Ṛgveda · Maṇḍala 6

Sūkta 2

Agni · Bharadvāja Bārhaspatya · 11 ṛks

Link
Devatā देवता
Agni
Ṛṣi ऋषि
Bharadvāja Bārhaspatya
Chandas छन्दस्
Triṣṭubh
Metres by ṛk

1st set of styles nicṛdanuṣṭup (5, 6, 10); bhuriguṣṇik (1, 9); anuṣṭup (3, 4); svarāḍuṣnik (2); nicṛduṣṇik (7); uṣṇik (8); bhurigatijagatī (11)

2nd set of styles triṣṭubh

  1. Ṛk 1

    त्वं हि क्षैत॑व॒द्यशोऽग्ने॑ मि॒त्रो न पत्य॑से ।
    त्वं वि॑चर्षणे॒ श्रवो॒ वसो॑ पु॒ष्टिं न पु॑ष्यसि ॥

    त्वं हि क्षैतवद् यशो ऽग्ने मित्रो न पत्यसे |
    त्वं विचर्षणे श्रवो वसो पुष्टिं न पुष्यसि ||

    tvám hí kṣáitavadyáśó’gne mitró ná pátyase ǀ
    tvám vicarṣaṇe śrávo váso puṣṭím ná puṣyasi ǁ

    tvaṃ hi kṣaitavad yaśo 'gne mitro na patyase |
    tvaṃ vicarṣaṇe śravo vaso puṣṭiṃ na puṣyasi ||

    त्वम् । हि । क्षैत॑ऽवत् । यशः॑ । अग्ने॑ । मि॒त्रः । न । पत्य॑से ।
    त्वम् । वि॒ऽच॒र्ष॒णे॒ । श्रवः॑ । वसो॒ इति॑ । पु॒ष्टिम् । न । पु॒ष्य॒सि॒ ॥

    त्वम् । हि । क्षैतऽवत् । यशः । अग्ने । मित्रः । न । पत्यसे ।
    त्वम् । विऽचर्षणे । श्रवः । वसो इति । पुष्टिम् । न । पुष्यसि ॥

    tvám ǀ hí ǀ kṣáita-vat ǀ yáśaḥ ǀ ágne ǀ mitráḥ ǀ ná ǀ pátyase ǀ
    tvám ǀ vi-carṣaṇe ǀ śrávaḥ ǀ váso íti ǀ puṣṭím ǀ ná ǀ puṣyasi ǁ

    tvam ǀ hi ǀ kṣaita-vat ǀ yaśaḥ ǀ agne ǀ mitraḥ ǀ na ǀ patyase ǀ
    tvam ǀ vi-carṣaṇe ǀ śravaḥ ǀ vaso iti ǀ puṣṭim ǀ na ǀ puṣyasi ǁ

    6.2.1 Aṣṭaka 4.5.1.1Anuvāka 6.1.14

  2. Ṛk 2

    त्वां हि ष्मा॑ चर्ष॒णयो॑ य॒ज्ञेभि॑र्गी॒र्भिरीळ॑ते ।
    त्वां वा॒जी या॑त्यवृ॒को र॑ज॒स्तूर्वि॒श्वच॑र्षणिः ॥

    त्वां हि ष्मा चर्षणयो यज्ञेभिर् गीर्भिर् ईऌअते |
    त्वां वाजी यात्य् अवृको रजस्तूर् विश्वचर्षणिः ||

    tvā́m hí ṣmā carṣaṇáyo yajñébhirgīrbhírī́ḷate ǀ
    tvā́m vājī́ yātyavṛkó rajastū́rviśvácarṣaṇiḥ ǁ

    tvāṃ hi ṣmā carṣaṇayo yajñebhir gīrbhir īḷate |
    tvāṃ vājī yāty avṛko rajastūr viśvacarṣaṇiḥ ||

    त्वाम् । हि । स्म॒ । च॒र्ष॒णयः॑ । य॒ज्ञेभिः॑ । गीः॒ऽभिः । ईळ॑ते ।
    त्वाम् । वा॒जी । या॒ति॒ । अ॒वृ॒कः । र॒जः॒ऽतूः । वि॒श्वऽच॑र्षणिः ॥

    त्वाम् । हि । स्म । चर्षणयः । यज्ञेभिः । गीःऽभिः । ईळते ।
    त्वाम् । वाजी । याति । अवृकः । रजःऽतूः । विश्वऽचर्षणिः ॥

    tvā́m ǀ hí ǀ sma ǀ carṣaṇáyaḥ ǀ yajñébhiḥ ǀ gīḥ-bhíḥ ǀ ī́ḷate ǀ
    tvā́m ǀ vājī́ ǀ yāti ǀ avṛkáḥ ǀ rajaḥ-tū́ḥ ǀ viśvá-carṣaṇiḥ ǁ

    tvām ǀ hi ǀ sma ǀ carṣaṇayaḥ ǀ yajñebhiḥ ǀ gīḥ-bhiḥ ǀ īḷate ǀ
    tvām ǀ vājī ǀ yāti ǀ avṛkaḥ ǀ rajaḥ-tūḥ ǀ viśva-carṣaṇiḥ ǁ

    6.2.2 Aṣṭaka 4.5.1.2Anuvāka 6.1.15

  3. Ṛk 3

    स॒जोष॑स्त्वा दि॒वो नरो॑ य॒ज्ञस्य॑ के॒तुमिं॑धते ।
    यद्ध॒ स्य मानु॑षो॒ जनः॑ सुम्ना॒युर्जु॒ह्वे अ॑ध्व॒रे ॥

    सजोषस् त्वा दिवो नरो यज्ञस्य केतुम् इन्धते |
    यद् ध स्य मानुषो जनः सुम्नायुर् जुह्वे अध्वरे ||

    sajóṣastvā divó náro yajñásya ketúmindhate ǀ
    yáddha syá mā́nuṣo jánaḥ sumnāyúrjuhvé adhvaré ǁ

    sajoṣas tvā divo naro yajñasya ketum indhate |
    yad dha sya mānuṣo janaḥ sumnāyur juhve adhvare ||

    स॒ऽजोषः॑ । त्वा॒ । दि॒वः । नरः॑ । य॒ज्ञस्य॑ । के॒तुम् । इ॒न्ध॒ते॒ ।
    यत् । ह॒ । स्यः । मानु॑षः । जनः॑ । सु॒म्न॒ऽयुः । जु॒ह्वे । अ॒ध्व॒रे ॥

    सऽजोषः । त्वा । दिवः । नरः । यज्ञस्य । केतुम् । इन्धते ।
    यत् । ह । स्यः । मानुषः । जनः । सुम्नऽयुः । जुह्वे । अध्वरे ॥

    sa-jóṣaḥ ǀ tvā ǀ diváḥ ǀ náraḥ ǀ yajñásya ǀ ketúm ǀ indhate ǀ
    yát ǀ ha ǀ syáḥ ǀ mā́nuṣaḥ ǀ jánaḥ ǀ sumna-yúḥ ǀ juhvé ǀ adhvaré ǁ

    sa-joṣaḥ ǀ tvā ǀ divaḥ ǀ naraḥ ǀ yajñasya ǀ ketum ǀ indhate ǀ
    yat ǀ ha ǀ syaḥ ǀ mānuṣaḥ ǀ janaḥ ǀ sumna-yuḥ ǀ juhve ǀ adhvare ǁ

    6.2.3 Aṣṭaka 4.5.1.3Anuvāka 6.1.16

  4. Ṛk 4

    ऋध॒द्यस्ते॑ सु॒दान॑वे धि॒या मर्तः॑ श॒शम॑ते ।
    ऊ॒ती ष बृ॑ह॒तो दि॒वो द्वि॒षो अंहो॒ न त॑रति ॥

    ऋधद् यस् ते सुदानवे धिया मर्तः शशमते |
    ऊती ष बृहतो दिवो द्विषो अंहो न तरति ||

    ṛ́dhadyáste sudā́nave dhiyā́ mártaḥ śaśámate ǀ
    ūtī́ ṣá bṛható divó dviṣó áṃho ná tarati ǁ

    ṛdhad yas te sudānave dhiyā martaḥ śaśamate |
    ūtī ṣa bṛhato divo dviṣo aṃho na tarati ||

    ऋध॑त् । यः । ते॒ । सु॒ऽदान॑वे । धि॒या । मर्तः॑ । श॒शम॑ते ।
    ऊ॒ती । सः । बृ॒ह॒तः । दि॒वः । द्वि॒षः । अंहः॑ । न । त॒र॒ति॒ ॥

    ऋधत् । यः । ते । सुऽदानवे । धिया । मर्तः । शशमते ।
    ऊती । सः । बृहतः । दिवः । द्विषः । अंहः । न । तरति ॥

    ṛ́dhat ǀ yáḥ ǀ te ǀ su-dā́nave ǀ dhiyā́ ǀ mártaḥ ǀ śaśámate ǀ
    ūtī́ ǀ sáḥ ǀ bṛhatáḥ ǀ diváḥ ǀ dviṣáḥ ǀ áṃhaḥ ǀ ná ǀ tarati ǁ

    ṛdhat ǀ yaḥ ǀ te ǀ su-dānave ǀ dhiyā ǀ martaḥ ǀ śaśamate ǀ
    ūtī ǀ saḥ ǀ bṛhataḥ ǀ divaḥ ǀ dviṣaḥ ǀ aṃhaḥ ǀ na ǀ tarati ǁ

    6.2.4 Aṣṭaka 4.5.1.4Anuvāka 6.1.17

  5. Ṛk 5

    स॒मिधा॒ यस्त॒ आहु॑तिं॒ निशि॑तिं॒ मर्त्यो॒ नश॑त् ।
    व॒यावं॑तं॒ स पु॑ष्यति॒ क्षय॑मग्ने श॒तायु॑षं ॥

    समिधा यस् त आहुतिं निशितिम् मर्त्यो नशत् |
    वयावन्तं स पुष्यति क्षयम् अग्ने शतायुषम् ||

    samídhā yásta ā́hutim níśitim mártyo náśat ǀ
    vayā́vantam sá puṣyati kṣáyamagne śatā́yuṣam ǁ

    samidhā yas ta āhutiṃ niśitim martyo naśat |
    vayāvantaṃ sa puṣyati kṣayam agne śatāyuṣam ||

    स॒म्ऽइधा॑ । यः । ते॒ । आऽहु॑तिम् । निऽशि॑तिम् । मर्त्यः॑ । नश॑त् ।
    व॒याऽव॑न्तम् । सः । पु॒ष्य॒ति॒ । क्षय॑म् । अ॒ग्ने॒ । श॒तऽआ॑युषम् ॥

    सम्ऽइधा । यः । ते । आऽहुतिम् । निऽशितिम् । मर्त्यः । नशत् ।
    वयाऽवन्तम् । सः । पुष्यति । क्षयम् । अग्ने । शतऽआयुषम् ॥

    sam-ídhā ǀ yáḥ ǀ te ǀ ā́-hutim ǀ ní-śitim ǀ mártyaḥ ǀ náśat ǀ
    vayā́-vantam ǀ sáḥ ǀ puṣyati ǀ kṣáyam ǀ agne ǀ śatá-āyuṣam ǁ

    sam-idhā ǀ yaḥ ǀ te ǀ ā-hutim ǀ ni-śitim ǀ martyaḥ ǀ naśat ǀ
    vayā-vantam ǀ saḥ ǀ puṣyati ǀ kṣayam ǀ agne ǀ śata-āyuṣam ǁ

    6.2.5 Aṣṭaka 4.5.1.5Anuvāka 6.1.18

  6. Ṛk 6

    त्वे॒षस्ते॑ धू॒म ऋ॑ण्वति दि॒वि षंछु॒क्र आत॑तः ।
    सूरो॒ न हि द्यु॒ता त्वं कृ॒पा पा॑वक॒ रोच॑से ॥

    त्वेषस् ते धूम ऋण्वति दिवि षञ् छुक्र आततः |
    सूरो न हि द्युता त्वं कृपा पावक रोचसे ||

    tveṣáste dhūmá ṛṇvati diví ṣáñchukrá ā́tataḥ ǀ
    sū́ro ná hí dyutā́ tvám kṛpā́ pāvaka rócase ǁ

    tveṣas te dhūma ṛṇvati divi ṣañ chukra ātataḥ |
    sūro na hi dyutā tvaṃ kṛpā pāvaka rocase ||

    त्वे॒षः । ते॒ । धू॒मः । ऋ॒ण्व॒ति॒ । दि॒वि । सन् । शु॒क्रः । आऽत॑तः ।
    सूरः॑ । न । हि । द्यु॒ता । त्वम् । कृ॒पा । पा॒व॒क॒ । रोच॑से ॥

    त्वेषः । ते । धूमः । ऋण्वति । दिवि । सन् । शुक्रः । आऽततः ।
    सूरः । न । हि । द्युता । त्वम् । कृपा । पावक । रोचसे ॥

    tveṣáḥ ǀ te ǀ dhūmáḥ ǀ ṛṇvati ǀ diví ǀ sán ǀ śukráḥ ǀ ā́-tataḥ ǀ
    sū́raḥ ǀ ná ǀ hí ǀ dyutā́ ǀ tvám ǀ kṛpā́ ǀ pāvaka ǀ rócase ǁ

    tveṣaḥ ǀ te ǀ dhūmaḥ ǀ ṛṇvati ǀ divi ǀ san ǀ śukraḥ ǀ ā-tataḥ ǀ
    sūraḥ ǀ na ǀ hi ǀ dyutā ǀ tvam ǀ kṛpā ǀ pāvaka ǀ rocase ǁ

    6.2.6 Aṣṭaka 4.5.2.1Anuvāka 6.1.19

  7. Ṛk 7

    अधा॒ हि वि॒क्ष्वीड्योऽसि॑ प्रि॒यो नो॒ अति॑थिः ।
    र॒ण्वः पु॒री॑व॒ जूर्यः॑ सू॒नुर्न त्र॑य॒याय्यः॑ ॥

    अधा हि विक्ष्व् ईड्यो ऽसि प्रियो नो अतिथिः |
    रण्वः पुरीव जूर्यः सूनुर् न त्रययाय्यः ||

    ádhā hí vikṣvī́ḍyó’si priyó no átithiḥ ǀ
    raṇváḥ purī́va jū́ryaḥ sūnúrná trayayā́yyaḥ ǁ

    adhā hi vikṣv īḍyo 'si priyo no atithiḥ |
    raṇvaḥ purīva jūryaḥ sūnur na trayayāyyaḥ ||

    अध॑ । हि । वि॒क्षु । ईड्यः॑ । असि॑ । प्रि॒यः । नः॒ । अति॑थिः ।
    र॒ण्वः । पु॒रिऽइ॑व । जूर्यः॑ । सू॒नुः । न । त्र॒य॒याय्यः॑ ॥

    अध । हि । विक्षु । ईड्यः । असि । प्रियः । नः । अतिथिः ।
    रण्वः । पुरिऽइव । जूर्यः । सूनुः । न । त्रययाय्यः ॥

    ádha ǀ hí ǀ vikṣú ǀ ī́ḍyaḥ ǀ ási ǀ priyáḥ ǀ naḥ ǀ átithiḥ ǀ
    raṇváḥ ǀ purí-iva ǀ jū́ryaḥ ǀ sūnúḥ ǀ ná ǀ trayayā́yyaḥ ǁ

    adha ǀ hi ǀ vikṣu ǀ īḍyaḥ ǀ asi ǀ priyaḥ ǀ naḥ ǀ atithiḥ ǀ
    raṇvaḥ ǀ puri-iva ǀ jūryaḥ ǀ sūnuḥ ǀ na ǀ trayayāyyaḥ ǁ

    6.2.7 Aṣṭaka 4.5.2.2Anuvāka 6.1.20

  8. Ṛk 8

    क्रत्वा॒ हि द्रोणे॑ अ॒ज्यसेऽग्ने॑ वा॒जी न कृत्व्यः॑ ।
    परि॑ज्मेव स्व॒धा गयोऽत्यो॒ न ह्वा॒र्यः शिशुः॑ ॥

    क्रत्वा हि द्रोणे अज्यसे ऽग्ने वाजी न कृत्व्यः |
    परिज्मेव स्वधा गयो ऽत्यो न ह्वार्यः शिशुः ||

    krátvā hí dróṇe ajyásé’gne vājī́ ná kṛ́tvyaḥ ǀ
    párijmeva svadhā́ gáyó’tyo ná hvāryáḥ śíśuḥ ǁ

    kratvā hi droṇe ajyase 'gne vājī na kṛtvyaḥ |
    parijmeva svadhā gayo 'tyo na hvāryaḥ śiśuḥ ||

    क्रत्वा॑ । हि । द्रोणे॑ । अ॒ज्यसे॑ । अग्ने॑ । वा॒जी । न । कृत्व्यः॑ ।
    परि॑ज्माऽइव । स्व॒धा । गयः॑ । अत्यः॑ । न । ह्वा॒र्यः । शिशुः॑ ॥

    क्रत्वा । हि । द्रोणे । अज्यसे । अग्ने । वाजी । न । कृत्व्यः ।
    परिज्माऽइव । स्वधा । गयः । अत्यः । न । ह्वार्यः । शिशुः ॥

    krátvā ǀ hí ǀ dróṇe ǀ ajyáse ǀ ágne ǀ vājī́ ǀ ná ǀ kṛ́tvyaḥ ǀ
    párijmā-iva ǀ svadhā́ ǀ gáyaḥ ǀ átyaḥ ǀ ná ǀ hvāryáḥ ǀ śíśuḥ ǁ

    kratvā ǀ hi ǀ droṇe ǀ ajyase ǀ agne ǀ vājī ǀ na ǀ kṛtvyaḥ ǀ
    parijmā-iva ǀ svadhā ǀ gayaḥ ǀ atyaḥ ǀ na ǀ hvāryaḥ ǀ śiśuḥ ǁ

    6.2.8 Aṣṭaka 4.5.2.3Anuvāka 6.1.21

  9. Ṛk 9

    त्वं त्या चि॒दच्यु॒ताग्ने॑ प॒शुर्न यव॑से ।
    धामा॑ ह॒ यत्ते॑ अजर॒ वना॑ वृ॒श्चंति॒ शिक्व॑सः ॥

    त्वं त्या चिद् अच्युताग्ने पशुर् न यवसे |
    धामा ह यत् ते अजर वना वृश्चन्ति शिक्वसः ||

    tvám tyā́ cidácyutā́gne paśúrná yávase ǀ
    dhā́mā ha yátte ajara vánā vṛścánti śíkvasaḥ ǁ

    tvaṃ tyā cid acyutāgne paśur na yavase |
    dhāmā ha yat te ajara vanā vṛścanti śikvasaḥ ||

    त्वम् । त्या । चि॒त् । अच्यु॑ता । अग्ने॑ । प॒शुः । न । यव॑से ।
    धाम॑ । ह॒ । यत् । ते॒ । अ॒ज॒र॒ । वना॑ । वृ॒श्चन्ति॑ । शिक्व॑सः ॥

    त्वम् । त्या । चित् । अच्युता । अग्ने । पशुः । न । यवसे ।
    धाम । ह । यत् । ते । अजर । वना । वृश्चन्ति । शिक्वसः ॥

    tvám ǀ tyā́ ǀ cit ǀ ácyutā ǀ ágne ǀ paśúḥ ǀ ná ǀ yávase ǀ
    dhā́ma ǀ ha ǀ yát ǀ te ǀ ajara ǀ vánā ǀ vṛścánti ǀ śíkvasaḥ ǁ

    tvam ǀ tyā ǀ cit ǀ acyutā ǀ agne ǀ paśuḥ ǀ na ǀ yavase ǀ
    dhāma ǀ ha ǀ yat ǀ te ǀ ajara ǀ vanā ǀ vṛścanti ǀ śikvasaḥ ǁ

    6.2.9 Aṣṭaka 4.5.2.4Anuvāka 6.1.22

  10. Ṛk 10

    वेषि॒ ह्य॑ध्वरीय॒तामग्ने॒ होता॒ दमे॑ वि॒शां ।
    स॒मृधो॑ विश्पते कृणु जु॒षस्व॑ ह॒व्यमं॑गिरः ॥

    वेषि ह्य् अध्वरीयताम् अग्ने होता दमे विशाम् |
    समृधो विश्पते कृणु जुषस्व हव्यम् अङ्गिरः ||

    véṣi hyádhvarīyatā́mágne hótā dáme viśā́m ǀ
    samṛ́dho viśpate kṛṇu juṣásva havyámaṅgiraḥ ǁ

    veṣi hy adhvarīyatām agne hotā dame viśām |
    samṛdho viśpate kṛṇu juṣasva havyam aṅgiraḥ ||

    वेषि॑ । हि । अ॒ध्व॒रि॒ऽय॒ताम् । अग्ने॑ । होता॑ । दमे॑ । वि॒शाम् ।
    स॒म्ऽऋधः॑ । वि॒श्प॒ते॒ । कृ॒णु॒ । जु॒षस्व॑ । ह॒व्यम् । अ॒ङ्गि॒रः॒ ॥

    वेषि । हि । अध्वरिऽयताम् । अग्ने । होता । दमे । विशाम् ।
    सम्ऽऋधः । विश्पते । कृणु । जुषस्व । हव्यम् । अङ्गिरः ॥

    véṣi ǀ hí ǀ adhvari-yatā́m ǀ ágne ǀ hótā ǀ dáme ǀ viśā́m ǀ
    sam-ṛ́dhaḥ ǀ viśpate ǀ kṛṇu ǀ juṣásva ǀ havyám ǀ aṅgiraḥ ǁ

    veṣi ǀ hi ǀ adhvari-yatām ǀ agne ǀ hotā ǀ dame ǀ viśām ǀ
    sam-ṛdhaḥ ǀ viśpate ǀ kṛṇu ǀ juṣasva ǀ havyam ǀ aṅgiraḥ ǁ

    6.2.10 Aṣṭaka 4.5.2.5Anuvāka 6.1.23

  11. Ṛk 11

    अच्छा॑ नो मित्रमहो देव दे॒वानग्ने॒ वोचः॑ सुम॒तिं रोद॑स्योः ।
    वी॒हि स्व॒स्तिं सु॑क्षि॒तिं दि॒वो नॄंद्वि॒षो अंहां॑सि दुरि॒ता त॑रेम॒ ता त॑रेम॒ तवाव॑सा तरेम ॥

    अच्छा नो मित्रमहो देव देवान् अग्ने वोचः सुमतिं रोदस्योः |
    वीहि स्वस्तिं सुक्षितिं दिवो नॄन् द्विषो अंहांसि दुरिता तरेम ता तरेम तवावसा तरेम ||

    ácchā no mitramaho deva devā́nágne vócaḥ sumatím ródasyoḥ ǀ
    vīhí svastím sukṣitím divó nṝ́ndviṣó áṃhāṃsi duritā́ tarema tā́ tarema távā́vasā tarema ǁ

    acchā no mitramaho deva devān agne vocaḥ sumatiṃ rodasyoḥ |
    vīhi svastiṃ sukṣitiṃ divo nṝn dviṣo aṃhāṃsi duritā tarema tā tarema tavāvasā tarema ||

    अच्छ॑ । नः॒ । मि॒त्र॒ऽम॒हः॒ । दे॒व॒ । दे॒वान् । अग्ने॑ । वोचः॑ । सु॒ऽम॒तिम् । रोद॑स्योः ।
    वी॒हि । स्व॒स्तिम् । सु॒ऽक्षि॒तिम् । दि॒वः । नॄन् । द्वि॒षः । अंहां॑सि । दुः॒ऽइ॒ता । त॒रे॒म॒ । ता । त॒रे॒म॒ । तव॑ । अव॑सा । त॒रे॒म॒ ॥

    अच्छ । नः । मित्रऽमहः । देव । देवान् । अग्ने । वोचः । सुऽमतिम् । रोदस्योः ।
    वीहि । स्वस्तिम् । सुऽक्षितिम् । दिवः । नॄन् । द्विषः । अंहांसि । दुःऽइता । तरेम । ता । तरेम । तव । अवसा । तरेम ॥

    áccha ǀ naḥ ǀ mitra-mahaḥ ǀ deva ǀ devā́n ǀ ágne ǀ vócaḥ ǀ su-matím ǀ ródasyoḥ ǀ
    vīhí ǀ svastím ǀ su-kṣitím ǀ diváḥ ǀ nṝ́n ǀ dviṣáḥ ǀ áṃhāṃsi ǀ duḥ-itā́ ǀ tarema ǀ tā́ ǀ tarema ǀ táva ǀ ávasā ǀ tarema ǁ

    accha ǀ naḥ ǀ mitra-mahaḥ ǀ deva ǀ devān ǀ agne ǀ vocaḥ ǀ su-matim ǀ rodasyoḥ ǀ
    vīhi ǀ svastim ǀ su-kṣitim ǀ divaḥ ǀ nṝn ǀ dviṣaḥ ǀ aṃhāṃsi ǀ duḥ-itā ǀ tarema ǀ tā ǀ tarema ǀ tava ǀ avasā ǀ tarema ǁ

    6.2.11 Aṣṭaka 4.5.2.6Anuvāka 6.1.24

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 6.2 · Agni

Interpretations

Sri Aurobindo

Ṛk 1

O Fire, thou travellest like a friend to the glory where is our home. O wide-seeing Prince of the Treasure, thou nurturest our inspiration and our growth.

Ṛk 2

Men who see aspire to thee with the word and the sacrifice. To thee comes the all-seeing Horse that crosses the mid-world, the Horse that no wolf tears. (HTMF PG 56)

Ṛk 3

The Men of Heaven with a single joy set thee alight to be the eye of intuition of the sacrifice when this human being, this seeker of bliss, casts his offering in the pilgrim Rite. (HTMF PG 56)

Ṛk 4

The mortal should grow in riches who achieves the work by the Thought for thee, the great giver; he is in the keeping of the Vast Heaven and crosses beyond the hostile powers and their evil. (HTMF PG 56)

Ṛk 5

O Fire, when mortal man arrives by the fuel of thy flame to the way of the oblation and the sharpening of thy intensities, he increases his branching house, his house of the hundred of life. (HTMF PG 57)

Ṛk 6

The smoke from thy blaze journeys and in heaven is outstretched brilliant-white. O purifying Fire, thou shinest with a flame like the light of the sun. (HTMF PG 57)

Ṛk 7

Now art thou here in men, one to be aspired to and a beloved guest; for thou art like one delightful and adorable in the city and as if our son and a traveller of the triple world. (HTMF PG 57)

Ṛk 8

O Fire, thou art driven by the will in our gated house like a horse apt for our work; thou art by thy nature like a farspreading mansion and like a galloper of winding ways and a little child. (HTMF PG 57)

Ṛk 9

O Fire, thou art like a beast in thy pasture and devourest even the unfallen things; the lustres of thy blaze tear to pieces the woodlands, O ageless Flame. (HTMF PG 57)

Ṛk 10

O Fire, thou comest a priest of the call into the house of men that do the Rite of the Path. Make us complete in the treasure, O Master of men! O Angiras flame-seer, rejoice in our oblation. (HTMF PG 58)

Ṛk 11

O Fire, O friendly Light, O Godhead, turn to the Godheads, mayst thou speak for us the true thought of Earth and Heaven; move to the peace and the happy abode and the men of Heaven. Let us pass beyond the foe and the sin and the stumbling; let us pass beyond these things, pass in thy keeping through them safe. (HTMF PG 58)