Sūkta 56
- Devatā देवता
- Pūṣan
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Gāyatrī, Anuṣṭubh
Metres by ṛk
1st set of styles gāyatrī (1, 4, 5); nicṛdgāyatrī (2, 3); svarāḍuṣnik (6)
2nd set of styles gāyatrī (1-5); anuṣṭubh (6)
-
Ṛk 1
य ए॑नमा॒दिदे॑शति करं॒भादिति॑ पू॒षणं॑ ।
न तेन॑ दे॒व आ॒दिशे॑ ॥य एनम् आदिदेशति करम्भाद् इति पूषणम् |
न तेन देव आदिशे ||yá enamādídeśati karambhā́díti pūṣáṇam ǀ
ná téna devá ādíśe ǁya enam ādideśati karambhād iti pūṣaṇam |
na tena deva ādiśe ||यः । ए॒न॒म् । आ॒ऽदिदे॑शति । क॒र॒म्भ॒ऽअत् । इति॑ । पू॒षण॑म् ।
न । तेन॑ । दे॒वः । आ॒ऽदिशे॑ ॥यः । एनम् । आऽदिदेशति । करम्भऽअत् । इति । पूषणम् ।
न । तेन । देवः । आऽदिशे ॥yáḥ ǀ enam ǀ ā-dídeśati ǀ karambha-át ǀ íti ǀ pūṣáṇam ǀ
ná ǀ téna ǀ deváḥ ǀ ā-díśe ǁyaḥ ǀ enam ǀ ā-dideśati ǀ karambha-at ǀ iti ǀ pūṣaṇam ǀ
na ǀ tena ǀ devaḥ ǀ ā-diśe ǁ6.56.1 Aṣṭaka 4.8.22.1Anuvāka 6.5.75
-
Ṛk 2
उ॒त घा॒ स र॒थीत॑मः॒ सख्या॒ सत्प॑तिर्यु॒जा ।
इंद्रो॑ वृ॒त्राणि॑ जिघ्नते ॥उत घा स रथीतमः सख्या सत्पतिर् युजा |
इन्द्रो वृत्राणि जिघ्नते ||utá ghā sá rathī́tamaḥ sákhyā sátpatiryujā́ ǀ
índro vṛtrā́ṇi jighnate ǁuta ghā sa rathītamaḥ sakhyā satpatir yujā |
indro vṛtrāṇi jighnate ||उ॒त । घ॒ । सः । र॒थिऽत॑मः । सख्या॑ । सत्ऽप॑तिः । यु॒जा ।
इन्द्रः॑ । वृ॒त्राणि॑ । जि॒घ्न॒ते॒ ॥उत । घ । सः । रथिऽतमः । सख्या । सत्ऽपतिः । युजा ।
इन्द्रः । वृत्राणि । जिघ्नते ॥utá ǀ gha ǀ sáḥ ǀ rathí-tamaḥ ǀ sákhyā ǀ sát-patiḥ ǀ yujā́ ǀ
índraḥ ǀ vṛtrā́ṇi ǀ jighnate ǁuta ǀ gha ǀ saḥ ǀ rathi-tamaḥ ǀ sakhyā ǀ sat-patiḥ ǀ yujā ǀ
indraḥ ǀ vṛtrāṇi ǀ jighnate ǁ6.56.2 Aṣṭaka 4.8.22.2Anuvāka 6.5.76
-
Ṛk 3
उ॒तादः प॑रु॒षे गवि॒ सूर॑श्च॒क्रं हि॑र॒ण्ययं॑ ।
न्यै॑रयद्र॒थीत॑मः ॥उतादः परुषे गवि सूरश् चक्रं हिरण्ययम् |
न्य् ऐरयद् रथीतमः ||utā́dáḥ paruṣé gávi sū́raścakrám hiraṇyáyam ǀ
nyáirayadrathī́tamaḥ ǁutādaḥ paruṣe gavi sūraś cakraṃ hiraṇyayam |
ny airayad rathītamaḥ ||उ॒त । अ॒दः । प॒रु॒षे । गवि॑ । सूरः॑ । च॒क्रम् । हि॒र॒ण्यय॑म् ।
नि । ऐ॒र॒य॒त् । र॒थिऽत॑मः ॥उत । अदः । परुषे । गवि । सूरः । चक्रम् । हिरण्ययम् ।
नि । ऐरयत् । रथिऽतमः ॥utá ǀ adáḥ ǀ paruṣé ǀ gávi ǀ sū́raḥ ǀ cakrám ǀ hiraṇyáyam ǀ
ní ǀ airayat ǀ rathí-tamaḥ ǁuta ǀ adaḥ ǀ paruṣe ǀ gavi ǀ sūraḥ ǀ cakram ǀ hiraṇyayam ǀ
ni ǀ airayat ǀ rathi-tamaḥ ǁ6.56.3 Aṣṭaka 4.8.22.3Anuvāka 6.5.77
-
Ṛk 4
यद॒द्य त्वा॑ पुरुष्टुत॒ ब्रवा॑म दस्र मंतुमः ।
तत्सु नो॒ मन्म॑ साधय ॥यद् अद्य त्वा पुरुष्टुत ब्रवाम दस्र मन्तुमः |
तत् सु नो मन्म साधय ||yádadyá tvā puruṣṭuta brávāma dasra mantumaḥ ǀ
tátsú no mánma sādhaya ǁyad adya tvā puruṣṭuta bravāma dasra mantumaḥ |
tat su no manma sādhaya ||यत् । अ॒द्य । त्वा॒ । पु॒रु॒ऽस्तु॒त॒ । ब्रवा॑म । द॒स्र॒ । म॒न्तु॒ऽमः॒ ।
तत् । सु । नः॒ । मन्म॑ । सा॒ध॒य॒ ॥यत् । अद्य । त्वा । पुरुऽस्तुत । ब्रवाम । दस्र । मन्तुऽमः ।
तत् । सु । नः । मन्म । साधय ॥yát ǀ adyá ǀ tvā ǀ puru-stuta ǀ brávāma ǀ dasra ǀ mantu-maḥ ǀ
tát ǀ sú ǀ naḥ ǀ mánma ǀ sādhaya ǁyat ǀ adya ǀ tvā ǀ puru-stuta ǀ bravāma ǀ dasra ǀ mantu-maḥ ǀ
tat ǀ su ǀ naḥ ǀ manma ǀ sādhaya ǁ6.56.4 Aṣṭaka 4.8.22.4Anuvāka 6.5.78
-
Ṛk 5
इ॒मं च॑ नो ग॒वेष॑णं सा॒तये॑ सीषधो ग॒णं ।
आ॒रात्पू॑षन्नसि श्रु॒तः ॥इमं च नो गवेषणं सातये सीषधो गणम् |
आरात् पूषन्न् असि श्रुतः ||imám ca no gavéṣaṇam sātáye sīṣadho gaṇám ǀ
ārā́tpūṣannasi śrutáḥ ǁimaṃ ca no gaveṣaṇaṃ sātaye sīṣadho gaṇam |
ārāt pūṣann asi śrutaḥ ||इ॒मम् । च॒ । नः॒ । गो॒ऽएष॑णम् । सा॒तये॑ । सी॒स॒धः॒ । ग॒णम् ।
आ॒रात् । पू॒ष॒न् । अ॒सि॒ । श्रु॒तः ॥इमम् । च । नः । गोऽएषणम् । सातये । सीसधः । गणम् ।
आरात् । पूषन् । असि । श्रुतः ॥imám ǀ ca ǀ naḥ ǀ go-éṣaṇam ǀ sātáye ǀ sīsadhaḥ ǀ gaṇám ǀ
ārā́t ǀ pūṣan ǀ asi ǀ śrutáḥ ǁimam ǀ ca ǀ naḥ ǀ go-eṣaṇam ǀ sātaye ǀ sīsadhaḥ ǀ gaṇam ǀ
ārāt ǀ pūṣan ǀ asi ǀ śrutaḥ ǁ6.56.5 Aṣṭaka 4.8.22.5Anuvāka 6.5.79
-
Ṛk 6
आ ते॑ स्व॒स्तिमी॑मह आ॒रेअ॑घा॒मुपा॑वसुं ।
अ॒द्या च॑ स॒र्वता॑तये॒ श्वश्च॑ स॒र्वता॑तये ॥आ ते स्वस्तिम् ईमह आरेअघाम् उपावसुम् |
अद्या च सर्वतातये श्वश् च सर्वतातये ||ā́ te svastímīmaha āréaghāmúpāvasum ǀ
adyā́ ca sarvátātaye śváśca sarvátātaye ǁā te svastim īmaha āreaghām upāvasum |
adyā ca sarvatātaye śvaś ca sarvatātaye ||आ । ते॒ । स्व॒स्तिम् । ई॒म॒हे॒ । आ॒रेऽअ॑घाम् । उप॑ऽवसुम् ।
अ॒द्य । च॒ । स॒र्वऽता॑तये । श्वः । च॒ । स॒र्वऽता॑तये ॥आ । ते । स्वस्तिम् । ईमहे । आरेऽअघाम् । उपऽवसुम् ।
अद्य । च । सर्वऽतातये । श्वः । च । सर्वऽतातये ॥ā́ ǀ te ǀ svastím ǀ īmahe ǀ āré-aghām ǀ úpa-vasum ǀ
adyá ǀ ca ǀ sarvá-tātaye ǀ śváḥ ǀ ca ǀ sarvá-tātaye ǁā ǀ te ǀ svastim ǀ īmahe ǀ āre-aghām ǀ upa-vasum ǀ
adya ǀ ca ǀ sarva-tātaye ǀ śvaḥ ǀ ca ǀ sarva-tātaye ǁ6.56.6 Aṣṭaka 4.8.22.6Anuvāka 6.5.80
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.