Sūkta 59
- Devatā देवता
- Agni, Indra
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Bṛhatī, Anuṣṭubh
Metres by ṛk
1st set of styles nicṛdbṛhatī (1, 3-5); bhuriganuṣṭup (6, 7, 9); virāḍabṛhatī (2); uṣṇik (8); anuṣṭup (10)
2nd set of styles bṛhatī (1-6); anuṣṭubh (7-10)
-
Ṛk 1
प्र नु वो॑चा सु॒तेषु॑ वां वी॒र्या॒३॒॑ यानि॑ च॒क्रथुः॑ ।
ह॒तासो॑ वां पि॒तरो॑ दे॒वश॑त्रव॒ इंद्रा॑ग्नी॒ जीव॑थो यु॒वं ॥प्र नु वोचा सुतेषु वां वीर्या यानि चक्रथुः |
हतासो वाम् पितरो देवशत्रव इन्द्राग्नी जीवथो युवम् ||prá nú vocā sutéṣu vām vīryā́ yā́ni cakráthuḥ ǀ
hatā́so vām pitáro deváśatrava índrāgnī jī́vatho yuvám ǁpra nu vocā suteṣu vāṃ vīryā yāni cakrathuḥ |
hatāso vām pitaro devaśatrava indrāgnī jīvatho yuvam ||प्र । नु । वो॒च॒ । सु॒तेषु॑ । वा॒म् । वी॒र्या॑ । यानि॑ । च॒क्रथुः॑ ।
ह॒तासः॑ । वा॒म् । पि॒तरः॑ । दे॒वऽश॑त्रवः । इन्द्रा॑ग्नी॒ इति॑ । जीव॑थः । यु॒वम् ॥प्र । नु । वोच । सुतेषु । वाम् । वीर्या । यानि । चक्रथुः ।
हतासः । वाम् । पितरः । देवऽशत्रवः । इन्द्राग्नी इति । जीवथः । युवम् ॥prá ǀ nú ǀ voca ǀ sutéṣu ǀ vām ǀ vīryā́ ǀ yā́ni ǀ cakráthuḥ ǀ
hatā́saḥ ǀ vām ǀ pitáraḥ ǀ devá-śatravaḥ ǀ índrāgnī íti ǀ jī́vathaḥ ǀ yuvám ǁpra ǀ nu ǀ voca ǀ suteṣu ǀ vām ǀ vīryā ǀ yāni ǀ cakrathuḥ ǀ
hatāsaḥ ǀ vām ǀ pitaraḥ ǀ deva-śatravaḥ ǀ indrāgnī iti ǀ jīvathaḥ ǀ yuvam ǁ6.59.1 Aṣṭaka 4.8.25.1Anuvāka 6.5.91
-
Ṛk 2
बळि॒त्था म॑हि॒मा वा॒मिंद्रा॑ग्नी॒ पनि॑ष्ठ॒ आ ।
स॒मा॒नो वां॑ जनि॒ता भ्रात॑रा यु॒वं य॒मावि॒हेह॑मातरा ॥बऌ इत्था महिमा वाम् इन्द्राग्नी पनिष्ठ आ |
समानो वां जनिता भ्रातरा युवं यमाव् इहेहमातरा ||báḷitthā́ mahimā́ vāmíndrāgnī pániṣṭha ā́ ǀ
samānó vām janitā́ bhrā́tarā yuvám yamā́vihéhamātarā ǁbaḷ itthā mahimā vām indrāgnī paniṣṭha ā |
samāno vāṃ janitā bhrātarā yuvaṃ yamāv ihehamātarā ||बट् । इ॒त्था । म॒हि॒मा । वा॒म् । इन्द्रा॑ग्नी॒ इति॑ । पनि॑ष्ठः । आ ।
स॒मा॒नः । वा॒म् । ज॒नि॒ता । भ्रात॑रा । यु॒वम् । य॒मौ । इ॒हेह॑ऽमातरा ॥बट् । इत्था । महिमा । वाम् । इन्द्राग्नी इति । पनिष्ठः । आ ।
समानः । वाम् । जनिता । भ्रातरा । युवम् । यमौ । इहेहऽमातरा ॥báṭ ǀ itthā́ ǀ mahimā́ ǀ vām ǀ índrāgnī íti ǀ pániṣṭhaḥ ǀ ā́ ǀ
samānáḥ ǀ vām ǀ janitā́ ǀ bhrā́tarā ǀ yuvám ǀ yamáu ǀ ihéha-mātarā ǁbaṭ ǀ itthā ǀ mahimā ǀ vām ǀ indrāgnī iti ǀ paniṣṭhaḥ ǀ ā ǀ
samānaḥ ǀ vām ǀ janitā ǀ bhrātarā ǀ yuvam ǀ yamau ǀ iheha-mātarā ǁ6.59.2 Aṣṭaka 4.8.25.2Anuvāka 6.5.92
-
Ṛk 3
ओ॒कि॒वांसा॑ सु॒ते सचाँ॒ अश्वा॒ सप्ती॑ इ॒वाद॑ने ।
इंद्रा॒ न्व१॒॑ग्नी अव॑से॒ह व॒ज्रिणा॑ व॒यं दे॒वा ह॑वामहे ॥ओकिवांसा सुते सचां अश्वा सप्ती इवादने |
इन्द्रा न्व् अग्नी अवसेह वज्रिणा वयं देवा हवामहे ||okivā́ṃsā suté sácām̐ áśvā sáptī ivā́dane ǀ
índrā nvágnī́ ávasehá vajríṇā vayám devā́ havāmahe ǁokivāṃsā sute sacāṃ aśvā saptī ivādane |
indrā nv agnī avaseha vajriṇā vayaṃ devā havāmahe ||ओ॒कि॒ऽवांसा॑ । सु॒ते । सचा॑ । अश्वा॑ । सप्ती॑ इ॒वेति॒ सप्ती॑ऽइव । आद॑ने ।
इन्द्रा॑ । नु । अ॒ग्नी इति॑ । अव॑सा । इ॒ह । व॒ज्रिणा॑ । व॒यम् । दे॒वा । ह॒वा॒म॒हे॒ ॥ओकिऽवांसा । सुते । सचा । अश्वा । सप्ती इवेति सप्तीऽइव । आदने ।
इन्द्रा । नु । अग्नी इति । अवसा । इह । वज्रिणा । वयम् । देवा । हवामहे ॥oki-vā́ṃsā ǀ suté ǀ sácā ǀ áśvā ǀ sáptī ivéti sáptī-iva ǀ ā́dane ǀ
índrā ǀ nú ǀ agnī́ íti ǀ ávasā ǀ ihá ǀ vajríṇā ǀ vayám ǀ devā́ ǀ havāmahe ǁoki-vāṃsā ǀ sute ǀ sacā ǀ aśvā ǀ saptī iveti saptī-iva ǀ ādane ǀ
indrā ǀ nu ǀ agnī iti ǀ avasā ǀ iha ǀ vajriṇā ǀ vayam ǀ devā ǀ havāmahe ǁ6.59.3 Aṣṭaka 4.8.25.3Anuvāka 6.5.93
-
Ṛk 4
य इं॑द्राग्नी सु॒तेषु॑ वां॒ स्तव॒त्तेष्वृ॑तावृधा ।
जो॒ष॒वा॒कं वद॑तः पज्रहोषिणा॒ न दे॑वा भ॒सथ॑श्च॒न ॥य इन्द्राग्नी सुतेषु वां स्तवत् तेष्व् ऋतावृधा |
जोषवाकं वदतः पज्रहोषिणा न देवा भसथश् चन ||yá indrāgnī sutéṣu vām stávattéṣvṛtāvṛdhā ǀ
joṣavākám vádataḥ pajrahoṣiṇā ná devā bhasáthaścaná ǁya indrāgnī suteṣu vāṃ stavat teṣv ṛtāvṛdhā |
joṣavākaṃ vadataḥ pajrahoṣiṇā na devā bhasathaś cana ||यः । इ॒न्द्रा॒ग्नी॒ इति॑ । सु॒तेषु॑ । वा॒म् । स्तव॑त् । तेषु॑ । ऋ॒त॒ऽवृ॒धा॒ ।
जो॒ष॒ऽवा॒कम् । वद॑तः । प॒ज्र॒ऽहो॒षि॒णा॒ । न । दे॒वा॒ । भ॒सथः॑ । च॒न ॥यः । इन्द्राग्नी इति । सुतेषु । वाम् । स्तवत् । तेषु । ऋतऽवृधा ।
जोषऽवाकम् । वदतः । पज्रऽहोषिणा । न । देवा । भसथः । चन ॥yáḥ ǀ indrāgnī íti ǀ sutéṣu ǀ vām ǀ stávat ǀ téṣu ǀ ṛta-vṛdhā ǀ
joṣa-vākám ǀ vádataḥ ǀ pajra-hoṣiṇā ǀ ná ǀ devā ǀ bhasáthaḥ ǀ caná ǁyaḥ ǀ indrāgnī iti ǀ suteṣu ǀ vām ǀ stavat ǀ teṣu ǀ ṛta-vṛdhā ǀ
joṣa-vākam ǀ vadataḥ ǀ pajra-hoṣiṇā ǀ na ǀ devā ǀ bhasathaḥ ǀ cana ǁ6.59.4 Aṣṭaka 4.8.25.4Anuvāka 6.5.94
-
Ṛk 5
इंद्रा॑ग्नी॒ को अ॒स्य वां॒ देवौ॒ मर्त॑श्चिकेतति ।
विषू॑चो॒ अश्वा॑न्युयुजा॒न ई॑यत॒ एकः॑ समा॒न आ रथे॑ ॥इन्द्राग्नी को अस्य वां देवौ मर्तश् चिकेतति |
विषूचो अश्वान् युयुजान ईयत एकः समान आ रथे ||índrāgnī kó asyá vām dévau mártaściketati ǀ
víṣūco áśvānyuyujāná īyata ékaḥ samāná ā́ ráthe ǁindrāgnī ko asya vāṃ devau martaś ciketati |
viṣūco aśvān yuyujāna īyata ekaḥ samāna ā rathe ||इन्द्रा॑ग्नी॒ इति॑ । कः । अ॒स्य । वा॒म् । देवौ॑ । मर्तः॑ । चि॒के॒त॒ति॒ ।
विषू॑चः । अश्वा॑न् । यु॒यु॒जा॒नः । ई॒य॒ते॒ । एकः॑ । स॒मा॒ने । आ । रथे॑ ॥इन्द्राग्नी इति । कः । अस्य । वाम् । देवौ । मर्तः । चिकेतति ।
विषूचः । अश्वान् । युयुजानः । ईयते । एकः । समाने । आ । रथे ॥índrāgnī íti ǀ káḥ ǀ asyá ǀ vām ǀ dévau ǀ mártaḥ ǀ ciketati ǀ
víṣūcaḥ ǀ áśvān ǀ yuyujānáḥ ǀ īyate ǀ ékaḥ ǀ samāné ǀ ā́ ǀ ráthe ǁindrāgnī iti ǀ kaḥ ǀ asya ǀ vām ǀ devau ǀ martaḥ ǀ ciketati ǀ
viṣūcaḥ ǀ aśvān ǀ yuyujānaḥ ǀ īyate ǀ ekaḥ ǀ samāne ǀ ā ǀ rathe ǁ6.59.5 Aṣṭaka 4.8.25.5Anuvāka 6.5.95
-
Ṛk 6
इंद्रा॑ग्नी अ॒पादि॒यं पूर्वागा॑त्प॒द्वती॑भ्यः ।
हि॒त्वी शिरो॑ जि॒ह्वया॒ वाव॑द॒च्चर॑त्त्रिं॒शत्प॒दा न्य॑क्रमीत् ॥इन्द्राग्नी अपाद् इयम् पूर्वागात् पद्वतीभ्यः |
हित्वी शिरो जिह्वया वावदच् चरत् त्रिंशत् पदा न्य् अक्रमीत् ||índrāgnī apā́diyám pū́rvā́gātpadvátībhyaḥ ǀ
hitvī́ śíro jihváyā vā́vadaccárattriṃśátpadā́ nyákramīt ǁindrāgnī apād iyam pūrvāgāt padvatībhyaḥ |
hitvī śiro jihvayā vāvadac carat triṃśat padā ny akramīt ||इन्द्रा॑ग्नी॒ इति॑ । अ॒पात् । इ॒यम् । पूर्वा॑ । आ । अ॒गा॒त् । प॒त्ऽवती॑भ्यः ।
हि॒त्वी । शिरः॑ । जि॒ह्वया॑ । वाव॑दत् । चर॑त् । त्रिं॒शत् । प॒दा । नि । अ॒क्र॒मी॒त् ॥इन्द्राग्नी इति । अपात् । इयम् । पूर्वा । आ । अगात् । पत्ऽवतीभ्यः ।
हित्वी । शिरः । जिह्वया । वावदत् । चरत् । त्रिंशत् । पदा । नि । अक्रमीत् ॥índrāgnī íti ǀ apā́t ǀ iyám ǀ pū́rvā ǀ ā́ ǀ agāt ǀ pat-vátībhyaḥ ǀ
hitvī́ ǀ śíraḥ ǀ jihváyā ǀ vā́vadat ǀ cárat ǀ triṃśát ǀ padā́ ǀ ní ǀ akramīt ǁindrāgnī iti ǀ apāt ǀ iyam ǀ pūrvā ǀ ā ǀ agāt ǀ pat-vatībhyaḥ ǀ
hitvī ǀ śiraḥ ǀ jihvayā ǀ vāvadat ǀ carat ǀ triṃśat ǀ padā ǀ ni ǀ akramīt ǁ6.59.6 Aṣṭaka 4.8.26.1Anuvāka 6.5.96
-
Ṛk 7
इंद्रा॑ग्नी॒ आ हि त॑न्व॒ते नरो॒ धन्वा॑नि बा॒ह्वोः ।
मा नो॑ अ॒स्मिन्म॑हाध॒ने परा॑ वर्क्तं॒ गवि॑ष्टिषु ॥इन्द्राग्नी आ हि तन्वते नरो धन्वानि बाह्वोः |
मा नो अस्मिन् महाधने परा वर्क्तं गविष्टिषु ||índrāgnī ā́ hí tanvaté náro dhánvāni bāhvóḥ ǀ
mā́ no asmínmahādhané párā varktam gáviṣṭiṣu ǁindrāgnī ā hi tanvate naro dhanvāni bāhvoḥ |
mā no asmin mahādhane parā varktaṃ gaviṣṭiṣu ||इन्द्रा॑ग्नी॒ इति॑ । आ । हि । त॒न्व॒ते । नरः॑ । धन्वा॑नि । बा॒ह्वोः ।
मा । नः॒ । अ॒स्मिन् । म॒हा॒ऽध॒ने । परा॑ । व॒र्क्त॒म् । गोऽइ॑ष्टिषु ॥इन्द्राग्नी इति । आ । हि । तन्वते । नरः । धन्वानि । बाह्वोः ।
मा । नः । अस्मिन् । महाऽधने । परा । वर्क्तम् । गोऽइष्टिषु ॥índrāgnī íti ǀ ā́ ǀ hí ǀ tanvaté ǀ náraḥ ǀ dhánvāni ǀ bāhvóḥ ǀ
mā́ ǀ naḥ ǀ asmín ǀ mahā-dhané ǀ párā ǀ varktam ǀ gó-iṣṭiṣu ǁindrāgnī iti ǀ ā ǀ hi ǀ tanvate ǀ naraḥ ǀ dhanvāni ǀ bāhvoḥ ǀ
mā ǀ naḥ ǀ asmin ǀ mahā-dhane ǀ parā ǀ varktam ǀ go-iṣṭiṣu ǁ6.59.7 Aṣṭaka 4.8.26.2Anuvāka 6.5.97
-
Ṛk 8
इंद्रा॑ग्नी॒ तपं॑ति मा॒घा अ॒र्यो अरा॑तयः ।
अप॒ द्वेषां॒स्या कृ॑तं युयु॒तं सूर्या॒दधि॑ ॥इन्द्राग्नी तपन्ति माघा अर्यो अरातयः |
अप द्वेषांस्य् आ कृतं युयुतं सूर्याद् अधि ||índrāgnī tápanti māghā́ aryó árātayaḥ ǀ
ápa dvéṣāṃsyā́ kṛtam yuyutám sū́ryādádhi ǁindrāgnī tapanti māghā aryo arātayaḥ |
apa dveṣāṃsy ā kṛtaṃ yuyutaṃ sūryād adhi ||इन्द्रा॑ग्नी॒ इति॑ । तप॑न्ति । मा॒ । अ॒घाः । अ॒र्यः । अरा॑तयः ।
अप॑ । द्वेषां॑सि । आ । कृ॒त॒म् । यु॒यु॒तम् । सूर्या॑त् । अधि॑ ॥इन्द्राग्नी इति । तपन्ति । मा । अघाः । अर्यः । अरातयः ।
अप । द्वेषांसि । आ । कृतम् । युयुतम् । सूर्यात् । अधि ॥índrāgnī íti ǀ tápanti ǀ mā ǀ aghā́ḥ ǀ aryáḥ ǀ árātayaḥ ǀ
ápa ǀ dvéṣāṃsi ǀ ā́ ǀ kṛtam ǀ yuyutám ǀ sū́ryāt ǀ ádhi ǁindrāgnī iti ǀ tapanti ǀ mā ǀ aghāḥ ǀ aryaḥ ǀ arātayaḥ ǀ
apa ǀ dveṣāṃsi ǀ ā ǀ kṛtam ǀ yuyutam ǀ sūryāt ǀ adhi ǁ6.59.8 Aṣṭaka 4.8.26.3Anuvāka 6.5.98
-
Ṛk 9
इंद्रा॑ग्नी यु॒वोरपि॒ वसु॑ दि॒व्यानि॒ पार्थि॑वा ।
आ न॑ इ॒ह प्र य॑च्छतं र॒यिं वि॒श्वायु॑पोषसं ॥इन्द्राग्नी युवोर् अपि वसु दिव्यानि पार्थिवा |
आ न इह प्र यच्छतं रयिं विश्वायुपोषसम् ||índrāgnī yuvórápi vásu divyā́ni pā́rthivā ǀ
ā́ na ihá prá yacchatam rayím viśvā́yupoṣasam ǁindrāgnī yuvor api vasu divyāni pārthivā |
ā na iha pra yacchataṃ rayiṃ viśvāyupoṣasam ||इन्द्रा॑ग्नी॒ इति॑ । यु॒वोः । अपि॑ । वसु॑ । दि॒व्यानि॑ । पार्थि॑वा ।
आ । नः॒ । इ॒ह । प्र । य॒च्छ॒त॒म् । र॒यिम् । वि॒श्वायु॑ऽपोषसम् ॥इन्द्राग्नी इति । युवोः । अपि । वसु । दिव्यानि । पार्थिवा ।
आ । नः । इह । प्र । यच्छतम् । रयिम् । विश्वायुऽपोषसम् ॥índrāgnī íti ǀ yuvóḥ ǀ ápi ǀ vásu ǀ divyā́ni ǀ pā́rthivā ǀ
ā́ ǀ naḥ ǀ ihá ǀ prá ǀ yacchatam ǀ rayím ǀ viśvā́yu-poṣasam ǁindrāgnī iti ǀ yuvoḥ ǀ api ǀ vasu ǀ divyāni ǀ pārthivā ǀ
ā ǀ naḥ ǀ iha ǀ pra ǀ yacchatam ǀ rayim ǀ viśvāyu-poṣasam ǁ6.59.9 Aṣṭaka 4.8.26.4Anuvāka 6.5.99
-
Ṛk 10
इंद्रा॑ग्नी उक्थवाहसा॒ स्तोमे॑भिर्हवनश्रुता ।
विश्वा॑भिर्गी॒र्भिरा ग॑तम॒स्य सोम॑स्य पी॒तये॑ ॥इन्द्राग्नी उक्थवाहसा स्तोमेभिर् हवनश्रुता |
विश्वाभिर् गीर्भिर् आ गतम् अस्य सोमस्य पीतये ||índrāgnī ukthavāhasā stómebhirhavanaśrutā ǀ
víśvābhirgīrbhírā́ gatamasyá sómasya pītáye ǁindrāgnī ukthavāhasā stomebhir havanaśrutā |
viśvābhir gīrbhir ā gatam asya somasya pītaye ||इन्द्रा॑ग्नी॒ इति॑ । उ॒क्थ॒ऽवा॒ह॒सा॒ । स्तोमे॑भिः । ह॒व॒न॒ऽश्रु॒ता॒ ।
विश्वा॑भिः । गीः॒ऽभिः । आ । ग॒त॒म् । अ॒स्य । सोम॑स्य । पी॒तये॑ ॥इन्द्राग्नी इति । उक्थऽवाहसा । स्तोमेभिः । हवनऽश्रुता ।
विश्वाभिः । गीःऽभिः । आ । गतम् । अस्य । सोमस्य । पीतये ॥índrāgnī íti ǀ uktha-vāhasā ǀ stómebhiḥ ǀ havana-śrutā ǀ
víśvābhiḥ ǀ gīḥ-bhíḥ ǀ ā́ ǀ gatam ǀ asyá ǀ sómasya ǀ pītáye ǁindrāgnī iti ǀ uktha-vāhasā ǀ stomebhiḥ ǀ havana-śrutā ǀ
viśvābhiḥ ǀ gīḥ-bhiḥ ǀ ā ǀ gatam ǀ asya ǀ somasya ǀ pītaye ǁ6.59.10 Aṣṭaka 4.8.26.5Anuvāka 6.5.100
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.