Ṛgveda · Maṇḍala 6

Sūkta 62

Aśvins · Bharadvāja Bārhaspatya · 11 ṛks

Link
Devatā देवता
Aśvins
Ṛṣi ऋषि
Bharadvāja Bārhaspatya
Chandas छन्दस्
Triṣṭubh
Metres by ṛk

1st set of styles nicṛttriṣṭup (4, 6-8, 10); triṣṭup (5, 9, 11); bhurikpaṅkti (1, 2); virāṭtrisṭup (3)

2nd set of styles triṣṭubh

  1. Ṛk 1

    स्तु॒षे नरा॑ दि॒वो अ॒स्य प्र॒संता॒श्विना॑ हुवे॒ जर॑माणो अ॒र्कैः ।
    या स॒द्य उ॒स्रा व्युषि॒ ज्मो अंता॒न्युयू॑षतः॒ पर्यु॒रू वरां॑सि ॥

    स्तुषे नरा दिवो अस्य प्रसन्ताश्विना हुवे जरमाणो अर्कैः |
    या सद्य उस्रा व्युषि ज्मो अन्तान् युयूषतः पर्य् उरू वरांसि ||

    stuṣé nárā divó asyá prasántāśvínā huve járamāṇo arkáiḥ ǀ
    yā́ sadyá usrā́ vyúṣi jmó ántānyúyūṣataḥ páryurū́ várāṃsi ǁ

    stuṣe narā divo asya prasantāśvinā huve jaramāṇo arkaiḥ |
    yā sadya usrā vyuṣi jmo antān yuyūṣataḥ pary urū varāṃsi ||

    स्तु॒षे । नरा॑ । दि॒वः । अ॒स्य । प्र॒ऽसन्ता॑ । अ॒श्विना॑ । हु॒वे॒ । जर॑माणः । अ॒र्कैः ।
    या । स॒द्यः । उ॒स्रा । वि॒ऽउषि॑ । ज्मः । अन्ता॑न् । युयू॑षतः । परि॑ । उ॒रु । वरां॑सि ॥

    स्तुषे । नरा । दिवः । अस्य । प्रऽसन्ता । अश्विना । हुवे । जरमाणः । अर्कैः ।
    या । सद्यः । उस्रा । विऽउषि । ज्मः । अन्तान् । युयूषतः । परि । उरु । वरांसि ॥

    stuṣé ǀ nárā ǀ diváḥ ǀ asyá ǀ pra-sántā ǀ aśvínā ǀ huve ǀ járamāṇaḥ ǀ arkáiḥ ǀ
    yā́ ǀ sadyáḥ ǀ usrā́ ǀ vi-úṣi ǀ jmáḥ ǀ ántān ǀ yúyūṣataḥ ǀ pári ǀ urú ǀ várāṃsi ǁ

    stuṣe ǀ narā ǀ divaḥ ǀ asya ǀ pra-santā ǀ aśvinā ǀ huve ǀ jaramāṇaḥ ǀ arkaiḥ ǀ
    yā ǀ sadyaḥ ǀ usrā ǀ vi-uṣi ǀ jmaḥ ǀ antān ǀ yuyūṣataḥ ǀ pari ǀ uru ǀ varāṃsi ǁ

    6.62.1 Aṣṭaka 5.1.1.1Anuvāka 6.6.1

  2. Ṛk 2

    ता य॒ज्ञमा शुचि॑भिश्चक्रमा॒णा रथ॑स्य भा॒नुं रु॑रुचू॒ रजो॑भिः ।
    पु॒रू वरां॒स्यमि॑ता॒ मिमा॑ना॒पो धन्वा॒न्यति॑ याथो॒ अज्रा॑न् ॥

    ता यज्ञम् आ शुचिभिश् चक्रमाणा रथस्य भानुं रुरुचू रजोभिः |
    पुरू वरांस्य् अमिता मिमानापो धन्वान्य् अति याथो अज्रान् ||

    tā́ yajñámā́ śúcibhiścakramāṇā́ ráthasya bhānúm rurucū rájobhiḥ ǀ
    purū́ várāṃsyámitā mímānāpó dhánvānyáti yātho ájrān ǁ

    tā yajñam ā śucibhiś cakramāṇā rathasya bhānuṃ rurucū rajobhiḥ |
    purū varāṃsy amitā mimānāpo dhanvāny ati yātho ajrān ||

    ता । य॒ज्ञम् । आ । शुचि॑ऽभिः । च॒क्र॒मा॒णा । रथ॑स्य । भा॒नुम् । रु॒रु॒चुः॒ । रजः॑ऽभिः ।
    पु॒रु । वरां॑सि । अमि॑ता । मिमा॑ना । अ॒पः । धन्वा॑नि । अति॑ । या॒थः॒ । अज्रा॑न् ॥

    ता । यज्ञम् । आ । शुचिऽभिः । चक्रमाणा । रथस्य । भानुम् । रुरुचुः । रजःऽभिः ।
    पुरु । वरांसि । अमिता । मिमाना । अपः । धन्वानि । अति । याथः । अज्रान् ॥

    tā́ ǀ yajñám ǀ ā́ ǀ śúci-bhiḥ ǀ cakramāṇā́ ǀ ráthasya ǀ bhānúm ǀ rurucuḥ ǀ rájaḥ-bhiḥ ǀ
    purú ǀ várāṃsi ǀ ámitā ǀ mímānā ǀ apáḥ ǀ dhánvāni ǀ áti ǀ yāthaḥ ǀ ájrān ǁ

    tā ǀ yajñam ǀ ā ǀ śuci-bhiḥ ǀ cakramāṇā ǀ rathasya ǀ bhānum ǀ rurucuḥ ǀ rajaḥ-bhiḥ ǀ
    puru ǀ varāṃsi ǀ amitā ǀ mimānā ǀ apaḥ ǀ dhanvāni ǀ ati ǀ yāthaḥ ǀ ajrān ǁ

    6.62.2 Aṣṭaka 5.1.1.2Anuvāka 6.6.2

  3. Ṛk 3

    ता ह॒ त्यद्व॒र्तिर्यदर॑ध्रमुग्रे॒त्था धिय॑ ऊहथुः॒ शश्व॒दश्वैः॑ ।
    मनो॑जवेभिरिषि॒रैः श॒यध्यै॒ परि॒ व्यथि॑र्दा॒शुषो॒ मर्त्य॑स्य ॥

    ता ह त्यद् वर्तिर् यद् अरध्रम् उग्रेत्था धिय ऊहथुः शश्वद् अश्वैः |
    मनोजवेभिर् इषिरैः शयध्यै परि व्यथिर् दाशुषो मर्त्यस्य ||

    tā́ ha tyádvartíryádáradhramugretthā́ dhíya ūhathuḥ śáśvadáśvaiḥ ǀ
    mánojavebhiriṣiráiḥ śayádhyai pári vyáthirdāśúṣo mártyasya ǁ

    tā ha tyad vartir yad aradhram ugretthā dhiya ūhathuḥ śaśvad aśvaiḥ |
    manojavebhir iṣiraiḥ śayadhyai pari vyathir dāśuṣo martyasya ||

    ता । ह॒ । त्यत् । व॒र्तिः । यत् । अर॑ध्रम् । उ॒ग्रा॒ । इ॒त्था । धियः॑ । ऊ॒ह॒थुः॒ । शश्व॑त् । अश्वैः॑ ।
    मनः॑ऽजवेभिः । इ॒षि॒रैः । श॒यध्यै॑ । परि॑ । व्यथिः॑ । दा॒शुषः॑ । मर्त्य॑स्य ॥

    ता । ह । त्यत् । वर्तिः । यत् । अरध्रम् । उग्रा । इत्था । धियः । ऊहथुः । शश्वत् । अश्वैः ।
    मनःऽजवेभिः । इषिरैः । शयध्यै । परि । व्यथिः । दाशुषः । मर्त्यस्य ॥

    tā́ ǀ ha ǀ tyát ǀ vartíḥ ǀ yát ǀ áradhram ǀ ugrā ǀ itthā́ ǀ dhíyaḥ ǀ ūhathuḥ ǀ śáśvat ǀ áśvaiḥ ǀ
    mánaḥ-javebhiḥ ǀ iṣiráiḥ ǀ śayádhyai ǀ pári ǀ vyáthiḥ ǀ dāśúṣaḥ ǀ mártyasya ǁ

    tā ǀ ha ǀ tyat ǀ vartiḥ ǀ yat ǀ aradhram ǀ ugrā ǀ itthā ǀ dhiyaḥ ǀ ūhathuḥ ǀ śaśvat ǀ aśvaiḥ ǀ
    manaḥ-javebhiḥ ǀ iṣiraiḥ ǀ śayadhyai ǀ pari ǀ vyathiḥ ǀ dāśuṣaḥ ǀ martyasya ǁ

    6.62.3 Aṣṭaka 5.1.1.3Anuvāka 6.6.3

  4. Ṛk 4

    ता नव्य॑सो॒ जर॑माणस्य॒ मन्मोप॑ भूषतो युयुजा॒नस॑प्ती ।
    शुभं॒ पृक्ष॒मिष॒मूर्जं॒ वहं॑ता॒ होता॑ यक्षत्प्र॒त्नो अ॒ध्रुग्युवा॑ना ॥

    ता नव्यसो जरमाणस्य मन्मोप भूषतो युयुजानसप्ती |
    शुभम् पृक्षम् इषम् ऊर्जं वहन्ता होता यक्षत् प्रत्नो अध्रुग् युवाना ||

    tā́ návyaso járamāṇasya mánmópa bhūṣato yuyujānásaptī ǀ
    śúbham pṛ́kṣamíṣamū́rjam váhantā hótā yakṣatpratnó adhrúgyúvānā ǁ

    tā navyaso jaramāṇasya manmopa bhūṣato yuyujānasaptī |
    śubham pṛkṣam iṣam ūrjaṃ vahantā hotā yakṣat pratno adhrug yuvānā ||

    ता । नव्य॑सः । जर॑माणस्य । मन्म॑ । उप॑ । भू॒ष॒तः॒ । यु॒यु॒जा॒नस॑प्ती॒ इति॑ यु॒यु॒जा॒नऽस॑प्ती ।
    शुभ॑म् । पृक्ष॑म् । इष॑म् । ऊर्ज॑म् । वह॑न्ता । होता॑ । य॒क्ष॒त् । प्र॒त्नः । अ॒ध्रुक् । युवा॑ना ॥

    ता । नव्यसः । जरमाणस्य । मन्म । उप । भूषतः । युयुजानसप्ती इति युयुजानऽसप्ती ।
    शुभम् । पृक्षम् । इषम् । ऊर्जम् । वहन्ता । होता । यक्षत् । प्रत्नः । अध्रुक् । युवाना ॥

    tā́ ǀ návyasaḥ ǀ járamāṇasya ǀ mánma ǀ úpa ǀ bhūṣataḥ ǀ yuyujānásaptī íti yuyujāná-saptī ǀ
    śúbham ǀ pṛ́kṣam ǀ íṣam ǀ ū́rjam ǀ váhantā ǀ hótā ǀ yakṣat ǀ pratnáḥ ǀ adhrúk ǀ yúvānā ǁ

    tā ǀ navyasaḥ ǀ jaramāṇasya ǀ manma ǀ upa ǀ bhūṣataḥ ǀ yuyujānasaptī iti yuyujāna-saptī ǀ
    śubham ǀ pṛkṣam ǀ iṣam ǀ ūrjam ǀ vahantā ǀ hotā ǀ yakṣat ǀ pratnaḥ ǀ adhruk ǀ yuvānā ǁ

    6.62.4 Aṣṭaka 5.1.1.4Anuvāka 6.6.4

  5. Ṛk 5

    ता व॒ल्गू द॒स्रा पु॑रु॒शाक॑तमा प्र॒त्ना नव्य॑सा॒ वच॒सा वि॑वासे ।
    या शंस॑ते स्तुव॒ते शंभ॑विष्ठा बभू॒वतु॑र्गृण॒ते चि॒त्ररा॑ती ॥

    ता वल्गू दस्रा पुरुशाकतमा प्रत्ना नव्यसा वचसा विवासे |
    या शंसते स्तुवते शम्भविष्ठा बभूवतुर् गृणते चित्रराती ||

    tā́ valgū́ dasrā́ puruśā́katamā pratnā́ návyasā vácasā́ vivāse ǀ
    yā́ śáṃsate stuvaté śámbhaviṣṭhā babhūváturgṛṇaté citrárātī ǁ

    tā valgū dasrā puruśākatamā pratnā navyasā vacasā vivāse |
    yā śaṃsate stuvate śambhaviṣṭhā babhūvatur gṛṇate citrarātī ||

    ता । व॒ल्गू इति॑ । द॒स्रा । पु॒रु॒शाक॑ऽतमा । प्र॒त्ना । नव्य॑सा । वच॑सा । आ । वि॒वा॒से॒ ।
    या । शंस॑ते । स्तु॒व॒ते । शम्ऽभ॑विष्ठा । ब॒भू॒वतुः॑ । गृ॒ण॒ते । चि॒त्ररा॑ती॒ इति॑ चि॒त्रऽरा॑ती ॥

    ता । वल्गू इति । दस्रा । पुरुशाकऽतमा । प्रत्ना । नव्यसा । वचसा । आ । विवासे ।
    या । शंसते । स्तुवते । शम्ऽभविष्ठा । बभूवतुः । गृणते । चित्रराती इति चित्रऽराती ॥

    tā́ ǀ valgū́ íti ǀ dasrā́ ǀ puruśā́ka-tamā ǀ pratnā́ ǀ návyasā ǀ vácasā ǀ ā́ ǀ vivāse ǀ
    yā́ ǀ śáṃsate ǀ stuvaté ǀ śám-bhaviṣṭhā ǀ babhūvátuḥ ǀ gṛṇaté ǀ citrárātī íti citrá-rātī ǁ

    tā ǀ valgū iti ǀ dasrā ǀ puruśāka-tamā ǀ pratnā ǀ navyasā ǀ vacasā ǀ ā ǀ vivāse ǀ
    yā ǀ śaṃsate ǀ stuvate ǀ śam-bhaviṣṭhā ǀ babhūvatuḥ ǀ gṛṇate ǀ citrarātī iti citra-rātī ǁ

    6.62.5 Aṣṭaka 5.1.1.5Anuvāka 6.6.5

  6. Ṛk 6

    ता भु॒ज्युं विभि॑र॒द्भ्यः स॑मु॒द्रात्तुग्र॑स्य सू॒नुमू॑हथू॒ रजो॑भिः ।
    अ॒रे॒णुभि॒र्योज॑नेभिर्भु॒जंता॑ पत॒त्रिभि॒रर्ण॑सो॒ निरु॒पस्था॑त् ॥

    ता भुज्युं विभिर् अद्भ्यः समुद्रात् तुग्रस्य सूनुम् ऊहथू रजोभिः |
    अरेणुभिर् योजनेभिर् भुजन्ता पतत्रिभिर् अर्णसो निर् उपस्थात् ||

    tā́ bhujyúm víbhiradbhyáḥ samudrā́ttúgrasya sūnúmūhathū rájobhiḥ ǀ
    areṇúbhiryójanebhirbhujántā patatríbhirárṇaso nírupásthāt ǁ

    tā bhujyuṃ vibhir adbhyaḥ samudrāt tugrasya sūnum ūhathū rajobhiḥ |
    areṇubhir yojanebhir bhujantā patatribhir arṇaso nir upasthāt ||

    ता । भु॒ज्युम् । विऽभिः॑ । अ॒त्ऽभ्यः । स॒मु॒द्रात् । तुग्र॑स्य । सू॒नुम् । ऊ॒ह॒थुः॒ । रजः॑ऽभिः ।
    अ॒रे॒णुऽभिः॑ । योज॑नेभिः । भु॒जन्ता॑ । प॒त॒त्रिऽभिः॑ । अर्ण॑सः । निः । उ॒पऽस्था॑त् ॥

    ता । भुज्युम् । विऽभिः । अत्ऽभ्यः । समुद्रात् । तुग्रस्य । सूनुम् । ऊहथुः । रजःऽभिः ।
    अरेणुऽभिः । योजनेभिः । भुजन्ता । पतत्रिऽभिः । अर्णसः । निः । उपऽस्थात् ॥

    tā́ ǀ bhujyúm ǀ ví-bhiḥ ǀ at-bhyáḥ ǀ samudrā́t ǀ túgrasya ǀ sūnúm ǀ ūhathuḥ ǀ rájaḥ-bhiḥ ǀ
    areṇú-bhiḥ ǀ yójanebhiḥ ǀ bhujántā ǀ patatrí-bhiḥ ǀ árṇasaḥ ǀ níḥ ǀ upá-sthāt ǁ

    tā ǀ bhujyum ǀ vi-bhiḥ ǀ at-bhyaḥ ǀ samudrāt ǀ tugrasya ǀ sūnum ǀ ūhathuḥ ǀ rajaḥ-bhiḥ ǀ
    areṇu-bhiḥ ǀ yojanebhiḥ ǀ bhujantā ǀ patatri-bhiḥ ǀ arṇasaḥ ǀ niḥ ǀ upa-sthāt ǁ

    6.62.6 Aṣṭaka 5.1.2.1Anuvāka 6.6.6

  7. Ṛk 7

    वि ज॒युषा॑ रथ्या यात॒मद्रिं॑ श्रु॒तं हवं॑ वृषणा वध्रिम॒त्याः ।
    द॒श॒स्यंता॑ श॒यवे॑ पिप्यथु॒र्गामिति॑ च्यवाना सुम॒तिं भु॑रण्यू ॥

    वि जयुषा रथ्या यातम् अद्रिं श्रुतं हवं वृषणा वध्रिमत्याः |
    दशस्यन्ता शयवे पिप्यथुर् गाम् इति च्यवाना सुमतिम् भुरण्यू ||

    ví jayúṣā rathyā yātamádrim śrutám hávam vṛṣaṇā vadhrimatyā́ḥ ǀ
    daśasyántā śayáve pipyathurgā́míti cyavānā sumatím bhuraṇyū ǁ

    vi jayuṣā rathyā yātam adriṃ śrutaṃ havaṃ vṛṣaṇā vadhrimatyāḥ |
    daśasyantā śayave pipyathur gām iti cyavānā sumatim bhuraṇyū ||

    वि । ज॒युषा॑ । र॒थ्या॒ । या॒त॒म् । अद्रि॑म् । श्रु॒तम् । हव॑म् । वृ॒ष॒णा॒ । व॒ध्रि॒ऽम॒त्याः ।
    द॒श॒स्यन्ता॑ । श॒यवे॑ । पि॒प्य॒थुः॒ । गाम् । इति॑ । च्य॒वा॒ना॒ । सु॒ऽम॒तिम् । भु॒र॒ण्यू॒ इति॑ ॥

    वि । जयुषा । रथ्या । यातम् । अद्रिम् । श्रुतम् । हवम् । वृषणा । वध्रिऽमत्याः ।
    दशस्यन्ता । शयवे । पिप्यथुः । गाम् । इति । च्यवाना । सुऽमतिम् । भुरण्यू इति ॥

    ví ǀ jayúṣā ǀ rathyā ǀ yātam ǀ ádrim ǀ śrutám ǀ hávam ǀ vṛṣaṇā ǀ vadhri-matyā́ḥ ǀ
    daśasyántā ǀ śayáve ǀ pipyathuḥ ǀ gā́m ǀ íti ǀ cyavānā ǀ su-matím ǀ bhuraṇyū íti ǁ

    vi ǀ jayuṣā ǀ rathyā ǀ yātam ǀ adrim ǀ śrutam ǀ havam ǀ vṛṣaṇā ǀ vadhri-matyāḥ ǀ
    daśasyantā ǀ śayave ǀ pipyathuḥ ǀ gām ǀ iti ǀ cyavānā ǀ su-matim ǀ bhuraṇyū iti ǁ

    6.62.7 Aṣṭaka 5.1.2.2Anuvāka 6.6.7

  8. Ṛk 8

    यद्रो॑दसी प्र॒दिवो॒ अस्ति॒ भूमा॒ हेळो॑ दे॒वाना॑मु॒त म॑र्त्य॒त्रा ।
    तदा॑दित्या वसवो रुद्रियासो रक्षो॒युजे॒ तपु॑र॒घं द॑धात ॥

    यद् रोदसी प्रदिवो अस्ति भूमा हेऌओ देवानाम् उत मर्त्यत्रा |
    तद् आदित्या वसवो रुद्रियासो रक्षोयुजे तपुर् अघं दधात ||

    yádrodasī pradívo ásti bhū́mā héḷo devā́nāmutá martyatrā́ ǀ
    tádādityā vasavo rudriyāso rakṣoyúje tápuraghám dadhāta ǁ

    yad rodasī pradivo asti bhūmā heḷo devānām uta martyatrā |
    tad ādityā vasavo rudriyāso rakṣoyuje tapur aghaṃ dadhāta ||

    यत् । रो॒द॒सी॒ इति॑ । प्र॒ऽदिवः॑ । अस्ति॑ । भूम॑ । हेळः॑ । दे॒वाना॑म् । उ॒त । म॒र्त्य॒ऽत्रा ।
    तत् । आ॒दि॒त्याः॒ । व॒स॒वः॒ । रु॒द्रि॒या॒सः॒ । र॒क्षः॒ऽयुजे॑ । तपुः॑ । अ॒घम् । द॒धा॒त॒ ॥

    यत् । रोदसी इति । प्रऽदिवः । अस्ति । भूम । हेळः । देवानाम् । उत । मर्त्यऽत्रा ।
    तत् । आदित्याः । वसवः । रुद्रियासः । रक्षःऽयुजे । तपुः । अघम् । दधात ॥

    yát ǀ rodasī íti ǀ pra-dívaḥ ǀ ásti ǀ bhū́ma ǀ héḷaḥ ǀ devā́nām ǀ utá ǀ martya-trā́ ǀ
    tát ǀ ādityāḥ ǀ vasavaḥ ǀ rudriyāsaḥ ǀ rakṣaḥ-yúje ǀ tápuḥ ǀ aghám ǀ dadhāta ǁ

    yat ǀ rodasī iti ǀ pra-divaḥ ǀ asti ǀ bhūma ǀ heḷaḥ ǀ devānām ǀ uta ǀ martya-trā ǀ
    tat ǀ ādityāḥ ǀ vasavaḥ ǀ rudriyāsaḥ ǀ rakṣaḥ-yuje ǀ tapuḥ ǀ agham ǀ dadhāta ǁ

    6.62.8 Aṣṭaka 5.1.2.3Anuvāka 6.6.8

  9. Ṛk 9

    य ईं॒ राजा॑नावृतु॒था वि॒दध॒द्रज॑सो मि॒त्रो वरु॑ण॒श्चिके॑तत् ।
    गं॒भी॒राय॒ रक्ष॑से हे॒तिम॑स्य॒ द्रोघा॑य चि॒द्वच॑स॒ आन॑वाय ॥

    य ईं राजानाव् ऋतुथा विदधद् रजसो मित्रो वरुणश् चिकेतत् |
    गम्भीराय रक्षसे हेतिम् अस्य द्रोघाय चिद् वचस आनवाय ||

    yá īm rā́jānāvṛtuthā́ vidádhadrájaso mitró váruṇaścíketat ǀ
    gambhīrā́ya rákṣase hetímasya dróghāya cidvácasa ā́navāya ǁ

    ya īṃ rājānāv ṛtuthā vidadhad rajaso mitro varuṇaś ciketat |
    gambhīrāya rakṣase hetim asya droghāya cid vacasa ānavāya ||

    यः । ई॒म् । राजा॑नौ । ऋ॒तु॒ऽथा । वि॒ऽदध॑त् । रज॑सः । मि॒त्रः । वरु॑णः । चिके॑तत् ।
    ग॒म्भी॒राय॑ । रक्ष॑से । हे॒तिम् । अ॒स्य॒ । द्रोघा॑य । चि॒त् । वच॑से । आन॑वाय ॥

    यः । ईम् । राजानौ । ऋतुऽथा । विऽदधत् । रजसः । मित्रः । वरुणः । चिकेतत् ।
    गम्भीराय । रक्षसे । हेतिम् । अस्य । द्रोघाय । चित् । वचसे । आनवाय ॥

    yáḥ ǀ īm ǀ rā́jānau ǀ ṛtu-thā́ ǀ vi-dádhat ǀ rájasaḥ ǀ mitráḥ ǀ váruṇaḥ ǀ cíketat ǀ
    gambhīrā́ya ǀ rákṣase ǀ hetím ǀ asya ǀ dróghāya ǀ cit ǀ vácase ǀ ā́navāya ǁ

    yaḥ ǀ īm ǀ rājānau ǀ ṛtu-thā ǀ vi-dadhat ǀ rajasaḥ ǀ mitraḥ ǀ varuṇaḥ ǀ ciketat ǀ
    gambhīrāya ǀ rakṣase ǀ hetim ǀ asya ǀ droghāya ǀ cit ǀ vacase ǀ ānavāya ǁ

    6.62.9 Aṣṭaka 5.1.2.4Anuvāka 6.6.9

  10. Ṛk 10

    अंत॑रैश्च॒क्रैस्तन॑याय व॒र्तिर्द्यु॒मता या॑तं नृ॒वता॒ रथे॑न ।
    सनु॑त्येन॒ त्यज॑सा॒ मर्त्य॑स्य वनुष्य॒तामपि॑ शी॒र्षा व॑वृक्तं ॥

    अन्तरैश् चक्रैस् तनयाय वर्तिर् द्युमता यातं नृवता रथेन |
    सनुत्येन त्यजसा मर्त्यस्य वनुष्यताम् अपि शीर्षा ववृक्तम् ||

    ántaraiścakráistánayāya vartírdyumátā́ yātam nṛvátā ráthena ǀ
    sánutyena tyájasā mártyasya vanuṣyatā́mápi śīrṣā́ vavṛktam ǁ

    antaraiś cakrais tanayāya vartir dyumatā yātaṃ nṛvatā rathena |
    sanutyena tyajasā martyasya vanuṣyatām api śīrṣā vavṛktam ||

    अन्त॑रैः । च॒क्रैः । तन॑याय । व॒र्तिः । द्यु॒ऽमता॑ । आ । या॒त॒म् । नृ॒ऽवता॑ । रथे॑न ।
    सनु॑त्येन । त्यज॑सा । मर्त्य॑स्य । व॒नु॒ष्य॒ताम् । अपि॑ । शी॒र्षा । व॒वृ॒क्त॒म् ॥

    अन्तरैः । चक्रैः । तनयाय । वर्तिः । द्युऽमता । आ । यातम् । नृऽवता । रथेन ।
    सनुत्येन । त्यजसा । मर्त्यस्य । वनुष्यताम् । अपि । शीर्षा । ववृक्तम् ॥

    ántaraiḥ ǀ cakráiḥ ǀ tánayāya ǀ vartíḥ ǀ dyu-mátā ǀ ā́ ǀ yātam ǀ nṛ-vátā ǀ ráthena ǀ
    sánutyena ǀ tyájasā ǀ mártyasya ǀ vanuṣyatā́m ǀ ápi ǀ śīrṣā́ ǀ vavṛktam ǁ

    antaraiḥ ǀ cakraiḥ ǀ tanayāya ǀ vartiḥ ǀ dyu-matā ǀ ā ǀ yātam ǀ nṛ-vatā ǀ rathena ǀ
    sanutyena ǀ tyajasā ǀ martyasya ǀ vanuṣyatām ǀ api ǀ śīrṣā ǀ vavṛktam ǁ

    6.62.10 Aṣṭaka 5.1.2.5Anuvāka 6.6.10

  11. Ṛk 11

    आ प॑र॒माभि॑रु॒त म॑ध्य॒माभि॑र्नि॒युद्भि॑र्यातमव॒माभि॑र॒र्वाक् ।
    दृ॒ळ्हस्य॑ चि॒द्गोम॑तो॒ वि व्र॒जस्य॒ दुरो॑ वर्तं गृण॒ते चि॑त्रराती ॥

    आ परमाभिर् उत मध्यमाभिर् नियुद्भिर् यातम् अवमाभिर् अर्वाक् |
    दृऌहस्य चिद् गोमतो वि व्रजस्य दुरो वर्तं गृणते चित्रराती ||

    ā́ paramā́bhirutá madhyamā́bhirniyúdbhiryātamavamā́bhirarvā́k ǀ
    dṛḷhásya cidgómato ví vrajásya dúro vartam gṛṇaté citrarātī ǁ

    ā paramābhir uta madhyamābhir niyudbhir yātam avamābhir arvāk |
    dṛḷhasya cid gomato vi vrajasya duro vartaṃ gṛṇate citrarātī ||

    आ । प॒र॒माभिः॑ । उ॒त । म॒ध्य॒माभिः॑ । नि॒युत्ऽभिः॑ । या॒त॒म् । अ॒व॒माभिः॑ । अ॒र्वाक् ।
    दृ॒ळ्हस्य॑ । चि॒त् । गोऽम॑तः । वि । व्र॒जस्य॑ । दुरः॑ । व॒र्त॒म् । गृ॒ण॒ते । चि॒त्र॒रा॒ती॒ इति॑ चित्रऽराती ॥

    आ । परमाभिः । उत । मध्यमाभिः । नियुत्ऽभिः । यातम् । अवमाभिः । अर्वाक् ।
    दृळ्हस्य । चित् । गोऽमतः । वि । व्रजस्य । दुरः । वर्तम् । गृणते । चित्रराती इति चित्रऽराती ॥

    ā́ ǀ paramā́bhiḥ ǀ utá ǀ madhyamā́bhiḥ ǀ niyút-bhiḥ ǀ yātam ǀ avamā́bhiḥ ǀ arvā́k ǀ
    dṛḷhásya ǀ cit ǀ gó-mataḥ ǀ ví ǀ vrajásya ǀ dúraḥ ǀ vartam ǀ gṛṇaté ǀ citrarātī íti citra-rātī ǁ

    ā ǀ paramābhiḥ ǀ uta ǀ madhyamābhiḥ ǀ niyut-bhiḥ ǀ yātam ǀ avamābhiḥ ǀ arvāk ǀ
    dṛḷhasya ǀ cit ǀ go-mataḥ ǀ vi ǀ vrajasya ǀ duraḥ ǀ vartam ǀ gṛṇate ǀ citrarātī iti citra-rātī ǁ

    6.62.11 Aṣṭaka 5.1.2.6Anuvāka 6.6.11

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 6.62 · Aśvins

Interpretations

Ralph T. H. Griffith

Ṛk 1

I LAUD the Heroes Twain, this heaven's Controllers: singing with songs of praise I call the Aśvins, Fain in a moment, when the morns are breaking, to part the earth's ends and the spacious regions.

Ṛk 2

Moving to sacrifice through realms of lustre they light the radiance of the car that bears them. Traversing many wide unmeasured spaces, over the wastes ye pass, and fields, and waters.

Ṛk 3

Ye to that bounteous path of yours, ye mighty, have ever borne away our thoughts with horses, Mind-swift and full of vigour, that the trouble of man who offers gifts might cease and slumber.

Ṛk 4

So ye, when ye have yoked your chariothorses, come to the hymn of the most recent singer. Our true and ancient Herald Priest shall bring you, the Youthful, bearing splendour, food, and vigour.

Ṛk 5

With newest hymn I call those Wonder-Workers, ancient and brilliant, and exceeding mighty, Bringers of bliss to him who lauds and praises, bestowing varied bounties on the singer.

Ṛk 6

So ye, with birds, out of the sea and waters bore Bhujyu, son of Tugra, through the regions. Speeding with winged steeds through dustless spaces, out of the bosom of the flood they bore him.

Ṛk 7

Victors, car-borne, ye rent the rock asunder: Bulls, heard the calling of the eunuch's consort. Bounteous, ye filled the cow with milk for Śayu: thus, swift and zealous Ones, ye showed your favour.

Ṛk 8

Whate’er from olden time, Heaven, Earth! existeth great object of the wrath of Gods and mortals, Make that, Ādityas, Vasus, sons of Rudra, an evil brand to one allied with demons.

Ṛk 9

May he who knows, as Varuṇa and Mitra, air's realm, appointing both the Kings in season, Against the secret fiend cast forth his weapon, against the lying words that strangers utter.

Ṛk 10

Come to our home with friendly wheels, for offipring; come on your radiant chariot rich in heroes. Strike off, ye Twain, the heads of our assailants who with man's treacherous attack approach us.