Ṛk 6.62.7
Saṃhitā
वि ज॒युषा॑ रथ्या यात॒मद्रिं॑ श्रु॒तं हवं॑ वृषणा वध्रिम॒त्याः ।
द॒श॒स्यंता॑ श॒यवे॑ पिप्यथु॒र्गामिति॑ च्यवाना सुम॒तिं भु॑रण्यू ॥
वि जयुषा रथ्या यातम् अद्रिं श्रुतं हवं वृषणा वध्रिमत्याः |
दशस्यन्ता शयवे पिप्यथुर् गाम् इति च्यवाना सुमतिम् भुरण्यू ||
ví jayúṣā rathyā yātamádrim śrutám hávam vṛṣaṇā vadhrimatyā́ḥ ǀ
daśasyántā śayáve pipyathurgā́míti cyavānā sumatím bhuraṇyū ǁ
vi jayuṣā rathyā yātam adriṃ śrutaṃ havaṃ vṛṣaṇā vadhrimatyāḥ |
daśasyantā śayave pipyathur gām iti cyavānā sumatim bhuraṇyū ||
Padapāṭha
वि । ज॒युषा॑ । र॒थ्या॒ । या॒त॒म् । अद्रि॑म् । श्रु॒तम् । हव॑म् । वृ॒ष॒णा॒ । व॒ध्रि॒ऽम॒त्याः ।
द॒श॒स्यन्ता॑ । श॒यवे॑ । पि॒प्य॒थुः॒ । गाम् । इति॑ । च्य॒वा॒ना॒ । सु॒ऽम॒तिम् । भु॒र॒ण्यू॒ इति॑ ॥
वि । जयुषा । रथ्या । यातम् । अद्रिम् । श्रुतम् । हवम् । वृषणा । वध्रिऽमत्याः ।
दशस्यन्ता । शयवे । पिप्यथुः । गाम् । इति । च्यवाना । सुऽमतिम् । भुरण्यू इति ॥
ví ǀ jayúṣā ǀ rathyā ǀ yātam ǀ ádrim ǀ śrutám ǀ hávam ǀ vṛṣaṇā ǀ vadhri-matyā́ḥ ǀ
daśasyántā ǀ śayáve ǀ pipyathuḥ ǀ gā́m ǀ íti ǀ cyavānā ǀ su-matím ǀ bhuraṇyū íti ǁ
vi ǀ jayuṣā ǀ rathyā ǀ yātam ǀ adrim ǀ śrutam ǀ havam ǀ vṛṣaṇā ǀ vadhri-matyāḥ ǀ
daśasyantā ǀ śayave ǀ pipyathuḥ ǀ gām ǀ iti ǀ cyavānā ǀ su-matim ǀ bhuraṇyū iti ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.062.07
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.1.02.02
- Maṇḍala · Anuvāka · Ṛk
- 06.06.007
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.