Ṛk 6.23.3
Saṃhitā
पाता॑ सु॒तमिंद्रो॑ अस्तु॒ सोमं॑ प्रणे॒नीरु॒ग्रो ज॑रि॒तार॑मू॒ती ।
कर्ता॑ वी॒राय॒ सुष्व॑य उ लो॒कं दाता॒ वसु॑ स्तुव॒ते की॒रये॑ चित् ॥
पाता सुतम् इन्द्रो अस्तु सोमम् प्रणेनीर् उग्रो जरितारम् ऊती |
कर्ता वीराय सुष्वय उ लोकं दाता वसु स्तुवते कीरये चित् ||
pā́tā sutámíndro astu sómam praṇenī́rugró jaritā́ramūtī́ ǀ
kártā vīrā́ya súṣvaya u lokám dā́tā vásu stuvaté kīráye cit ǁ
pātā sutam indro astu somam praṇenīr ugro jaritāram ūtī |
kartā vīrāya suṣvaya u lokaṃ dātā vasu stuvate kīraye cit ||
Padapāṭha
पाता॑ । सु॒तम् । इन्द्रः॑ । अ॒स्तु॒ । सोम॑म् । प्र॒ऽने॒नीः । उ॒ग्रः । ज॒रि॒तार॑म् । ऊ॒ती ।
कर्ता॑ । वी॒राय॑ । सुस्व॑ये । ऊं॒ इति॑ । लो॒कम् । दाता॑ । वसु॑ । स्तु॒व॒ते । की॒रये॑ । चि॒त् ॥
पाता । सुतम् । इन्द्रः । अस्तु । सोमम् । प्रऽनेनीः । उग्रः । जरितारम् । ऊती ।
कर्ता । वीराय । सुस्वये । ऊं इति । लोकम् । दाता । वसु । स्तुवते । कीरये । चित् ॥
pā́tā ǀ sutám ǀ índraḥ ǀ astu ǀ sómam ǀ pra-nenī́ḥ ǀ ugráḥ ǀ jaritā́ram ǀ ūtī́ ǀ
kártā ǀ vīrā́ya ǀ súsvaye ǀ ūṃ íti ǀ lokám ǀ dā́tā ǀ vásu ǀ stuvaté ǀ kīráye ǀ cit ǁ
pātā ǀ sutam ǀ indraḥ ǀ astu ǀ somam ǀ pra-nenīḥ ǀ ugraḥ ǀ jaritāram ǀ ūtī ǀ
kartā ǀ vīrāya ǀ susvaye ǀ ūṃ iti ǀ lokam ǀ dātā ǀ vasu ǀ stuvate ǀ kīraye ǀ cit ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.023.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.6.15.03
- Maṇḍala · Anuvāka · Ṛk
- 06.02.130
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.