Sūkta 26
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles bhurikpaṅkti (2, 4); paṅktiḥ (1); nicṛtpaṅkti (3); svarāṭpaṅkti (5); virāṭtrisṭup (6); triṣṭup (7); nicṛttriṣṭup (8)
2nd set of styles triṣṭubh
-
Ṛk 1
श्रु॒धी न॑ इंद्र॒ ह्वया॑मसि त्वा म॒हो वाज॑स्य सा॒तौ वा॑वृषा॒णाः ।
सं यद्विशोऽयं॑त॒ शूर॑साता उ॒ग्रं नोऽवः॒ पार्ये॒ अहं॑दाः ॥श्रुधी न इन्द्र ह्वयामसि त्वा महो वाजस्य सातौ वावृषाणाः |
सं यद् विशो ऽयन्त शूरसाता उग्रं नो ऽवः पार्ये अहन् दाः ||śrudhī́ na indra hváyāmasi tvā mahó vā́jasya sātáu vāvṛṣāṇā́ḥ ǀ
sám yádvíśó’yanta śū́rasātā ugrám nó’vaḥ pā́rye áhandāḥ ǁśrudhī na indra hvayāmasi tvā maho vājasya sātau vāvṛṣāṇāḥ |
saṃ yad viśo 'yanta śūrasātā ugraṃ no 'vaḥ pārye ahan dāḥ ||श्रु॒धि । नः॒ । इ॒न्द्र॒ । ह्वया॑मसि । त्वा॒ । म॒हः । वाज॑स्य । सा॒तौ । व॒वृ॒षा॒णाः ।
सम् । यत् । विशः॑ । अय॑न्त । शूर॑ऽसातौ । उ॒ग्रम् । नः॒ । अवः॑ । पार्ये॑ । अह॑न् । दाः॒ ॥श्रुधि । नः । इन्द्र । ह्वयामसि । त्वा । महः । वाजस्य । सातौ । ववृषाणाः ।
सम् । यत् । विशः । अयन्त । शूरऽसातौ । उग्रम् । नः । अवः । पार्ये । अहन् । दाः ॥śrudhí ǀ naḥ ǀ indra ǀ hváyāmasi ǀ tvā ǀ maháḥ ǀ vā́jasya ǀ sātáu ǀ vavṛṣāṇā́ḥ ǀ
sám ǀ yát ǀ víśaḥ ǀ áyanta ǀ śū́ra-sātau ǀ ugrám ǀ naḥ ǀ ávaḥ ǀ pā́rye ǀ áhan ǀ dāḥ ǁśrudhi ǀ naḥ ǀ indra ǀ hvayāmasi ǀ tvā ǀ mahaḥ ǀ vājasya ǀ sātau ǀ vavṛṣāṇāḥ ǀ
sam ǀ yat ǀ viśaḥ ǀ ayanta ǀ śūra-sātau ǀ ugram ǀ naḥ ǀ avaḥ ǀ pārye ǀ ahan ǀ dāḥ ǁ6.26.1 Aṣṭaka 4.6.21.1Anuvāka 6.3.20
-
Ṛk 2
त्वां वा॒जी ह॑वते वाजिने॒यो म॒हो वाज॑स्य॒ गध्य॑स्य सा॒तौ ।
त्वां वृ॒त्रेष्विं॑द्र॒ सत्प॑तिं॒ तरु॑त्रं॒ त्वां च॑ष्टे मुष्टि॒हा गोषु॒ युध्य॑न् ॥त्वां वाजी हवते वाजिनेयो महो वाजस्य गध्यस्य सातौ |
त्वां वृत्रेष्व् इन्द्र सत्पतिं तरुत्रं त्वां चष्टे मुष्टिहा गोषु युध्यन् ||tvā́m vājī́ havate vājineyó mahó vā́jasya gádhyasya sātáu ǀ
tvā́m vṛtréṣvindra sátpatim tárutram tvā́m caṣṭe muṣṭihā́ góṣu yúdhyan ǁtvāṃ vājī havate vājineyo maho vājasya gadhyasya sātau |
tvāṃ vṛtreṣv indra satpatiṃ tarutraṃ tvāṃ caṣṭe muṣṭihā goṣu yudhyan ||त्वाम् । वा॒जी । ह॒व॒ते॒ । वा॒जि॒ने॒यः । म॒हः । वाज॑स्य । गध्य॑स्य । सा॒तौ ।
त्वाम् । वृ॒त्रेषु॑ । इ॒न्द्र॒ । सत्ऽप॑तिम् । तरु॑त्रम् । त्वाम् । च॒ष्टे॒ । मु॒ष्टि॒ऽहा । गोषु॑ । युध्य॑न् ॥त्वाम् । वाजी । हवते । वाजिनेयः । महः । वाजस्य । गध्यस्य । सातौ ।
त्वाम् । वृत्रेषु । इन्द्र । सत्ऽपतिम् । तरुत्रम् । त्वाम् । चष्टे । मुष्टिऽहा । गोषु । युध्यन् ॥tvā́m ǀ vājī́ ǀ havate ǀ vājineyáḥ ǀ maháḥ ǀ vā́jasya ǀ gádhyasya ǀ sātáu ǀ
tvā́m ǀ vṛtréṣu ǀ indra ǀ sát-patim ǀ tárutram ǀ tvā́m ǀ caṣṭe ǀ muṣṭi-hā́ ǀ góṣu ǀ yúdhyan ǁtvām ǀ vājī ǀ havate ǀ vājineyaḥ ǀ mahaḥ ǀ vājasya ǀ gadhyasya ǀ sātau ǀ
tvām ǀ vṛtreṣu ǀ indra ǀ sat-patim ǀ tarutram ǀ tvām ǀ caṣṭe ǀ muṣṭi-hā ǀ goṣu ǀ yudhyan ǁ6.26.2 Aṣṭaka 4.6.21.2Anuvāka 6.3.21
-
Ṛk 3
त्वं क॒विं चो॑दयो॒ऽर्कसा॑तौ॒ त्वं कुत्सा॑य॒ शुष्णं॑ दा॒शुषे॑ वर्क् ।
त्वं शिरो॑ अम॒र्मणः॒ परा॑हन्नतिथि॒ग्वाय॒ शंस्यं॑ करि॒ष्यन् ॥त्वं कविं चोदयो ऽर्कसातौ त्वं कुत्साय शुष्णं दाशुषे वर्क् |
त्वं शिरो अमर्मणः पराहन्न् अतिथिग्वाय शंस्यं करिष्यन् ||tvám kavím codayo’rkásātau tvám kútsāya śúṣṇam dāśúṣe vark ǀ
tvám śíro amarmáṇaḥ párāhannatithigvā́ya śáṃsyam kariṣyán ǁtvaṃ kaviṃ codayo 'rkasātau tvaṃ kutsāya śuṣṇaṃ dāśuṣe vark |
tvaṃ śiro amarmaṇaḥ parāhann atithigvāya śaṃsyaṃ kariṣyan ||त्वम् । क॒विम् । चो॒द॒यः॒ । अ॒र्कऽसा॑तौ । त्वम् । कुत्सा॑य । शुष्ण॑म् । दा॒शुषे॑ । व॒र्क् ।
त्वम् । शिरः॑ । अ॒म॒र्मणः॑ । परा॑ । अ॒ह॒न् । अ॒ति॒थि॒ऽग्वाय॑ । शंस्य॑म् । क॒रि॒ष्यन् ॥त्वम् । कविम् । चोदयः । अर्कऽसातौ । त्वम् । कुत्साय । शुष्णम् । दाशुषे । वर्क् ।
त्वम् । शिरः । अमर्मणः । परा । अहन् । अतिथिऽग्वाय । शंस्यम् । करिष्यन् ॥tvám ǀ kavím ǀ codayaḥ ǀ arká-sātau ǀ tvám ǀ kútsāya ǀ śúṣṇam ǀ dāśúṣe ǀ vark ǀ
tvám ǀ śíraḥ ǀ amarmáṇaḥ ǀ párā ǀ ahan ǀ atithi-gvā́ya ǀ śáṃsyam ǀ kariṣyán ǁtvam ǀ kavim ǀ codayaḥ ǀ arka-sātau ǀ tvam ǀ kutsāya ǀ śuṣṇam ǀ dāśuṣe ǀ vark ǀ
tvam ǀ śiraḥ ǀ amarmaṇaḥ ǀ parā ǀ ahan ǀ atithi-gvāya ǀ śaṃsyam ǀ kariṣyan ǁ6.26.3 Aṣṭaka 4.6.21.3Anuvāka 6.3.22
-
Ṛk 4
त्वं रथं॒ प्र भ॑रो यो॒धमृ॒ष्वमावो॒ युध्यं॑तं वृष॒भं दश॑द्युं ।
त्वं तुग्रं॑ वेत॒सवे॒ सचा॑हं॒त्वं तुजिं॑ गृ॒णंत॑मिंद्र तूतोः ॥त्वं रथम् प्र भरो योधम् ऋष्वम् आवो युध्यन्तं वृषभं दशद्युम् |
त्वं तुग्रं वेतसवे सचाहन् त्वं तुजिं गृणन्तम् इन्द्र तूतोः ||tvám rátham prá bharo yodhámṛṣvámā́vo yúdhyantam vṛṣabhám dáśadyum ǀ
tvám túgram vetasáve sácāhantvám tújim gṛṇántamindra tūtoḥ ǁtvaṃ ratham pra bharo yodham ṛṣvam āvo yudhyantaṃ vṛṣabhaṃ daśadyum |
tvaṃ tugraṃ vetasave sacāhan tvaṃ tujiṃ gṛṇantam indra tūtoḥ ||त्वम् । रथ॑म् । प्र । भ॒रः॒ । यो॒धम् । ऋ॒ष्वम् । आवः॑ । युध्य॑न्तम् । वृ॒ष॒भम् । दश॑ऽद्युम् ।
त्वम् । तुग्र॑म् । वे॒त॒सवे॑ । सचा॑ । अ॒ह॒न् । त्वम् । तुजि॑म् । गृ॒णन्त॑म् । इ॒न्द्र॒ । तू॒तो॒रिति॑ तूतोः ॥त्वम् । रथम् । प्र । भरः । योधम् । ऋष्वम् । आवः । युध्यन्तम् । वृषभम् । दशऽद्युम् ।
त्वम् । तुग्रम् । वेतसवे । सचा । अहन् । त्वम् । तुजिम् । गृणन्तम् । इन्द्र । तूतोरिति तूतोः ॥tvám ǀ rátham ǀ prá ǀ bharaḥ ǀ yodhám ǀ ṛṣvám ǀ ā́vaḥ ǀ yúdhyantam ǀ vṛṣabhám ǀ dáśa-dyum ǀ
tvám ǀ túgram ǀ vetasáve ǀ sácā ǀ ahan ǀ tvám ǀ tújim ǀ gṛṇántam ǀ indra ǀ tūtoríti tūtoḥ ǁtvam ǀ ratham ǀ pra ǀ bharaḥ ǀ yodham ǀ ṛṣvam ǀ āvaḥ ǀ yudhyantam ǀ vṛṣabham ǀ daśa-dyum ǀ
tvam ǀ tugram ǀ vetasave ǀ sacā ǀ ahan ǀ tvam ǀ tujim ǀ gṛṇantam ǀ indra ǀ tūtoriti tūtoḥ ǁ6.26.4 Aṣṭaka 4.6.21.4Anuvāka 6.3.23
-
Ṛk 5
त्वं तदु॒क्थमिं॑द्र ब॒र्हणा॑ कः॒ प्र यच्छ॒ता स॒हस्रा॑ शूर॒ दर्षि॑ ।
अव॑ गि॒रेर्दासं॒ शंब॑रं ह॒न्प्रावो॒ दिवो॑दासं चि॒त्राभि॑रू॒ती ॥त्वं तद् उक्थम् इन्द्र बर्हणा कः प्र यच् छता सहस्रा शूर दर्षि |
अव गिरेर् दासं शम्बरं हन् प्रावो दिवोदासं चित्राभिर् ऊती ||tvám tádukthámindra barháṇā kaḥ prá yácchatā́ sahásrā śūra dárṣi ǀ
áva girérdā́sam śámbaram hanprā́vo dívodāsam citrā́bhirūtī́ ǁtvaṃ tad uktham indra barhaṇā kaḥ pra yac chatā sahasrā śūra darṣi |
ava girer dāsaṃ śambaraṃ han prāvo divodāsaṃ citrābhir ūtī ||त्वम् । तत् । उ॒क्थम् । इ॒न्द्र॒ । ब॒र्हणा॑ । क॒रिति॑ कः । प्र । यत् । श॒ता । स॒हस्रा॑ । शू॒र॒ । दर्षि॑ ।
अव॑ । गि॒रेः । दास॑म् । शम्ब॑रम् । ह॒न् । प्र । आ॒वः॒ । दिवः॑ऽदासम् । चि॒त्राभिः॑ । ऊ॒ती ॥त्वम् । तत् । उक्थम् । इन्द्र । बर्हणा । करिति कः । प्र । यत् । शता । सहस्रा । शूर । दर्षि ।
अव । गिरेः । दासम् । शम्बरम् । हन् । प्र । आवः । दिवःऽदासम् । चित्राभिः । ऊती ॥tvám ǀ tát ǀ ukthám ǀ indra ǀ barháṇā ǀ karíti kaḥ ǀ prá ǀ yát ǀ śatā́ ǀ sahásrā ǀ śūra ǀ dárṣi ǀ
áva ǀ giréḥ ǀ dā́sam ǀ śámbaram ǀ han ǀ prá ǀ āvaḥ ǀ dívaḥ-dāsam ǀ citrā́bhiḥ ǀ ūtī́ ǁtvam ǀ tat ǀ uktham ǀ indra ǀ barhaṇā ǀ kariti kaḥ ǀ pra ǀ yat ǀ śatā ǀ sahasrā ǀ śūra ǀ darṣi ǀ
ava ǀ gireḥ ǀ dāsam ǀ śambaram ǀ han ǀ pra ǀ āvaḥ ǀ divaḥ-dāsam ǀ citrābhiḥ ǀ ūtī ǁ6.26.5 Aṣṭaka 4.6.21.5Anuvāka 6.3.24
-
Ṛk 6
त्वं श्र॒द्धाभि॑र्मंदसा॒नः सोमै॑र्द॒भीत॑ये॒ चुमु॑रिमिंद्र सिष्वप् ।
त्वं र॒जिं पिठी॑नसे दश॒स्यन्ष॒ष्टिं स॒हस्रा॒ शच्या॒ सचा॑हन् ॥त्वं श्रद्धाभिर् मन्दसानः सोमैर् दभीतये चुमुरिम् इन्द्र सिष्वप् |
त्वं रजिम् पिठीनसे दशस्यन् षष्टिं सहस्रा शच्या सचाहन् ||tvám śraddhā́bhirmandasānáḥ sómairdabhī́taye cúmurimindra siṣvap ǀ
tvám rajím píṭhīnase daśasyánṣaṣṭím sahásrā śácyā sácāhan ǁtvaṃ śraddhābhir mandasānaḥ somair dabhītaye cumurim indra siṣvap |
tvaṃ rajim piṭhīnase daśasyan ṣaṣṭiṃ sahasrā śacyā sacāhan ||त्वम् । श्र॒द्धाभिः॑ । म॒न्द॒सा॒नः । सोमैः॑ । द॒भीत॑ये । चुमु॑रिम् । इ॒न्द्र॒ । सि॒स्व॒प् ।
त्वम् । र॒जिम् । पिठी॑नसे । द॒श॒स्यन् । ष॒ष्टिम् । स॒हस्रा॑ । शच्या॑ । सचा॑ । अ॒ह॒न् ॥त्वम् । श्रद्धाभिः । मन्दसानः । सोमैः । दभीतये । चुमुरिम् । इन्द्र । सिस्वप् ।
त्वम् । रजिम् । पिठीनसे । दशस्यन् । षष्टिम् । सहस्रा । शच्या । सचा । अहन् ॥tvám ǀ śraddhā́bhiḥ ǀ mandasānáḥ ǀ sómaiḥ ǀ dabhī́taye ǀ cúmurim ǀ indra ǀ sisvap ǀ
tvám ǀ rajím ǀ píṭhīnase ǀ daśasyán ǀ ṣaṣṭím ǀ sahásrā ǀ śácyā ǀ sácā ǀ ahan ǁtvam ǀ śraddhābhiḥ ǀ mandasānaḥ ǀ somaiḥ ǀ dabhītaye ǀ cumurim ǀ indra ǀ sisvap ǀ
tvam ǀ rajim ǀ piṭhīnase ǀ daśasyan ǀ ṣaṣṭim ǀ sahasrā ǀ śacyā ǀ sacā ǀ ahan ǁ6.26.6 Aṣṭaka 4.6.22.1Anuvāka 6.3.25
-
Ṛk 7
अ॒हं च॒न तत्सू॒रिभि॑रानश्यां॒ तव॒ ज्याय॑ इंद्र सु॒म्नमोजः॑ ।
त्वया॒ यत्स्तवं॑ते सधवीर वी॒रास्त्रि॒वरू॑थेन॒ नहु॑षा शविष्ठ ॥अहं चन तत् सूरिभिर् आनश्यां तव ज्याय इन्द्र सुम्नम् ओजः |
त्वया यत् स्तवन्ते सधवीर वीरास् त्रिवरूथेन नहुषा शविष्ठ ||ahám caná tátsūríbhirānaśyām táva jyā́ya indra sumnámójaḥ ǀ
tváyā yátstávante sadhavīra vīrā́strivárūthena náhuṣā śaviṣṭha ǁahaṃ cana tat sūribhir ānaśyāṃ tava jyāya indra sumnam ojaḥ |
tvayā yat stavante sadhavīra vīrās trivarūthena nahuṣā śaviṣṭha ||अ॒हम् । च॒न । तत् । सू॒रिऽभिः॑ । आ॒न॒श्या॒न् । तव॑ । ज्यायः॑ । इ॒न्द्र॒ । सु॒म्नम् । ओजः॑ ।
त्वया॑ । यत् । स्तव॑न्ते । स॒ध॒ऽवी॒र॒ । वी॒राः । त्रि॒ऽवरू॑थेन । नहु॑षा । श॒वि॒ष्ठ॒ ॥अहम् । चन । तत् । सूरिऽभिः । आनश्यान् । तव । ज्यायः । इन्द्र । सुम्नम् । ओजः ।
त्वया । यत् । स्तवन्ते । सधऽवीर । वीराः । त्रिऽवरूथेन । नहुषा । शविष्ठ ॥ahám ǀ caná ǀ tát ǀ sūrí-bhiḥ ǀ ānaśyān ǀ táva ǀ jyā́yaḥ ǀ indra ǀ sumnám ǀ ójaḥ ǀ
tváyā ǀ yát ǀ stávante ǀ sadha-vīra ǀ vīrā́ḥ ǀ tri-várūthena ǀ náhuṣā ǀ śaviṣṭha ǁaham ǀ cana ǀ tat ǀ sūri-bhiḥ ǀ ānaśyān ǀ tava ǀ jyāyaḥ ǀ indra ǀ sumnam ǀ ojaḥ ǀ
tvayā ǀ yat ǀ stavante ǀ sadha-vīra ǀ vīrāḥ ǀ tri-varūthena ǀ nahuṣā ǀ śaviṣṭha ǁ6.26.7 Aṣṭaka 4.6.22.2Anuvāka 6.3.26
-
Ṛk 8
व॒यं ते॑ अ॒स्यामिं॑द्र द्यु॒म्नहू॑तौ॒ सखा॑यः स्याम महिन॒ प्रेष्ठाः॑ ।
प्रात॑र्दनिः क्षत्र॒श्रीर॑स्तु॒ श्रेष्ठो॑ घ॒ने वृ॒त्राणां॑ स॒नये॒ धना॑नां ॥वयं ते अस्याम् इन्द्र द्युम्नहूतौ सखायः स्याम महिन प्रेष्ठाः |
प्रातर्दनिः क्षत्रश्रीर् अस्तु श्रेष्ठो घने वृत्राणां सनये धनानाम् ||vayám te asyā́mindra dyumnáhūtau sákhāyaḥ syāma mahina préṣṭhāḥ ǀ
prā́tardaniḥ kṣatraśrī́rastu śréṣṭho ghané vṛtrā́ṇām sanáye dhánānām ǁvayaṃ te asyām indra dyumnahūtau sakhāyaḥ syāma mahina preṣṭhāḥ |
prātardaniḥ kṣatraśrīr astu śreṣṭho ghane vṛtrāṇāṃ sanaye dhanānām ||व॒यम् । ते॒ । अ॒स्याम् । इ॒न्द्र॒ । द्यु॒म्नऽहू॑तौ । सखा॑यः । स्या॒म॒ । म॒हि॒न॒ । प्रेष्ठाः॑ ।
प्रात॑र्दनिः । क्ष॒त्र॒ऽश्रीः । अ॒स्तु॒ । श्रेष्ठः॑ । घ॒ने । वृ॒त्राणा॑म् । स॒नये॑ । धना॑नाम् ॥वयम् । ते । अस्याम् । इन्द्र । द्युम्नऽहूतौ । सखायः । स्याम । महिन । प्रेष्ठाः ।
प्रातर्दनिः । क्षत्रऽश्रीः । अस्तु । श्रेष्ठः । घने । वृत्राणाम् । सनये । धनानाम् ॥vayám ǀ te ǀ asyā́m ǀ indra ǀ dyumná-hūtau ǀ sákhāyaḥ ǀ syāma ǀ mahina ǀ préṣṭhāḥ ǀ
prā́tardaniḥ ǀ kṣatra-śrī́ḥ ǀ astu ǀ śréṣṭhaḥ ǀ ghané ǀ vṛtrā́ṇām ǀ sanáye ǀ dhánānām ǁvayam ǀ te ǀ asyām ǀ indra ǀ dyumna-hūtau ǀ sakhāyaḥ ǀ syāma ǀ mahina ǀ preṣṭhāḥ ǀ
prātardaniḥ ǀ kṣatra-śrīḥ ǀ astu ǀ śreṣṭhaḥ ǀ ghane ǀ vṛtrāṇām ǀ sanaye ǀ dhanānām ǁ6.26.8 Aṣṭaka 4.6.22.3Anuvāka 6.3.27
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.