Ṛgveda · Maṇḍala 6

Sūkta 23

Indra · Bharadvāja Bārhaspatya · 10 ṛks

Link
Devatā देवता
Indra
Ṛṣi ऋषि
Bharadvāja Bārhaspatya
Chandas छन्दस्
Triṣṭubh
Metres by ṛk

1st set of styles nicṛttriṣṭup (1, 3, 8, 9); triṣṭup (5, 6, 10); svarāṭpaṅkti (2, 4); virāṭtrisṭup (7)

2nd set of styles triṣṭubh

  1. Ṛk 1

    सु॒त इत्त्वं निमि॑श्ल इंद्र॒ सोमे॒ स्तोमे॒ ब्रह्म॑णि श॒स्यमा॑न उ॒क्थे ।
    यद्वा॑ यु॒क्ताभ्यां॑ मघव॒न्हरि॑भ्यां॒ बिभ्र॒द्वज्रं॑ बा॒ह्वोरिं॑द्र॒ यासि॑ ॥

    सुत इत् त्वं निमिश्ल इन्द्र सोमे स्तोमे ब्रह्मणि शस्यमान उक्थे |
    यद् वा युक्ताभ्याम् मघवन् हरिभ्याम् बिभ्रद् वज्रम् बाह्वोर् इन्द्र यासि ||

    sutá íttvám nímiśla indra sóme stóme bráhmaṇi śasyámāna ukthé ǀ
    yádvā yuktā́bhyām maghavanháribhyām bíbhradvájram bāhvórindra yā́si ǁ

    suta it tvaṃ nimiśla indra some stome brahmaṇi śasyamāna ukthe |
    yad vā yuktābhyām maghavan haribhyām bibhrad vajram bāhvor indra yāsi ||

    सु॒ते । इत् । त्वम् । निऽमि॑श्लः । इ॒न्द्र॒ । सोमे॑ । स्तोमे॑ । ब्रह्म॑णि । श॒स्यमा॑ने । उ॒क्थे ।
    यत् । वा॒ । यु॒क्ताभ्या॑म् । म॒घ॒ऽव॒न् । हरि॑ऽभ्याम् । बिभ्र॑त् । वज्र॑म् । बा॒ह्वोः । इ॒न्द्र॒ । यासि॑ ॥

    सुते । इत् । त्वम् । निऽमिश्लः । इन्द्र । सोमे । स्तोमे । ब्रह्मणि । शस्यमाने । उक्थे ।
    यत् । वा । युक्ताभ्याम् । मघऽवन् । हरिऽभ्याम् । बिभ्रत् । वज्रम् । बाह्वोः । इन्द्र । यासि ॥

    suté ǀ ít ǀ tvám ǀ ní-miślaḥ ǀ indra ǀ sóme ǀ stóme ǀ bráhmaṇi ǀ śasyámāne ǀ ukthé ǀ
    yát ǀ vā ǀ yuktā́bhyām ǀ magha-van ǀ hári-bhyām ǀ bíbhrat ǀ vájram ǀ bāhvóḥ ǀ indra ǀ yā́si ǁ

    sute ǀ it ǀ tvam ǀ ni-miślaḥ ǀ indra ǀ some ǀ stome ǀ brahmaṇi ǀ śasyamāne ǀ ukthe ǀ
    yat ǀ vā ǀ yuktābhyām ǀ magha-van ǀ hari-bhyām ǀ bibhrat ǀ vajram ǀ bāhvoḥ ǀ indra ǀ yāsi ǁ

    6.23.1 Aṣṭaka 4.6.15.1Anuvāka 6.2.128

  2. Ṛk 2

    यद्वा॑ दि॒वि पार्ये॒ सुष्वि॑मिंद्र वृत्र॒हत्येऽव॑सि॒ शूर॑सातौ ।
    यद्वा॒ दक्ष॑स्य बि॒भ्युषो॒ अबि॑भ्य॒दरं॑धयः॒ शर्ध॑त इंद्र॒ दस्यू॑न् ॥

    यद् वा दिवि पार्ये सुष्विम् इन्द्र वृत्रहत्ये ऽवसि शूरसातौ |
    यद् वा दक्षस्य बिभ्युषो अबिभ्यद् अरन्धयः शर्धत इन्द्र दस्यून् ||

    yádvā diví pā́rye súṣvimindra vṛtrahátyé’vasi śū́rasātau ǀ
    yádvā dákṣasya bibhyúṣo ábibhyadárandhayaḥ śárdhata indra dásyūn ǁ

    yad vā divi pārye suṣvim indra vṛtrahatye 'vasi śūrasātau |
    yad vā dakṣasya bibhyuṣo abibhyad arandhayaḥ śardhata indra dasyūn ||

    यत् । वा॒ । दि॒वि । पार्ये॑ । सुस्वि॑म् । इ॒न्द्र॒ । वृ॒त्र॒ऽहत्ये॑ । अव॑सि । शूर॑ऽसातौ ।
    यत् । वा॒ । दक्ष॑स्य । बि॒भ्युषः॑ । अबि॑भ्यत् । अर॑न्धयः । शर्ध॑तः । इ॒न्द्र॒ । दस्यू॑न् ॥

    यत् । वा । दिवि । पार्ये । सुस्विम् । इन्द्र । वृत्रऽहत्ये । अवसि । शूरऽसातौ ।
    यत् । वा । दक्षस्य । बिभ्युषः । अबिभ्यत् । अरन्धयः । शर्धतः । इन्द्र । दस्यून् ॥

    yát ǀ vā ǀ diví ǀ pā́rye ǀ súsvim ǀ indra ǀ vṛtra-hátye ǀ ávasi ǀ śū́ra-sātau ǀ
    yát ǀ vā ǀ dákṣasya ǀ bibhyúṣaḥ ǀ ábibhyat ǀ árandhayaḥ ǀ śárdhataḥ ǀ indra ǀ dásyūn ǁ

    yat ǀ vā ǀ divi ǀ pārye ǀ susvim ǀ indra ǀ vṛtra-hatye ǀ avasi ǀ śūra-sātau ǀ
    yat ǀ vā ǀ dakṣasya ǀ bibhyuṣaḥ ǀ abibhyat ǀ arandhayaḥ ǀ śardhataḥ ǀ indra ǀ dasyūn ǁ

    6.23.2 Aṣṭaka 4.6.15.2Anuvāka 6.2.129

  3. Ṛk 3

    पाता॑ सु॒तमिंद्रो॑ अस्तु॒ सोमं॑ प्रणे॒नीरु॒ग्रो ज॑रि॒तार॑मू॒ती ।
    कर्ता॑ वी॒राय॒ सुष्व॑य उ लो॒कं दाता॒ वसु॑ स्तुव॒ते की॒रये॑ चित् ॥

    पाता सुतम् इन्द्रो अस्तु सोमम् प्रणेनीर् उग्रो जरितारम् ऊती |
    कर्ता वीराय सुष्वय उ लोकं दाता वसु स्तुवते कीरये चित् ||

    pā́tā sutámíndro astu sómam praṇenī́rugró jaritā́ramūtī́ ǀ
    kártā vīrā́ya súṣvaya u lokám dā́tā vásu stuvaté kīráye cit ǁ

    pātā sutam indro astu somam praṇenīr ugro jaritāram ūtī |
    kartā vīrāya suṣvaya u lokaṃ dātā vasu stuvate kīraye cit ||

    पाता॑ । सु॒तम् । इन्द्रः॑ । अ॒स्तु॒ । सोम॑म् । प्र॒ऽने॒नीः । उ॒ग्रः । ज॒रि॒तार॑म् । ऊ॒ती ।
    कर्ता॑ । वी॒राय॑ । सुस्व॑ये । ऊं॒ इति॑ । लो॒कम् । दाता॑ । वसु॑ । स्तु॒व॒ते । की॒रये॑ । चि॒त् ॥

    पाता । सुतम् । इन्द्रः । अस्तु । सोमम् । प्रऽनेनीः । उग्रः । जरितारम् । ऊती ।
    कर्ता । वीराय । सुस्वये । ऊं इति । लोकम् । दाता । वसु । स्तुवते । कीरये । चित् ॥

    pā́tā ǀ sutám ǀ índraḥ ǀ astu ǀ sómam ǀ pra-nenī́ḥ ǀ ugráḥ ǀ jaritā́ram ǀ ūtī́ ǀ
    kártā ǀ vīrā́ya ǀ súsvaye ǀ ūṃ íti ǀ lokám ǀ dā́tā ǀ vásu ǀ stuvaté ǀ kīráye ǀ cit ǁ

    pātā ǀ sutam ǀ indraḥ ǀ astu ǀ somam ǀ pra-nenīḥ ǀ ugraḥ ǀ jaritāram ǀ ūtī ǀ
    kartā ǀ vīrāya ǀ susvaye ǀ ūṃ iti ǀ lokam ǀ dātā ǀ vasu ǀ stuvate ǀ kīraye ǀ cit ǁ

    6.23.3 Aṣṭaka 4.6.15.3Anuvāka 6.2.130

  4. Ṛk 4

    गंतेयां॑ति॒ सव॑ना॒ हरि॑भ्यां ब॒भ्रिर्वज्रं॑ प॒पिः सोमं॑ द॒दिर्गाः ।
    कर्ता॑ वी॒रं नर्यं॒ सर्व॑वीरं॒ श्रोता॒ हवं॑ गृण॒तः स्तोम॑वाहाः ॥

    गन्तेयान्ति सवना हरिभ्याम् बभ्रिर् वज्रम् पपिः सोमं ददिर् गाः |
    कर्ता वीरं नर्यं सर्ववीरं श्रोता हवं गृणत स्तोमवाहाः ||

    gántéyānti sávanā háribhyām babhrírvájram papíḥ sómam dadírgā́ḥ ǀ
    kártā vīrám náryam sárvavīram śrótā hávam gṛṇatáḥ stómavāhāḥ ǁ

    ganteyānti savanā haribhyām babhrir vajram papiḥ somaṃ dadir gāḥ |
    kartā vīraṃ naryaṃ sarvavīraṃ śrotā havaṃ gṛṇata stomavāhāḥ ||

    गन्ता॑ । इय॑न्ति । सव॑ना । हरि॑ऽभ्याम् । ब॒भ्रिः । वज्र॑म् । प॒पिः । सोम॑म् । द॒दिः । गाः ।
    कर्ता॑ । वी॒रम् । नर्य॑म् । सर्व॑ऽवीरम् । श्रोता॑ । हव॑म् । गृ॒ण॒तः । स्तोम॑ऽवाहाः ॥

    गन्ता । इयन्ति । सवना । हरिऽभ्याम् । बभ्रिः । वज्रम् । पपिः । सोमम् । ददिः । गाः ।
    कर्ता । वीरम् । नर्यम् । सर्वऽवीरम् । श्रोता । हवम् । गृणतः । स्तोमऽवाहाः ॥

    gántā ǀ íyanti ǀ sávanā ǀ hári-bhyām ǀ babhríḥ ǀ vájram ǀ papíḥ ǀ sómam ǀ dadíḥ ǀ gā́ḥ ǀ
    kártā ǀ vīrám ǀ náryam ǀ sárva-vīram ǀ śrótā ǀ hávam ǀ gṛṇatáḥ ǀ stóma-vāhāḥ ǁ

    gantā ǀ iyanti ǀ savanā ǀ hari-bhyām ǀ babhriḥ ǀ vajram ǀ papiḥ ǀ somam ǀ dadiḥ ǀ gāḥ ǀ
    kartā ǀ vīram ǀ naryam ǀ sarva-vīram ǀ śrotā ǀ havam ǀ gṛṇataḥ ǀ stoma-vāhāḥ ǁ

    6.23.4 Aṣṭaka 4.6.15.4Anuvāka 6.2.131

  5. Ṛk 5

    अस्मै॑ व॒यं यद्वा॒वान॒ तद्वि॑विष्म॒ इंद्रा॑य॒ यो नः॑ प्र॒दिवो॒ अप॒स्कः ।
    सु॒ते सोमे॑ स्तु॒मसि॒ शंस॑दु॒क्थेंद्रा॑य॒ ब्रह्म॒ वर्ध॑नं॒ यथास॑त् ॥

    अस्मै वयं यद् वावान तद् विविष्म इन्द्राय यो नः प्रदिवो अपस् कः |
    सुते सोमे स्तुमसि शंसद् उक्थेन्द्राय ब्रह्म वर्धनं यथासत् ||

    ásmai vayám yádvāvā́na tádviviṣma índrāya yó naḥ pradívo ápaskáḥ ǀ
    suté sóme stumási śáṃsadukthéndrāya bráhma várdhanam yáthā́sat ǁ

    asmai vayaṃ yad vāvāna tad viviṣma indrāya yo naḥ pradivo apas kaḥ |
    sute some stumasi śaṃsad ukthendrāya brahma vardhanaṃ yathāsat ||

    अस्मै॑ । व॒यम् । यत् । व॒वान॑ । तत् । वि॒वि॒ष्मः॒ । इन्द्रा॑य । यः । नः॒ । प्र॒ऽदिवः॑ । अपः॑ । करिति॒ कः ।
    सु॒ते । सोमे॑ । स्तु॒मसि॑ । शंस॑त् । उ॒क्था । इन्द्रा॑य । ब्रह्म॑ । वर्ध॑नम् । यथा॑ । अस॑त् ॥

    अस्मै । वयम् । यत् । ववान । तत् । विविष्मः । इन्द्राय । यः । नः । प्रऽदिवः । अपः । करिति कः ।
    सुते । सोमे । स्तुमसि । शंसत् । उक्था । इन्द्राय । ब्रह्म । वर्धनम् । यथा । असत् ॥

    ásmai ǀ vayám ǀ yát ǀ vavā́na ǀ tát ǀ viviṣmaḥ ǀ índrāya ǀ yáḥ ǀ naḥ ǀ pra-dívaḥ ǀ ápaḥ ǀ káríti káḥ ǀ
    suté ǀ sóme ǀ stumási ǀ śáṃsat ǀ ukthā́ ǀ índrāya ǀ bráhma ǀ várdhanam ǀ yáthā ǀ ásat ǁ

    asmai ǀ vayam ǀ yat ǀ vavāna ǀ tat ǀ viviṣmaḥ ǀ indrāya ǀ yaḥ ǀ naḥ ǀ pra-divaḥ ǀ apaḥ ǀ kariti kaḥ ǀ
    sute ǀ some ǀ stumasi ǀ śaṃsat ǀ ukthā ǀ indrāya ǀ brahma ǀ vardhanam ǀ yathā ǀ asat ǁ

    6.23.5 Aṣṭaka 4.6.15.5Anuvāka 6.2.132

  6. Ṛk 6

    ब्रह्मा॑णि॒ हि च॑कृ॒षे वर्ध॑नानि॒ ताव॑त्त इंद्र म॒तिभि॑र्विविष्मः ।
    सु॒ते सोमे॑ सुतपाः॒ शंत॑मानि॒ रांद्र्या॑ क्रियास्म॒ वक्ष॑णानि य॒ज्ञैः ॥

    ब्रह्माणि हि चकृषे वर्धनानि तावत् त इन्द्र मतिभिर् विविष्मः |
    सुते सोमे सुतपाः शन्तमानि राण्ड्या क्रियास्म वक्षणानि यज्ञैः ||

    bráhmāṇi hí cakṛṣé várdhanāni tā́vatta indra matíbhirviviṣmaḥ ǀ
    suté sóme sutapāḥ śáṃtamāni rā́ndryā kriyāsma vákṣaṇāni yajñáiḥ ǁ

    brahmāṇi hi cakṛṣe vardhanāni tāvat ta indra matibhir viviṣmaḥ |
    sute some sutapāḥ śantamāni rāṇḍyā kriyāsma vakṣaṇāni yajñaiḥ ||

    ब्रह्मा॑णि । हि । च॒कृ॒षे । वर्ध॑नानि । ताव॑त् । ते॒ । इ॒न्द्र॒ । म॒तिऽभिः॑ । वि॒वि॒ष्मः॒ ।
    सु॒ते । सोमे॑ । सु॒त॒ऽपाः॒ । शम्ऽत॑मानि । रान्द्र्या॑ । क्रि॒या॒स्म॒ । वक्ष॑णानि । य॒ज्ञैः ॥

    ब्रह्माणि । हि । चकृषे । वर्धनानि । तावत् । ते । इन्द्र । मतिऽभिः । विविष्मः ।
    सुते । सोमे । सुतऽपाः । शम्ऽतमानि । रान्द्र्या । क्रियास्म । वक्षणानि । यज्ञैः ॥

    bráhmāṇi ǀ hí ǀ cakṛṣé ǀ várdhanāni ǀ tā́vat ǀ te ǀ indra ǀ matí-bhiḥ ǀ viviṣmaḥ ǀ
    suté ǀ sóme ǀ suta-pāḥ ǀ śám-tamāni ǀ rā́ndryā ǀ kriyāsma ǀ vákṣaṇāni ǀ yajñáiḥ ǁ

    brahmāṇi ǀ hi ǀ cakṛṣe ǀ vardhanāni ǀ tāvat ǀ te ǀ indra ǀ mati-bhiḥ ǀ viviṣmaḥ ǀ
    sute ǀ some ǀ suta-pāḥ ǀ śam-tamāni ǀ rāndryā ǀ kriyāsma ǀ vakṣaṇāni ǀ yajñaiḥ ǁ

    6.23.6 Aṣṭaka 4.6.16.1Anuvāka 6.2.133

  7. Ṛk 7

    स नो॑ बोधि पुरो॒ळाशं॒ ररा॑णः॒ पिबा॒ तु सोमं॒ गोऋ॑जीकमिंद्र ।
    एदं ब॒र्हिर्यज॑मानस्य सीदो॒रुं कृ॑धि त्वाय॒त उ॑ लो॒कं ॥

    स नो बोधि पुरोऌआशं रराणः पिबा तु सोमं गोऋजीकम् इन्द्र |
    एदम् बर्हिर् यजमानस्य सीदोरुं कृधि त्वायत उ लोकम् ||

    sá no bodhi puroḷā́śam rárāṇaḥ píbā tú sómam góṛjīkamindra ǀ
    édám barhíryájamānasya sīdorúm kṛdhi tvāyatá u lokám ǁ

    sa no bodhi puroḷāśaṃ rarāṇaḥ pibā tu somaṃ goṛjīkam indra |
    edam barhir yajamānasya sīdoruṃ kṛdhi tvāyata u lokam ||

    सः । नः॒ । बो॒धि॒ । पु॒रो॒ळाश॑म् । ररा॑णः । पिब॑ । तु । सोम॑म् । गोऽऋ॑जीकम् । इ॒न्द्र॒ ।
    आ । इ॒दम् । ब॒र्हिः । यज॑मानस्य । सी॒द॒ । उ॒रुम् । कृ॒धि॒ । त्वा॒ऽय॒तः । ऊं॒ इति॑ । लो॒कम् ॥

    सः । नः । बोधि । पुरोळाशम् । रराणः । पिब । तु । सोमम् । गोऽऋजीकम् । इन्द्र ।
    आ । इदम् । बर्हिः । यजमानस्य । सीद । उरुम् । कृधि । त्वाऽयतः । ऊं इति । लोकम् ॥

    sáḥ ǀ naḥ ǀ bodhi ǀ puroḷā́śam ǀ rárāṇaḥ ǀ píba ǀ tú ǀ sómam ǀ gó-ṛjīkam ǀ indra ǀ
    ā́ ǀ idám ǀ barhíḥ ǀ yájamānasya ǀ sīda ǀ urúm ǀ kṛdhi ǀ tvā-yatáḥ ǀ ūṃ íti ǀ lokám ǁ

    saḥ ǀ naḥ ǀ bodhi ǀ puroḷāśam ǀ rarāṇaḥ ǀ piba ǀ tu ǀ somam ǀ go-ṛjīkam ǀ indra ǀ
    ā ǀ idam ǀ barhiḥ ǀ yajamānasya ǀ sīda ǀ urum ǀ kṛdhi ǀ tvā-yataḥ ǀ ūṃ iti ǀ lokam ǁ

    6.23.7 Aṣṭaka 4.6.16.2Anuvāka 6.2.134

  8. Ṛk 8

    स मं॑दस्वा॒ ह्यनु॒ जोष॑मुग्र॒ प्र त्वा॑ य॒ज्ञास॑ इ॒मे अ॑श्नुवंतु ।
    प्रेमे हवा॑सः पुरुहू॒तम॒स्मे आ त्वे॒यं धीरव॑स इंद्र यम्याः ॥

    स मन्दस्वा ह्य् अनु जोषम् उग्र प्र त्वा यज्ञास इमे अश्नुवन्तु |
    प्रेमे हवासः पुरुहूतम् अस्मे आ त्वेयं धीर् अवस इन्द्र यम्याः ||

    sá mandasvā hyánu jóṣamugra prá tvā yajñā́sa imé aśnuvantu ǀ
    prémé hávāsaḥ puruhūtámasmé ā́ tveyám dhī́rávasa indra yamyāḥ ǁ

    sa mandasvā hy anu joṣam ugra pra tvā yajñāsa ime aśnuvantu |
    preme havāsaḥ puruhūtam asme ā tveyaṃ dhīr avasa indra yamyāḥ ||

    सः । म॒न्द॒स्व॒ । हि । अनु॑ । जोष॑म् । उ॒ग्र॒ । प्र । त्वा॒ । य॒ज्ञासः॑ । इ॒मे । अ॒श्नु॒व॒न्तु॒ ।
    प्र । इ॒मे । हवा॑सः । पु॒रु॒ऽहू॒तम् । अ॒स्मे इति॑ । आ । त्वा॒ । इ॒यम् । धीः । अव॑से । इ॒न्द्र॒ । य॒म्याः॒ ॥

    सः । मन्दस्व । हि । अनु । जोषम् । उग्र । प्र । त्वा । यज्ञासः । इमे । अश्नुवन्तु ।
    प्र । इमे । हवासः । पुरुऽहूतम् । अस्मे इति । आ । त्वा । इयम् । धीः । अवसे । इन्द्र । यम्याः ॥

    sáḥ ǀ mandasva ǀ hí ǀ ánu ǀ jóṣam ǀ ugra ǀ prá ǀ tvā ǀ yajñā́saḥ ǀ imé ǀ aśnuvantu ǀ
    prá ǀ imé ǀ hávāsaḥ ǀ puru-hūtám ǀ asmé íti ǀ ā́ ǀ tvā ǀ iyám ǀ dhī́ḥ ǀ ávase ǀ indra ǀ yamyāḥ ǁ

    saḥ ǀ mandasva ǀ hi ǀ anu ǀ joṣam ǀ ugra ǀ pra ǀ tvā ǀ yajñāsaḥ ǀ ime ǀ aśnuvantu ǀ
    pra ǀ ime ǀ havāsaḥ ǀ puru-hūtam ǀ asme iti ǀ ā ǀ tvā ǀ iyam ǀ dhīḥ ǀ avase ǀ indra ǀ yamyāḥ ǁ

    6.23.8 Aṣṭaka 4.6.16.3Anuvāka 6.2.135

  9. Ṛk 9

    तं वः॑ सखायः॒ सं यथा॑ सु॒तेषु॒ सोमे॑भिरीं पृणता भो॒जमिंद्रं॑ ।
    कु॒वित्तस्मा॒ अस॑ति नो॒ भरा॑य॒ न सुष्वि॒मिंद्रोऽव॑से मृधाति ॥

    तं वः सखायः सं यथा सुतेषु सोमेभिर् ईम् पृणता भोजम् इन्द्रम् |
    कुवित् तस्मा असति नो भराय न सुष्विम् इन्द्रो ऽवसे मृधाति ||

    tám vaḥ sakhāyaḥ sám yáthā sutéṣu sómebhirīm pṛṇatā bhojámíndram ǀ
    kuvíttásmā ásati no bhárāya ná súṣvimíndró’vase mṛdhāti ǁ

    taṃ vaḥ sakhāyaḥ saṃ yathā suteṣu somebhir īm pṛṇatā bhojam indram |
    kuvit tasmā asati no bharāya na suṣvim indro 'vase mṛdhāti ||

    तम् । वः॒ । स॒खा॒यः॒ । सम् । यथा॑ । सु॒तेषु॑ । सोमे॑भिः । ई॒म् । पृ॒ण॒त॒ । भो॒जम् । इन्द्र॑म् ।
    कु॒वित् । तस्मै॑ । अस॑ति । नः॒ । भरा॑य । न । सुस्वि॑म् । इन्द्रः॑ । अव॑से । मृ॒धा॒ति॒ ॥

    तम् । वः । सखायः । सम् । यथा । सुतेषु । सोमेभिः । ईम् । पृणत । भोजम् । इन्द्रम् ।
    कुवित् । तस्मै । असति । नः । भराय । न । सुस्विम् । इन्द्रः । अवसे । मृधाति ॥

    tám ǀ vaḥ ǀ sakhāyaḥ ǀ sám ǀ yáthā ǀ sutéṣu ǀ sómebhiḥ ǀ īm ǀ pṛṇata ǀ bhojám ǀ índram ǀ
    kuvít ǀ tásmai ǀ ásati ǀ naḥ ǀ bhárāya ǀ ná ǀ súsvim ǀ índraḥ ǀ ávase ǀ mṛdhāti ǁ

    tam ǀ vaḥ ǀ sakhāyaḥ ǀ sam ǀ yathā ǀ suteṣu ǀ somebhiḥ ǀ īm ǀ pṛṇata ǀ bhojam ǀ indram ǀ
    kuvit ǀ tasmai ǀ asati ǀ naḥ ǀ bharāya ǀ na ǀ susvim ǀ indraḥ ǀ avase ǀ mṛdhāti ǁ

    6.23.9 Aṣṭaka 4.6.16.4Anuvāka 6.2.136

  10. Ṛk 10

    ए॒वेदिंद्रः॑ सु॒ते अ॑स्तावि॒ सोमे॑ भ॒रद्वा॑जेषु॒ क्षय॒दिन्म॒घोनः॑ ।
    अस॒द्यथा॑ जरि॒त्र उ॒त सू॒रिरिंद्रो॑ रा॒यो वि॒श्ववा॑रस्य दा॒ता ॥

    एवेद् इन्द्रः सुते अस्तावि सोमे भरद्वाजेषु क्षयद् इन् मघोनः |
    असद् यथा जरित्र उत सूरिर् इन्द्रो रायो विश्ववारस्य दाता ||

    evédíndraḥ suté astāvi sóme bharádvājeṣu kṣáyadínmaghónaḥ ǀ
    ásadyáthā jaritrá utá sūríríndro rāyó viśvávārasya dātā́ ǁ

    eved indraḥ sute astāvi some bharadvājeṣu kṣayad in maghonaḥ |
    asad yathā jaritra uta sūrir indro rāyo viśvavārasya dātā ||

    ए॒व । इत् । इन्द्रः॑ । सु॒ते । अ॒स्ता॒वि॒ । सोमे॑ । भ॒रत्ऽवा॑जेषु । क्षय॑त् । इत् । म॒घोनः॑ ।
    अस॑त् । यथा॑ । ज॒रि॒त्रे । उ॒त । सू॒रिः । इन्द्रः॑ । रा॒यः । वि॒श्वऽवा॑रस्य । दा॒ता ॥

    एव । इत् । इन्द्रः । सुते । अस्तावि । सोमे । भरत्ऽवाजेषु । क्षयत् । इत् । मघोनः ।
    असत् । यथा । जरित्रे । उत । सूरिः । इन्द्रः । रायः । विश्वऽवारस्य । दाता ॥

    evá ǀ ít ǀ índraḥ ǀ suté ǀ astāvi ǀ sóme ǀ bharát-vājeṣu ǀ kṣáyat ǀ ít ǀ maghónaḥ ǀ
    ásat ǀ yáthā ǀ jaritré ǀ utá ǀ sūríḥ ǀ índraḥ ǀ rāyáḥ ǀ viśvá-vārasya ǀ dātā́ ǁ

    eva ǀ it ǀ indraḥ ǀ sute ǀ astāvi ǀ some ǀ bharat-vājeṣu ǀ kṣayat ǀ it ǀ maghonaḥ ǀ
    asat ǀ yathā ǀ jaritre ǀ uta ǀ sūriḥ ǀ indraḥ ǀ rāyaḥ ǀ viśva-vārasya ǀ dātā ǁ

    6.23.10 Aṣṭaka 4.6.16.5Anuvāka 6.2.137

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 6.23 · Indra

Interpretations

Ralph T. H. Griffith

Ṛk 1

THOU art attached to pressed-out Soma, Indra, at laud, at prayer, and when the hymn is chanted; Or when with yoked Bays, Maghavan, thou comest, O Indra, bearing in thine arms the thunder.

Ṛk 2

Or when on that decisive day thou holpest the presser of the juice at Vṛtra's slaughter; Or when thou, while the strong one feared, undaunted, gavest to death, Indra, the daring Dasyus.

Ṛk 3

Let Indra drink the pressed-out Soma, Helper and mighty Guide of him who sings his praises. He gives the hero room who pours oblations, and treasure even to the lowly singer.

Ṛk 4

E’en humble rites with his Bay steeds he visits: he wields the bolt, drinks Soma, gives us cattle. He makes the valiant rich in store of heroes, accepts our praise and hears the singer's calling.

Ṛk 5

What he hath longed for we have brought to Indra, who from the days of old hath done us service. While Soma flows we will sing hymn, and laud him, so that our prayer may streng. then Indra's vigour.

Ṛk 6

Thou hast made prayer the means of thine exalting, therefore we wait on thee with hymns, O Indra. May we, by the pressed Soma, Somadrinker! bring thee, with sacrifice, blissful sweet refreshment.

Ṛk 7

Mark well our sacrificial cake, delighted Indra, drink Soma and the milk commingled. Here on the sacrificer's grass be seated: give ample room to thy devoted servant.

Ṛk 8

O Mighty One, be joyful as thou willest. Let these our sacrifices reach and find thee; And may this hymn and these our invocations turn thee, whom many men invoke, to help us.

Ṛk 9

Friends, when thejuices flow, replenish duly your own, your bounteous Indra with the Soma. Will it not aid him to support us? Indra. spares him who sheds the juice to win his favour.