Ṛgveda · Maṇḍala 6

Sūkta 44

Indra · Indra, Soma · Śaṃyu Bārhaspatya · 24 ṛks

Link
Devatā देवता
1-21: Indra; 22-24: Indra, Soma
Ṛṣi ऋषि
Śaṃyu Bārhaspatya
Chandas छन्दस्
Triṣṭubh, Anuṣṭubh, Virāj Or Triṣṭubh, Virāj
Metres by ṛk

1st set of styles nicṛttriṣṭup (14, 15, 17, 18, 20, 24); virāṭtrisṭup (10, 11, 13, 22); nicṛdanuṣṭup (1, 3, 4); paṅktiḥ (9, 12, 16); triṣṭup (19, 21, 23); svarāḍuṣnik (2, 5); āsurīpaṅkti (6); bhurikpaṅkti (7); nicṛtpaṅkti (8)

2nd set of styles triṣṭubh (10-24); anuṣṭubh (1-6); virāj or triṣṭubh (7, 9); virāj (8)

  1. Ṛk 1

    यो र॑यिवो र॒यिंत॑मो॒ यो द्यु॒म्नैर्द्यु॒म्नव॑त्तमः ।
    सोमः॑ सु॒तः स इं॑द्र॒ तेऽस्ति॑ स्वधापते॒ मदः॑ ॥

    यो रयिवो रयिन्तमो यो द्युम्नैर् द्युम्नवत्तमः |
    सोमः सुतः स इन्द्र ते ऽस्ति स्वधापते मदः ||

    yó rayivo rayíṃtamo yó dyumnáirdyumnávattamaḥ ǀ
    sómaḥ sutáḥ sá indra té’sti svadhāpate mádaḥ ǁ

    yo rayivo rayintamo yo dyumnair dyumnavattamaḥ |
    somaḥ sutaḥ sa indra te 'sti svadhāpate madaḥ ||

    यः । र॒यि॒ऽवः॒ । र॒यिम्ऽत॑मः । यः । द्यु॒म्नैः । द्यु॒म्नव॑त्ऽतमः ।
    सोमः॑ । सु॒तः । सः । इ॒न्द्र॒ । ते॒ । अस्ति॑ । स्व॒धा॒ऽप॒ते॒ । मदः॑ ॥

    यः । रयिऽवः । रयिम्ऽतमः । यः । द्युम्नैः । द्युम्नवत्ऽतमः ।
    सोमः । सुतः । सः । इन्द्र । ते । अस्ति । स्वधाऽपते । मदः ॥

    yáḥ ǀ rayi-vaḥ ǀ rayím-tamaḥ ǀ yáḥ ǀ dyumnáiḥ ǀ dyumnávat-tamaḥ ǀ
    sómaḥ ǀ sutáḥ ǀ sáḥ ǀ indra ǀ te ǀ ásti ǀ svadhā-pate ǀ mádaḥ ǁ

    yaḥ ǀ rayi-vaḥ ǀ rayim-tamaḥ ǀ yaḥ ǀ dyumnaiḥ ǀ dyumnavat-tamaḥ ǀ
    somaḥ ǀ sutaḥ ǀ saḥ ǀ indra ǀ te ǀ asti ǀ svadhā-pate ǀ madaḥ ǁ

    6.44.1 Aṣṭaka 4.7.16.1Anuvāka 6.4.1

  2. Ṛk 2

    यः श॒ग्मस्तु॑विशग्म ते रा॒यो दा॒मा म॑ती॒नां ।
    सोमः॑ सु॒तः स इं॑द्र॒ तेऽस्ति॑ स्वधापते॒ मदः॑ ॥

    यः शग्मस् तुविशग्म ते रायो दामा मतीनाम् |
    सोमः सुतः स इन्द्र ते ऽस्ति स्वधापते मदः ||

    yáḥ śagmástuviśagma te rāyó dāmā́ matīnā́m ǀ
    sómaḥ sutáḥ sá indra té’sti svadhāpate mádaḥ ǁ

    yaḥ śagmas tuviśagma te rāyo dāmā matīnām |
    somaḥ sutaḥ sa indra te 'sti svadhāpate madaḥ ||

    यः । श॒ग्मः । तु॒वि॒ऽश॒ग्म॒ । ते॒ । रा॒यः । दा॒मा । म॒ती॒नाम् ।
    सोमः॑ । सु॒तः । सः । इ॒न्द्र॒ । ते॒ । अस्ति॑ । स्व॒धा॒ऽप॒ते॒ । मदः॑ ॥

    यः । शग्मः । तुविऽशग्म । ते । रायः । दामा । मतीनाम् ।
    सोमः । सुतः । सः । इन्द्र । ते । अस्ति । स्वधाऽपते । मदः ॥

    yáḥ ǀ śagmáḥ ǀ tuvi-śagma ǀ te ǀ rāyáḥ ǀ dāmā́ ǀ matīnā́m ǀ
    sómaḥ ǀ sutáḥ ǀ sáḥ ǀ indra ǀ te ǀ ásti ǀ svadhā-pate ǀ mádaḥ ǁ

    yaḥ ǀ śagmaḥ ǀ tuvi-śagma ǀ te ǀ rāyaḥ ǀ dāmā ǀ matīnām ǀ
    somaḥ ǀ sutaḥ ǀ saḥ ǀ indra ǀ te ǀ asti ǀ svadhā-pate ǀ madaḥ ǁ

    6.44.2 Aṣṭaka 4.7.16.2Anuvāka 6.4.2

  3. Ṛk 3

    येन॑ वृ॒द्धो न शव॑सा तु॒रो न स्वाभि॑रू॒तिभिः॑ ।
    सोमः॑ सु॒तः स इं॑द्र॒ तेऽस्ति॑ स्वधापते॒ मदः॑ ॥

    येन वृद्धो न शवसा तुरो न स्वाभिर् ऊतिभिः |
    सोमः सुतः स इन्द्र ते ऽस्ति स्वधापते मदः ||

    yéna vṛddhó ná śávasā turó ná svā́bhirūtíbhiḥ ǀ
    sómaḥ sutáḥ sá indra té’sti svadhāpate mádaḥ ǁ

    yena vṛddho na śavasā turo na svābhir ūtibhiḥ |
    somaḥ sutaḥ sa indra te 'sti svadhāpate madaḥ ||

    येन॑ । वृ॒द्धः । न । शव॑सा । तु॒रः । न । स्वाभिः॑ । ऊ॒तिऽभिः॑ ।
    सोमः॑ । सु॒तः । सः । इ॒न्द्र॒ । ते॒ । अस्ति॑ । स्व॒धा॒ऽप॒ते॒ । मदः॑ ॥

    येन । वृद्धः । न । शवसा । तुरः । न । स्वाभिः । ऊतिऽभिः ।
    सोमः । सुतः । सः । इन्द्र । ते । अस्ति । स्वधाऽपते । मदः ॥

    yéna ǀ vṛddháḥ ǀ ná ǀ śávasā ǀ turáḥ ǀ ná ǀ svā́bhiḥ ǀ ūtí-bhiḥ ǀ
    sómaḥ ǀ sutáḥ ǀ sáḥ ǀ indra ǀ te ǀ ásti ǀ svadhā-pate ǀ mádaḥ ǁ

    yena ǀ vṛddhaḥ ǀ na ǀ śavasā ǀ turaḥ ǀ na ǀ svābhiḥ ǀ ūti-bhiḥ ǀ
    somaḥ ǀ sutaḥ ǀ saḥ ǀ indra ǀ te ǀ asti ǀ svadhā-pate ǀ madaḥ ǁ

    6.44.3 Aṣṭaka 4.7.16.3Anuvāka 6.4.3

  4. Ṛk 4

    त्यमु॑ वो॒ अप्र॑हणं गृणी॒षे शव॑स॒स्पतिं॑ ।
    इंद्रं॑ विश्वा॒साहं॒ नरं॒ मंहि॑ष्ठं वि॒श्वच॑र्षणिं ॥

    त्यम् उ वो अप्रहणं गृणीषे शवसस् पतिम् |
    इन्द्रं विश्वासाहं नरम् मंहिष्ठं विश्वचर्षणिम् ||

    tyámu vo áprahaṇam gṛṇīṣé śávasaspátim ǀ
    índram viśvāsā́ham náram máṃhiṣṭham viśvácarṣaṇim ǁ

    tyam u vo aprahaṇaṃ gṛṇīṣe śavasas patim |
    indraṃ viśvāsāhaṃ naram maṃhiṣṭhaṃ viśvacarṣaṇim ||

    त्यम् । ऊं॒ इति॑ । वः॒ । अप्र॑ऽहनम् । गृ॒णी॒षे । शव॑सः । पति॑म् ।
    इन्द्र॑म् । वि॒श्व॒ऽसह॑म् । नर॑म् । मंहि॑ष्ठम् । वि॒श्वऽच॑र्षणिम् ॥

    त्यम् । ऊं इति । वः । अप्रऽहनम् । गृणीषे । शवसः । पतिम् ।
    इन्द्रम् । विश्वऽसहम् । नरम् । मंहिष्ठम् । विश्वऽचर्षणिम् ॥

    tyám ǀ ūṃ íti ǀ vaḥ ǀ ápra-hanam ǀ gṛṇīṣé ǀ śávasaḥ ǀ pátim ǀ
    índram ǀ viśva-sáham ǀ náram ǀ máṃhiṣṭham ǀ viśvá-carṣaṇim ǁ

    tyam ǀ ūṃ iti ǀ vaḥ ǀ apra-hanam ǀ gṛṇīṣe ǀ śavasaḥ ǀ patim ǀ
    indram ǀ viśva-saham ǀ naram ǀ maṃhiṣṭham ǀ viśva-carṣaṇim ǁ

    6.44.4 Aṣṭaka 4.7.16.4Anuvāka 6.4.4

  5. Ṛk 5

    यं व॒र्धयं॒तीद्गिरः॒ पतिं॑ तु॒रस्य॒ राध॑सः ।
    तमिन्न्व॑स्य॒ रोद॑सी दे॒वी शुष्मं॑ सपर्यतः ॥

    यं वर्धयन्तीद् गिरः पतिं तुरस्य राधसः |
    तम् इन् न्व् अस्य रोदसी देवी शुष्मं सपर्यतः ||

    yám vardháyantī́dgíraḥ pátim turásya rā́dhasaḥ ǀ
    támínnvásya ródasī devī́ śúṣmam saparyataḥ ǁ

    yaṃ vardhayantīd giraḥ patiṃ turasya rādhasaḥ |
    tam in nv asya rodasī devī śuṣmaṃ saparyataḥ ||

    यम् । व॒र्धय॑न्ति । इत् । गिरः॑ । पति॑म् । तु॒रस्य॑ । राध॑सः ।
    तम् । इत् । नु । अ॒स्य॒ । रोद॑सी॒ इति॑ । दे॒वी इति॑ । शुष्म॑म् । स॒प॒र्य॒तः॒ ॥

    यम् । वर्धयन्ति । इत् । गिरः । पतिम् । तुरस्य । राधसः ।
    तम् । इत् । नु । अस्य । रोदसी इति । देवी इति । शुष्मम् । सपर्यतः ॥

    yám ǀ vardháyanti ǀ ít ǀ gíraḥ ǀ pátim ǀ turásya ǀ rā́dhasaḥ ǀ
    tám ǀ ít ǀ nú ǀ asya ǀ ródasī íti ǀ devī́ íti ǀ śúṣmam ǀ saparyataḥ ǁ

    yam ǀ vardhayanti ǀ it ǀ giraḥ ǀ patim ǀ turasya ǀ rādhasaḥ ǀ
    tam ǀ it ǀ nu ǀ asya ǀ rodasī iti ǀ devī iti ǀ śuṣmam ǀ saparyataḥ ǁ

    6.44.5 Aṣṭaka 4.7.16.5Anuvāka 6.4.5

  6. Ṛk 6

    तद्व॑ उ॒क्थस्य॑ ब॒र्हणेंद्रा॑योपस्तृणी॒षणि॑ ।
    विपो॒ न यस्यो॒तयो॒ वि यद्रोहं॑ति स॒क्षितः॑ ॥

    तद् व उक्थस्य बर्हणेन्द्रायोपस्तृणीषणि |
    विपो न यस्योतयो वि यद् रोहन्ति सक्षितः ||

    tádva ukthásya barháṇéndrāyopastṛṇīṣáṇi ǀ
    vípo ná yásyotáyo ví yádróhanti sakṣítaḥ ǁ

    tad va ukthasya barhaṇendrāyopastṛṇīṣaṇi |
    vipo na yasyotayo vi yad rohanti sakṣitaḥ ||

    तत् । वः॒ । उ॒क्थस्य॑ । ब॒र्हणा॑ । इन्द्रा॑य । उ॒प॒ऽस्तृ॒णी॒षणि॑ ।
    विपः॑ । न । यस्य॑ । ऊ॒तयः॑ । वि । यत् । रोह॑न्ति । स॒ऽक्षितः॑ ॥

    तत् । वः । उक्थस्य । बर्हणा । इन्द्राय । उपऽस्तृणीषणि ।
    विपः । न । यस्य । ऊतयः । वि । यत् । रोहन्ति । सऽक्षितः ॥

    tát ǀ vaḥ ǀ ukthásya ǀ barháṇā ǀ índrāya ǀ upa-stṛṇīṣáṇi ǀ
    vípaḥ ǀ ná ǀ yásya ǀ ūtáyaḥ ǀ ví ǀ yát ǀ róhanti ǀ sa-kṣítaḥ ǁ

    tat ǀ vaḥ ǀ ukthasya ǀ barhaṇā ǀ indrāya ǀ upa-stṛṇīṣaṇi ǀ
    vipaḥ ǀ na ǀ yasya ǀ ūtayaḥ ǀ vi ǀ yat ǀ rohanti ǀ sa-kṣitaḥ ǁ

    6.44.6 Aṣṭaka 4.7.17.1Anuvāka 6.4.6

  7. Ṛk 7

    अवि॑द॒द्दक्षं॑ मि॒त्रो नवी॑यान्पपा॒नो दे॒वेभ्यो॒ वस्यो॑ अचैत् ।
    स॒स॒वान्त्स्तौ॒लाभि॑र्धौ॒तरी॑भिरुरु॒ष्या पा॒युर॑भव॒त्सखि॑भ्यः ॥

    अविदद् दक्षम् मित्रो नवीयान् पपानो देवेभ्यो वस्यो अचैत् |
    ससवान् स्तौलाभिर् धौतरीभिर् उरुष्या पायुर् अभवत् सखिभ्यः ||

    ávidaddákṣam mitró návīyānpapānó devébhyo vásyo acait ǀ
    sasavā́ntstaulā́bhirdhautárībhiruruṣyā́ pāyúrabhavatsákhibhyaḥ ǁ

    avidad dakṣam mitro navīyān papāno devebhyo vasyo acait |
    sasavān staulābhir dhautarībhir uruṣyā pāyur abhavat sakhibhyaḥ ||

    अवि॑दत् । दक्ष॑म् । मि॒त्रः । नवी॑यान् । प॒पा॒नः । दे॒वेभ्यः॑ । वस्यः॑ । अ॒चै॒त् ।
    स॒स॒ऽवान् । स्तौ॒लाभिः॑ । धौ॒तरी॑भिः । उ॒रु॒ष्या । पा॒युः । अ॒भ॒व॒त् । सखि॑ऽभ्यः ॥

    अविदत् । दक्षम् । मित्रः । नवीयान् । पपानः । देवेभ्यः । वस्यः । अचैत् ।
    ससऽवान् । स्तौलाभिः । धौतरीभिः । उरुष्या । पायुः । अभवत् । सखिऽभ्यः ॥

    ávidat ǀ dákṣam ǀ mitráḥ ǀ návīyān ǀ papānáḥ ǀ devébhyaḥ ǀ vásyaḥ ǀ acait ǀ
    sasa-vā́n ǀ staulā́bhiḥ ǀ dhautárībhiḥ ǀ uruṣyā́ ǀ pāyúḥ ǀ abhavat ǀ sákhi-bhyaḥ ǁ

    avidat ǀ dakṣam ǀ mitraḥ ǀ navīyān ǀ papānaḥ ǀ devebhyaḥ ǀ vasyaḥ ǀ acait ǀ
    sasa-vān ǀ staulābhiḥ ǀ dhautarībhiḥ ǀ uruṣyā ǀ pāyuḥ ǀ abhavat ǀ sakhi-bhyaḥ ǁ

    6.44.7 Aṣṭaka 4.7.17.2Anuvāka 6.4.7

  8. Ṛk 8

    ऋ॒तस्य॑ प॒थि वे॒धा अ॑पायि श्रि॒ये मनां॑सि दे॒वासो॑ अक्रन् ।
    दधा॑नो॒ नाम॑ म॒हो वचो॑भि॒र्वपु॑र्दृ॒शये॑ वे॒न्यो व्या॑वः ॥

    ऋतस्य पथि वेधा अपायि श्रिये मनांसि देवासो अक्रन् |
    दधानो नाम महो वचोभिर् वपुर् दृशये वेन्यो व्य् आवः ||

    ṛtásya pathí vedhā́ apāyi śriyé mánāṃsi devā́so akran ǀ
    dádhāno nā́ma mahó vácobhirvápurdṛśáye venyó vyā́vaḥ ǁ

    ṛtasya pathi vedhā apāyi śriye manāṃsi devāso akran |
    dadhāno nāma maho vacobhir vapur dṛśaye venyo vy āvaḥ ||

    ऋ॒तस्य॑ । प॒थि । वे॒धाः । अ॒पा॒यि॒ । श्रि॒ये । मनां॑सि । दे॒वासः॑ । अ॒क्र॒न् ।
    दधा॑नः । नाम॑ । म॒हः । वचः॑ऽभिः । वपुः॑ । दृ॒शये॑ । वे॒न्यः । वि । आ॒व॒रित्या॑वः ॥

    ऋतस्य । पथि । वेधाः । अपायि । श्रिये । मनांसि । देवासः । अक्रन् ।
    दधानः । नाम । महः । वचःऽभिः । वपुः । दृशये । वेन्यः । वि । आवरित्यावः ॥

    ṛtásya ǀ pathí ǀ vedhā́ḥ ǀ apāyi ǀ śriyé ǀ mánāṃsi ǀ devā́saḥ ǀ akran ǀ
    dádhānaḥ ǀ nā́ma ǀ maháḥ ǀ vácaḥ-bhiḥ ǀ vápuḥ ǀ dṛśáye ǀ venyáḥ ǀ ví ǀ āvarítyāvaḥ ǁ

    ṛtasya ǀ pathi ǀ vedhāḥ ǀ apāyi ǀ śriye ǀ manāṃsi ǀ devāsaḥ ǀ akran ǀ
    dadhānaḥ ǀ nāma ǀ mahaḥ ǀ vacaḥ-bhiḥ ǀ vapuḥ ǀ dṛśaye ǀ venyaḥ ǀ vi ǀ āvarityāvaḥ ǁ

    6.44.8 Aṣṭaka 4.7.17.3Anuvāka 6.4.8

  9. Ṛk 9

    द्यु॒मत्त॑मं॒ दक्षं॑ धेह्य॒स्मे सेधा॒ जना॑नां पू॒र्वीररा॑तीः ।
    वर्षी॑यो॒ वयः॑ कृणुहि॒ शची॑भि॒र्धन॑स्य सा॒ताव॒स्माँ अ॑विड्ढि ॥

    द्युमत्तमं दक्षं धेह्य् अस्मे सेधा जनानाम् पूर्वीर् अरातीः |
    वर्षीयो वयः कृणुहि शचीभिर् धनस्य साताव् अस्मां अविड्ढि ||

    dyumáttamam dákṣam dhehyasmé sédhā jánānām pūrvī́rárātīḥ ǀ
    várṣīyo váyaḥ kṛṇuhi śácībhirdhánasya sātā́vasmā́m̐ aviḍḍhi ǁ

    dyumattamaṃ dakṣaṃ dhehy asme sedhā janānām pūrvīr arātīḥ |
    varṣīyo vayaḥ kṛṇuhi śacībhir dhanasya sātāv asmāṃ aviḍḍhi ||

    द्यु॒मत्ऽत॑मम् । दक्ष॑म् । धे॒हि॒ । अ॒स्मे इति॑ । सेध॑ । जना॑नाम् । पू॒र्वीः । अरा॑तीः ।
    वर्षी॑यः । वयः॑ । कृ॒णु॒हि॒ । शची॑भिः । धन॑स्य । सा॒तौ । अ॒स्मान् । अ॒वि॒ड्ढि॒ ॥

    द्युमत्ऽतमम् । दक्षम् । धेहि । अस्मे इति । सेध । जनानाम् । पूर्वीः । अरातीः ।
    वर्षीयः । वयः । कृणुहि । शचीभिः । धनस्य । सातौ । अस्मान् । अविड्ढि ॥

    dyumát-tamam ǀ dákṣam ǀ dhehi ǀ asmé íti ǀ sédha ǀ jánānām ǀ pūrvī́ḥ ǀ árātīḥ ǀ
    várṣīyaḥ ǀ váyaḥ ǀ kṛṇuhi ǀ śácībhiḥ ǀ dhánasya ǀ sātáu ǀ asmā́n ǀ aviḍḍhi ǁ

    dyumat-tamam ǀ dakṣam ǀ dhehi ǀ asme iti ǀ sedha ǀ janānām ǀ pūrvīḥ ǀ arātīḥ ǀ
    varṣīyaḥ ǀ vayaḥ ǀ kṛṇuhi ǀ śacībhiḥ ǀ dhanasya ǀ sātau ǀ asmān ǀ aviḍḍhi ǁ

    6.44.9 Aṣṭaka 4.7.17.4Anuvāka 6.4.9

  10. Ṛk 10

    इंद्र॒ तुभ्य॒मिन्म॑घवन्नभूम व॒यं दा॒त्रे ह॑रिवो॒ मा वि वे॑नः ।
    नकि॑रा॒पिर्द॑दृशे मर्त्य॒त्रा किमं॒ग र॑ध्र॒चोद॑नं त्वाहुः ॥

    इन्द्र तुभ्यम् इन् मघवन्न् अभूम वयं दात्रे हरिवो मा वि वेनः |
    नकिर् आपिर् ददृशे मर्त्यत्रा किम् अङ्ग रध्रचोदनं त्वाहुः ||

    índra túbhyamínmaghavannabhūma vayám dātré harivo mā́ ví venaḥ ǀ
    nákirāpírdadṛśe martyatrā́ kímaṅgá radhracódanam tvāhuḥ ǁ

    indra tubhyam in maghavann abhūma vayaṃ dātre harivo mā vi venaḥ |
    nakir āpir dadṛśe martyatrā kim aṅga radhracodanaṃ tvāhuḥ ||

    इन्द्र॑ । तुभ्य॑म् । इत् । म॒घ॒ऽव॒न् । अ॒भू॒म॒ । व॒यम् । दा॒त्रे । ह॒रि॒ऽवः॒ । मा । वि । वे॒नः॒ ।
    नकिः॑ । आ॒पिः । द॒दृ॒शे॒ । म॒र्त्य॒ऽत्रा । किम् । अ॒ङ्ग । र॒ध्र॒ऽचोद॑नम् । त्वा॒ । आ॒हुः॒ ॥

    इन्द्र । तुभ्यम् । इत् । मघऽवन् । अभूम । वयम् । दात्रे । हरिऽवः । मा । वि । वेनः ।
    नकिः । आपिः । ददृशे । मर्त्यऽत्रा । किम् । अङ्ग । रध्रऽचोदनम् । त्वा । आहुः ॥

    índra ǀ túbhyam ǀ ít ǀ magha-van ǀ abhūma ǀ vayám ǀ dātré ǀ hari-vaḥ ǀ mā́ ǀ ví ǀ venaḥ ǀ
    nákiḥ ǀ āpíḥ ǀ dadṛśe ǀ martya-trā́ ǀ kím ǀ aṅgá ǀ radhra-códanam ǀ tvā ǀ āhuḥ ǁ

    indra ǀ tubhyam ǀ it ǀ magha-van ǀ abhūma ǀ vayam ǀ dātre ǀ hari-vaḥ ǀ mā ǀ vi ǀ venaḥ ǀ
    nakiḥ ǀ āpiḥ ǀ dadṛśe ǀ martya-trā ǀ kim ǀ aṅga ǀ radhra-codanam ǀ tvā ǀ āhuḥ ǁ

    6.44.10 Aṣṭaka 4.7.17.5Anuvāka 6.4.10

  11. Ṛk 11

    मा जस्व॑ने वृषभ नो ररीथा॒ मा ते॑ रे॒वतः॑ स॒ख्ये रि॑षाम ।
    पू॒र्वीष्ट॑ इंद्र नि॒ष्षिधो॒ जने॑षु ज॒ह्यसु॑ष्वी॒न्प्र वृ॒हापृ॑णतः ॥

    मा जस्वने वृषभ नो ररीथा मा ते रेवतः सख्ये रिषाम |
    पूर्वीष् ट इन्द्र निष्षिधो जनेषु जह्य् असुष्वीन् प्र वृहापृणतः ||

    mā́ jásvane vṛṣabha no rarīthā mā́ te revátaḥ sakhyé riṣāma ǀ
    pūrvī́ṣṭa indra niṣṣídho jáneṣu jahyásuṣvīnprá vṛhā́pṛṇataḥ ǁ

    mā jasvane vṛṣabha no rarīthā mā te revataḥ sakhye riṣāma |
    pūrvīṣ ṭa indra niṣṣidho janeṣu jahy asuṣvīn pra vṛhāpṛṇataḥ ||

    मा । जस्व॑ने । वृ॒ष॒भ॒ । नः॒ । र॒री॒थाः॒ । मा । ते॒ । रे॒वतः॑ । स॒ख्ये । रि॒षा॒म॒ ।
    पू॒र्वीः । ते॒ । इ॒न्द्र॒ । निः॒ऽसिधः॑ । जने॑षु । ज॒हि । असु॑स्वीन् । प्र । वृ॒ह॒ । अपृ॑णतः ॥

    मा । जस्वने । वृषभ । नः । ररीथाः । मा । ते । रेवतः । सख्ये । रिषाम ।
    पूर्वीः । ते । इन्द्र । निःऽसिधः । जनेषु । जहि । असुस्वीन् । प्र । वृह । अपृणतः ॥

    mā́ ǀ jásvane ǀ vṛṣabha ǀ naḥ ǀ rarīthāḥ ǀ mā́ ǀ te ǀ revátaḥ ǀ sakhyé ǀ riṣāma ǀ
    pūrvī́ḥ ǀ te ǀ indra ǀ niḥ-sídhaḥ ǀ jáneṣu ǀ jahí ǀ ásusvīn ǀ prá ǀ vṛha ǀ ápṛṇataḥ ǁ

    mā ǀ jasvane ǀ vṛṣabha ǀ naḥ ǀ rarīthāḥ ǀ mā ǀ te ǀ revataḥ ǀ sakhye ǀ riṣāma ǀ
    pūrvīḥ ǀ te ǀ indra ǀ niḥ-sidhaḥ ǀ janeṣu ǀ jahi ǀ asusvīn ǀ pra ǀ vṛha ǀ apṛṇataḥ ǁ

    6.44.11 Aṣṭaka 4.7.18.1Anuvāka 6.4.11

  12. Ṛk 12

    उद॒भ्राणी॑व स्त॒नय॑न्निय॒र्तींद्रो॒ राधां॒स्यश्व्या॑नि॒ गव्या॑ ।
    त्वम॑सि प्र॒दिवः॑ का॒रुधा॑या॒ मा त्वा॑दा॒मान॒ आ द॑भन्म॒घोनः॑ ॥

    उद् अभ्राणीव स्तनयन्न् इयर्तीन्द्रो राधांस्य् अश्व्यानि गव्या |
    त्वम् असि प्रदिवः कारुधाया मा त्वादामान आ दभन् मघोनः ||

    údabhrā́ṇīva stanáyanniyartī́ndro rā́dhāṃsyáśvyāni gávyā ǀ
    tvámasi pradívaḥ kārúdhāyā mā́ tvādāmā́na ā́ dabhanmaghónaḥ ǁ

    ud abhrāṇīva stanayann iyartīndro rādhāṃsy aśvyāni gavyā |
    tvam asi pradivaḥ kārudhāyā mā tvādāmāna ā dabhan maghonaḥ ||

    उत् । अ॒भ्राणि॑ऽइव । स्त॒नय॑न् । इ॒य॒र्ति॒ । इन्द्रः॑ । राधां॑सि । अश्व्या॑नि । गव्या॑ ।
    त्वम् । अ॒सि॒ । प्र॒ऽदिवः॑ । का॒रुऽधा॑याः । मा । त्वा॒ । अ॒दा॒मानः॑ । आ । द॒भ॒न् । म॒घोनः॑ ॥

    उत् । अभ्राणिऽइव । स्तनयन् । इयर्ति । इन्द्रः । राधांसि । अश्व्यानि । गव्या ।
    त्वम् । असि । प्रऽदिवः । कारुऽधायाः । मा । त्वा । अदामानः । आ । दभन् । मघोनः ॥

    út ǀ abhrā́ṇi-iva ǀ stanáyan ǀ iyarti ǀ índraḥ ǀ rā́dhāṃsi ǀ áśvyāni ǀ gávyā ǀ
    tvám ǀ asi ǀ pra-dívaḥ ǀ kārú-dhāyāḥ ǀ mā́ ǀ tvā ǀ adāmā́naḥ ǀ ā́ ǀ dabhan ǀ maghónaḥ ǁ

    ut ǀ abhrāṇi-iva ǀ stanayan ǀ iyarti ǀ indraḥ ǀ rādhāṃsi ǀ aśvyāni ǀ gavyā ǀ
    tvam ǀ asi ǀ pra-divaḥ ǀ kāru-dhāyāḥ ǀ mā ǀ tvā ǀ adāmānaḥ ǀ ā ǀ dabhan ǀ maghonaḥ ǁ

    6.44.12 Aṣṭaka 4.7.18.2Anuvāka 6.4.12

  13. Ṛk 13

    अध्व॑र्यो वीर॒ प्र म॒हे सु॒ताना॒मिंद्रा॑य भर॒ स ह्य॑स्य॒ राजा॑ ।
    यः पू॒र्व्याभि॑रु॒त नूत॑नाभिर्गी॒र्भिर्वा॑वृ॒धे गृ॑ण॒तामृषी॑णां ॥

    अध्वर्यो वीर प्र महे सुतानाम् इन्द्राय भर स ह्य् अस्य राजा |
    यः पूर्व्याभिर् उत नूतनाभिर् गीर्भिर् वावृधे गृणताम् ऋषीणाम् ||

    ádhvaryo vīra prá mahé sutā́nāmíndrāya bhara sá hyásya rā́jā ǀ
    yáḥ pūrvyā́bhirutá nū́tanābhirgīrbhírvāvṛdhé gṛṇatā́mṛ́ṣīṇām ǁ

    adhvaryo vīra pra mahe sutānām indrāya bhara sa hy asya rājā |
    yaḥ pūrvyābhir uta nūtanābhir gīrbhir vāvṛdhe gṛṇatām ṛṣīṇām ||

    अध्व॑र्यो॒ इति॑ । वी॒र॒ । प्र । म॒हे । सु॒ताना॑म् । इन्द्रा॑य । भ॒र॒ । सः । हि । अ॒स्य॒ । राजा॑ ।
    यः । पू॒र्व्याभिः॑ । उ॒त । नूत॑नाभिः । गीः॒ऽभिः । व॒वृ॒धे । गृ॒ण॒ताम् । ऋषी॑णाम् ॥

    अध्वर्यो इति । वीर । प्र । महे । सुतानाम् । इन्द्राय । भर । सः । हि । अस्य । राजा ।
    यः । पूर्व्याभिः । उत । नूतनाभिः । गीःऽभिः । ववृधे । गृणताम् । ऋषीणाम् ॥

    ádhvaryo íti ǀ vīra ǀ prá ǀ mahé ǀ sutā́nām ǀ índrāya ǀ bhara ǀ sáḥ ǀ hí ǀ asya ǀ rā́jā ǀ
    yáḥ ǀ pūrvyā́bhiḥ ǀ utá ǀ nū́tanābhiḥ ǀ gīḥ-bhíḥ ǀ vavṛdhé ǀ gṛṇatā́m ǀ ṛ́ṣīṇām ǁ

    adhvaryo iti ǀ vīra ǀ pra ǀ mahe ǀ sutānām ǀ indrāya ǀ bhara ǀ saḥ ǀ hi ǀ asya ǀ rājā ǀ
    yaḥ ǀ pūrvyābhiḥ ǀ uta ǀ nūtanābhiḥ ǀ gīḥ-bhiḥ ǀ vavṛdhe ǀ gṛṇatām ǀ ṛṣīṇām ǁ

    6.44.13 Aṣṭaka 4.7.18.3Anuvāka 6.4.13

  14. Ṛk 14

    अ॒स्य मदे॑ पु॒रु वर्पां॑सि वि॒द्वानिंद्रो॑ वृ॒त्राण्य॑प्र॒ती ज॑घान ।
    तमु॒ प्र हो॑षि॒ मधु॑मंतमस्मै॒ सोमं॑ वी॒राय॑ शि॒प्रिणे॒ पिब॑ध्यै ॥

    अस्य मदे पुरु वर्पांसि विद्वान् इन्द्रो वृत्राण्य् अप्रती जघान |
    तम् उ प्र होषि मधुमन्तम् अस्मै सोमं वीराय शिप्रिणे पिबध्यै ||

    asyá máde purú várpāṃsi vidvā́níndro vṛtrā́ṇyapratī́ jaghāna ǀ
    támu prá hoṣi mádhumantamasmai sómam vīrā́ya śipríṇe píbadhyai ǁ

    asya made puru varpāṃsi vidvān indro vṛtrāṇy apratī jaghāna |
    tam u pra hoṣi madhumantam asmai somaṃ vīrāya śipriṇe pibadhyai ||

    अ॒स्य । मदे॑ । पु॒रु । वर्पां॑सि । वि॒द्वान् । इन्द्रः॑ । वृ॒त्राणि॑ । अ॒प्र॒ति । ज॒घा॒न॒ ।
    तम् । ऊं॒ इति॑ । प्र । हो॒षि॒ । मधु॑ऽमन्तम् । अ॒स्मै॒ । सोम॑म् । वी॒राय॑ । शि॒प्रिणे॑ । पिब॑ध्यै ॥

    अस्य । मदे । पुरु । वर्पांसि । विद्वान् । इन्द्रः । वृत्राणि । अप्रति । जघान ।
    तम् । ऊं इति । प्र । होषि । मधुऽमन्तम् । अस्मै । सोमम् । वीराय । शिप्रिणे । पिबध्यै ॥

    asyá ǀ máde ǀ purú ǀ várpāṃsi ǀ vidvā́n ǀ índraḥ ǀ vṛtrā́ṇi ǀ apratí ǀ jaghāna ǀ
    tám ǀ ūṃ íti ǀ prá ǀ hoṣi ǀ mádhu-mantam ǀ asmai ǀ sómam ǀ vīrā́ya ǀ śipríṇe ǀ píbadhyai ǁ

    asya ǀ made ǀ puru ǀ varpāṃsi ǀ vidvān ǀ indraḥ ǀ vṛtrāṇi ǀ aprati ǀ jaghāna ǀ
    tam ǀ ūṃ iti ǀ pra ǀ hoṣi ǀ madhu-mantam ǀ asmai ǀ somam ǀ vīrāya ǀ śipriṇe ǀ pibadhyai ǁ

    6.44.14 Aṣṭaka 4.7.18.4Anuvāka 6.4.14

  15. Ṛk 15

    पाता॑ सु॒तमिंद्रो॑ अस्तु॒ सोमं॒ हंता॑ वृ॒त्रं वज्रे॑ण मंदसा॒नः ।
    गंता॑ य॒ज्ञं प॑रा॒वत॑श्चि॒दच्छा॒ वसु॑र्धी॒नाम॑वि॒ता का॒रुधा॑याः ॥

    पाता सुतम् इन्द्रो अस्तु सोमं हन्ता वृत्रं वज्रेण मन्दसानः |
    गन्ता यज्ञम् परावतश् चिद् अच्छा वसुर् धीनाम् अविता कारुधायाः ||

    pā́tā sutámíndro astu sómam hántā vṛtrám vájreṇa mandasānáḥ ǀ
    gántā yajñám parāvátaścidácchā vásurdhīnā́mavitā́ kārúdhāyāḥ ǁ

    pātā sutam indro astu somaṃ hantā vṛtraṃ vajreṇa mandasānaḥ |
    gantā yajñam parāvataś cid acchā vasur dhīnām avitā kārudhāyāḥ ||

    पाता॑ । सु॒तम् । इन्द्रः॑ । अ॒स्तु॒ । सोम॑म् । हन्ता॑ । वृ॒त्रम् । वज्रे॑ण । म॒न्द॒सा॒नः ।
    गन्ता॑ । य॒ज्ञम् । प॒रा॒ऽवतः॑ । चि॒त् । अच्छ॑ । वसुः॑ । धी॒नाम् । अ॒वि॒ता । का॒रुऽधा॑याः ॥

    पाता । सुतम् । इन्द्रः । अस्तु । सोमम् । हन्ता । वृत्रम् । वज्रेण । मन्दसानः ।
    गन्ता । यज्ञम् । पराऽवतः । चित् । अच्छ । वसुः । धीनाम् । अविता । कारुऽधायाः ॥

    pā́tā ǀ sutám ǀ índraḥ ǀ astu ǀ sómam ǀ hántā ǀ vṛtrám ǀ vájreṇa ǀ mandasānáḥ ǀ
    gántā ǀ yajñám ǀ parā-vátaḥ ǀ cit ǀ áccha ǀ vásuḥ ǀ dhīnā́m ǀ avitā́ ǀ kārú-dhāyāḥ ǁ

    pātā ǀ sutam ǀ indraḥ ǀ astu ǀ somam ǀ hantā ǀ vṛtram ǀ vajreṇa ǀ mandasānaḥ ǀ
    gantā ǀ yajñam ǀ parā-vataḥ ǀ cit ǀ accha ǀ vasuḥ ǀ dhīnām ǀ avitā ǀ kāru-dhāyāḥ ǁ

    6.44.15 Aṣṭaka 4.7.18.5Anuvāka 6.4.15

  16. Ṛk 16

    इ॒दं त्यत्पात्र॑मिंद्र॒पान॒मिंद्र॑स्य प्रि॒यम॒मृत॑मपायि ।
    मत्स॒द्यथा॑ सौमन॒साय॑ दे॒वं व्य१॒॑स्मद्द्वेषो॑ यु॒यव॒द्व्यंहः॑ ॥

    इदं त्यत् पात्रम् इन्द्रपानम् इन्द्रस्य प्रियम् अमृतम् अपायि |
    मत्सद् यथा सौमनसाय देवं व्य् अस्मद् द्वेषो युयवद् व्य् अंहः ||

    idám tyátpā́tramindrapā́namíndrasya priyámamṛ́tamapāyi ǀ
    mátsadyáthā saumanasā́ya devám vyásmáddvéṣo yuyávadvyáṃhaḥ ǁ

    idaṃ tyat pātram indrapānam indrasya priyam amṛtam apāyi |
    matsad yathā saumanasāya devaṃ vy asmad dveṣo yuyavad vy aṃhaḥ ||

    इ॒दम् । त्यत् । पात्र॑म् । इ॒न्द्र॒ऽपान॑म् । इन्द्र॑स्य । प्रि॒यम् । अ॒मृत॑म् । अ॒पा॒यि॒ ।
    मत्स॑त् । यथा॑ । सौ॒म॒न॒साय॑ । दे॒वम् । वि । अ॒स्मत् । द्वेषः॑ । यु॒यव॑त् । वि । अंहः॑ ॥

    इदम् । त्यत् । पात्रम् । इन्द्रऽपानम् । इन्द्रस्य । प्रियम् । अमृतम् । अपायि ।
    मत्सत् । यथा । सौमनसाय । देवम् । वि । अस्मत् । द्वेषः । युयवत् । वि । अंहः ॥

    idám ǀ tyát ǀ pā́tram ǀ indra-pā́nam ǀ índrasya ǀ priyám ǀ amṛ́tam ǀ apāyi ǀ
    mátsat ǀ yáthā ǀ saumanasā́ya ǀ devám ǀ ví ǀ asmát ǀ dvéṣaḥ ǀ yuyávat ǀ ví ǀ áṃhaḥ ǁ

    idam ǀ tyat ǀ pātram ǀ indra-pānam ǀ indrasya ǀ priyam ǀ amṛtam ǀ apāyi ǀ
    matsat ǀ yathā ǀ saumanasāya ǀ devam ǀ vi ǀ asmat ǀ dveṣaḥ ǀ yuyavat ǀ vi ǀ aṃhaḥ ǁ

    6.44.16 Aṣṭaka 4.7.19.1Anuvāka 6.4.16

  17. Ṛk 17

    ए॒ना मं॑दा॒नो ज॒हि शू॑र॒ शत्रूं॑जा॒मिमजा॑मिं मघवन्न॒मित्रा॑न् ।
    अ॒भि॒षे॒णाँ अ॒भ्या॒३॒॑देदि॑शाना॒न्परा॑च इंद्र॒ प्र मृ॑णा ज॒ही च॑ ॥

    एना मन्दानो जहि शूर शत्रूञ् जामिम् अजामिम् मघवन्न् अमित्रान् |
    अभिषेणां अभ्य् आदेदिशानान् पराच इन्द्र प्र मृणा जही च ||

    enā́ mandānó jahí śūra śátrūñjāmímájāmim maghavannamítrān ǀ
    abhiṣeṇā́m̐ abhyā́dédiśānānpárāca indra prá mṛṇā jahī́ ca ǁ

    enā mandāno jahi śūra śatrūñ jāmim ajāmim maghavann amitrān |
    abhiṣeṇāṃ abhy ādediśānān parāca indra pra mṛṇā jahī ca ||

    ए॒ना । म॒न्दा॒नः । ज॒हि । शू॒र॒ । शत्रू॑न् । जा॒मिम् । अजा॑मिम् । म॒घ॒ऽव॒न् । अ॒मित्रा॑न् ।
    अ॒भि॒ऽसे॒नान् । अ॒भि । आ॒ऽदेदि॑शानान् । परा॑चः । इ॒न्द्र॒ । प्र । मृ॒ण॒ । ज॒हि । च॒ ॥

    एना । मन्दानः । जहि । शूर । शत्रून् । जामिम् । अजामिम् । मघऽवन् । अमित्रान् ।
    अभिऽसेनान् । अभि । आऽदेदिशानान् । पराचः । इन्द्र । प्र । मृण । जहि । च ॥

    enā́ ǀ mandānáḥ ǀ jahí ǀ śūra ǀ śátrūn ǀ jāmím ǀ ájāmim ǀ magha-van ǀ amítrān ǀ
    abhi-senā́n ǀ abhí ǀ ā-dédiśānān ǀ párācaḥ ǀ indra ǀ prá ǀ mṛṇa ǀ jahí ǀ ca ǁ

    enā ǀ mandānaḥ ǀ jahi ǀ śūra ǀ śatrūn ǀ jāmim ǀ ajāmim ǀ magha-van ǀ amitrān ǀ
    abhi-senān ǀ abhi ǀ ā-dediśānān ǀ parācaḥ ǀ indra ǀ pra ǀ mṛṇa ǀ jahi ǀ ca ǁ

    6.44.17 Aṣṭaka 4.7.19.2Anuvāka 6.4.17

  18. Ṛk 18

    आ॒सु ष्मा॑ णो मघवन्निंद्र पृ॒त्स्व१॒॑स्मभ्यं॒ महि॒ वरि॑वः सु॒गं कः॑ ।
    अ॒पां तो॒कस्य॒ तन॑यस्य जे॒ष इंद्र॑ सू॒रीन्कृ॑णु॒हि स्मा॑ नो अ॒र्धं ॥

    आसु ष्मा णो मघवन्न् इन्द्र पृत्स्व् अस्मभ्यम् महि वरिवः सुगं कः |
    अपां तोकस्य तनयस्य जेष इन्द्र सूरीन् कृणुहि स्मा नो अर्धम् ||

    āsú ṣmā ṇo maghavannindra pṛtsvásmábhyam máhi várivaḥ sugám kaḥ ǀ
    apā́m tokásya tánayasya jeṣá índra sūrī́nkṛṇuhí smā no ardhám ǁ

    āsu ṣmā ṇo maghavann indra pṛtsv asmabhyam mahi varivaḥ sugaṃ kaḥ |
    apāṃ tokasya tanayasya jeṣa indra sūrīn kṛṇuhi smā no ardham ||

    आ॒सु । स्म॒ । नः॒ । म॒घ॒ऽव॒न् । इ॒न्द्र॒ । पृ॒त्ऽसु । अ॒स्मभ्य॑म् । महि॑ । वरि॑वः । सु॒ऽगम् । क॒रिति॑ कः ।
    अ॒पाम् । तो॒कस्य॑ । तन॑यस्य । जे॒षे । इन्द्र॑ । सू॒रीन् । कृ॒णु॒हि । स्म॒ । नः॒ । अ॒र्धम् ॥

    आसु । स्म । नः । मघऽवन् । इन्द्र । पृत्ऽसु । अस्मभ्यम् । महि । वरिवः । सुऽगम् । करिति कः ।
    अपाम् । तोकस्य । तनयस्य । जेषे । इन्द्र । सूरीन् । कृणुहि । स्म । नः । अर्धम् ॥

    āsú ǀ sma ǀ naḥ ǀ magha-van ǀ indra ǀ pṛt-sú ǀ asmábhyam ǀ máhi ǀ várivaḥ ǀ su-gám ǀ karíti kaḥ ǀ
    apā́m ǀ tokásya ǀ tánayasya ǀ jeṣé ǀ índra ǀ sūrī́n ǀ kṛṇuhí ǀ sma ǀ naḥ ǀ ardhám ǁ

    āsu ǀ sma ǀ naḥ ǀ magha-van ǀ indra ǀ pṛt-su ǀ asmabhyam ǀ mahi ǀ varivaḥ ǀ su-gam ǀ kariti kaḥ ǀ
    apām ǀ tokasya ǀ tanayasya ǀ jeṣe ǀ indra ǀ sūrīn ǀ kṛṇuhi ǀ sma ǀ naḥ ǀ ardham ǁ

    6.44.18 Aṣṭaka 4.7.19.3Anuvāka 6.4.18

  19. Ṛk 19

    आ त्वा॒ हर॑यो॒ वृष॑णो युजा॒ना वृष॑रथासो॒ वृष॑रश्म॒योऽत्याः॑ ।
    अ॒स्म॒त्रांचो॒ वृष॑णो वज्र॒वाहो॒ वृष्णे॒ मदा॑य सु॒युजो॑ वहंतु ॥

    आ त्वा हरयो वृषणो युजाना वृषरथासो वृषरश्मयो ऽत्याः |
    अस्मत्राञ्चो वृषणो वज्रवाहो वृष्णे मदाय सुयुजो वहन्तु ||

    ā́ tvā hárayo vṛ́ṣaṇo yujānā́ vṛ́ṣarathāso vṛ́ṣaraśmayó’tyāḥ ǀ
    asmatrā́ñco vṛ́ṣaṇo vajravā́ho vṛ́ṣṇe mádāya suyújo vahantu ǁ

    ā tvā harayo vṛṣaṇo yujānā vṛṣarathāso vṛṣaraśmayo 'tyāḥ |
    asmatrāñco vṛṣaṇo vajravāho vṛṣṇe madāya suyujo vahantu ||

    आ । त्वा॒ । हर॑यः । वृष॑णः । यु॒जा॒नाः । वृष॑ऽरथासः । वृष॑ऽरश्मयः । अत्याः॑ ।
    अ॒स्म॒त्राञ्चः॑ । वृष॑णः । व॒ज्र॒ऽवाहः॑ । वृष्णे॑ । मदा॑य । सु॒ऽयुजः॑ । व॒ह॒न्तु॒ ॥

    आ । त्वा । हरयः । वृषणः । युजानाः । वृषऽरथासः । वृषऽरश्मयः । अत्याः ।
    अस्मत्राञ्चः । वृषणः । वज्रऽवाहः । वृष्णे । मदाय । सुऽयुजः । वहन्तु ॥

    ā́ ǀ tvā ǀ hárayaḥ ǀ vṛ́ṣaṇaḥ ǀ yujānā́ḥ ǀ vṛ́ṣa-rathāsaḥ ǀ vṛ́ṣa-raśmayaḥ ǀ átyāḥ ǀ
    asmatrā́ñcaḥ ǀ vṛ́ṣaṇaḥ ǀ vajra-vā́haḥ ǀ vṛ́ṣṇe ǀ mádāya ǀ su-yújaḥ ǀ vahantu ǁ

    ā ǀ tvā ǀ harayaḥ ǀ vṛṣaṇaḥ ǀ yujānāḥ ǀ vṛṣa-rathāsaḥ ǀ vṛṣa-raśmayaḥ ǀ atyāḥ ǀ
    asmatrāñcaḥ ǀ vṛṣaṇaḥ ǀ vajra-vāhaḥ ǀ vṛṣṇe ǀ madāya ǀ su-yujaḥ ǀ vahantu ǁ

    6.44.19 Aṣṭaka 4.7.19.4Anuvāka 6.4.19

  20. Ṛk 20

    आ ते॑ वृष॒न्वृष॑णो॒ द्रोण॑मस्थुर्घृत॒प्रुषो॒ नोर्मयो॒ मदं॑तः ।
    इंद्र॒ प्र तुभ्यं॒ वृष॑भिः सु॒तानां॒ वृष्णे॑ भरंति वृष॒भाय॒ सोमं॑ ॥

    आ ते वृषन् वृषणो द्रोणम् अस्थुर् घृतप्रुषो नोर्मयो मदन्तः |
    इन्द्र प्र तुभ्यं वृषभिः सुतानां वृष्णे भरन्ति वृषभाय सोमम् ||

    ā́ te vṛṣanvṛ́ṣaṇo dróṇamasthurghṛtaprúṣo nórmáyo mádantaḥ ǀ
    índra prá túbhyam vṛ́ṣabhiḥ sutā́nām vṛ́ṣṇe bharanti vṛṣabhā́ya sómam ǁ

    ā te vṛṣan vṛṣaṇo droṇam asthur ghṛtapruṣo normayo madantaḥ |
    indra pra tubhyaṃ vṛṣabhiḥ sutānāṃ vṛṣṇe bharanti vṛṣabhāya somam ||

    आ । ते॒ । वृ॒ष॒न् । वृष॑णः । द्रोण॑म् । अ॒स्थुः॒ । घृ॒त॒ऽप्रुषः॑ । न । ऊ॒र्मयः॑ । मद॑न्तः ।
    इन्द्र॑ । प्र । तुभ्य॑म् । वृष॑ऽभिः । सु॒ताना॑म् । वृष्णे॑ । भ॒र॒न्ति॒ । वृ॒ष॒भाय॑ । सोम॑म् ॥

    आ । ते । वृषन् । वृषणः । द्रोणम् । अस्थुः । घृतऽप्रुषः । न । ऊर्मयः । मदन्तः ।
    इन्द्र । प्र । तुभ्यम् । वृषऽभिः । सुतानाम् । वृष्णे । भरन्ति । वृषभाय । सोमम् ॥

    ā́ ǀ te ǀ vṛṣan ǀ vṛ́ṣaṇaḥ ǀ dróṇam ǀ asthuḥ ǀ ghṛta-prúṣaḥ ǀ ná ǀ ūrmáyaḥ ǀ mádantaḥ ǀ
    índra ǀ prá ǀ túbhyam ǀ vṛ́ṣa-bhiḥ ǀ sutā́nām ǀ vṛ́ṣṇe ǀ bharanti ǀ vṛṣabhā́ya ǀ sómam ǁ

    ā ǀ te ǀ vṛṣan ǀ vṛṣaṇaḥ ǀ droṇam ǀ asthuḥ ǀ ghṛta-pruṣaḥ ǀ na ǀ ūrmayaḥ ǀ madantaḥ ǀ
    indra ǀ pra ǀ tubhyam ǀ vṛṣa-bhiḥ ǀ sutānām ǀ vṛṣṇe ǀ bharanti ǀ vṛṣabhāya ǀ somam ǁ

    6.44.20 Aṣṭaka 4.7.19.5Anuvāka 6.4.20

  21. Ṛk 21

    वृषा॑सि दि॒वो वृ॑ष॒भः पृ॑थि॒व्या वृषा॒ सिंधू॑नां वृष॒भः स्तिया॑नां ।
    वृष्णे॑ त॒ इंदु॑र्वृषभ पीपाय स्वा॒दू रसो॑ मधु॒पेयो॒ वरा॑य ॥

    वृषासि दिवो वृषभः पृथिव्या वृषा सिन्धूनां वृषभ स्तियानाम् |
    वृष्णे त इन्दुर् वृषभ पीपाय स्वादू रसो मधुपेयो वराय ||

    vṛ́ṣāsi divó vṛṣabháḥ pṛthivyā́ vṛ́ṣā síndhūnām vṛṣabháḥ stíyānām ǀ
    vṛ́ṣṇe ta índurvṛṣabha pīpāya svādū́ ráso madhupéyo várāya ǁ

    vṛṣāsi divo vṛṣabhaḥ pṛthivyā vṛṣā sindhūnāṃ vṛṣabha stiyānām |
    vṛṣṇe ta indur vṛṣabha pīpāya svādū raso madhupeyo varāya ||

    वृषा॑ । अ॒सि॒ । दि॒वः । वृ॒ष॒भः । पृ॒थि॒व्याः । वृषा॑ । सिन्धू॑नाम् । वृ॒ष॒भः । स्तिया॑नाम् ।
    वृष्णे॑ । ते॒ । इन्दुः॑ । वृ॒ष॒भ॒ । पी॒पा॒य॒ । स्वा॒दुः । रसः॑ । म॒धु॒ऽपेयः॑ । वरा॑य ॥

    वृषा । असि । दिवः । वृषभः । पृथिव्याः । वृषा । सिन्धूनाम् । वृषभः । स्तियानाम् ।
    वृष्णे । ते । इन्दुः । वृषभ । पीपाय । स्वादुः । रसः । मधुऽपेयः । वराय ॥

    vṛ́ṣā ǀ asi ǀ diváḥ ǀ vṛṣabháḥ ǀ pṛthivyā́ḥ ǀ vṛ́ṣā ǀ síndhūnām ǀ vṛṣabháḥ ǀ stíyānām ǀ
    vṛ́ṣṇe ǀ te ǀ índuḥ ǀ vṛṣabha ǀ pīpāya ǀ svādúḥ ǀ rásaḥ ǀ madhu-péyaḥ ǀ várāya ǁ

    vṛṣā ǀ asi ǀ divaḥ ǀ vṛṣabhaḥ ǀ pṛthivyāḥ ǀ vṛṣā ǀ sindhūnām ǀ vṛṣabhaḥ ǀ stiyānām ǀ
    vṛṣṇe ǀ te ǀ induḥ ǀ vṛṣabha ǀ pīpāya ǀ svāduḥ ǀ rasaḥ ǀ madhu-peyaḥ ǀ varāya ǁ

    6.44.21 Aṣṭaka 4.7.20.1Anuvāka 6.4.21

  22. Ṛk 22

    अ॒यं दे॒वः सह॑सा॒ जाय॑मान॒ इंद्रे॑ण यु॒जा प॒णिम॑स्तभायत् ।
    अ॒यं स्वस्य॑ पि॒तुरायु॑धा॒नींदु॑रमुष्णा॒दशि॑वस्य मा॒याः ॥

    अयं देवः सहसा जायमान इन्द्रेण युजा पणिम् अस्तभायत् |
    अयं स्वस्य पितुर् आयुधानीन्दुर् अमुष्णाद् अशिवस्य मायाः ||

    ayám deváḥ sáhasā jā́yamāna índreṇa yujā́ paṇímastabhāyat ǀ
    ayám svásya pitúrā́yudhānī́nduramuṣṇādáśivasya māyā́ḥ ǁ

    ayaṃ devaḥ sahasā jāyamāna indreṇa yujā paṇim astabhāyat |
    ayaṃ svasya pitur āyudhānīndur amuṣṇād aśivasya māyāḥ ||

    अ॒यम् । दे॒वः । सह॑सा । जाय॑मानः । इन्द्रे॑ण । यु॒जा । प॒णिम् । अ॒स्त॒भा॒य॒त् ।
    अ॒यम् । स्वस्य॑ । पि॒तुः । आयु॑धानि । इन्दुः॑ । अ॒मु॒ष्णा॒त् । अशि॑वस्य । मा॒याः ॥

    अयम् । देवः । सहसा । जायमानः । इन्द्रेण । युजा । पणिम् । अस्तभायत् ।
    अयम् । स्वस्य । पितुः । आयुधानि । इन्दुः । अमुष्णात् । अशिवस्य । मायाः ॥

    ayám ǀ deváḥ ǀ sáhasā ǀ jā́yamānaḥ ǀ índreṇa ǀ yujā́ ǀ paṇím ǀ astabhāyat ǀ
    ayám ǀ svásya ǀ pitúḥ ǀ ā́yudhāni ǀ índuḥ ǀ amuṣṇāt ǀ áśivasya ǀ māyā́ḥ ǁ

    ayam ǀ devaḥ ǀ sahasā ǀ jāyamānaḥ ǀ indreṇa ǀ yujā ǀ paṇim ǀ astabhāyat ǀ
    ayam ǀ svasya ǀ pituḥ ǀ āyudhāni ǀ induḥ ǀ amuṣṇāt ǀ aśivasya ǀ māyāḥ ǁ

    6.44.22 Aṣṭaka 4.7.20.2Anuvāka 6.4.22

  23. Ṛk 23

    अ॒यम॑कृणोदु॒षसः॑ सु॒पत्नी॑र॒यं सूर्ये॑ अदधा॒ज्ज्योति॑रं॒तः ।
    अ॒यं त्रि॒धातु॑ दि॒वि रो॑च॒नेषु॑ त्रि॒तेषु॑ विंदद॒मृतं॒ निगू॑ळ्हं ॥

    अयम् अकृणोद् उषसः सुपत्नीर् अयं सूर्ये अदधाज् ज्योतिर् अन्तः |
    अयं त्रिधातु दिवि रोचनेषु त्रितेषु विन्दद् अमृतं निगूऌहम् ||

    ayámakṛṇoduṣásaḥ supátnīrayám sū́rye adadhājjyótirantáḥ ǀ
    ayám tridhā́tu diví rocanéṣu tritéṣu vindadamṛ́tam nígūḷham ǁ

    ayam akṛṇod uṣasaḥ supatnīr ayaṃ sūrye adadhāj jyotir antaḥ |
    ayaṃ tridhātu divi rocaneṣu triteṣu vindad amṛtaṃ nigūḷham ||

    अ॒यम् । अ॒कृ॒णो॒त् । उ॒षसः॑ । सु॒ऽपत्नीः॑ । अ॒यम् । सूर्ये॑ । अ॒द॒धा॒त् । ज्योतिः॑ । अ॒न्तरिति॑ ।
    अ॒यम् । त्रि॒ऽधातु॑ । दि॒वि । रो॒च॒नेषु॑ । त्रि॒तेषु॑ । वि॒न्द॒त् । अ॒मृत॑म् । निऽगू॑ळ्हम् ॥

    अयम् । अकृणोत् । उषसः । सुऽपत्नीः । अयम् । सूर्ये । अदधात् । ज्योतिः । अन्तरिति ।
    अयम् । त्रिऽधातु । दिवि । रोचनेषु । त्रितेषु । विन्दत् । अमृतम् । निऽगूळ्हम् ॥

    ayám ǀ akṛṇot ǀ uṣásaḥ ǀ su-pátnīḥ ǀ ayám ǀ sū́rye ǀ adadhāt ǀ jyótiḥ ǀ antáríti ǀ
    ayám ǀ tri-dhā́tu ǀ diví ǀ rocanéṣu ǀ tritéṣu ǀ vindat ǀ amṛ́tam ǀ ní-gūḷham ǁ

    ayam ǀ akṛṇot ǀ uṣasaḥ ǀ su-patnīḥ ǀ ayam ǀ sūrye ǀ adadhāt ǀ jyotiḥ ǀ antariti ǀ
    ayam ǀ tri-dhātu ǀ divi ǀ rocaneṣu ǀ triteṣu ǀ vindat ǀ amṛtam ǀ ni-gūḷham ǁ

    6.44.23 Aṣṭaka 4.7.20.3Anuvāka 6.4.23

  24. Ṛk 24

    अ॒यं द्यावा॑पृथि॒वी वि ष्क॑भायद॒यं रथ॑मयुनक्स॒प्तर॑श्मिं ।
    अ॒यं गोषु॒ शच्या॑ प॒क्वमं॒तः सोमो॑ दाधार॒ दश॑यंत्र॒मुत्सं॑ ॥

    अयं द्यावापृथिवी वि ष्कभायद् अयं रथम् अयुनक् सप्तरश्मिम् |
    अयं गोषु शच्या पक्वम् अन्तः सोमो दाधार दशयन्त्रम् उत्सम् ||

    ayám dyā́vāpṛthivī́ ví ṣkabhāyadayám ráthamayunaksaptáraśmim ǀ
    ayám góṣu śácyā pakvámantáḥ sómo dādhāra dáśayantramútsam ǁ

    ayaṃ dyāvāpṛthivī vi ṣkabhāyad ayaṃ ratham ayunak saptaraśmim |
    ayaṃ goṣu śacyā pakvam antaḥ somo dādhāra daśayantram utsam ||

    अ॒यम् । द्यावा॑पृथि॒वी इति॑ । वि । स्क॒भा॒य॒त् । अ॒यम् । रथ॑म् । अ॒यु॒न॒क् । स॒प्तऽर॑श्मिम् ।
    अ॒यम् । गोषु॑ । शच्या॑ । प॒क्वम् । अ॒न्तरिति॑ । सोमः॑ । दा॒धा॒र॒ । दश॑ऽयन्त्रम् । उत्स॑म् ॥

    अयम् । द्यावापृथिवी इति । वि । स्कभायत् । अयम् । रथम् । अयुनक् । सप्तऽरश्मिम् ।
    अयम् । गोषु । शच्या । पक्वम् । अन्तरिति । सोमः । दाधार । दशऽयन्त्रम् । उत्सम् ॥

    ayám ǀ dyā́vāpṛthivī́ íti ǀ ví ǀ skabhāyat ǀ ayám ǀ rátham ǀ ayunak ǀ saptá-raśmim ǀ
    ayám ǀ góṣu ǀ śácyā ǀ pakvám ǀ antáríti ǀ sómaḥ ǀ dādhāra ǀ dáśa-yantram ǀ útsam ǁ

    ayam ǀ dyāvāpṛthivī iti ǀ vi ǀ skabhāyat ǀ ayam ǀ ratham ǀ ayunak ǀ sapta-raśmim ǀ
    ayam ǀ goṣu ǀ śacyā ǀ pakvam ǀ antariti ǀ somaḥ ǀ dādhāra ǀ daśa-yantram ǀ utsam ǁ

    6.44.24 Aṣṭaka 4.7.20.4Anuvāka 6.4.24

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 6.44 · Indra · Indra, Soma

Interpretations

Sri Aurobindo

Ṛk 22

This god born by force, stayed, with Indra as his comrade, the Pani; he it was wrested from his own unblest father (the divided being) his weapons of war and his forms of knowledge (mDyDU), he it was made the Dawns glorious in their lord, he it was created in the Sun the Light within, he it was found the triple principle (of immortality) in heaven in its regions of splendour (the three worlds of Swar) and in the tripartite worlds the hidden immortality (this is giving of the Amrita in separate parts alluded to in the Atris’ hymn to Agni, the threefold offering of the Soma given on the three levels, triIu sDnuIu, body, life and mind); he it was supported widely heaven and earth, he it was fashioned the car with the seven rays; he it was held by his force the ripe yield (of the madhu or ghrta) in the cows, even the fountain of the ten movements. (SABCL, Vol. 10, p.139)

Ṛk 23

This god born by force, stayed, with Indra as his comrade, the Pani; he it was wrested from his own unblest father (the divided being) his weapons of war and his forms of knowledge (mDyDU), he it was made the Dawns glorious in their lord, he it was created in the Sun the Light within, he it was found the triple principle (of immortality) in heaven in its regions of splendour (the three worlds of Swar) and in the tripartite worlds the hidden immortality (this is giving of the Amrita in separate parts alluded to in the Atris' hymn to Agni, the threefold offering of the Soma given on the three levels, triIu sDnuIu, body, life and mind); he it was supported widely heaven and earth, he it was fashioned the car with the seven rays; he it was held by his force the ripe yield (of the madhu or ghrta) in the cows, even the fountain of the ten movements.

Ṛk 24

This god born by force, stayed, with Indra as his comrade, the Pani; he it was wrested from his own unblest father (the divided being) his weapons of war and his forms of knowledge (mDyDU), he it was made the Dawns glorious in their lord, he it was created in the Sun the Light within, he it was found the triple principle (of immortality) in heaven in its regions of splendour (the three worlds of Swar) and in the tripartite worlds the hidden immortality (this is giving of the Amrita in separate parts alluded to in the Atris' hymn to Agni, the threefold offering of the Soma given on the three levels, triIu sDnuIu, body, life and mind); he it was supported widely heaven and earth, he it was fashioned the car with the seven rays; he it was held by his force the ripe yield (of the madhu or ghrta) in the cows, even the fountain of the ten movements.