Sūkta 74
- Devatā देवता
- Rudra, Soma
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles triṣṭup (1, 2, 4); nicṛttriṣṭup (3)
2nd set of styles triṣṭubh
-
Ṛk 1
सोमा॑रुद्रा धा॒रये॑थामसु॒र्यं१॒॑ प्र वा॑मि॒ष्टयोऽर॑मश्नुवंतु ।
दमे॑दमे स॒प्त रत्ना॒ दधा॑ना॒ शं नो॑ भूतं द्वि॒पदे॒ शं चतु॑ष्पदे ॥सोमारुद्रा धारयेथाम् असुर्यम् प्र वाम् इष्टयो ऽरम् अश्नुवन्तु |
दमे-दमे सप्त रत्ना दधाना शं नो भूतं द्विपदे शं चतुष्पदे ||sómārudrā dhāráyethāmasuryám prá vāmiṣṭáyó’ramaśnuvantu ǀ
dámedame saptá rátnā dádhānā śám no bhūtam dvipáde śám cátuṣpade ǁsomārudrā dhārayethām asuryam pra vām iṣṭayo 'ram aśnuvantu |
dame-dame sapta ratnā dadhānā śaṃ no bhūtaṃ dvipade śaṃ catuṣpade ||सोमा॑रुद्रा । धा॒रये॑थाम् । अ॒सु॒र्य॑म् । प्र । वा॒म् । इ॒ष्टयः॑ । अर॑म् । अ॒श्नु॒व॒न्तु॒ ।
दमे॑ऽदमे । स॒प्त । रत्ना॑ । दधा॑ना । शम् । नः॒ । भू॒त॒म् । द्वि॒ऽपदे॑ । शम् । चतुः॑ऽपदे ॥सोमारुद्रा । धारयेथाम् । असुर्यम् । प्र । वाम् । इष्टयः । अरम् । अश्नुवन्तु ।
दमेऽदमे । सप्त । रत्ना । दधाना । शम् । नः । भूतम् । द्विऽपदे । शम् । चतुःऽपदे ॥sómārudrā ǀ dhāráyethām ǀ asuryám ǀ prá ǀ vām ǀ iṣṭáyaḥ ǀ áram ǀ aśnuvantu ǀ
dáme-dame ǀ saptá ǀ rátnā ǀ dádhānā ǀ śám ǀ naḥ ǀ bhūtam ǀ dvi-páde ǀ śám ǀ cátuḥ-pade ǁsomārudrā ǀ dhārayethām ǀ asuryam ǀ pra ǀ vām ǀ iṣṭayaḥ ǀ aram ǀ aśnuvantu ǀ
dame-dame ǀ sapta ǀ ratnā ǀ dadhānā ǀ śam ǀ naḥ ǀ bhūtam ǀ dvi-pade ǀ śam ǀ catuḥ-pade ǁ6.74.1 Aṣṭaka 5.1.18.1Anuvāka 6.6.96
-
Ṛk 2
सोमा॑रुद्रा॒ वि वृ॑हतं॒ विषू॑ची॒ममी॑वा॒ या नो॒ गय॑मावि॒वेश॑ ।
आ॒रे बा॑धेथां॒ निर्ऋ॑तिं परा॒चैर॒स्मे भ॒द्रा सौ॑श्रव॒सानि॑ संतु ॥सोमारुद्रा वि वृहतं विषूचीम् अमीवा या नो गयम् आविवेश |
आरे बाधेथां निरृतिम् पराचैर् अस्मे भद्रा सौश्रवसानि सन्तु ||sómārudrā ví vṛhatam víṣūcīmámīvā yā́ no gáyamāvivéśa ǀ
āré bādhethām nírṛtim parācáirasmé bhadrā́ sauśravasā́ni santu ǁsomārudrā vi vṛhataṃ viṣūcīm amīvā yā no gayam āviveśa |
āre bādhethāṃ nirṛtim parācair asme bhadrā sauśravasāni santu ||सोमा॑रुद्रा । वि । वृ॒ह॒त॒म् । विषू॑चीम् । अमी॑वा । या । नः॒ । गय॑म् । आ॒ऽवि॒वेश॑ ।
आ॒रे । बा॒धे॒था॒म् । निःऽऋ॑तिम् । प॒रा॒चैः । अ॒स्मे इति॑ । भ॒द्रा । सौ॒श्र॒व॒सानि॑ । स॒न्तु॒ ॥सोमारुद्रा । वि । वृहतम् । विषूचीम् । अमीवा । या । नः । गयम् । आऽविवेश ।
आरे । बाधेथाम् । निःऽऋतिम् । पराचैः । अस्मे इति । भद्रा । सौश्रवसानि । सन्तु ॥sómārudrā ǀ ví ǀ vṛhatam ǀ víṣūcīm ǀ ámīvā ǀ yā́ ǀ naḥ ǀ gáyam ǀ ā-vivéśa ǀ
āré ǀ bādhethām ǀ níḥ-ṛtim ǀ parācáiḥ ǀ asmé íti ǀ bhadrā́ ǀ sauśravasā́ni ǀ santu ǁsomārudrā ǀ vi ǀ vṛhatam ǀ viṣūcīm ǀ amīvā ǀ yā ǀ naḥ ǀ gayam ǀ ā-viveśa ǀ
āre ǀ bādhethām ǀ niḥ-ṛtim ǀ parācaiḥ ǀ asme iti ǀ bhadrā ǀ sauśravasāni ǀ santu ǁ6.74.2 Aṣṭaka 5.1.18.2Anuvāka 6.6.97
-
Ṛk 3
सोमा॑रुद्रा यु॒वमे॒तान्य॒स्मे विश्वा॑ त॒नूषु॑ भेष॒जानि॑ धत्तं ।
अव॑ स्यतं मुं॒चतं॒ यन्नो॒ अस्ति॑ त॒नूषु॑ ब॒द्धं कृ॒तमेनो॑ अ॒स्मत् ॥सोमारुद्रा युवम् एतान्य् अस्मे विश्वा तनूषु भेषजानि धत्तम् |
अव स्यतम् मुञ्चतं यन् नो अस्ति तनूषु बद्धं कृतम् एनो अस्मत् ||sómārudrā yuvámetā́nyasmé víśvā tanū́ṣu bheṣajā́ni dhattam ǀ
áva syatam muñcátam yánno ásti tanū́ṣu baddhám kṛtáméno asmát ǁsomārudrā yuvam etāny asme viśvā tanūṣu bheṣajāni dhattam |
ava syatam muñcataṃ yan no asti tanūṣu baddhaṃ kṛtam eno asmat ||सोमा॑रुद्रा । यु॒वम् । ए॒तानि॑ । अ॒स्मे इति॑ । विश्वा॑ । त॒नूषु॑ । भे॒ष॒जानि॑ । ध॒त्त॒म् ।
अव॑ । स्य॒त॒म् । मु॒ञ्चत॑म् । यत् । नः॒ । अस्ति॑ । त॒नूषु॑ । ब॒द्धम् । कृ॒तम् । एनः॑ । अ॒स्मत् ॥सोमारुद्रा । युवम् । एतानि । अस्मे इति । विश्वा । तनूषु । भेषजानि । धत्तम् ।
अव । स्यतम् । मुञ्चतम् । यत् । नः । अस्ति । तनूषु । बद्धम् । कृतम् । एनः । अस्मत् ॥sómārudrā ǀ yuvám ǀ etā́ni ǀ asmé íti ǀ víśvā ǀ tanū́ṣu ǀ bheṣajā́ni ǀ dhattam ǀ
áva ǀ syatam ǀ muñcátam ǀ yát ǀ naḥ ǀ ásti ǀ tanū́ṣu ǀ baddhám ǀ kṛtám ǀ énaḥ ǀ asmát ǁsomārudrā ǀ yuvam ǀ etāni ǀ asme iti ǀ viśvā ǀ tanūṣu ǀ bheṣajāni ǀ dhattam ǀ
ava ǀ syatam ǀ muñcatam ǀ yat ǀ naḥ ǀ asti ǀ tanūṣu ǀ baddham ǀ kṛtam ǀ enaḥ ǀ asmat ǁ6.74.3 Aṣṭaka 5.1.18.3Anuvāka 6.6.98
-
Ṛk 4
ति॒ग्मायु॑धौ ति॒ग्महे॑ती सु॒शेवौ॒ सोमा॑रुद्रावि॒ह सु मृ॑ळतं नः ।
प्र नो॑ मुंचतं॒ वरु॑णस्य॒ पाशा॑द्गोपा॒यतं॑ नः सुमन॒स्यमा॑ना ॥तिग्मायुधौ तिग्महेती सुशेवौ सोमारुद्राव् इह सु मृऌअतं नः |
प्र नो मुञ्चतं वरुणस्य पाशाद् गोपायतं नः सुमनस्यमाना ||tigmā́yudhau tigmáhetī suśévau sómārudrāvihá sú mṛḷatam naḥ ǀ
prá no muñcatam váruṇasya pā́śādgopāyátam naḥ sumanasyámānā ǁtigmāyudhau tigmahetī suśevau somārudrāv iha su mṛḷataṃ naḥ |
pra no muñcataṃ varuṇasya pāśād gopāyataṃ naḥ sumanasyamānā ||ति॒ग्मऽआ॑युधौ । ति॒ग्महे॑ती॒ इति॑ ति॒ग्मऽहे॑ती । सु॒ऽशेवौ॑ । सोमा॑रुद्रौ । इ॒ह । सु । मृ॒ळ॒त॒म् । नः॒ ।
प्र । नः॒ । मु॒ञ्च॒त॒म् । वरु॑णस्य । पाशा॑त् । गो॒पा॒यत॑म् । नः॒ । सु॒ऽम॒न॒स्यमा॑ना ॥तिग्मऽआयुधौ । तिग्महेती इति तिग्मऽहेती । सुऽशेवौ । सोमारुद्रौ । इह । सु । मृळतम् । नः ।
प्र । नः । मुञ्चतम् । वरुणस्य । पाशात् । गोपायतम् । नः । सुऽमनस्यमाना ॥tigmá-āyudhau ǀ tigmáhetī íti tigmá-hetī ǀ su-śévau ǀ sómārudrau ǀ ihá ǀ sú ǀ mṛḷatam ǀ naḥ ǀ
prá ǀ naḥ ǀ muñcatam ǀ váruṇasya ǀ pā́śāt ǀ gopāyátam ǀ naḥ ǀ su-manasyámānā ǁtigma-āyudhau ǀ tigmahetī iti tigma-hetī ǀ su-śevau ǀ somārudrau ǀ iha ǀ su ǀ mṛḷatam ǀ naḥ ǀ
pra ǀ naḥ ǀ muñcatam ǀ varuṇasya ǀ pāśāt ǀ gopāyatam ǀ naḥ ǀ su-manasyamānā ǁ6.74.4 Aṣṭaka 5.1.18.4Anuvāka 6.6.99
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.