Sūkta 31
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Suhotra Bhāradvāja
- Chandas छन्दस्
- Triṣṭubh, Śakvarī
Metres by ṛk
1st set of styles nicṛttriṣṭup (1); svarāṭpaṅkti (2); paṅktiḥ (3); nicṛdatiśakvarī (4); triṣṭup (5)
2nd set of styles triṣṭubh (1-3, 5); śakvarī (4)
-
Ṛk 1
अभू॒रेको॑ रयिपते रयी॒णामा हस्त॑योरधिथा इंद्र कृ॒ष्टीः ।
वि तो॒के अ॒प्सु तन॑ये च॒ सूरेऽवो॑चंत चर्ष॒णयो॒ विवा॑चः ॥अभूर् एको रयिपते रयीणाम् आ हस्तयोर् अधिथा इन्द्र कृष्टीः |
वि तोके अप्सु तनये च सूरे ऽवोचन्त चर्षणयो विवाचः ||ábhūréko rayipate rayīṇā́mā́ hástayoradhithā indra kṛṣṭī́ḥ ǀ
ví toké apsú tánaye ca sū́ré’vocanta carṣaṇáyo vívācaḥ ǁabhūr eko rayipate rayīṇām ā hastayor adhithā indra kṛṣṭīḥ |
vi toke apsu tanaye ca sūre 'vocanta carṣaṇayo vivācaḥ ||अभूः॑ । एकः॑ । र॒यि॒ऽप॒ते॒ । र॒यी॒णाम् । आ । हस्त॑योः । अ॒धि॒थाः॒ । इ॒न्द्र॒ । कृ॒ष्टीः ।
वि । तो॒के । अ॒प्ऽसु । तन॑ये । च॒ । सूरे॑ । अवो॑चन्त । च॒र्ष॒णयः॑ । विऽवा॑चः ॥अभूः । एकः । रयिऽपते । रयीणाम् । आ । हस्तयोः । अधिथाः । इन्द्र । कृष्टीः ।
वि । तोके । अप्ऽसु । तनये । च । सूरे । अवोचन्त । चर्षणयः । विऽवाचः ॥ábhūḥ ǀ ékaḥ ǀ rayi-pate ǀ rayīṇā́m ǀ ā́ ǀ hástayoḥ ǀ adhithāḥ ǀ indra ǀ kṛṣṭī́ḥ ǀ
ví ǀ toké ǀ ap-sú ǀ tánaye ǀ ca ǀ sū́re ǀ ávocanta ǀ carṣaṇáyaḥ ǀ ví-vācaḥ ǁabhūḥ ǀ ekaḥ ǀ rayi-pate ǀ rayīṇām ǀ ā ǀ hastayoḥ ǀ adhithāḥ ǀ indra ǀ kṛṣṭīḥ ǀ
vi ǀ toke ǀ ap-su ǀ tanaye ǀ ca ǀ sūre ǀ avocanta ǀ carṣaṇayaḥ ǀ vi-vācaḥ ǁ6.31.1 Aṣṭaka 4.7.3.1Anuvāka 6.3.55
-
Ṛk 2
त्वद्भि॒येंद्र॒ पार्थि॑वानि॒ विश्वाच्यु॑ता चिच्च्यावयंते॒ रजां॑सि ।
द्यावा॒क्षामा॒ पर्व॑तासो॒ वना॑नि॒ विश्वं॑ दृ॒ळ्हं भ॑यते॒ अज्म॒न्ना ते॑ ॥त्वद् भियेन्द्र पार्थिवानि विश्वाच्युता चिच् च्यावयन्ते रजांसि |
द्यावाक्षामा पर्वतासो वनानि विश्वं दृऌहम् भयते अज्मन्न् आ ते ||tvádbhiyéndra pā́rthivāni víśvā́cyutā ciccyāvayante rájāṃsi ǀ
dyā́vākṣā́mā párvatāso vánāni víśvam dṛḷhám bhayate ájmannā́ te ǁtvad bhiyendra pārthivāni viśvācyutā cic cyāvayante rajāṃsi |
dyāvākṣāmā parvatāso vanāni viśvaṃ dṛḷham bhayate ajmann ā te ||त्वत् । भि॒या । इ॒न्द्र॒ । पार्थि॑वानि । विश्वा॑ । अच्यु॑ता । चि॒त् । च्य॒व॒य॒न्ते॒ । रजां॑सि ।
द्यावा॒क्षामा॑ । पर्व॑तासः । वना॑नि । विश्व॑म् । दृ॒ळ्हम् । भ॒य॒ते॒ । अज्म॑न् । आ । ते॒ ॥त्वत् । भिया । इन्द्र । पार्थिवानि । विश्वा । अच्युता । चित् । च्यवयन्ते । रजांसि ।
द्यावाक्षामा । पर्वतासः । वनानि । विश्वम् । दृळ्हम् । भयते । अज्मन् । आ । ते ॥tvát ǀ bhiyā́ ǀ indra ǀ pā́rthivāni ǀ víśvā ǀ ácyutā ǀ cit ǀ cyavayante ǀ rájāṃsi ǀ
dyā́vākṣā́mā ǀ párvatāsaḥ ǀ vánāni ǀ víśvam ǀ dṛḷhám ǀ bhayate ǀ ájman ǀ ā́ ǀ te ǁtvat ǀ bhiyā ǀ indra ǀ pārthivāni ǀ viśvā ǀ acyutā ǀ cit ǀ cyavayante ǀ rajāṃsi ǀ
dyāvākṣāmā ǀ parvatāsaḥ ǀ vanāni ǀ viśvam ǀ dṛḷham ǀ bhayate ǀ ajman ǀ ā ǀ te ǁ6.31.2 Aṣṭaka 4.7.3.2Anuvāka 6.3.56
-
Ṛk 3
त्वं कुत्से॑ना॒भि शुष्ण॑मिंद्रा॒शुषं॑ युध्य॒ कुय॑वं॒ गवि॑ष्टौ ।
दश॑ प्रपि॒त्वे अध॒ सूर्य॑स्य मुषा॒यश्च॒क्रमवि॑वे॒ रपां॑सि ॥त्वं कुत्सेनाभि शुष्णम् इन्द्राशुषं युध्य कुयवं गविष्टौ |
दश प्रपित्वे अध सूर्यस्य मुषायश् चक्रम् अविवे रपांसि ||tvám kútsenābhí śúṣṇamindrāśúṣam yudhya kúyavam gáviṣṭau ǀ
dáśa prapitvé ádha sū́ryasya muṣāyáścakrámávive rápāṃsi ǁtvaṃ kutsenābhi śuṣṇam indrāśuṣaṃ yudhya kuyavaṃ gaviṣṭau |
daśa prapitve adha sūryasya muṣāyaś cakram avive rapāṃsi ||त्वम् । कुत्से॑न । अ॒भि । शुष्ण॑म् । इ॒न्द्र॒ । अ॒शुष॑म् । यु॒ध्य॒ । कुय॑वम् । गोऽइ॑ष्टौ ।
दश॑ । प्र॒ऽपि॒त्वे । अध॑ । सूर्य॑स्य । मु॒षा॒यः । च॒क्रम् । अवि॑वेः । रपां॑सि ॥त्वम् । कुत्सेन । अभि । शुष्णम् । इन्द्र । अशुषम् । युध्य । कुयवम् । गोऽइष्टौ ।
दश । प्रऽपित्वे । अध । सूर्यस्य । मुषायः । चक्रम् । अविवेः । रपांसि ॥tvám ǀ kútsena ǀ abhí ǀ śúṣṇam ǀ indra ǀ aśúṣam ǀ yudhya ǀ kúyavam ǀ gó-iṣṭau ǀ
dáśa ǀ pra-pitvé ǀ ádha ǀ sū́ryasya ǀ muṣāyáḥ ǀ cakrám ǀ áviveḥ ǀ rápāṃsi ǁtvam ǀ kutsena ǀ abhi ǀ śuṣṇam ǀ indra ǀ aśuṣam ǀ yudhya ǀ kuyavam ǀ go-iṣṭau ǀ
daśa ǀ pra-pitve ǀ adha ǀ sūryasya ǀ muṣāyaḥ ǀ cakram ǀ aviveḥ ǀ rapāṃsi ǁ6.31.3 Aṣṭaka 4.7.3.3Anuvāka 6.3.57
-
Ṛk 4
त्वं श॒तान्यव॒ शंब॑रस्य॒ पुरो॑ जघंथाप्र॒तीनि॒ दस्योः॑ ।
अशि॑क्षो॒ यत्र॒ शच्या॑ शचीवो॒ दिवो॑दासाय सुन्व॒ते सु॑तक्रे भ॒रद्वा॑जाय गृण॒ते वसू॑नि ॥त्वं शतान्य् अव शम्बरस्य पुरो जघन्थाप्रतीनि दस्योः |
अशिक्षो यत्र शच्या शचीवो दिवोदासाय सुन्वते सुतक्रे भरद्वाजाय गृणते वसूनि ||tvám śatā́nyáva śámbarasya púro jaghanthāpratī́ni dásyoḥ ǀ
áśikṣo yátra śácyā śacīvo dívodāsāya sunvaté sutakre bharádvājāya gṛṇaté vásūni ǁtvaṃ śatāny ava śambarasya puro jaghanthāpratīni dasyoḥ |
aśikṣo yatra śacyā śacīvo divodāsāya sunvate sutakre bharadvājāya gṛṇate vasūni ||त्वम् । श॒तानि॑ । अव॑ । शम्ब॑रस्य । पुरः॑ । ज॒घ॒न्थ॒ । अ॒प्र॒तीनि॑ । दस्योः॑ ।
अशि॑क्षः । यत्र॑ । शच्या॑ । श॒ची॒ऽवः॒ । दिवः॑ऽदासाय । सु॒न्व॒ते । सु॒त॒ऽक्रे॒ । भ॒रत्ऽवा॑जाय । गृ॒ण॒ते । वसू॑नि ॥त्वम् । शतानि । अव । शम्बरस्य । पुरः । जघन्थ । अप्रतीनि । दस्योः ।
अशिक्षः । यत्र । शच्या । शचीऽवः । दिवःऽदासाय । सुन्वते । सुतऽक्रे । भरत्ऽवाजाय । गृणते । वसूनि ॥tvám ǀ śatā́ni ǀ áva ǀ śámbarasya ǀ púraḥ ǀ jaghantha ǀ apratī́ni ǀ dásyoḥ ǀ
áśikṣaḥ ǀ yátra ǀ śácyā ǀ śacī-vaḥ ǀ dívaḥ-dāsāya ǀ sunvaté ǀ suta-kre ǀ bharát-vājāya ǀ gṛṇaté ǀ vásūni ǁtvam ǀ śatāni ǀ ava ǀ śambarasya ǀ puraḥ ǀ jaghantha ǀ apratīni ǀ dasyoḥ ǀ
aśikṣaḥ ǀ yatra ǀ śacyā ǀ śacī-vaḥ ǀ divaḥ-dāsāya ǀ sunvate ǀ suta-kre ǀ bharat-vājāya ǀ gṛṇate ǀ vasūni ǁ6.31.4 Aṣṭaka 4.7.3.4Anuvāka 6.3.58
-
Ṛk 5
स स॑त्यसत्वन्मह॒ते रणा॑य॒ रथ॒मा ति॑ष्ठ तुविनृम्ण भी॒मं ।
या॒हि प्र॑पथि॒न्नव॒सोप॑ म॒द्रिक्प्र च॑ श्रुत श्रावय चर्ष॒णिभ्यः॑ ॥स सत्यसत्वन् महते रणाय रथम् आ तिष्ठ तुविनृम्ण भीमम् |
याहि प्रपथिन्न् अवसोप मद्रिक् प्र च श्रुत श्रावय चर्षणिभ्यः ||sá satyasatvanmahaté ráṇāya ráthamā́ tiṣṭha tuvinṛmṇa bhīmám ǀ
yāhí prapathinnávasópa madríkprá ca śruta śrāvaya carṣaṇíbhyaḥ ǁsa satyasatvan mahate raṇāya ratham ā tiṣṭha tuvinṛmṇa bhīmam |
yāhi prapathinn avasopa madrik pra ca śruta śrāvaya carṣaṇibhyaḥ ||सः । स॒त्य॒ऽस॒त्व॒न् । म॒ह॒ते । रणा॑य । रथ॑म् । आ । ति॒ष्ठ॒ । तु॒वि॒ऽनृ॒म्ण॒ । भी॒मम् ।
या॒हि । प्र॒ऽप॒थि॒न् । अव॑सा । उप॑ । म॒द्रिक् । प्र । च॒ । श्रु॒त॒ । श्र॒व॒य॒ । च॒र्ष॒णिऽभ्यः॑ ॥सः । सत्यऽसत्वन् । महते । रणाय । रथम् । आ । तिष्ठ । तुविऽनृम्ण । भीमम् ।
याहि । प्रऽपथिन् । अवसा । उप । मद्रिक् । प्र । च । श्रुत । श्रवय । चर्षणिऽभ्यः ॥sáḥ ǀ satya-satvan ǀ mahaté ǀ ráṇāya ǀ rátham ǀ ā́ ǀ tiṣṭha ǀ tuvi-nṛmṇa ǀ bhīmám ǀ
yāhí ǀ pra-pathin ǀ ávasā ǀ úpa ǀ madrík ǀ prá ǀ ca ǀ śruta ǀ śravaya ǀ carṣaṇí-bhyaḥ ǁsaḥ ǀ satya-satvan ǀ mahate ǀ raṇāya ǀ ratham ǀ ā ǀ tiṣṭha ǀ tuvi-nṛmṇa ǀ bhīmam ǀ
yāhi ǀ pra-pathin ǀ avasā ǀ upa ǀ madrik ǀ pra ǀ ca ǀ śruta ǀ śravaya ǀ carṣaṇi-bhyaḥ ǁ6.31.5 Aṣṭaka 4.7.3.5Anuvāka 6.3.59
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.