ यः क्रि॒यमा॑णं॒ निनि॑त्सात् ।
    तपूं॑षि॒ तस्मै॑ वृजि॒नानि॑ संतु ब्रह्म॒द्विष॑म॒भि तं शो॑चतु॒ द्यौः ॥

    अति वा यो मरुतो मन्यते नो ब्रह्म वा यः क्रियमाणं निनित्सात् |
    तपूंषि तस्मै वृजिनानि सन्तु ब्रह्मद्विषम् अभि तं शोचतु द्यौः ||

    áti vā yó maruto mányate no bráhma vā yáḥ kriyámāṇam nínitsāt ǀ
    tápūṃṣi tásmai vṛjinā́ni santu brahmadvíṣamabhí tám śocatu dyáuḥ ǁ

    ati vā yo maruto manyate no brahma vā yaḥ kriyamāṇaṃ ninitsāt |
    tapūṃṣi tasmai vṛjināni santu brahmadviṣam abhi taṃ śocatu dyauḥ ||

    अति॑ । वा॒ । यः । म॒रु॒तः॒ । मन्य॑ते । नः॒ । ब्रह्म॑ । वा॒ । यः । क्रि॒यमा॑णम् । निनि॑त्सात् ।
    तपूं॑षि । तस्मै॑ । वृ॒जि॒नानि॑ । स॒न्तु॒ । ब्र॒ह्म॒ऽद्विष॑म् । अ॒भि । तम् । शो॒च॒तु॒ । द्यौः ॥

    अति । वा । यः । मरुतः । मन्यते । नः । ब्रह्म । वा । यः । क्रियमाणम् । निनित्सात् ।
    तपूंषि । तस्मै । वृजिनानि । सन्तु । ब्रह्मऽद्विषम् । अभि । तम् । शोचतु । द्यौः ॥

    áti ǀ vā ǀ yáḥ ǀ marutaḥ ǀ mányate ǀ naḥ ǀ bráhma ǀ vā ǀ yáḥ ǀ kriyámāṇam ǀ nínitsāt ǀ
    tápūṃṣi ǀ tásmai ǀ vṛjinā́ni ǀ santu ǀ brahma-dvíṣam ǀ abhí ǀ tám ǀ śocatu ǀ dyáuḥ ǁ

    ati ǀ vā ǀ yaḥ ǀ marutaḥ ǀ manyate ǀ naḥ ǀ brahma ǀ vā ǀ yaḥ ǀ kriyamāṇam ǀ ninitsāt ǀ
    tapūṃṣi ǀ tasmai ǀ vṛjināni ǀ santu ǀ brahma-dviṣam ǀ abhi ǀ tam ǀ śocatu ǀ dyauḥ ǁ

    6.52.2 Aṣṭaka 4.8.14.2Anuvāka 6.5.33

  3. Ṛk 3

    किमं॒ग त्वा॒ ब्रह्म॑णः सोम गो॒पां किमं॒ग त्वा॑हुरभिशस्ति॒पां नः॑ ।
    किमं॒ग नः॑ पश्यसि नि॒द्यमा॑नान्ब्रह्म॒द्विषे॒ तपु॑षिं हे॒तिम॑स्य ॥

    किम् अङ्ग त्वा ब्रह्मणः सोम गोपां किम् अङ्ग त्वाहुर् अभिशस्तिपां नः |
    किम् अङ्ग नः पश्यसि निद्यमानान् ब्रह्मद्विषे तपुषिं हेतिम् अस्य ||

    kímaṅgá tvā bráhmaṇaḥ soma gopā́m kímaṅgá tvāhurabhiśastipā́m naḥ ǀ
    kímaṅgá naḥ paśyasi nidyámānānbrahmadvíṣe tápuṣim hetímasya ǁ

    kim aṅga tvā brahmaṇaḥ soma gopāṃ kim aṅga tvāhur abhiśastipāṃ naḥ |
    kim aṅga naḥ paśyasi nidyamānān brahmadviṣe tapuṣiṃ hetim asya ||

    किम् । अ॒ङ्ग । त्वा॒ । ब्रह्म॑णः । सो॒म॒ । गो॒पाम् । किम् । अ॒ङ्ग । त्वा॒ । आ॒हुः॒ । अ॒भि॒श॒स्ति॒ऽपाम् । नः॒ ।
    किम् । अ॒ङ्ग । नः॒ । प॒श्य॒सि॒ । नि॒द्यमा॑नान् । ब्र॒ह्म॒ऽद्विषे॑ । तपु॑षिम् । हे॒तिम् । अ॒स्य॒ ॥

    किम् । अङ्ग । त्वा । ब्रह्मणः । सोम । गोपाम् । किम् । अङ्ग । त्वा । आहुः । अभिशस्तिऽपाम् । नः ।
    किम् । अङ्ग । नः । पश्यसि । निद्यमानान् । ब्रह्मऽद्विषे । तपुषिम् । हेतिम् । अस्य ॥

    kím ǀ aṅgá ǀ tvā ǀ bráhmaṇaḥ ǀ soma ǀ gopā́m ǀ kím ǀ aṅgá ǀ tvā ǀ āhuḥ ǀ abhiśasti-pā́m ǀ naḥ ǀ
    kím ǀ aṅgá ǀ naḥ ǀ paśyasi ǀ nidyámānān ǀ brahma-dvíṣe ǀ tápuṣim ǀ hetím ǀ asya ǁ

    kim ǀ aṅga ǀ tvā ǀ brahmaṇaḥ ǀ soma ǀ gopām ǀ kim ǀ aṅga ǀ tvā ǀ āhuḥ ǀ abhiśasti-pām ǀ naḥ ǀ
    kim ǀ aṅga ǀ naḥ ǀ paśyasi ǀ nidyamānān ǀ brahma-dviṣe ǀ tapuṣim ǀ hetim ǀ asya ǁ

    6.52.3 Aṣṭaka 4.8.14.3Anuvāka 6.5.34

  4. Ṛk 4

    अवं॑तु॒ मामु॒षसो॒ जाय॑माना॒ अवं॑तु मा॒ सिंध॑वः॒ पिन्व॑मानाः ।
    अवं॑तु मा॒ पर्व॑तासो ध्रु॒वासोऽवं॑तु मा पि॒तरो॑ दे॒वहू॑तौ ॥

    अवन्तु माम् उषसो जायमाना अवन्तु मा सिन्धवः पिन्वमानाः |
    अवन्तु मा पर्वतासो ध्रुवासो ऽवन्तु मा पितरो देवहूतौ ||

    ávantu mā́muṣáso jā́yamānā ávantu mā síndhavaḥ pínvamānāḥ ǀ
    ávantu mā párvatāso dhruvā́só’vantu mā pitáro deváhūtau ǁ

    avantu mām uṣaso jāyamānā avantu mā sindhavaḥ pinvamānāḥ |
    avantu mā parvatāso dhruvāso 'vantu mā pitaro devahūtau ||

    अव॑न्तु । माम् । उ॒षसः॑ । जाय॑मानाः । अव॑न्तु । मा॒ । सिन्ध॑वः । पिन्व॑मानाः ।
    अव॑न्तु । मा॒ । पर्व॑तासः । ध्रु॒वासः॑ । अव॑न्तु । मा॒ । पि॒तरः॑ । दे॒वऽहू॑तौ ॥

    अवन्तु । माम् । उषसः । जायमानाः । अवन्तु । मा । सिन्धवः । पिन्वमानाः ।
    अवन्तु । मा । पर्वतासः । ध्रुवासः । अवन्तु । मा । पितरः । देवऽहूतौ ॥

    ávantu ǀ mā́m ǀ uṣásaḥ ǀ jā́yamānāḥ ǀ ávantu ǀ mā ǀ síndhavaḥ ǀ pínvamānāḥ ǀ
    ávantu ǀ mā ǀ párvatāsaḥ ǀ dhruvā́saḥ ǀ ávantu ǀ mā ǀ pitáraḥ ǀ devá-hūtau ǁ

    avantu ǀ mām ǀ uṣasaḥ ǀ jāyamānāḥ ǀ avantu ǀ mā ǀ sindhavaḥ ǀ pinvamānāḥ ǀ
    avantu ǀ mā ǀ parvatāsaḥ ǀ dhruvāsaḥ ǀ avantu ǀ mā ǀ pitaraḥ ǀ deva-hūtau ǁ

    6.52.4 Aṣṭaka 4.8.14.4Anuvāka 6.5.35

  5. Ṛk 5

    वि॒श्व॒दानीं॑ सु॒मन॑सः स्याम॒ पश्ये॑म॒ नु सूर्य॑मु॒च्चरं॑तं ।
    तथा॑ कर॒द्वसु॑पति॒र्वसू॑नां दे॒वाँ ओहा॒नोऽव॒साग॑मिष्ठः ॥

    विश्वदानीं सुमनसः स्याम पश्येम नु सूर्यम् उच्चरन्तम् |
    तथा करद् वसुपतिर् वसूनां देवां ओहानो ऽवसागमिष्ठः ||

    viśvadā́nīm sumánasaḥ syāma páśyema nú sū́ryamuccárantam ǀ
    táthā karadvásupatirvásūnām devā́m̐ óhānó’vasā́gamiṣṭhaḥ ǁ

    viśvadānīṃ sumanasaḥ syāma paśyema nu sūryam uccarantam |
    tathā karad vasupatir vasūnāṃ devāṃ ohāno 'vasāgamiṣṭhaḥ ||

    वि॒श्व॒ऽदानी॑म् । सु॒ऽमन॑सः । स्या॒म॒ । पश्ये॑म । नु । सूर्य॑म् । उ॒त्ऽचर॑न्तम् ।
    तथा॑ । क॒र॒त् । वसु॑ऽपतिः । वसू॑नाम् । दे॒वान् । ओहा॑नः । अव॑सा । आऽग॑मिष्ठः ॥

    विश्वऽदानीम् । सुऽमनसः । स्याम । पश्येम । नु । सूर्यम् । उत्ऽचरन्तम् ।
    तथा । करत् । वसुऽपतिः । वसूनाम् । देवान् । ओहानः । अवसा । आऽगमिष्ठः ॥

    viśva-dā́nīm ǀ su-mánasaḥ ǀ syāma ǀ páśyema ǀ nú ǀ sū́ryam ǀ ut-cárantam ǀ
    táthā ǀ karat ǀ vásu-patiḥ ǀ vásūnām ǀ devā́n ǀ óhānaḥ ǀ ávasā ǀ ā́-gamiṣṭhaḥ ǁ

    viśva-dānīm ǀ su-manasaḥ ǀ syāma ǀ paśyema ǀ nu ǀ sūryam ǀ ut-carantam ǀ
    tathā ǀ karat ǀ vasu-patiḥ ǀ vasūnām ǀ devān ǀ ohānaḥ ǀ avasā ǀ ā-gamiṣṭhaḥ ǁ

    6.52.5 Aṣṭaka 4.8.14.5Anuvāka 6.5.36

  6. Ṛk 6

    इंद्रो॒ नेदि॑ष्ठ॒मव॒साग॑मिष्ठः॒ सर॑स्वती॒ सिंधु॑भिः॒ पिन्व॑माना ।
    प॒र्जन्यो॑ न॒ ओष॑धीभिर्मयो॒भुर॒ग्निः सु॒शंसः॑ सु॒हवः॑ पि॒तेव॑ ॥

    इन्द्रो नेदिष्ठम् अवसागमिष्ठः सरस्वती सिन्धुभिः पिन्वमाना |
    पर्जन्यो न ओषधीभिर् मयोभुर् अग्निः सुशंसः सुहवः पितेव ||

    índro nédiṣṭhamávasā́gamiṣṭhaḥ sárasvatī síndhubhiḥ pínvamānā ǀ
    parjányo na óṣadhībhirmayobhúragníḥ suśáṃsaḥ suhávaḥ pitéva ǁ

    indro nediṣṭham avasāgamiṣṭhaḥ sarasvatī sindhubhiḥ pinvamānā |
    parjanyo na oṣadhībhir mayobhur agniḥ suśaṃsaḥ suhavaḥ piteva ||

    इन्द्रः॑ । नेदि॑ष्ठम् । अव॑सा । आऽग॑मिष्ठः । सर॑स्वती । सिन्धु॑ऽभिः । पिन्व॑माना ।
    प॒र्जन्यः॑ । नः॒ । ओष॑धीभिः । म॒यः॒ऽभुः । अ॒ग्निः । सु॒ऽशंसः॑ । सु॒ऽहवः॑ । पि॒ताऽइ॑व ॥

    इन्द्रः । नेदिष्ठम् । अवसा । आऽगमिष्ठः । सरस्वती । सिन्धुऽभिः । पिन्वमाना ।
    पर्जन्यः । नः । ओषधीभिः । मयःऽभुः । अग्निः । सुऽशंसः । सुऽहवः । पिताऽइव ॥

    índraḥ ǀ nédiṣṭham ǀ ávasā ǀ ā́-gamiṣṭhaḥ ǀ sárasvatī ǀ síndhu-bhiḥ ǀ pínvamānā ǀ
    parjányaḥ ǀ naḥ ǀ óṣadhībhiḥ ǀ mayaḥ-bhúḥ ǀ agníḥ ǀ su-śáṃsaḥ ǀ su-hávaḥ ǀ pitā́-iva ǁ

    indraḥ ǀ nediṣṭham ǀ avasā ǀ ā-gamiṣṭhaḥ ǀ sarasvatī ǀ sindhu-bhiḥ ǀ pinvamānā ǀ
    parjanyaḥ ǀ naḥ ǀ oṣadhībhiḥ ǀ mayaḥ-bhuḥ ǀ agniḥ ǀ su-śaṃsaḥ ǀ su-havaḥ ǀ pitā-iva ǁ

    6.52.6 Aṣṭaka 4.8.15.1Anuvāka 6.5.37

  7. Ṛk 7

    विश्वे॑ देवास॒ आ ग॑त शृणु॒ता म॑ इ॒मं हवं॑ ।
    एदं ब॒र्हिर्नि षी॑दत ॥

    विश्वे देवास आ गत शृणुता म इमं हवम् |
    एदम् बर्हिर् नि षीदत ||

    víśve devāsa ā́ gata śṛṇutā́ ma imám hávam ǀ
    édám barhírní ṣīdata ǁ

    viśve devāsa ā gata śṛṇutā ma imaṃ havam |
    edam barhir ni ṣīdata ||

    विश्वे॑ । दे॒वा॒सः॒ । आ । ग॒त॒ । शृ॒णु॒त । मे॒ । इ॒मम् । हव॑म् ।
    आ । इ॒दम् । ब॒र्हिः । नि । सी॒द॒त॒ ॥

    विश्वे । देवासः । आ । गत । शृणुत । मे । इमम् । हवम् ।
    आ । इदम् । बर्हिः । नि । सीदत ॥

    víśve ǀ devāsaḥ ǀ ā́ ǀ gata ǀ śṛṇutá ǀ me ǀ imám ǀ hávam ǀ
    ā́ ǀ idám ǀ barhíḥ ǀ ní ǀ sīdata ǁ

    viśve ǀ devāsaḥ ǀ ā ǀ gata ǀ śṛṇuta ǀ me ǀ imam ǀ havam ǀ
    ā ǀ idam ǀ barhiḥ ǀ ni ǀ sīdata ǁ

    6.52.7 Aṣṭaka 4.8.15.2Anuvāka 6.5.38

  8. Ṛk 8

    यो वो॑ देवा घृ॒तस्नु॑ना ह॒व्येन॑ प्रति॒भूष॑ति ।
    तं विश्व॒ उप॑ गच्छथ ॥

    यो वो देवा घृतस्नुना हव्येन प्रतिभूषति |
    तं विश्व उप गच्छथ ||

    yó vo devā ghṛtásnunā havyéna pratibhū́ṣati ǀ
    tám víśva úpa gacchatha ǁ

    yo vo devā ghṛtasnunā havyena pratibhūṣati |
    taṃ viśva upa gacchatha ||

    यः । वः॒ । दे॒वाः॒ । घृ॒तऽस्नु॑ना । ह॒व्येन॑ । प्र॒ति॒ऽभूष॑ति ।
    तम् । विश्वे॑ । उप॑ । ग॒च्छ॒थ॒ ॥

    यः । वः । देवाः । घृतऽस्नुना । हव्येन । प्रतिऽभूषति ।
    तम् । विश्वे । उप । गच्छथ ॥

    yáḥ ǀ vaḥ ǀ devāḥ ǀ ghṛtá-snunā ǀ havyéna ǀ prati-bhū́ṣati ǀ
    tám ǀ víśve ǀ úpa ǀ gacchatha ǁ

    yaḥ ǀ vaḥ ǀ devāḥ ǀ ghṛta-snunā ǀ havyena ǀ prati-bhūṣati ǀ
    tam ǀ viśve ǀ upa ǀ gacchatha ǁ

    6.52.8 Aṣṭaka 4.8.15.3Anuvāka 6.5.39

  9. Ṛk 9

    उप॑ नः सू॒नवो॒ गिरः॑ शृ॒ण्वंत्व॒मृत॑स्य॒ ये ।
    सु॒मृ॒ळी॒का भ॑वंतु नः ॥

    उप नः सूनवो गिरः शृण्वन्त्व् अमृतस्य ये |
    सुमृऌईका भवन्तु नः ||

    úpa naḥ sūnávo gíraḥ śṛṇvántvamṛ́tasya yé ǀ
    sumṛḷīkā́ bhavantu naḥ ǁ

    upa naḥ sūnavo giraḥ śṛṇvantv amṛtasya ye |
    sumṛḷīkā bhavantu naḥ ||

    उप॑ । नः॒ । सू॒नवः॑ । गिरः॑ । शृ॒ण्वन्तु॑ । अ॒मृत॑स्य । ये ।
    सु॒ऽमृ॒ळी॒काः । भ॒व॒न्तु॒ । नः॒ ॥

    उप । नः । सूनवः । गिरः । शृण्वन्तु । अमृतस्य । ये ।
    सुऽमृळीकाः । भवन्तु । नः ॥

    úpa ǀ naḥ ǀ sūnávaḥ ǀ gíraḥ ǀ śṛṇvántu ǀ amṛ́tasya ǀ yé ǀ
    su-mṛḷīkā́ḥ ǀ bhavantu ǀ naḥ ǁ

    upa ǀ naḥ ǀ sūnavaḥ ǀ giraḥ ǀ śṛṇvantu ǀ amṛtasya ǀ ye ǀ
    su-mṛḷīkāḥ ǀ bhavantu ǀ naḥ ǁ

    6.52.9 Aṣṭaka 4.8.15.4Anuvāka 6.5.40

  10. Ṛk 10

    विश्वे॑ दे॒वा ऋ॑ता॒वृध॑ ऋ॒तुभि॑र्हवन॒श्रुतः॑ ।
    जु॒षंतां॒ युज्यं॒ पयः॑ ॥

    विश्वे देवा ऋतावृध ऋतुभिर् हवनश्रुतः |
    जुषन्तां युज्यम् पयः ||

    víśve devā́ ṛtāvṛ́dha ṛtúbhirhavanaśrútaḥ ǀ
    juṣántām yújyam páyaḥ ǁ

    viśve devā ṛtāvṛdha ṛtubhir havanaśrutaḥ |
    juṣantāṃ yujyam payaḥ ||

    विश्वे॑ । दे॒वाः । ऋ॒त॒ऽवृधः॑ । ऋ॒तुऽभिः॑ । ह॒व॒न॒ऽश्रुतः॑ ।
    जु॒षन्ता॑म् । युज्य॑म् । पयः॑ ॥

    विश्वे । देवाः । ऋतऽवृधः । ऋतुऽभिः । हवनऽश्रुतः ।
    जुषन्ताम् । युज्यम् । पयः ॥

    víśve ǀ devā́ḥ ǀ ṛta-vṛ́dhaḥ ǀ ṛtú-bhiḥ ǀ havana-śrútaḥ ǀ
    juṣántām ǀ yújyam ǀ páyaḥ ǁ

    viśve ǀ devāḥ ǀ ṛta-vṛdhaḥ ǀ ṛtu-bhiḥ ǀ havana-śrutaḥ ǀ
    juṣantām ǀ yujyam ǀ payaḥ ǁ

    6.52.10 Aṣṭaka 4.8.15.5Anuvāka 6.5.41

  11. Ṛk 11

    स्तो॒त्रमिंद्रो॑ म॒रुद्ग॑ण॒स्त्वष्टृ॑मान्मि॒त्रो अ॑र्य॒मा ।
    इ॒मा ह॒व्या जु॑षंत नः ॥

    स्तोत्रम् इन्द्रो मरुद्गणस् त्वष्टृमान् मित्रो अर्यमा |
    इमा हव्या जुषन्त नः ||

    stotrámíndro marúdgaṇastváṣṭṛmānmitró aryamā́ ǀ
    imā́ havyā́ juṣanta naḥ ǁ

    stotram indro marudgaṇas tvaṣṭṛmān mitro aryamā |
    imā havyā juṣanta naḥ ||

    स्तो॒त्रम् । इन्द्रः॑ । म॒रुत्ऽग॑णः । त्वष्टृ॑ऽमान् । मि॒त्रः । अ॒र्य॒मा ।
    इ॒मा । ह॒व्या । जु॒ष॒न्त॒ । नः॒ ॥

    स्तोत्रम् । इन्द्रः । मरुत्ऽगणः । त्वष्टृऽमान् । मित्रः । अर्यमा ।
    इमा । हव्या । जुषन्त । नः ॥

    stotrám ǀ índraḥ ǀ marút-gaṇaḥ ǀ tváṣṭṛ-mān ǀ mitráḥ ǀ aryamā́ ǀ
    imā́ ǀ havyā́ ǀ juṣanta ǀ naḥ ǁ

    stotram ǀ indraḥ ǀ marut-gaṇaḥ ǀ tvaṣṭṛ-mān ǀ mitraḥ ǀ aryamā ǀ
    imā ǀ havyā ǀ juṣanta ǀ naḥ ǁ

    6.52.11 Aṣṭaka 4.8.16.1Anuvāka 6.5.42

  12. Ṛk 12

    इ॒मं नो॑ अग्ने अध्व॒रं होत॑र्वयुन॒शो य॑ज ।
    चि॒कि॒त्वांदैव्यं॒ जनं॑ ॥

    इमं नो अग्ने अध्वरं होतर् वयुनशो यज |
    चिकित्वान् दैव्यं जनम् ||

    imám no agne adhvarám hótarvayunaśó yaja ǀ
    cikitvā́ndáivyam jánam ǁ

    imaṃ no agne adhvaraṃ hotar vayunaśo yaja |
    cikitvān daivyaṃ janam ||

    इ॒मम् । नः॒ । अ॒ग्ने॒ । अ॒ध्व॒रम् । होतः॑ । व॒यु॒न॒ऽशः । य॒ज॒ ।
    चि॒कि॒त्वान् । दैव्य॑म् । जन॑म् ॥

    इमम् । नः । अग्ने । अध्वरम् । होतः । वयुनऽशः । यज ।
    चिकित्वान् । दैव्यम् । जनम् ॥

    imám ǀ naḥ ǀ agne ǀ adhvarám ǀ hótaḥ ǀ vayuna-śáḥ ǀ yaja ǀ
    cikitvā́n ǀ dáivyam ǀ jánam ǁ

    imam ǀ naḥ ǀ agne ǀ adhvaram ǀ hotaḥ ǀ vayuna-śaḥ ǀ yaja ǀ
    cikitvān ǀ daivyam ǀ janam ǁ

    6.52.12 Aṣṭaka 4.8.16.2Anuvāka 6.5.43

  13. Ṛk 13

    विश्वे॑ देवाः शृणु॒तेमं हवं॑ मे॒ ये अं॒तरि॑क्षे॒ य उप॒ द्यवि॒ ष्ठ ।
    ये अ॑ग्निजि॒ह्वा उ॒त वा॒ यज॑त्रा आ॒सद्या॒स्मिन्ब॒र्हिषि॑ मादयध्वं ॥

    विश्वे देवाः शृणुतेमं हवम् मे ये अन्तरिक्षे य उप द्यवि ष्ठ |
    ये अग्निजिह्वा उत वा यजत्रा आसद्यास्मिन् बर्हिषि मादयध्वम् ||

    víśve devāḥ śṛṇutémám hávam me yé antárikṣe yá úpa dyávi ṣṭhá ǀ
    yé agnijihvā́ utá vā yájatrā āsádyāsmínbarhíṣi mādayadhvam ǁ

    viśve devāḥ śṛṇutemaṃ havam me ye antarikṣe ya upa dyavi ṣṭha |
    ye agnijihvā uta vā yajatrā āsadyāsmin barhiṣi mādayadhvam ||

    विश्वे॑ । दे॒वाः॒ । शृ॒णु॒त । इ॒मम् । हव॑म् । मे॒ । ये । अ॒न्तरि॑क्षे । ये । उप॑ । द्यवि॑ । स्थ ।
    ये । अ॒ग्नि॒ऽजि॒ह्वाः । उ॒त । वा॒ । यज॑त्राः । आ॒ऽसद्य॑ । अ॒स्मिन् । ब॒र्हिषि॑ । मा॒द॒य॒ध्व॒म् ॥

    विश्वे । देवाः । शृणुत । इमम् । हवम् । मे । ये । अन्तरिक्षे । ये । उप । द्यवि । स्थ ।
    ये । अग्निऽजिह्वाः । उत । वा । यजत्राः । आऽसद्य । अस्मिन् । बर्हिषि । मादयध्वम् ॥

    víśve ǀ devāḥ ǀ śṛṇutá ǀ imám ǀ hávam ǀ me ǀ yé ǀ antárikṣe ǀ yé ǀ úpa ǀ dyávi ǀ sthá ǀ
    yé ǀ agni-jihvā́ḥ ǀ utá ǀ vā ǀ yájatrāḥ ǀ ā-sádya ǀ asmín ǀ barhíṣi ǀ mādayadhvam ǁ

    viśve ǀ devāḥ ǀ śṛṇuta ǀ imam ǀ havam ǀ me ǀ ye ǀ antarikṣe ǀ ye ǀ upa ǀ dyavi ǀ stha ǀ
    ye ǀ agni-jihvāḥ ǀ uta ǀ vā ǀ yajatrāḥ ǀ ā-sadya ǀ asmin ǀ barhiṣi ǀ mādayadhvam ǁ

    6.52.13 Aṣṭaka 4.8.16.3Anuvāka 6.5.44

  14. Ṛk 14

    विश्वे॑ दे॒वा मम॑ शृण्वंतु य॒ज्ञिया॑ उ॒भे रोद॑सी अ॒पां नपा॑च्च॒ मन्म॑ ।
    मा वो॒ वचां॑सि परि॒चक्ष्या॑णि वोचं सु॒म्नेष्विद्वो॒ अंत॑मा मदेम ॥

    विश्वे देवा मम शृण्वन्तु यज्ञिया उभे रोदसी अपां नपाच् च मन्म |
    मा वो वचांसि परिचक्ष्याणि वोचं सुम्नेष्व् इद् वो अन्तमा मदेम ||

    víśve devā́ máma śṛṇvantu yajñíyā ubhé ródasī apā́m nápācca mánma ǀ
    mā́ vo vácāṃsi paricákṣyāṇi vocam sumnéṣvídvo ántamā madema ǁ

    viśve devā mama śṛṇvantu yajñiyā ubhe rodasī apāṃ napāc ca manma |
    mā vo vacāṃsi paricakṣyāṇi vocaṃ sumneṣv id vo antamā madema ||

    विश्वे॑ । दे॒वाः । मम॑ । शृ॒ण्व॒न्तु॒ । य॒ज्ञियाः॑ । उ॒भे इति॑ । रोद॑सी॒ इति॑ । अ॒पाम् । नपा॑त् । च॒ । मन्म॑ ।
    मा । वः॒ । वचां॑सि । प॒रि॒ऽचक्ष्या॑णि । वो॒च॒म् । सु॒म्नेषु॑ । इत् । वः॒ । अन्त॑माः । म॒दे॒म॒ ॥

    विश्वे । देवाः । मम । शृण्वन्तु । यज्ञियाः । उभे इति । रोदसी इति । अपाम् । नपात् । च । मन्म ।
    मा । वः । वचांसि । परिऽचक्ष्याणि । वोचम् । सुम्नेषु । इत् । वः । अन्तमाः । मदेम ॥

    víśve ǀ devā́ḥ ǀ máma ǀ śṛṇvantu ǀ yajñíyāḥ ǀ ubhé íti ǀ ródasī íti ǀ apā́m ǀ nápāt ǀ ca ǀ mánma ǀ
    mā́ ǀ vaḥ ǀ vácāṃsi ǀ pari-cákṣyāṇi ǀ vocam ǀ sumnéṣu ǀ ít ǀ vaḥ ǀ ántamāḥ ǀ madema ǁ

    viśve ǀ devāḥ ǀ mama ǀ śṛṇvantu ǀ yajñiyāḥ ǀ ubhe iti ǀ rodasī iti ǀ apām ǀ napāt ǀ ca ǀ manma ǀ
    mā ǀ vaḥ ǀ vacāṃsi ǀ pari-cakṣyāṇi ǀ vocam ǀ sumneṣu ǀ it ǀ vaḥ ǀ antamāḥ ǀ madema ǁ

    6.52.14 Aṣṭaka 4.8.16.4Anuvāka 6.5.45

  15. Ṛk 15

    ये के च॒ ज्मा म॒हिनो॒ अहि॑माया दि॒वो ज॑ज्ञि॒रे अ॒पां स॒धस्थे॑ ।
    ते अ॒स्मभ्य॑मि॒षये॒ विश्व॒मायुः॒ क्षप॑ उ॒स्रा व॑रिवस्यंतु दे॒वाः ॥

    ये के च ज्मा महिनो अहिमाया दिवो जज्ञिरे अपां सधस्थे |
    ते अस्मभ्यम् इषये विश्वम् आयुः क्षप उस्रा वरिवस्यन्तु देवाः ||

    yé ké ca jmā́ mahíno áhimāyā divó jajñiré apā́m sadhásthe ǀ
    té asmábhyamiṣáye víśvamā́yuḥ kṣápa usrā́ varivasyantu devā́ḥ ǁ

    ye ke ca jmā mahino ahimāyā divo jajñire apāṃ sadhasthe |
    te asmabhyam iṣaye viśvam āyuḥ kṣapa usrā varivasyantu devāḥ ||

    ये । के । च॒ । ज्मा । म॒हिनः॑ । अहि॑ऽमायाः । दि॒वः । ज॒ज्ञि॒रे । अ॒पाम् । स॒धऽस्थे॑ ।
    ते । अ॒स्मभ्य॑म् । इ॒षये॑ । विश्व॑म् । आयुः॑ । क्षपः॑ । उ॒स्राः । व॒रि॒व॒स्य॒न्तु॒ । दे॒वाः ॥

    ये । के । च । ज्मा । महिनः । अहिऽमायाः । दिवः । जज्ञिरे । अपाम् । सधऽस्थे ।
    ते । अस्मभ्यम् । इषये । विश्वम् । आयुः । क्षपः । उस्राः । वरिवस्यन्तु । देवाः ॥

    yé ǀ ké ǀ ca ǀ jmā́ ǀ mahínaḥ ǀ áhi-māyāḥ ǀ diváḥ ǀ jajñiré ǀ apā́m ǀ sadhá-sthe ǀ
    té ǀ asmábhyam ǀ iṣáye ǀ víśvam ǀ ā́yuḥ ǀ kṣápaḥ ǀ usrā́ḥ ǀ varivasyantu ǀ devā́ḥ ǁ

    ye ǀ ke ǀ ca ǀ jmā ǀ mahinaḥ ǀ ahi-māyāḥ ǀ divaḥ ǀ jajñire ǀ apām ǀ sadha-sthe ǀ
    te ǀ asmabhyam ǀ iṣaye ǀ viśvam ǀ āyuḥ ǀ kṣapaḥ ǀ usrāḥ ǀ varivasyantu ǀ devāḥ ǁ

    6.52.15 Aṣṭaka 4.8.16.5Anuvāka 6.5.46

  16. Ṛk 16

    अग्नी॑पर्जन्या॒वव॑तं॒ धियं॑ मे॒ऽस्मिन्हवे॑ सुहवा सुष्टु॒तिं नः॑ ।
    इळा॑म॒न्यो ज॒नय॒द्गर्भ॑म॒न्यः प्र॒जाव॑ती॒रिष॒ आ ध॑त्तम॒स्मे ॥

    अग्नीपर्जन्याव् अवतं धियम् मे ऽस्मिन् हवे सुहवा सुष्टुतिं नः |
    इऌआम् अन्यो जनयद् गर्भम् अन्यः प्रजावतीर् इष आ धत्तम् अस्मे ||

    ágnīparjanyāvávatam dhíyam me’smínháve suhavā suṣṭutím naḥ ǀ
    íḷāmanyó janáyadgárbhamanyáḥ prajā́vatīríṣa ā́ dhattamasmé ǁ

    agnīparjanyāv avataṃ dhiyam me 'smin have suhavā suṣṭutiṃ naḥ |
    iḷām anyo janayad garbham anyaḥ prajāvatīr iṣa ā dhattam asme ||

    अग्नी॑पर्जन्यौ । अव॑तम् । धिय॑म् । मे॒ । अ॒स्मिन् । हवे॑ । सु॒ऽह॒वा॒ । सु॒ऽस्तु॒तिम् । नः॒ ।
    इळा॑म् । अ॒न्यः । ज॒नय॑त् । गर्भ॑म् । अ॒न्यः । प्र॒जाऽव॑तीः । इषः॑ । आ । ध॒त्त॒म् । अ॒स्मे इति॑ ॥

    अग्नीपर्जन्यौ । अवतम् । धियम् । मे । अस्मिन् । हवे । सुऽहवा । सुऽस्तुतिम् । नः ।
    इळाम् । अन्यः । जनयत् । गर्भम् । अन्यः । प्रजाऽवतीः । इषः । आ । धत्तम् । अस्मे इति ॥

    ágnīparjanyau ǀ ávatam ǀ dhíyam ǀ me ǀ asmín ǀ háve ǀ su-havā ǀ su-stutím ǀ naḥ ǀ
    íḷām ǀ anyáḥ ǀ janáyat ǀ gárbham ǀ anyáḥ ǀ prajā́-vatīḥ ǀ íṣaḥ ǀ ā́ ǀ dhattam ǀ asmé íti ǁ

    agnīparjanyau ǀ avatam ǀ dhiyam ǀ me ǀ asmin ǀ have ǀ su-havā ǀ su-stutim ǀ naḥ ǀ
    iḷām ǀ anyaḥ ǀ janayat ǀ garbham ǀ anyaḥ ǀ prajā-vatīḥ ǀ iṣaḥ ǀ ā ǀ dhattam ǀ asme iti ǁ

    6.52.16 Aṣṭaka 4.8.16.6Anuvāka 6.5.47

  17. Ṛk 17

    स्ती॒र्णे ब॒र्हिषि॑ समिधा॒ने अ॒ग्नौ सू॒क्तेन॑ म॒हा नम॒सा वि॑वासे ।
    अ॒स्मिन्नो॑ अ॒द्य वि॒दथे॑ यजत्रा॒ विश्वे॑ देवा ह॒विषि॑ मादयध्वं ॥

    स्तीर्णे बर्हिषि समिधाने अग्नौ सूक्तेन महा नमसा विवासे |
    अस्मिन् नो अद्य विदथे यजत्रा विश्वे देवा हविषि मादयध्वम् ||

    stīrṇé barhíṣi samidhāné agnáu sūkténa mahā́ námasā́ vivāse ǀ
    asmínno adyá vidáthe yajatrā víśve devā havíṣi mādayadhvam ǁ

    stīrṇe barhiṣi samidhāne agnau sūktena mahā namasā vivāse |
    asmin no adya vidathe yajatrā viśve devā haviṣi mādayadhvam ||

    स्ती॒र्णे । ब॒र्हिषि॑ । स॒म्ऽइ॒धा॒ने । अ॒ग्नौ । सु॒ऽउ॒क्तेन॑ । म॒हा । नम॑सा । आ । वि॒वा॒से॒ ।
    अ॒स्मिन् । नः॒ । अ॒द्य । वि॒दथे॑ । य॒ज॒त्राः॒ । विश्वे॑ । दे॒वाः॒ । ह॒विषि॑ । मा॒द॒य॒ध्व॒म् ॥

    स्तीर्णे । बर्हिषि । सम्ऽइधाने । अग्नौ । सुऽउक्तेन । महा । नमसा । आ । विवासे ।
    अस्मिन् । नः । अद्य । विदथे । यजत्राः । विश्वे । देवाः । हविषि । मादयध्वम् ॥

    stīrṇé ǀ barhíṣi ǀ sam-idhāné ǀ agnáu ǀ su-ukténa ǀ mahā́ ǀ námasā ǀ ā́ ǀ vivāse ǀ
    asmín ǀ naḥ ǀ adyá ǀ vidáthe ǀ yajatrāḥ ǀ víśve ǀ devāḥ ǀ havíṣi ǀ mādayadhvam ǁ

    stīrṇe ǀ barhiṣi ǀ sam-idhāne ǀ agnau ǀ su-uktena ǀ mahā ǀ namasā ǀ ā ǀ vivāse ǀ
    asmin ǀ naḥ ǀ adya ǀ vidathe ǀ yajatrāḥ ǀ viśve ǀ devāḥ ǀ haviṣi ǀ mādayadhvam ǁ

    6.52.17 Aṣṭaka 4.8.16.7Anuvāka 6.5.48

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 6.52 · Viśvedevās

Interpretations

Ralph T. H. Griffith

Ṛk 1

THIS I allow not in the earth or heaven, at sacrifice or in these holy duties. May the huge mountains crush him down: degraded be Atiyaja's sacrificing patron.

Ṛk 2

Or he who holds us in contempt, O Maruts, or seeks to blame the prayer that we are making, May agonies of burning be his portion. May the sky scorch the man who hates devotion.

Ṛk 3

Why then, O Soma, do they call thee keeper of prayer? Why then our guardian from reproaches? Why then beholdest thou how men revile us? Cast thy hot dart at him who hates devotion.

Ṛk 4

May Mornings as they spring to life, protect me, and may the Rivers as they swell preserve me. My guardians be the firmly-seated mountains: the Fathers, when I call on Gods, defend me!

Ṛk 5

Through all our days may we be healthy. minded, and look upon the Sun when he arises. Grant this the Treasure-Lord of treasures, coming, observant, oftenest of Gods, with succour!

Ṛk 6

Most near, most oft comes Indra with protection, and she Sarasvatī, who swells with rivers - Parjanya, bringing health with herbs, and Agni, well lauded swift to listen, like a father.

Ṛk 7

Hear this mine invocation; come hither, O Universal Gods, Be seated on this holy grass.

Ṛk 8

To him who comes to meet you, Gods, with offerings bathed in holy oil- Approach ye, one and all, to him.

Ṛk 9

All Sons of Immortality shall listen to the songs we sing, And be exceeding good to us.

Ṛk 10

May all the Gods who strengthen Law, with Ṛtus, listening to our call, Be pleased with theit appropriate draught.

Ṛk 11

May Indra, with the Marut host, with Tvaṣṭar, Mitra, Aryaman, Accept the laud and these our gifts.

Ṛk 12

O Agni, Priest, as rules ordain, offer this sacrifice of ours, Remembering the Heavenly Folk.

Ṛk 13

Listen, All-Gods, to this mine invocation, Ye who inhabit heaven, and air's midregions, All ye, O Holy Ones, whose tongue is Agni, seated upon this sacred grass, be joyful.

Ṛk 14

May the All-Gods who claim our worship hear my thought; may the two World-halves hear it, and the Waters’ Child. Let me not utter words that ye may disregard. Closely allied with you may we rejoice in bliss.

Ṛk 15

And those who, Mighty, with the wiles of serpents, were born on earth, in heaven, where waters gather- May they vouchsafe us life of full duration. May the Gods kindly give us nights and mornings.

Ṛk 16

At this my call, O Agni and Parjanya, help, swift to hear, my thought and our laudation. One generates holy food, the other offspring, so grant us food enough with store of children.