Ṛk 6.59.10
Saṃhitā
इंद्रा॑ग्नी उक्थवाहसा॒ स्तोमे॑भिर्हवनश्रुता ।
विश्वा॑भिर्गी॒र्भिरा ग॑तम॒स्य सोम॑स्य पी॒तये॑ ॥
इन्द्राग्नी उक्थवाहसा स्तोमेभिर् हवनश्रुता |
विश्वाभिर् गीर्भिर् आ गतम् अस्य सोमस्य पीतये ||
índrāgnī ukthavāhasā stómebhirhavanaśrutā ǀ
víśvābhirgīrbhírā́ gatamasyá sómasya pītáye ǁ
indrāgnī ukthavāhasā stomebhir havanaśrutā |
viśvābhir gīrbhir ā gatam asya somasya pītaye ||
Padapāṭha
इन्द्रा॑ग्नी॒ इति॑ । उ॒क्थ॒ऽवा॒ह॒सा॒ । स्तोमे॑भिः । ह॒व॒न॒ऽश्रु॒ता॒ ।
विश्वा॑भिः । गीः॒ऽभिः । आ । ग॒त॒म् । अ॒स्य । सोम॑स्य । पी॒तये॑ ॥
इन्द्राग्नी इति । उक्थऽवाहसा । स्तोमेभिः । हवनऽश्रुता ।
विश्वाभिः । गीःऽभिः । आ । गतम् । अस्य । सोमस्य । पीतये ॥
índrāgnī íti ǀ uktha-vāhasā ǀ stómebhiḥ ǀ havana-śrutā ǀ
víśvābhiḥ ǀ gīḥ-bhíḥ ǀ ā́ ǀ gatam ǀ asyá ǀ sómasya ǀ pītáye ǁ
indrāgnī iti ǀ uktha-vāhasā ǀ stomebhiḥ ǀ havana-śrutā ǀ
viśvābhiḥ ǀ gīḥ-bhiḥ ǀ ā ǀ gatam ǀ asya ǀ somasya ǀ pītaye ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.059.10
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.8.26.05
- Maṇḍala · Anuvāka · Ṛk
- 06.05.100
- Devatā देवता
- Agni, Indra
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Bṛhatī, Anuṣṭubh
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.