Sūkta 27
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles triṣṭup (5, 7, 8); svarāṭpaṅkti (1, 2); nicṛttriṣṭup (3, 4); brāhmyuṣnik (6)
2nd set of styles triṣṭubh
-
Ṛk 1
किम॑स्य॒ मदे॒ किम्व॑स्य पी॒ताविंद्रः॒ किम॑स्य स॒ख्ये च॑कार ।
रणा॑ वा॒ ये नि॒षदि॒ किं ते अ॑स्य पु॒रा वि॑विद्रे॒ किमु॒ नूत॑नासः ॥किम् अस्य मदे किम् व् अस्य पीताव् इन्द्रः किम् अस्य सख्ये चकार |
रणा वा ये निषदि किं ते अस्य पुरा विविद्रे किम् उ नूतनासः ||kímasya máde kímvasya pītā́víndraḥ kímasya sakhyé cakāra ǀ
ráṇā vā yé niṣádi kím té asya purā́ vividre kímu nū́tanāsaḥ ǁkim asya made kim v asya pītāv indraḥ kim asya sakhye cakāra |
raṇā vā ye niṣadi kiṃ te asya purā vividre kim u nūtanāsaḥ ||किम् । अ॒स्य॒ । मदे॑ । किम् । ऊं॒ इति॑ । अ॒स्य॒ । पी॒तौ । इन्द्रः॑ । किम् । अ॒स्य॒ । स॒ख्ये । च॒का॒र॒ ।
रणाः॑ । वा॒ । ये । नि॒ऽसदि॑ । किम् । ते । अ॒स्य॒ । पु॒रा । वि॒वि॒द्रे॒ । किम् । ऊं॒ इति॑ । नूत॑नासः ॥किम् । अस्य । मदे । किम् । ऊं इति । अस्य । पीतौ । इन्द्रः । किम् । अस्य । सख्ये । चकार ।
रणाः । वा । ये । निऽसदि । किम् । ते । अस्य । पुरा । विविद्रे । किम् । ऊं इति । नूतनासः ॥kím ǀ asya ǀ máde ǀ kím ǀ ūṃ íti ǀ asya ǀ pītáu ǀ índraḥ ǀ kím ǀ asya ǀ sakhyé ǀ cakāra ǀ
ráṇāḥ ǀ vā ǀ yé ǀ ni-sádi ǀ kím ǀ té ǀ asya ǀ purā́ ǀ vividre ǀ kím ǀ ūṃ íti ǀ nū́tanāsaḥ ǁkim ǀ asya ǀ made ǀ kim ǀ ūṃ iti ǀ asya ǀ pītau ǀ indraḥ ǀ kim ǀ asya ǀ sakhye ǀ cakāra ǀ
raṇāḥ ǀ vā ǀ ye ǀ ni-sadi ǀ kim ǀ te ǀ asya ǀ purā ǀ vividre ǀ kim ǀ ūṃ iti ǀ nūtanāsaḥ ǁ6.27.1 Aṣṭaka 4.6.23.1Anuvāka 6.3.28
-
Ṛk 2
सद॑स्य॒ मदे॒ सद्व॑स्य पी॒ताविंद्रः॒ सद॑स्य स॒ख्ये च॑कार ।
रणा॑ वा॒ ये नि॒षदि॒ सत्ते अ॑स्य पु॒रा वि॑विद्रे॒ सदु॒ नूत॑नासः ॥सद् अस्य मदे सद् व् अस्य पीताव् इन्द्रः सद् अस्य सख्ये चकार |
रणा वा ये निषदि सत् ते अस्य पुरा विविद्रे सद् उ नूतनासः ||sádasya máde sádvasya pītā́víndraḥ sádasya sakhyé cakāra ǀ
ráṇā vā yé niṣádi sátté asya purā́ vividre sádu nū́tanāsaḥ ǁsad asya made sad v asya pītāv indraḥ sad asya sakhye cakāra |
raṇā vā ye niṣadi sat te asya purā vividre sad u nūtanāsaḥ ||सत् । अ॒स्य॒ । मदे॑ । सत् । ऊं॒ इति॑ । अ॒स्य॒ । पी॒तौ । इन्द्रः॑ । सत् । अ॒स्य॒ । स॒ख्ये । च॒का॒र॒ ।
रणाः॑ । वा॒ । ये । नि॒ऽसदि॑ । सत् । ते । अ॒स्य॒ । पु॒रा । वि॒वि॒द्रे॒ । सत् । ऊं॒ इति॑ । नूत॑नासः ॥सत् । अस्य । मदे । सत् । ऊं इति । अस्य । पीतौ । इन्द्रः । सत् । अस्य । सख्ये । चकार ।
रणाः । वा । ये । निऽसदि । सत् । ते । अस्य । पुरा । विविद्रे । सत् । ऊं इति । नूतनासः ॥sát ǀ asya ǀ máde ǀ sát ǀ ūṃ íti ǀ asya ǀ pītáu ǀ índraḥ ǀ sát ǀ asya ǀ sakhyé ǀ cakāra ǀ
ráṇāḥ ǀ vā ǀ yé ǀ ni-sádi ǀ sát ǀ té ǀ asya ǀ purā́ ǀ vividre ǀ sát ǀ ūṃ íti ǀ nū́tanāsaḥ ǁsat ǀ asya ǀ made ǀ sat ǀ ūṃ iti ǀ asya ǀ pītau ǀ indraḥ ǀ sat ǀ asya ǀ sakhye ǀ cakāra ǀ
raṇāḥ ǀ vā ǀ ye ǀ ni-sadi ǀ sat ǀ te ǀ asya ǀ purā ǀ vividre ǀ sat ǀ ūṃ iti ǀ nūtanāsaḥ ǁ6.27.2 Aṣṭaka 4.6.23.2Anuvāka 6.3.29
-
Ṛk 3
न॒हि नु ते॑ महि॒मनः॑ समस्य॒ न म॑घवन्मघव॒त्त्वस्य॑ वि॒द्म ।
न राध॑सोराधसो॒ नूत॑न॒स्येंद्र॒ नकि॑र्ददृश इंद्रि॒यं ते॑ ॥नहि नु ते महिमनः समस्य न मघवन् मघवत्त्वस्य विद्म |
न राधसो-राधसो नूतनस्येन्द्र नकिर् ददृश इन्द्रियं ते ||nahí nú te mahimánaḥ samasya ná maghavanmaghavattvásya vidmá ǀ
ná rā́dhasorādhaso nū́tanasyéndra nákirdadṛśa indriyám te ǁnahi nu te mahimanaḥ samasya na maghavan maghavattvasya vidma |
na rādhaso-rādhaso nūtanasyendra nakir dadṛśa indriyaṃ te ||न॒हि । नु । ते॒ । म॒हि॒मनः॑ । स॒म॒स्य॒ । न । म॒घ॒ऽव॒न् । म॒घ॒व॒त्ऽत्वस्य॑ । वि॒द्म ।
न । राध॑सःऽराधसः । नूत॑नस्य । इन्द्र॑ । नकिः॑ । द॒दृ॒शे॒ । इ॒न्द्रि॒यम् । ते॒ ॥नहि । नु । ते । महिमनः । समस्य । न । मघऽवन् । मघवत्ऽत्वस्य । विद्म ।
न । राधसःऽराधसः । नूतनस्य । इन्द्र । नकिः । ददृशे । इन्द्रियम् । ते ॥nahí ǀ nú ǀ te ǀ mahimánaḥ ǀ samasya ǀ ná ǀ magha-van ǀ maghavat-tvásya ǀ vidmá ǀ
ná ǀ rā́dhasaḥ-rādhasaḥ ǀ nū́tanasya ǀ índra ǀ nákiḥ ǀ dadṛśe ǀ indriyám ǀ te ǁnahi ǀ nu ǀ te ǀ mahimanaḥ ǀ samasya ǀ na ǀ magha-van ǀ maghavat-tvasya ǀ vidma ǀ
na ǀ rādhasaḥ-rādhasaḥ ǀ nūtanasya ǀ indra ǀ nakiḥ ǀ dadṛśe ǀ indriyam ǀ te ǁ6.27.3 Aṣṭaka 4.6.23.3Anuvāka 6.3.30
-
Ṛk 4
ए॒तत्त्यत्त॑ इंद्रि॒यम॑चेति॒ येनाव॑धीर्व॒रशि॑खस्य॒ शेषः॑ ।
वज्र॑स्य॒ यत्ते॒ निह॑तस्य॒ शुष्मा॑त्स्व॒नाच्चि॑दिंद्र पर॒मो द॒दार॑ ॥एतत् त्यत् त इन्द्रियम् अचेति येनावधीर् वरशिखस्य शेषः |
वज्रस्य यत् ते निहतस्य शुष्मात् स्वनाच् चिद् इन्द्र परमो ददार ||etáttyátta indriyámaceti yénā́vadhīrvaráśikhasya śéṣaḥ ǀ
vájrasya yátte níhatasya śúṣmātsvanā́ccidindra paramó dadā́ra ǁetat tyat ta indriyam aceti yenāvadhīr varaśikhasya śeṣaḥ |
vajrasya yat te nihatasya śuṣmāt svanāc cid indra paramo dadāra ||ए॒तत् । त्यत् । ते॒ । इ॒न्द्रि॒यम् । अ॒चे॒ति॒ । येन॑ । अव॑धीः । व॒रऽशि॑खस्य । शेषः॑ ।
वज्र॑स्य । यत् । ते॒ । निऽह॑तस्य । शुष्मा॑त् । स्व॒नात् । चि॒त् । इ॒न्द्र॒ । प॒र॒मः । द॒दार॑ ॥एतत् । त्यत् । ते । इन्द्रियम् । अचेति । येन । अवधीः । वरऽशिखस्य । शेषः ।
वज्रस्य । यत् । ते । निऽहतस्य । शुष्मात् । स्वनात् । चित् । इन्द्र । परमः । ददार ॥etát ǀ tyát ǀ te ǀ indriyám ǀ aceti ǀ yéna ǀ ávadhīḥ ǀ vará-śikhasya ǀ śéṣaḥ ǀ
vájrasya ǀ yát ǀ te ǀ ní-hatasya ǀ śúṣmāt ǀ svanā́t ǀ cit ǀ indra ǀ paramáḥ ǀ dadā́ra ǁetat ǀ tyat ǀ te ǀ indriyam ǀ aceti ǀ yena ǀ avadhīḥ ǀ vara-śikhasya ǀ śeṣaḥ ǀ
vajrasya ǀ yat ǀ te ǀ ni-hatasya ǀ śuṣmāt ǀ svanāt ǀ cit ǀ indra ǀ paramaḥ ǀ dadāra ǁ6.27.4 Aṣṭaka 4.6.23.4Anuvāka 6.3.31
-
Ṛk 5
वधी॒दिंद्रो॑ व॒रशि॑खस्य॒ शेषो॑ऽभ्याव॒र्तिने॑ चायमा॒नाय॒ शिक्ष॑न् ।
वृ॒चीव॑तो॒ यद्ध॑रियू॒पीया॑यां॒ हन्पूर्वे॒ अर्धे॑ भि॒यसाप॑रो॒ दर्त् ॥वधीद् इन्द्रो वरशिखस्य शेषो ऽभ्यावर्तिने चायमानाय शिक्षन् |
वृचीवतो यद् धरियूपीयायां हन् पूर्वे अर्धे भियसापरो दर्त् ||vádhīdíndro varáśikhasya śéṣo’bhyāvartíne cāyamānā́ya śíkṣan ǀ
vṛcī́vato yáddhariyūpī́yāyām hánpū́rve árdhe bhiyásā́paro dárt ǁvadhīd indro varaśikhasya śeṣo 'bhyāvartine cāyamānāya śikṣan |
vṛcīvato yad dhariyūpīyāyāṃ han pūrve ardhe bhiyasāparo dart ||वधी॑त् । इन्द्रः॑ । व॒रऽशि॑खस्य । शेषः॑ । अ॒भि॒ऽआ॒व॒र्तिने॑ । चा॒य॒मा॒नाय॑ । शिक्ष॑न् ।
वृ॒चीव॑तः । यत् । ह॒रि॒ऽयू॒पीया॑याम् । हन् । पूर्वे॑ । अर्धे॑ । भि॒यसा॑ । अप॑रः । दर्त् ॥वधीत् । इन्द्रः । वरऽशिखस्य । शेषः । अभिऽआवर्तिने । चायमानाय । शिक्षन् ।
वृचीवतः । यत् । हरिऽयूपीयायाम् । हन् । पूर्वे । अर्धे । भियसा । अपरः । दर्त् ॥vádhīt ǀ índraḥ ǀ vará-śikhasya ǀ śéṣaḥ ǀ abhi-āvartíne ǀ cāyamānā́ya ǀ śíkṣan ǀ
vṛcī́vataḥ ǀ yát ǀ hari-yūpī́yāyām ǀ hán ǀ pū́rve ǀ árdhe ǀ bhiyásā ǀ áparaḥ ǀ dárt ǁvadhīt ǀ indraḥ ǀ vara-śikhasya ǀ śeṣaḥ ǀ abhi-āvartine ǀ cāyamānāya ǀ śikṣan ǀ
vṛcīvataḥ ǀ yat ǀ hari-yūpīyāyām ǀ han ǀ pūrve ǀ ardhe ǀ bhiyasā ǀ aparaḥ ǀ dart ǁ6.27.5 Aṣṭaka 4.6.23.5Anuvāka 6.3.32
-
Ṛk 6
त्रिं॒शच्छ॑तं व॒र्मिण॑ इंद्र सा॒कं य॒व्याव॑त्यां पुरुहूत श्रव॒स्या ।
वृ॒चीवं॑तः॒ शर॑वे॒ पत्य॑मानाः॒ पात्रा॑ भिंदा॒ना न्य॒र्थान्या॑यन् ॥त्रिंशच्छतं वर्मिण इन्द्र साकं यव्यावत्याम् पुरुहूत श्रवस्या |
वृचीवन्तः शरवे पत्यमानाः पात्रा भिन्दाना न्यर्थान्य् आयन् ||triṃśácchatam varmíṇa indra sākám yavyā́vatyām puruhūta śravasyā́ ǀ
vṛcī́vantaḥ śárave pátyamānāḥ pā́trā bhindānā́ nyarthā́nyāyan ǁtriṃśacchataṃ varmiṇa indra sākaṃ yavyāvatyām puruhūta śravasyā |
vṛcīvantaḥ śarave patyamānāḥ pātrā bhindānā nyarthāny āyan ||त्रिं॒शत्ऽश॑तम् । व॒र्मिणः॑ । इ॒न्द्र॒ । सा॒कम् । य॒व्याऽव॑त्याम् । पु॒रु॒ऽहू॒त॒ । श्र॒व॒स्या ।
वृ॒चीव॑न्तः । शर॑वे । पत्य॑मानाः । पात्रा॑ । भि॒न्दा॒नाः । नि॒ऽअ॒र्थानि॑ । आ॒य॒न् ॥त्रिंशत्ऽशतम् । वर्मिणः । इन्द्र । साकम् । यव्याऽवत्याम् । पुरुऽहूत । श्रवस्या ।
वृचीवन्तः । शरवे । पत्यमानाः । पात्रा । भिन्दानाः । निऽअर्थानि । आयन् ॥triṃśát-śatam ǀ varmíṇaḥ ǀ indra ǀ sākám ǀ yavyā́-vatyām ǀ puru-hūta ǀ śravasyā́ ǀ
vṛcī́vantaḥ ǀ śárave ǀ pátyamānāḥ ǀ pā́trā ǀ bhindānā́ḥ ǀ ni-arthā́ni ǀ āyan ǁtriṃśat-śatam ǀ varmiṇaḥ ǀ indra ǀ sākam ǀ yavyā-vatyām ǀ puru-hūta ǀ śravasyā ǀ
vṛcīvantaḥ ǀ śarave ǀ patyamānāḥ ǀ pātrā ǀ bhindānāḥ ǀ ni-arthāni ǀ āyan ǁ6.27.6 Aṣṭaka 4.6.24.1Anuvāka 6.3.33
-
Ṛk 7
यस्य॒ गावा॑वरु॒षा सू॑यव॒स्यू अं॒तरू॒ षु चर॑तो॒ रेरि॑हाणा ।
स सृंज॑याय तु॒र्वशं॒ परा॑दाद्वृ॒चीव॑तो दैववा॒ताय॒ शिक्ष॑न् ॥यस्य गावाव् अरुषा सूयवस्यू अन्तर् ऊ षु चरतो रेरिहाणा |
स सृञ्जयाय तुर्वशम् परादाद् वृचीवतो दैववाताय शिक्षन् ||yásya gā́vāvaruṣā́ sūyavasyū́ antárū ṣú cárato rérihāṇā ǀ
sá sṛ́ñjayāya turváśam párādādvṛcī́vato daivavātā́ya śíkṣan ǁyasya gāvāv aruṣā sūyavasyū antar ū ṣu carato rerihāṇā |
sa sṛñjayāya turvaśam parādād vṛcīvato daivavātāya śikṣan ||यस्य॑ । गावौ॑ । अ॒रु॒षा । सु॒य॒व॒स्यू इति॑ सु॒ऽय॒व॒स्यू । अ॒न्तः । ऊं॒ इति॑ । सु । चर॑तः । रेरि॑हाणा ।
सः । सृञ्ज॑याय । तु॒र्वश॑म् । परा॑ । अ॒दा॒त् । वृ॒चीव॑तः । दै॒व॒ऽवा॒ताय॑ । शिक्ष॑न् ॥यस्य । गावौ । अरुषा । सुयवस्यू इति सुऽयवस्यू । अन्तः । ऊं इति । सु । चरतः । रेरिहाणा ।
सः । सृञ्जयाय । तुर्वशम् । परा । अदात् । वृचीवतः । दैवऽवाताय । शिक्षन् ॥yásya ǀ gā́vau ǀ aruṣā́ ǀ suyavasyū́ íti su-yavasyū́ ǀ antáḥ ǀ ūṃ íti ǀ sú ǀ cárataḥ ǀ rérihāṇā ǀ
sáḥ ǀ sṛ́ñjayāya ǀ turváśam ǀ párā ǀ adāt ǀ vṛcī́vataḥ ǀ daiva-vātā́ya ǀ śíkṣan ǁyasya ǀ gāvau ǀ aruṣā ǀ suyavasyū iti su-yavasyū ǀ antaḥ ǀ ūṃ iti ǀ su ǀ carataḥ ǀ rerihāṇā ǀ
saḥ ǀ sṛñjayāya ǀ turvaśam ǀ parā ǀ adāt ǀ vṛcīvataḥ ǀ daiva-vātāya ǀ śikṣan ǁ6.27.7 Aṣṭaka 4.6.24.2Anuvāka 6.3.34
-
Ṛk 8
द्व॒याँ अ॑ग्ने र॒थिनो॑ विंश॒तिं गा व॒धूम॑तो म॒घवा॒ मह्यं॑ सं॒राट् ।
अ॒भ्या॒व॒र्ती चा॑यमा॒नो द॑दाति दू॒णाशे॒यं दक्षि॑णा पार्थ॒वानां॑ ॥द्वयां अग्ने रथिनो विंशतिं गा वधूमतो मघवा मह्यं सम्राट् |
अभ्यावर्ती चायमानो ददाति दूणाशेयं दक्षिणा पार्थवानाम् ||dvayā́m̐ agne rathíno viṃśatím gā́ vadhū́mato maghávā máhyam samrā́ṭ ǀ
abhyāvartī́ cāyamānó dadāti dūṇā́śeyám dákṣiṇā pārthavā́nām ǁdvayāṃ agne rathino viṃśatiṃ gā vadhūmato maghavā mahyaṃ samrāṭ |
abhyāvartī cāyamāno dadāti dūṇāśeyaṃ dakṣiṇā pārthavānām ||द्व॒यान् । अ॒ग्ने॒ । र॒थिनः॑ । विं॒श॒तिम् । गाः । व॒धूऽम॑तः । म॒घऽवा॑ । मह्य॑म् । स॒म्ऽराट् ।
अ॒भि॒ऽआ॒व॒र्ती । चा॒य॒मा॒नः । द॒दा॒ति॒ । दुः॒ऽनशा॑ । इ॒यम् । दक्षि॑णा । पा॒र्थ॒वाना॑म् ॥द्वयान् । अग्ने । रथिनः । विंशतिम् । गाः । वधूऽमतः । मघऽवा । मह्यम् । सम्ऽराट् ।
अभिऽआवर्ती । चायमानः । ददाति । दुःऽनशा । इयम् । दक्षिणा । पार्थवानाम् ॥dvayā́n ǀ agne ǀ rathínaḥ ǀ viṃśatím ǀ gā́ḥ ǀ vadhū́-mataḥ ǀ maghá-vā ǀ máhyam ǀ sam-rā́ṭ ǀ
abhi-āvartī́ ǀ cāyamānáḥ ǀ dadāti ǀ duḥ-náśā ǀ iyám ǀ dákṣiṇā ǀ pārthavā́nām ǁdvayān ǀ agne ǀ rathinaḥ ǀ viṃśatim ǀ gāḥ ǀ vadhū-mataḥ ǀ magha-vā ǀ mahyam ǀ sam-rāṭ ǀ
abhi-āvartī ǀ cāyamānaḥ ǀ dadāti ǀ duḥ-naśā ǀ iyam ǀ dakṣiṇā ǀ pārthavānām ǁ6.27.8 Aṣṭaka 4.6.24.3Anuvāka 6.3.35
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.