Sūkta 65
- Devatā देवता
- Uṣas
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles virāṭtrisṭup (2, 3); nicṛttriṣṭup (4, 6); bhurikpaṅkti (1); virāṭpaṅkti (5)
2nd set of styles triṣṭubh
-
Ṛk 1
ए॒षा स्या नो॑ दुहि॒ता दि॑वो॒जाः क्षि॒तीरु॒च्छंती॒ मानु॑षीरजीगः ।
या भा॒नुना॒ रुश॑ता रा॒म्यास्वज्ञा॑यि ति॒रस्तम॑सश्चिद॒क्तून् ॥एषा स्या नो दुहिता दिवोजाः क्षितीर् उच्छन्ती मानुषीर् अजीगः |
या भानुना रुशता राम्यास्व् अज्ञायि तिरस् तमसश् चिद् अक्तून् ||eṣā́ syā́ no duhitā́ divojā́ḥ kṣitī́rucchántī mā́nuṣīrajīgaḥ ǀ
yā́ bhānúnā rúśatā rāmyā́svájñāyi tirástámasaścidaktū́n ǁeṣā syā no duhitā divojāḥ kṣitīr ucchantī mānuṣīr ajīgaḥ |
yā bhānunā ruśatā rāmyāsv ajñāyi tiras tamasaś cid aktūn ||ए॒षा । स्या । नः॒ । दु॒हि॒ता । दि॒वः॒ऽजाः । क्षि॒तीः । उ॒च्छन्ती॑ । मानु॑षीः । अ॒जी॒ग॒रिति॑ ।
या । भा॒नुना॑ । रुश॑ता । रा॒म्यासु॑ । अज्ञा॑यि । ति॒रः । तम॑सः । चि॒त् । अ॒क्तून् ॥एषा । स्या । नः । दुहिता । दिवःऽजाः । क्षितीः । उच्छन्ती । मानुषीः । अजीगरिति ।
या । भानुना । रुशता । राम्यासु । अज्ञायि । तिरः । तमसः । चित् । अक्तून् ॥eṣā́ ǀ syā́ ǀ naḥ ǀ duhitā́ ǀ divaḥ-jā́ḥ ǀ kṣitī́ḥ ǀ ucchántī ǀ mā́nuṣīḥ ǀ ajīgaríti ǀ
yā́ ǀ bhānúnā ǀ rúśatā ǀ rāmyā́su ǀ ájñāyi ǀ tiráḥ ǀ támasaḥ ǀ cit ǀ aktū́n ǁeṣā ǀ syā ǀ naḥ ǀ duhitā ǀ divaḥ-jāḥ ǀ kṣitīḥ ǀ ucchantī ǀ mānuṣīḥ ǀ ajīgariti ǀ
yā ǀ bhānunā ǀ ruśatā ǀ rāmyāsu ǀ ajñāyi ǀ tiraḥ ǀ tamasaḥ ǀ cit ǀ aktūn ǁ6.65.1 Aṣṭaka 5.1.6.1Anuvāka 6.6.29
-
Ṛk 2
वि तद्य॑युररुण॒युग्भि॒रश्वै॑श्चि॒त्रं भां॑त्यु॒षस॑श्चं॒द्रर॑थाः ।
अग्रं॑ य॒ज्ञस्य॑ बृह॒तो नयं॑ती॒र्वि ता बा॑धंते॒ तम॒ ऊर्म्या॑याः ॥वि तद् ययुर् अरुणयुग्भिर् अश्वैश् चित्रम् भान्त्य् उषसश् चन्द्ररथाः |
अग्रं यज्ञस्य बृहतो नयन्तीर् वि ता बाधन्ते तम ऊर्म्यायाः ||ví tádyayuraruṇayúgbhiráśvaiścitrám bhāntyuṣásaścandrárathāḥ ǀ
ágram yajñásya bṛható náyantīrví tā́ bādhante táma ū́rmyāyāḥ ǁvi tad yayur aruṇayugbhir aśvaiś citram bhānty uṣasaś candrarathāḥ |
agraṃ yajñasya bṛhato nayantīr vi tā bādhante tama ūrmyāyāḥ ||वि । तत् । य॒युः॒ । अ॒रु॒ण॒युक्ऽभिः॑ । अश्वैः॑ । चि॒त्रम् । भा॒न्ति॒ । उ॒षसः॑ । च॒न्द्रऽर॑थाः ।
अग्र॑म् । य॒ज्ञस्य॑ । बृ॒ह॒तः । नय॑न्तीः । वि । ताः । बा॒ध॒न्ते॒ । तमः॑ । ऊर्म्या॑याः ॥वि । तत् । ययुः । अरुणयुक्ऽभिः । अश्वैः । चित्रम् । भान्ति । उषसः । चन्द्रऽरथाः ।
अग्रम् । यज्ञस्य । बृहतः । नयन्तीः । वि । ताः । बाधन्ते । तमः । ऊर्म्यायाः ॥ví ǀ tát ǀ yayuḥ ǀ aruṇayúk-bhiḥ ǀ áśvaiḥ ǀ citrám ǀ bhānti ǀ uṣásaḥ ǀ candrá-rathāḥ ǀ
ágram ǀ yajñásya ǀ bṛhatáḥ ǀ náyantīḥ ǀ ví ǀ tā́ḥ ǀ bādhante ǀ támaḥ ǀ ū́rmyāyāḥ ǁvi ǀ tat ǀ yayuḥ ǀ aruṇayuk-bhiḥ ǀ aśvaiḥ ǀ citram ǀ bhānti ǀ uṣasaḥ ǀ candra-rathāḥ ǀ
agram ǀ yajñasya ǀ bṛhataḥ ǀ nayantīḥ ǀ vi ǀ tāḥ ǀ bādhante ǀ tamaḥ ǀ ūrmyāyāḥ ǁ6.65.2 Aṣṭaka 5.1.6.2Anuvāka 6.6.30
-
Ṛk 3
श्रवो॒ वाज॒मिष॒मूर्जं॒ वहं॑ती॒र्नि दा॒शुष॑ उषसो॒ मर्त्या॑य ।
म॒घोनी॑र्वी॒रव॒त्पत्य॑माना॒ अवो॑ धात विध॒ते रत्न॑म॒द्य ॥श्रवो वाजम् इषम् ऊर्जं वहन्तीर् नि दाशुष उषसो मर्त्याय |
मघोनीर् वीरवत् पत्यमाना अवो धात विधते रत्नम् अद्य ||śrávo vā́jamíṣamū́rjam váhantīrní dāśúṣa uṣaso mártyāya ǀ
maghónīrvīrávatpátyamānā ávo dhāta vidhaté rátnamadyá ǁśravo vājam iṣam ūrjaṃ vahantīr ni dāśuṣa uṣaso martyāya |
maghonīr vīravat patyamānā avo dhāta vidhate ratnam adya ||श्रवः॑ । वाज॑म् । इष॑म् । ऊर्ज॑म् । वह॑न्तीः । नि । दा॒शुषे॑ । उ॒ष॒सः॒ । मर्त्या॑य ।
म॒घोनीः॑ । वी॒रऽव॑त् । पत्य॑मानाः । अवः॑ । धा॒त॒ । वि॒ध॒ते । रत्न॑म् । अ॒द्य ॥श्रवः । वाजम् । इषम् । ऊर्जम् । वहन्तीः । नि । दाशुषे । उषसः । मर्त्याय ।
मघोनीः । वीरऽवत् । पत्यमानाः । अवः । धात । विधते । रत्नम् । अद्य ॥śrávaḥ ǀ vā́jam ǀ íṣam ǀ ū́rjam ǀ váhantīḥ ǀ ní ǀ dāśúṣe ǀ uṣasaḥ ǀ mártyāya ǀ
maghónīḥ ǀ vīrá-vat ǀ pátyamānāḥ ǀ ávaḥ ǀ dhāta ǀ vidhaté ǀ rátnam ǀ adyá ǁśravaḥ ǀ vājam ǀ iṣam ǀ ūrjam ǀ vahantīḥ ǀ ni ǀ dāśuṣe ǀ uṣasaḥ ǀ martyāya ǀ
maghonīḥ ǀ vīra-vat ǀ patyamānāḥ ǀ avaḥ ǀ dhāta ǀ vidhate ǀ ratnam ǀ adya ǁ6.65.3 Aṣṭaka 5.1.6.3Anuvāka 6.6.31
-
Ṛk 4
इ॒दा हि वो॑ विध॒ते रत्न॒मस्ती॒दा वी॒राय॑ दा॒शुष॑ उषासः ।
इ॒दा विप्रा॑य॒ जर॑ते॒ यदु॒क्था नि ष्म॒ माव॑ते वहथा पु॒रा चि॑त् ॥इदा हि वो विधते रत्नम् अस्तीदा वीराय दाशुष उषासः |
इदा विप्राय जरते यद् उक्था नि ष्म मावते वहथा पुरा चित् ||idā́ hí vo vidhaté rátnamástīdā́ vīrā́ya dāśúṣa uṣāsaḥ ǀ
idā́ víprāya járate yádukthā́ ní ṣma mā́vate vahathā purā́ cit ǁidā hi vo vidhate ratnam astīdā vīrāya dāśuṣa uṣāsaḥ |
idā viprāya jarate yad ukthā ni ṣma māvate vahathā purā cit ||इ॒दा । हि । वः॒ । वि॒ध॒ते । रत्न॑म् । अस्ति॑ । इ॒दा । वी॒राय॑ । दा॒शुषे॑ । उ॒ष॒सः॒ ।
इ॒दा । विप्रा॑य । जर॑ते । यत् । उ॒क्था । नि । स्म॒ । माऽव॑ते । व॒ह॒थ॒ । पु॒रा । चि॒त् ॥इदा । हि । वः । विधते । रत्नम् । अस्ति । इदा । वीराय । दाशुषे । उषसः ।
इदा । विप्राय । जरते । यत् । उक्था । नि । स्म । माऽवते । वहथ । पुरा । चित् ॥idā́ ǀ hí ǀ vaḥ ǀ vidhaté ǀ rátnam ǀ ásti ǀ idā́ ǀ vīrā́ya ǀ dāśúṣe ǀ uṣasaḥ ǀ
idā́ ǀ víprāya ǀ járate ǀ yát ǀ ukthā́ ǀ ní ǀ sma ǀ mā́-vate ǀ vahatha ǀ purā́ ǀ cit ǁidā ǀ hi ǀ vaḥ ǀ vidhate ǀ ratnam ǀ asti ǀ idā ǀ vīrāya ǀ dāśuṣe ǀ uṣasaḥ ǀ
idā ǀ viprāya ǀ jarate ǀ yat ǀ ukthā ǀ ni ǀ sma ǀ mā-vate ǀ vahatha ǀ purā ǀ cit ǁ6.65.4 Aṣṭaka 5.1.6.4Anuvāka 6.6.32
-
Ṛk 5
इ॒दा हि त॑ उषो अद्रिसानो गो॒त्रा गवा॒मंगि॑रसो गृ॒णंति॑ ।
व्य१॒॑र्केण॑ बिभिदु॒र्ब्रह्म॑णा च स॒त्या नृ॒णाम॑भवद्दे॒वहू॑तिः ॥इदा हि त उषो अद्रिसानो गोत्रा गवाम् अङ्गिरसो गृणन्ति |
व्य् अर्केण बिभिदुर् ब्रह्मणा च सत्या नृणाम् अभवद् देवहूतिः ||idā́ hí ta uṣo adrisāno gotrā́ gávāmáṅgiraso gṛṇánti ǀ
vyárkéṇa bibhidurbráhmaṇā ca satyā́ nṛṇā́mabhavaddeváhūtiḥ ǁidā hi ta uṣo adrisāno gotrā gavām aṅgiraso gṛṇanti |
vy arkeṇa bibhidur brahmaṇā ca satyā nṛṇām abhavad devahūtiḥ ||इ॒दा । हि । ते॒ । उ॒षः॒ । अ॒द्रि॒सा॒नो॒ इत्य॑द्रिऽसानो । गो॒त्रा । गवा॑म् । अङ्गि॑रसः । गृ॒णन्ति॑ ।
वि । अ॒र्केण॑ । बि॒भि॒दुः॒ । ब्रह्म॑णा । च॒ । स॒त्या । नृ॒णाम् । अ॒भ॒व॒त् । दे॒वऽहू॑तिः ॥इदा । हि । ते । उषः । अद्रिसानो इत्यद्रिऽसानो । गोत्रा । गवाम् । अङ्गिरसः । गृणन्ति ।
वि । अर्केण । बिभिदुः । ब्रह्मणा । च । सत्या । नृणाम् । अभवत् । देवऽहूतिः ॥idā́ ǀ hí ǀ te ǀ uṣaḥ ǀ adrisāno ítyadri-sāno ǀ gotrā́ ǀ gávām ǀ áṅgirasaḥ ǀ gṛṇánti ǀ
ví ǀ arkéṇa ǀ bibhiduḥ ǀ bráhmaṇā ǀ ca ǀ satyā́ ǀ nṛṇā́m ǀ abhavat ǀ devá-hūtiḥ ǁidā ǀ hi ǀ te ǀ uṣaḥ ǀ adrisāno ityadri-sāno ǀ gotrā ǀ gavām ǀ aṅgirasaḥ ǀ gṛṇanti ǀ
vi ǀ arkeṇa ǀ bibhiduḥ ǀ brahmaṇā ǀ ca ǀ satyā ǀ nṛṇām ǀ abhavat ǀ deva-hūtiḥ ǁ6.65.5 Aṣṭaka 5.1.6.5Anuvāka 6.6.33
-
Ṛk 6
उ॒च्छा दि॑वो दुहितः प्रत्न॒वन्नो॑ भरद्वाज॒वद्वि॑ध॒ते म॑घोनि ।
सु॒वीरं॑ र॒यिं गृ॑ण॒ते रि॑रीह्युरुगा॒यमधि॑ धेहि॒ श्रवो॑ नः ॥उच्छा दिवो दुहितः प्रत्नवन् नो भरद्वाजवद् विधते मघोनि |
सुवीरं रयिं गृणते रिरीह्य् उरुगायम् अधि धेहि श्रवो नः ||ucchā́ divo duhitaḥ pratnavánno bharadvājavádvidhaté maghoni ǀ
suvī́ram rayím gṛṇaté rirīhyurugāyámádhi dhehi śrávo naḥ ǁucchā divo duhitaḥ pratnavan no bharadvājavad vidhate maghoni |
suvīraṃ rayiṃ gṛṇate rirīhy urugāyam adhi dhehi śravo naḥ ||उ॒च्छ । दि॒वः॒ । दु॒हि॒त॒रिति॑ । प्र॒त्न॒ऽवत् । नः॒ । भ॒र॒द्वा॒ज॒ऽवत् । वि॒ध॒ते । म॒घो॒नि॒ ।
सु॒ऽवीर॑म् । र॒यिम् । गृ॒ण॒ते । रि॒री॒हि॒ । उ॒रु॒ऽगा॒यम् । अधि॑ । धे॒हि॒ । श्रवः॑ । नः॒ ॥उच्छ । दिवः । दुहितरिति । प्रत्नऽवत् । नः । भरद्वाजऽवत् । विधते । मघोनि ।
सुऽवीरम् । रयिम् । गृणते । रिरीहि । उरुऽगायम् । अधि । धेहि । श्रवः । नः ॥ucchá ǀ divaḥ ǀ duhitaríti ǀ pratna-vát ǀ naḥ ǀ bharadvāja-vát ǀ vidhaté ǀ maghoni ǀ
su-vī́ram ǀ rayím ǀ gṛṇaté ǀ rirīhi ǀ uru-gāyám ǀ ádhi ǀ dhehi ǀ śrávaḥ ǀ naḥ ǁuccha ǀ divaḥ ǀ duhitariti ǀ pratna-vat ǀ naḥ ǀ bharadvāja-vat ǀ vidhate ǀ maghoni ǀ
su-vīram ǀ rayim ǀ gṛṇate ǀ rirīhi ǀ uru-gāyam ǀ adhi ǀ dhehi ǀ śravaḥ ǀ naḥ ǁ6.65.6 Aṣṭaka 5.1.6.6Anuvāka 6.6.34
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.