Sūkta 72
- Devatā देवता
- Indra, Soma
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles virāṭtrisṭup (2, 4, 5); nicṛttriṣṭup (1, 3)
2nd set of styles triṣṭubh
-
Ṛk 1
इंद्रा॑सोमा॒ महि॒ तद्वां॑ महि॒त्वं यु॒वं म॒हानि॑ प्रथ॒मानि॑ चक्रथुः ।
यु॒वं सूर्यं॑ विवि॒दथु॑र्यु॒वं स्व१॒॑र्विश्वा॒ तमां॑स्यहतं नि॒दश्च॑ ॥इन्द्रासोमा महि तद् वाम् महित्वं युवम् महानि प्रथमानि चक्रथुः |
युवं सूर्यं विविदथुर् युवं स्वर् विश्वा तमांस्य् अहतं निदश् च ||índrāsomā máhi tádvām mahitvám yuvám mahā́ni prathamā́ni cakrathuḥ ǀ
yuvám sū́ryam vividáthuryuvám svárvíśvā támāṃsyahatam nidáśca ǁindrāsomā mahi tad vām mahitvaṃ yuvam mahāni prathamāni cakrathuḥ |
yuvaṃ sūryaṃ vividathur yuvaṃ svar viśvā tamāṃsy ahataṃ nidaś ca ||इन्द्रा॑सोमा । महि॑ । तत् । वा॒म् । म॒हि॒ऽत्वम् । यु॒वम् । म॒हानि॑ । प्र॒थ॒मानि॑ । च॒क्र॒थुः॒ ।
यु॒वम् । सूर्य॑म् । वि॒वि॒दथुः॑ । यु॒वम् । स्वः॑ । विश्वा॑ । तमां॑सि । अ॒ह॒त॒म् । नि॒दः । च॒ ॥इन्द्रासोमा । महि । तत् । वाम् । महिऽत्वम् । युवम् । महानि । प्रथमानि । चक्रथुः ।
युवम् । सूर्यम् । विविदथुः । युवम् । स्वः । विश्वा । तमांसि । अहतम् । निदः । च ॥índrāsomā ǀ máhi ǀ tát ǀ vām ǀ mahi-tvám ǀ yuvám ǀ mahā́ni ǀ prathamā́ni ǀ cakrathuḥ ǀ
yuvám ǀ sū́ryam ǀ vividáthuḥ ǀ yuvám ǀ sváḥ ǀ víśvā ǀ támāṃsi ǀ ahatam ǀ nidáḥ ǀ ca ǁindrāsomā ǀ mahi ǀ tat ǀ vām ǀ mahi-tvam ǀ yuvam ǀ mahāni ǀ prathamāni ǀ cakrathuḥ ǀ
yuvam ǀ sūryam ǀ vividathuḥ ǀ yuvam ǀ svaḥ ǀ viśvā ǀ tamāṃsi ǀ ahatam ǀ nidaḥ ǀ ca ǁ6.72.1 Aṣṭaka 5.1.16.1Anuvāka 6.6.88
-
Ṛk 2
इंद्रा॑सोमा वा॒सय॑थ उ॒षास॒मुत्सूर्यं॑ नयथो॒ ज्योति॑षा स॒ह ।
उप॒ द्यां स्कं॒भथुः॒ स्कंभ॑ने॒नाप्र॑थतं पृथि॒वीं मा॒तरं॒ वि ॥इन्द्रासोमा वासयथ उषासम् उत् सूर्यं नयथो ज्योतिषा सह |
उप द्यां स्कम्भथु स्कम्भनेनाप्रथतम् पृथिवीम् मातरं वि ||índrāsomā vāsáyatha uṣā́samútsū́ryam nayatho jyótiṣā sahá ǀ
úpa dyā́m skambháthuḥ skámbhanenā́prathatam pṛthivī́m mātáram ví ǁindrāsomā vāsayatha uṣāsam ut sūryaṃ nayatho jyotiṣā saha |
upa dyāṃ skambhathu skambhanenāprathatam pṛthivīm mātaraṃ vi ||इन्द्रा॑सोमा । वा॒सय॑थः । उ॒षस॑म् । उत् । सूर्य॑म् । न॒य॒थः॒ । ज्योति॑षा । स॒ह ।
उप॑ । द्याम् । स्क॒म्भथुः॑ । स्कम्भ॑नेन । अप्र॑थतम् । पृ॒थि॒वीम् । मा॒तर॑म् । वि ॥इन्द्रासोमा । वासयथः । उषसम् । उत् । सूर्यम् । नयथः । ज्योतिषा । सह ।
उप । द्याम् । स्कम्भथुः । स्कम्भनेन । अप्रथतम् । पृथिवीम् । मातरम् । वि ॥índrāsomā ǀ vāsáyathaḥ ǀ uṣásam ǀ út ǀ sū́ryam ǀ nayathaḥ ǀ jyótiṣā ǀ sahá ǀ
úpa ǀ dyā́m ǀ skambháthuḥ ǀ skámbhanena ǀ áprathatam ǀ pṛthivī́m ǀ mātáram ǀ ví ǁindrāsomā ǀ vāsayathaḥ ǀ uṣasam ǀ ut ǀ sūryam ǀ nayathaḥ ǀ jyotiṣā ǀ saha ǀ
upa ǀ dyām ǀ skambhathuḥ ǀ skambhanena ǀ aprathatam ǀ pṛthivīm ǀ mātaram ǀ vi ǁ6.72.2 Aṣṭaka 5.1.16.2Anuvāka 6.6.89
-
Ṛk 3
इंद्रा॑सोमा॒वहि॑म॒पः प॑रि॒ष्ठां ह॒थो वृ॒त्रमनु॑ वां॒ द्यौर॑मन्यत ।
प्रार्णां॑स्यैरयतं न॒दीना॒मा स॑मु॒द्राणि॑ पप्रथुः पु॒रूणि॑ ॥इन्द्रासोमाव् अहिम् अपः परिष्ठां हथो वृत्रम् अनु वां द्यौर् अमन्यत |
प्रार्णांस्य् ऐरयतं नदीनाम् आ समुद्राणि पप्रथुः पुरूणि ||índrāsomāváhimapáḥ pariṣṭhā́m hathó vṛtrámánu vām dyáuramanyata ǀ
prā́rṇāṃsyairayatam nadī́nāmā́ samudrā́ṇi paprathuḥ purū́ṇi ǁindrāsomāv ahim apaḥ pariṣṭhāṃ hatho vṛtram anu vāṃ dyaur amanyata |
prārṇāṃsy airayataṃ nadīnām ā samudrāṇi paprathuḥ purūṇi ||इन्द्रा॑सोमौ । अहि॑म् । अ॒पः । प॒रि॒ऽस्थाम् । ह॒थः । वृ॒त्रम् । अनु॑ । वा॒म् । द्यौः । अ॒म॒न्य॒त॒ ।
प्र । अर्णां॑सि । ऐ॒र॒य॒त॒म् । न॒दीना॑म् । आ । स॒मु॒द्राणि॑ । प॒प्र॒थुः॒ । पु॒रूणि॑ ॥इन्द्रासोमौ । अहिम् । अपः । परिऽस्थाम् । हथः । वृत्रम् । अनु । वाम् । द्यौः । अमन्यत ।
प्र । अर्णांसि । ऐरयतम् । नदीनाम् । आ । समुद्राणि । पप्रथुः । पुरूणि ॥índrāsomau ǀ áhim ǀ apáḥ ǀ pari-sthā́m ǀ hatháḥ ǀ vṛtrám ǀ ánu ǀ vām ǀ dyáuḥ ǀ amanyata ǀ
prá ǀ árṇāṃsi ǀ airayatam ǀ nadī́nām ǀ ā́ ǀ samudrā́ṇi ǀ paprathuḥ ǀ purū́ṇi ǁindrāsomau ǀ ahim ǀ apaḥ ǀ pari-sthām ǀ hathaḥ ǀ vṛtram ǀ anu ǀ vām ǀ dyauḥ ǀ amanyata ǀ
pra ǀ arṇāṃsi ǀ airayatam ǀ nadīnām ǀ ā ǀ samudrāṇi ǀ paprathuḥ ǀ purūṇi ǁ6.72.3 Aṣṭaka 5.1.16.3Anuvāka 6.6.90
-
Ṛk 4
इंद्रा॑सोमा प॒क्वमा॒मास्वं॒तर्नि गवा॒मिद्द॑धथुर्व॒क्षणा॑सु ।
ज॒गृ॒भथु॒रन॑पिनद्धमासु॒ रुश॑च्चि॒त्रासु॒ जग॑तीष्वं॒तः ॥इन्द्रासोमा पक्वम् आमास्व् अन्तर् नि गवाम् इद् दधथुर् वक्षणासु |
जगृभथुर् अनपिनद्धम् आसु रुशच् चित्रासु जगतीष्व् अन्तः ||índrāsomā pakvámāmā́svantární gávāmíddadhathurvakṣáṇāsu ǀ
jagṛbháthuránapinaddhamāsu rúśaccitrā́su jágatīṣvantáḥ ǁindrāsomā pakvam āmāsv antar ni gavām id dadhathur vakṣaṇāsu |
jagṛbhathur anapinaddham āsu ruśac citrāsu jagatīṣv antaḥ ||इन्द्रा॑सोमा । प॒क्वम् । आ॒मासु॑ । अ॒न्तः । नि । गवा॑म् । इत् । द॒ध॒थुः॒ । व॒क्षणा॑सु ।
ज॒गृ॒भथुः॑ । अन॑पिऽनद्धम् । आ॒सु॒ । रुश॑त् । चि॒त्रासु॑ । जग॑तीषु । अ॒न्तरिति॑ ॥इन्द्रासोमा । पक्वम् । आमासु । अन्तः । नि । गवाम् । इत् । दधथुः । वक्षणासु ।
जगृभथुः । अनपिऽनद्धम् । आसु । रुशत् । चित्रासु । जगतीषु । अन्तरिति ॥índrāsomā ǀ pakvám ǀ āmā́su ǀ antáḥ ǀ ní ǀ gávām ǀ ít ǀ dadhathuḥ ǀ vakṣáṇāsu ǀ
jagṛbháthuḥ ǀ ánapi-naddham ǀ āsu ǀ rúśat ǀ citrā́su ǀ jágatīṣu ǀ antáríti ǁindrāsomā ǀ pakvam ǀ āmāsu ǀ antaḥ ǀ ni ǀ gavām ǀ it ǀ dadhathuḥ ǀ vakṣaṇāsu ǀ
jagṛbhathuḥ ǀ anapi-naddham ǀ āsu ǀ ruśat ǀ citrāsu ǀ jagatīṣu ǀ antariti ǁ6.72.4 Aṣṭaka 5.1.16.4Anuvāka 6.6.91
-
Ṛk 5
इंद्रा॑सोमा यु॒वमं॒ग तरु॑त्रमपत्य॒साचं॒ श्रुत्यं॑ रराथे ।
यु॒वं शुष्मं॒ नर्यं॑ चर्ष॒णिभ्यः॒ सं वि॑व्यथुः पृतना॒षाह॑मुग्रा ॥इन्द्रासोमा युवम् अङ्ग तरुत्रम् अपत्यसाचं श्रुत्यं रराथे |
युवं शुष्मं नर्यं चर्षणिभ्यः सं विव्यथुः पृतनाषाहम् उग्रा ||índrāsomā yuvámaṅgá tárutramapatyasā́cam śrútyam rarāthe ǀ
yuvám śúṣmam náryam carṣaṇíbhyaḥ sám vivyathuḥ pṛtanāṣā́hamugrā ǁindrāsomā yuvam aṅga tarutram apatyasācaṃ śrutyaṃ rarāthe |
yuvaṃ śuṣmaṃ naryaṃ carṣaṇibhyaḥ saṃ vivyathuḥ pṛtanāṣāham ugrā ||इन्द्रा॑सोमा । यु॒वम् । अ॒ङ्ग । तरु॑त्रम् । अ॒प॒त्य॒ऽसाच॑म् । श्रुत्य॑म् । र॒रा॒थे॒ इति॑ ।
यु॒वम् । शुष्म॑म् । नर्य॑म् । च॒र्ष॒णिऽभ्यः॑ । सम् । वि॒व्य॒थुः॒ । पृ॒त॒ना॒ऽसह॑म् । उ॒ग्रा॒ ॥इन्द्रासोमा । युवम् । अङ्ग । तरुत्रम् । अपत्यऽसाचम् । श्रुत्यम् । रराथे इति ।
युवम् । शुष्मम् । नर्यम् । चर्षणिऽभ्यः । सम् । विव्यथुः । पृतनाऽसहम् । उग्रा ॥índrāsomā ǀ yuvám ǀ aṅgá ǀ tárutram ǀ apatya-sā́cam ǀ śrútyam ǀ rarāthe íti ǀ
yuvám ǀ śúṣmam ǀ náryam ǀ carṣaṇí-bhyaḥ ǀ sám ǀ vivyathuḥ ǀ pṛtanā-sáham ǀ ugrā ǁindrāsomā ǀ yuvam ǀ aṅga ǀ tarutram ǀ apatya-sācam ǀ śrutyam ǀ rarāthe iti ǀ
yuvam ǀ śuṣmam ǀ naryam ǀ carṣaṇi-bhyaḥ ǀ sam ǀ vivyathuḥ ǀ pṛtanā-saham ǀ ugrā ǁ6.72.5 Aṣṭaka 5.1.16.5Anuvāka 6.6.92
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.