Ṛk 6.27.4
Saṃhitā
ए॒तत्त्यत्त॑ इंद्रि॒यम॑चेति॒ येनाव॑धीर्व॒रशि॑खस्य॒ शेषः॑ ।
वज्र॑स्य॒ यत्ते॒ निह॑तस्य॒ शुष्मा॑त्स्व॒नाच्चि॑दिंद्र पर॒मो द॒दार॑ ॥
एतत् त्यत् त इन्द्रियम् अचेति येनावधीर् वरशिखस्य शेषः |
वज्रस्य यत् ते निहतस्य शुष्मात् स्वनाच् चिद् इन्द्र परमो ददार ||
etáttyátta indriyámaceti yénā́vadhīrvaráśikhasya śéṣaḥ ǀ
vájrasya yátte níhatasya śúṣmātsvanā́ccidindra paramó dadā́ra ǁ
etat tyat ta indriyam aceti yenāvadhīr varaśikhasya śeṣaḥ |
vajrasya yat te nihatasya śuṣmāt svanāc cid indra paramo dadāra ||
Padapāṭha
ए॒तत् । त्यत् । ते॒ । इ॒न्द्रि॒यम् । अ॒चे॒ति॒ । येन॑ । अव॑धीः । व॒रऽशि॑खस्य । शेषः॑ ।
वज्र॑स्य । यत् । ते॒ । निऽह॑तस्य । शुष्मा॑त् । स्व॒नात् । चि॒त् । इ॒न्द्र॒ । प॒र॒मः । द॒दार॑ ॥
एतत् । त्यत् । ते । इन्द्रियम् । अचेति । येन । अवधीः । वरऽशिखस्य । शेषः ।
वज्रस्य । यत् । ते । निऽहतस्य । शुष्मात् । स्वनात् । चित् । इन्द्र । परमः । ददार ॥
etát ǀ tyát ǀ te ǀ indriyám ǀ aceti ǀ yéna ǀ ávadhīḥ ǀ vará-śikhasya ǀ śéṣaḥ ǀ
vájrasya ǀ yát ǀ te ǀ ní-hatasya ǀ śúṣmāt ǀ svanā́t ǀ cit ǀ indra ǀ paramáḥ ǀ dadā́ra ǁ
etat ǀ tyat ǀ te ǀ indriyam ǀ aceti ǀ yena ǀ avadhīḥ ǀ vara-śikhasya ǀ śeṣaḥ ǀ
vajrasya ǀ yat ǀ te ǀ ni-hatasya ǀ śuṣmāt ǀ svanāt ǀ cit ǀ indra ǀ paramaḥ ǀ dadāra ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.027.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.6.23.04
- Maṇḍala · Anuvāka · Ṛk
- 06.03.031
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.