Sūkta 7
- Devatā देवता
- Agni Vaiśvānara
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh, Jagatī
Metres by ṛk
1st set of styles triṣṭup (1); nicṛttriṣṭup (2); nicṛtpaṅkti (3); svarāṭpaṅkti (4); paṅktiḥ (5); jagatī (6); svarāṭtriṣṭup (7)
2nd set of styles triṣṭubh (1-5); jagatī (6, 7)
-
Ṛk 1
मू॒र्धानं॑ दि॒वो अ॑र॒तिं पृ॑थि॒व्या वै॑श्वान॒रमृ॒त आ जा॒तम॒ग्निं ।
क॒विं स॒म्राज॒मति॑थिं॒ जना॑नामा॒सन्ना पात्रं॑ जनयंत दे॒वाः ॥मूर्धानं दिवो अरतिम् पृथिव्या वैश्वानरम् ऋत आ जातम् अग्निम् |
कविं सम्राजम् अतिथिं जनानाम् आसन्न् आ पात्रं जनयन्त देवाः ||mūrdhā́nam divó aratím pṛthivyā́ vaiśvānarámṛtá ā́ jātámagním ǀ
kavím samrā́jamátithim jánānāmāsánnā́ pā́tram janayanta devā́ḥ ǁmūrdhānaṃ divo aratim pṛthivyā vaiśvānaram ṛta ā jātam agnim |
kaviṃ samrājam atithiṃ janānām āsann ā pātraṃ janayanta devāḥ ||मू॒र्धान॑म् । दि॒वः । अ॒र॒तिम् । पृ॒थि॒व्याः । वै॒श्वा॒न॒रम् । ऋ॒ते । आ । जा॒तम् । अ॒ग्निम् ।
क॒विम् । स॒म्ऽराज॑म् । अति॑थिम् । जना॑नाम् । आ॒सन् । आ । पात्र॑म् । ज॒न॒य॒न्त॒ । दे॒वाः ॥मूर्धानम् । दिवः । अरतिम् । पृथिव्याः । वैश्वानरम् । ऋते । आ । जातम् । अग्निम् ।
कविम् । सम्ऽराजम् । अतिथिम् । जनानाम् । आसन् । आ । पात्रम् । जनयन्त । देवाः ॥mūrdhā́nam ǀ diváḥ ǀ aratím ǀ pṛthivyā́ḥ ǀ vaiśvānarám ǀ ṛté ǀ ā́ ǀ jātám ǀ agním ǀ
kavím ǀ sam-rā́jam ǀ átithim ǀ jánānām ǀ āsán ǀ ā́ ǀ pā́tram ǀ janayanta ǀ devā́ḥ ǁmūrdhānam ǀ divaḥ ǀ aratim ǀ pṛthivyāḥ ǀ vaiśvānaram ǀ ṛte ǀ ā ǀ jātam ǀ agnim ǀ
kavim ǀ sam-rājam ǀ atithim ǀ janānām ǀ āsan ǀ ā ǀ pātram ǀ janayanta ǀ devāḥ ǁ6.7.1 Aṣṭaka 4.5.9.1Anuvāka 6.1.55
-
Ṛk 2
नाभिं॑ य॒ज्ञानां॒ सद॑नं रयी॒णां म॒हामा॑हा॒वम॒भि सं न॑वंत ।
वै॒श्वा॒न॒रं र॒थ्य॑मध्व॒राणां॑ य॒ज्ञस्य॑ के॒तुं ज॑नयंत दे॒वाः ॥नाभिं यज्ञानां सदनं रयीणाम् महाम् आहावम् अभि सं नवन्त |
वैश्वानरं रथ्यम् अध्वराणां यज्ञस्य केतुं जनयन्त देवाः ||nā́bhim yajñā́nām sádanam rayīṇā́m mahā́māhāvámabhí sám navanta ǀ
vaiśvānarám rathyámadhvarā́ṇām yajñásya ketúm janayanta devā́ḥ ǁnābhiṃ yajñānāṃ sadanaṃ rayīṇām mahām āhāvam abhi saṃ navanta |
vaiśvānaraṃ rathyam adhvarāṇāṃ yajñasya ketuṃ janayanta devāḥ ||नाभि॑म् । य॒ज्ञाना॑म् । सद॑नम् । र॒यी॒णाम् । म॒हाम् । आ॒ऽहा॒वम् । अ॒भि । सम् । न॒व॒न्त॒ ।
वै॒श्वा॒न॒रम् । र॒थ्य॑म् । अ॒ध्व॒राणा॑म् । य॒ज्ञस्य॑ । के॒तुम् । ज॒न॒य॒न्त॒ । दे॒वाः ॥नाभिम् । यज्ञानाम् । सदनम् । रयीणाम् । महाम् । आऽहावम् । अभि । सम् । नवन्त ।
वैश्वानरम् । रथ्यम् । अध्वराणाम् । यज्ञस्य । केतुम् । जनयन्त । देवाः ॥nā́bhim ǀ yajñā́nām ǀ sádanam ǀ rayīṇā́m ǀ mahā́m ǀ ā-hāvám ǀ abhí ǀ sám ǀ navanta ǀ
vaiśvānarám ǀ rathyám ǀ adhvarā́ṇām ǀ yajñásya ǀ ketúm ǀ janayanta ǀ devā́ḥ ǁnābhim ǀ yajñānām ǀ sadanam ǀ rayīṇām ǀ mahām ǀ ā-hāvam ǀ abhi ǀ sam ǀ navanta ǀ
vaiśvānaram ǀ rathyam ǀ adhvarāṇām ǀ yajñasya ǀ ketum ǀ janayanta ǀ devāḥ ǁ6.7.2 Aṣṭaka 4.5.9.2Anuvāka 6.1.56
-
Ṛk 3
त्वद्विप्रो॑ जायते वा॒ज्य॑ग्ने॒ त्वद्वी॒रासो॑ अभिमाति॒षाहः॑ ।
वैश्वा॑नर॒ त्वम॒स्मासु॑ धेहि॒ वसू॑नि राजन्त्स्पृह॒याय्या॑णि ॥त्वद् विप्रो जायते वाज्य् अग्ने त्वद् वीरासो अभिमातिषाहः |
वैश्वानर त्वम् अस्मासु धेहि वसूनि राजन् स्पृहयाय्याणि ||tvádvípro jāyate vājyágne tvádvīrā́so abhimātiṣā́haḥ ǀ
váiśvānara tvámasmā́su dhehi vásūni rājantspṛhayā́yyāṇi ǁtvad vipro jāyate vājy agne tvad vīrāso abhimātiṣāhaḥ |
vaiśvānara tvam asmāsu dhehi vasūni rājan spṛhayāyyāṇi ||त्वत् । विप्रः॑ । जा॒य॒ते॒ । वा॒जी । अ॒ग्ने॒ । त्वत् । वी॒रासः॑ । अ॒भि॒मा॒ति॒ऽसहः॑ ।
वैश्वा॑नर । त्वम् । अ॒स्मासु॑ । धे॒हि॒ । वसू॑नि । रा॒ज॒न् । स्पृ॒ह॒याय्या॑णि ॥त्वत् । विप्रः । जायते । वाजी । अग्ने । त्वत् । वीरासः । अभिमातिऽसहः ।
वैश्वानर । त्वम् । अस्मासु । धेहि । वसूनि । राजन् । स्पृहयाय्याणि ॥tvát ǀ vípraḥ ǀ jāyate ǀ vājī́ ǀ agne ǀ tvát ǀ vīrā́saḥ ǀ abhimāti-sáhaḥ ǀ
váiśvānara ǀ tvám ǀ asmā́su ǀ dhehi ǀ vásūni ǀ rājan ǀ spṛhayā́yyāṇi ǁtvat ǀ vipraḥ ǀ jāyate ǀ vājī ǀ agne ǀ tvat ǀ vīrāsaḥ ǀ abhimāti-sahaḥ ǀ
vaiśvānara ǀ tvam ǀ asmāsu ǀ dhehi ǀ vasūni ǀ rājan ǀ spṛhayāyyāṇi ǁ6.7.3 Aṣṭaka 4.5.9.3Anuvāka 6.1.57
-
Ṛk 4
त्वां विश्वे॑ अमृत॒ जाय॑मानं॒ शिशुं॒ न दे॒वा अ॒भि सं न॑वंते ।
तव॒ क्रतु॑भिरमृत॒त्वमा॑य॒न्वैश्वा॑नर॒ यत्पि॒त्रोरदी॑देः ॥त्वां विश्वे अमृत जायमानं शिशुं न देवा अभि सं नवन्ते |
तव क्रतुभिर् अमृतत्वम् आयन् वैश्वानर यत् पित्रोर् अदीदेः ||tvā́m víśve amṛta jā́yamānam śíśum ná devā́ abhí sám navante ǀ
táva krátubhiramṛtatvámāyanváiśvānara yátpitrórádīdeḥ ǁtvāṃ viśve amṛta jāyamānaṃ śiśuṃ na devā abhi saṃ navante |
tava kratubhir amṛtatvam āyan vaiśvānara yat pitror adīdeḥ ||त्वाम् । विश्वे॑ । अ॒मृ॒त॒ । जाय॑मानम् । शिशु॑म् । न । दे॒वाः । अ॒भि । सम् । न॒व॒न्ते॒ ।
तव॑ । क्रतु॑ऽभिः । अ॒मृ॒त॒ऽत्वम् । आ॒य॒न् । वैश्वा॑नर । यत् । पि॒त्रोः । अदी॑देः ॥त्वाम् । विश्वे । अमृत । जायमानम् । शिशुम् । न । देवाः । अभि । सम् । नवन्ते ।
तव । क्रतुऽभिः । अमृतऽत्वम् । आयन् । वैश्वानर । यत् । पित्रोः । अदीदेः ॥tvā́m ǀ víśve ǀ amṛta ǀ jā́yamānam ǀ śíśum ǀ ná ǀ devā́ḥ ǀ abhí ǀ sám ǀ navante ǀ
táva ǀ krátu-bhiḥ ǀ amṛta-tvám ǀ āyan ǀ váiśvānara ǀ yát ǀ pitróḥ ǀ ádīdeḥ ǁtvām ǀ viśve ǀ amṛta ǀ jāyamānam ǀ śiśum ǀ na ǀ devāḥ ǀ abhi ǀ sam ǀ navante ǀ
tava ǀ kratu-bhiḥ ǀ amṛta-tvam ǀ āyan ǀ vaiśvānara ǀ yat ǀ pitroḥ ǀ adīdeḥ ǁ6.7.4 Aṣṭaka 4.5.9.4Anuvāka 6.1.58
-
Ṛk 5
वैश्वा॑नर॒ तव॒ तानि॑ व्र॒तानि॑ म॒हान्य॑ग्ने॒ नकि॒रा द॑धर्ष ।
यज्जाय॑मानः पि॒त्रोरु॒पस्थेऽविं॑दः के॒तुं व॒युने॒ष्वह्नां॑ ॥वैश्वानर तव तानि व्रतानि महान्य् अग्ने नकिर् आ दधर्ष |
यज् जायमानः पित्रोर् उपस्थे ऽविन्दः केतुं वयुनेष्व् अह्नाम् ||váiśvānara táva tā́ni vratā́ni mahā́nyagne nákirā́ dadharṣa ǀ
yájjā́yamānaḥ pitrórupásthé’vindaḥ ketúm vayúneṣváhnām ǁvaiśvānara tava tāni vratāni mahāny agne nakir ā dadharṣa |
yaj jāyamānaḥ pitror upasthe 'vindaḥ ketuṃ vayuneṣv ahnām ||वैश्वा॑नर । तव॑ । तानि॑ । व्र॒तानि॑ । म॒हानि॑ । अ॒ग्ने॒ । नकिः॑ । आ । द॒ध॒र्ष॒ ।
यत् । जाय॑मानः । पि॒त्रोः । उ॒पऽस्थे॑ । अवि॑न्दः । के॒तुम् । व॒युने॑षु । अह्ना॑म् ॥वैश्वानर । तव । तानि । व्रतानि । महानि । अग्ने । नकिः । आ । दधर्ष ।
यत् । जायमानः । पित्रोः । उपऽस्थे । अविन्दः । केतुम् । वयुनेषु । अह्नाम् ॥váiśvānara ǀ táva ǀ tā́ni ǀ vratā́ni ǀ mahā́ni ǀ agne ǀ nákiḥ ǀ ā́ ǀ dadharṣa ǀ
yát ǀ jā́yamānaḥ ǀ pitróḥ ǀ upá-sthe ǀ ávindaḥ ǀ ketúm ǀ vayúneṣu ǀ áhnām ǁvaiśvānara ǀ tava ǀ tāni ǀ vratāni ǀ mahāni ǀ agne ǀ nakiḥ ǀ ā ǀ dadharṣa ǀ
yat ǀ jāyamānaḥ ǀ pitroḥ ǀ upa-sthe ǀ avindaḥ ǀ ketum ǀ vayuneṣu ǀ ahnām ǁ6.7.5 Aṣṭaka 4.5.9.5Anuvāka 6.1.59
-
Ṛk 6
वै॒श्वा॒न॒रस्य॒ विमि॑तानि॒ चक्ष॑सा॒ सानू॑नि दि॒वो अ॒मृत॑स्य के॒तुना॑ ।
तस्येदु॒ विश्वा॒ भुव॒नाधि॑ मू॒र्धनि॑ व॒या इ॑व रुरुहुः स॒प्त वि॒स्रुहः॑ ॥वैश्वानरस्य विमितानि चक्षसा सानूनि दिवो अमृतस्य केतुना |
तस्येद् उ विश्वा भुवनाधि मूर्धनि वया इव रुरुहुः सप्त विस्रुहः ||vaiśvānarásya vímitāni cákṣasā sā́nūni divó amṛ́tasya ketúnā ǀ
tásyédu víśvā bhúvanā́dhi mūrdháni vayā́ iva ruruhuḥ saptá visrúhaḥ ǁvaiśvānarasya vimitāni cakṣasā sānūni divo amṛtasya ketunā |
tasyed u viśvā bhuvanādhi mūrdhani vayā iva ruruhuḥ sapta visruhaḥ ||वै॒श्वा॒न॒रस्य॑ । विऽमि॑तानि । चक्ष॑सा । सानू॑नि । दि॒वः । अ॒मृत॑स्य । के॒तुना॑ ।
तस्य॑ । इत् । ऊं॒ इति॑ । विश्वा॑ । भुव॑ना । अधि॑ । मू॒र्धनि॑ । व॒याःऽइ॑व । रु॒रु॒हुः॒ । स॒प्त । वि॒ऽस्रुहः॑ ॥वैश्वानरस्य । विऽमितानि । चक्षसा । सानूनि । दिवः । अमृतस्य । केतुना ।
तस्य । इत् । ऊं इति । विश्वा । भुवना । अधि । मूर्धनि । वयाःऽइव । रुरुहुः । सप्त । विऽस्रुहः ॥vaiśvānarásya ǀ ví-mitāni ǀ cákṣasā ǀ sā́nūni ǀ diváḥ ǀ amṛ́tasya ǀ ketúnā ǀ
tásya ǀ ít ǀ ūṃ íti ǀ víśvā ǀ bhúvanā ǀ ádhi ǀ mūrdháni ǀ vayā́ḥ-iva ǀ ruruhuḥ ǀ saptá ǀ vi-srúhaḥ ǁvaiśvānarasya ǀ vi-mitāni ǀ cakṣasā ǀ sānūni ǀ divaḥ ǀ amṛtasya ǀ ketunā ǀ
tasya ǀ it ǀ ūṃ iti ǀ viśvā ǀ bhuvanā ǀ adhi ǀ mūrdhani ǀ vayāḥ-iva ǀ ruruhuḥ ǀ sapta ǀ vi-sruhaḥ ǁ6.7.6 Aṣṭaka 4.5.9.6Anuvāka 6.1.60
-
Ṛk 7
वि यो रजां॒स्यमि॑मीत सु॒क्रतु॑र्वैश्वान॒रो वि दि॒वो रो॑च॒ना क॒विः ।
परि॒ यो विश्वा॒ भुव॑नानि पप्र॒थेऽद॑ब्धो गो॒पा अ॒मृत॑स्य रक्षि॒ता ॥वि यो रजांस्य् अमिमीत सुक्रतुर् वैश्वानरो वि दिवो रोचना कविः |
परि यो विश्वा भुवनानि पप्रथे ऽदब्धो गोपा अमृतस्य रक्षिता ||ví yó rájāṃsyámimīta sukráturvaiśvānaró ví divó rocanā́ kavíḥ ǀ
pári yó víśvā bhúvanāni paprathé’dabdho gopā́ amṛ́tasya rakṣitā́ ǁvi yo rajāṃsy amimīta sukratur vaiśvānaro vi divo rocanā kaviḥ |
pari yo viśvā bhuvanāni paprathe 'dabdho gopā amṛtasya rakṣitā ||वि । यः । रजां॑सि । अमि॑मीत । सु॒ऽक्रतुः॑ । वै॒श्वा॒न॒रः । वि । दि॒वः । रो॒च॒ना । क॒विः ।
परि॑ । यः । विश्वा॑ । भुव॑नानि । प॒प्र॒थे । अद॑ब्धः । गो॒पाः । अ॒मृत॑स्य । र॒क्षि॒ता ॥वि । यः । रजांसि । अमिमीत । सुऽक्रतुः । वैश्वानरः । वि । दिवः । रोचना । कविः ।
परि । यः । विश्वा । भुवनानि । पप्रथे । अदब्धः । गोपाः । अमृतस्य । रक्षिता ॥ví ǀ yáḥ ǀ rájāṃsi ǀ ámimīta ǀ su-krátuḥ ǀ vaiśvānaráḥ ǀ ví ǀ diváḥ ǀ rocanā́ ǀ kavíḥ ǀ
pári ǀ yáḥ ǀ víśvā ǀ bhúvanāni ǀ paprathé ǀ ádabdhaḥ ǀ gopā́ḥ ǀ amṛ́tasya ǀ rakṣitā́ ǁvi ǀ yaḥ ǀ rajāṃsi ǀ amimīta ǀ su-kratuḥ ǀ vaiśvānaraḥ ǀ vi ǀ divaḥ ǀ rocanā ǀ kaviḥ ǀ
pari ǀ yaḥ ǀ viśvā ǀ bhuvanāni ǀ paprathe ǀ adabdhaḥ ǀ gopāḥ ǀ amṛtasya ǀ rakṣitā ǁ6.7.7 Aṣṭaka 4.5.9.7Anuvāka 6.1.61
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.