Sūkta 60
- Devatā देवता
- Agni, Indra
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Gāyatrī, Triṣṭubh, Bṛhatī, Anuṣṭubh
Metres by ṛk
1st set of styles virāḍgāyatrī (4, 6, 7); nicṛdgāyatrī (5, 9, 11); gāyatrī (8, 10, 12); nicṛttriṣṭup (1, 3); virāṭtrisṭup (2); svarāṭpaṅkti (13); nicṛdanuṣṭup (14); virāḍanuṣṭup (15)
2nd set of styles gāyatrī (4-12); triṣṭubh (1-3, 13); bṛhatī (14); anuṣṭubh (15)
-
Ṛk 1
श्नथ॑द्वृ॒त्रमु॒त स॑नोति॒ वाज॒मिंद्रा॒ यो अ॒ग्नी सहु॑री सप॒र्यात् ।
इ॒र॒ज्यंता॑ वस॒व्य॑स्य॒ भूरेः॒ सह॑स्तमा॒ सह॑सा वाज॒यंता॑ ॥श्नथद् वृत्रम् उत सनोति वाजम् इन्द्रा यो अग्नी सहुरी सपर्यात् |
इरज्यन्ता वसव्यस्य भूरेः सहस्तमा सहसा वाजयन्ता ||śnáthadvṛtrámutá sanoti vā́jamíndrā yó agnī́ sáhurī saparyā́t ǀ
irajyántā vasavyásya bhū́reḥ sáhastamā sáhasā vājayántā ǁśnathad vṛtram uta sanoti vājam indrā yo agnī sahurī saparyāt |
irajyantā vasavyasya bhūreḥ sahastamā sahasā vājayantā ||श्नथ॑त् । वृ॒त्रम् । उ॒त । स॒नो॒ति॒ । वाज॑म् । इन्द्रा॑ । यः । अ॒ग्नी इति॑ । सहु॑री॒ इति॑ । स॒प॒र्यात् ।
इ॒र॒ज्यन्ता॑ । व॒स॒व्य॑स्य । भूरेः॑ । सहः॑ऽतमा । सह॑सा । वा॒ज॒ऽयन्ता॑ ॥श्नथत् । वृत्रम् । उत । सनोति । वाजम् । इन्द्रा । यः । अग्नी इति । सहुरी इति । सपर्यात् ।
इरज्यन्ता । वसव्यस्य । भूरेः । सहःऽतमा । सहसा । वाजऽयन्ता ॥śnáthat ǀ vṛtrám ǀ utá ǀ sanoti ǀ vā́jam ǀ índrā ǀ yáḥ ǀ agnī́ íti ǀ sáhurī íti ǀ saparyā́t ǀ
irajyántā ǀ vasavyásya ǀ bhū́reḥ ǀ sáhaḥ-tamā ǀ sáhasā ǀ vāja-yántā ǁśnathat ǀ vṛtram ǀ uta ǀ sanoti ǀ vājam ǀ indrā ǀ yaḥ ǀ agnī iti ǀ sahurī iti ǀ saparyāt ǀ
irajyantā ǀ vasavyasya ǀ bhūreḥ ǀ sahaḥ-tamā ǀ sahasā ǀ vāja-yantā ǁ6.60.1 Aṣṭaka 4.8.27.1Anuvāka 6.5.101
-
Ṛk 2
ता यो॑धिष्टम॒भि गा इं॑द्र नू॒नम॒पः स्व॑रु॒षसो॑ अग्न ऊ॒ळ्हाः ।
दिशः॒ स्व॑रु॒षस॑ इंद्र चि॒त्रा अ॒पो गा अ॑ग्ने युवसे नि॒युत्वा॑न् ॥ता योधिष्टम् अभि गा इन्द्र नूनम् अपः स्वर् उषसो अग्न ऊऌहाः |
दिशः स्वर् उषस इन्द्र चित्रा अपो गा अग्ने युवसे नियुत्वान् ||tā́ yodhiṣṭamabhí gā́ indra nūnámapáḥ sváruṣáso agna ūḷhā́ḥ ǀ
díśaḥ sváruṣása indra citrā́ apó gā́ agne yuvase niyútvān ǁtā yodhiṣṭam abhi gā indra nūnam apaḥ svar uṣaso agna ūḷhāḥ |
diśaḥ svar uṣasa indra citrā apo gā agne yuvase niyutvān ||ता । यो॒धि॒ष्ट॒म् । अ॒भि । गाः । इ॒न्द्र॒ । नू॒नम् । अ॒पः । स्वः॑ । उ॒षसः॑ । अ॒ग्ने॒ । ऊ॒ळ्हाः ।
दिशः॑ । स्वः॑ । उ॒षसः॑ । इ॒न्द्र॒ । चि॒त्राः । अ॒पः । गाः । अ॒ग्ने॒ । यु॒व॒से॒ । नि॒युत्वा॑न् ॥ता । योधिष्टम् । अभि । गाः । इन्द्र । नूनम् । अपः । स्वः । उषसः । अग्ने । ऊळ्हाः ।
दिशः । स्वः । उषसः । इन्द्र । चित्राः । अपः । गाः । अग्ने । युवसे । नियुत्वान् ॥tā́ ǀ yodhiṣṭam ǀ abhí ǀ gā́ḥ ǀ indra ǀ nūnám ǀ apáḥ ǀ sváḥ ǀ uṣásaḥ ǀ agne ǀ ūḷhā́ḥ ǀ
díśaḥ ǀ sváḥ ǀ uṣásaḥ ǀ indra ǀ citrā́ḥ ǀ apáḥ ǀ gā́ḥ ǀ agne ǀ yuvase ǀ niyútvān ǁtā ǀ yodhiṣṭam ǀ abhi ǀ gāḥ ǀ indra ǀ nūnam ǀ apaḥ ǀ svaḥ ǀ uṣasaḥ ǀ agne ǀ ūḷhāḥ ǀ
diśaḥ ǀ svaḥ ǀ uṣasaḥ ǀ indra ǀ citrāḥ ǀ apaḥ ǀ gāḥ ǀ agne ǀ yuvase ǀ niyutvān ǁ6.60.2 Aṣṭaka 4.8.27.2Anuvāka 6.5.102
-
Ṛk 3
आ वृ॑त्रहणा वृत्र॒हभिः॒ शुष्मै॒रिंद्र॑ या॒तं नमो॑भिरग्ने अ॒र्वाक् ।
यु॒वं राधो॑भि॒रक॑वेभिरिं॒द्राग्ने॑ अ॒स्मे भ॑वतमुत्त॒मेभिः॑ ॥आ वृत्रहणा वृत्रहभिः शुष्मैर् इन्द्र यातं नमोभिर् अग्ने अर्वाक् |
युवं राधोभिर् अकवेभिर् इन्द्राग्ने अस्मे भवतम् उत्तमेभिः ||ā́ vṛtrahaṇā vṛtrahábhiḥ śúṣmairíndra yātám námobhiragne arvā́k ǀ
yuvám rā́dhobhirákavebhirindrā́gne asmé bhavatamuttamébhiḥ ǁā vṛtrahaṇā vṛtrahabhiḥ śuṣmair indra yātaṃ namobhir agne arvāk |
yuvaṃ rādhobhir akavebhir indrāgne asme bhavatam uttamebhiḥ ||आ । वृ॒त्र॒ऽह॒ना॒ । वृ॒त्र॒हऽभिः॑ । शुष्मैः॑ । इन्द्र॑ । या॒तम् । नमः॑ऽभिः । अ॒ग्ने॒ । अ॒र्वाक् ।
यु॒वम् । राधः॑ऽभिः । अक॑वेभिः । इ॒न्द्र॒ । अग्ने॑ । अ॒स्मे इति॑ । भ॒व॒त॒म् । उ॒त्ऽत॒मेभिः॑ ॥आ । वृत्रऽहना । वृत्रहऽभिः । शुष्मैः । इन्द्र । यातम् । नमःऽभिः । अग्ने । अर्वाक् ।
युवम् । राधःऽभिः । अकवेभिः । इन्द्र । अग्ने । अस्मे इति । भवतम् । उत्ऽतमेभिः ॥ā́ ǀ vṛtra-hanā ǀ vṛtrahá-bhiḥ ǀ śúṣmaiḥ ǀ índra ǀ yātám ǀ námaḥ-bhiḥ ǀ agne ǀ arvā́k ǀ
yuvám ǀ rā́dhaḥ-bhiḥ ǀ ákavebhiḥ ǀ indra ǀ ágne ǀ asmé íti ǀ bhavatam ǀ ut-tamébhiḥ ǁā ǀ vṛtra-hanā ǀ vṛtraha-bhiḥ ǀ śuṣmaiḥ ǀ indra ǀ yātam ǀ namaḥ-bhiḥ ǀ agne ǀ arvāk ǀ
yuvam ǀ rādhaḥ-bhiḥ ǀ akavebhiḥ ǀ indra ǀ agne ǀ asme iti ǀ bhavatam ǀ ut-tamebhiḥ ǁ6.60.3 Aṣṭaka 4.8.27.3Anuvāka 6.5.103
-
Ṛk 4
ता हु॑वे॒ ययो॑रि॒दं प॒प्ने विश्वं॑ पु॒रा कृ॒तं ।
इं॒द्रा॒ग्नी न म॑र्धतः ॥ता हुवे ययोर् इदम् पप्ने विश्वम् पुरा कृतम् |
इन्द्राग्नी न मर्धतः ||tā́ huve yáyoridám papné víśvam purā́ kṛtám ǀ
indrāgnī́ ná mardhataḥ ǁtā huve yayor idam papne viśvam purā kṛtam |
indrāgnī na mardhataḥ ||ता । हु॒वे॒ । ययोः॑ । इ॒दम् । प॒प्ने । विश्व॑म् । पु॒रा । कृ॒तम् ।
इ॒न्द्रा॒ग्नी इति॑ । न । म॒र्ध॒तः॒ ॥ता । हुवे । ययोः । इदम् । पप्ने । विश्वम् । पुरा । कृतम् ।
इन्द्राग्नी इति । न । मर्धतः ॥tā́ ǀ huve ǀ yáyoḥ ǀ idám ǀ papné ǀ víśvam ǀ purā́ ǀ kṛtám ǀ
indrāgnī́ íti ǀ ná ǀ mardhataḥ ǁtā ǀ huve ǀ yayoḥ ǀ idam ǀ papne ǀ viśvam ǀ purā ǀ kṛtam ǀ
indrāgnī iti ǀ na ǀ mardhataḥ ǁ6.60.4 Aṣṭaka 4.8.27.4Anuvāka 6.5.104
-
Ṛk 5
उ॒ग्रा वि॑घ॒निना॒ मृध॑ इंद्रा॒ग्नी ह॑वामहे ।
ता नो॑ मृळात ई॒दृशे॑ ॥उग्रा विघनिना मृध इन्द्राग्नी हवामहे |
ता नो मृऌआत ईदृशे ||ugrā́ vighanínā mṛ́dha indrāgnī́ havāmahe ǀ
tā́ no mṛḷāta īdṛ́śe ǁugrā vighaninā mṛdha indrāgnī havāmahe |
tā no mṛḷāta īdṛśe ||उ॒ग्रा । वि॒ऽघ॒निना॑ । मृधः॑ । इ॒न्द्रा॒ग्नी इति॑ । ह॒वा॒म॒हे॒ ।
ता । नः॒ । मृ॒ळा॒तः॒ । ई॒दृशे॑ ॥उग्रा । विऽघनिना । मृधः । इन्द्राग्नी इति । हवामहे ।
ता । नः । मृळातः । ईदृशे ॥ugrā́ ǀ vi-ghanínā ǀ mṛ́dhaḥ ǀ indrāgnī́ íti ǀ havāmahe ǀ
tā́ ǀ naḥ ǀ mṛḷātaḥ ǀ īdṛ́śe ǁugrā ǀ vi-ghaninā ǀ mṛdhaḥ ǀ indrāgnī iti ǀ havāmahe ǀ
tā ǀ naḥ ǀ mṛḷātaḥ ǀ īdṛśe ǁ6.60.5 Aṣṭaka 4.8.27.5Anuvāka 6.5.105
-
Ṛk 6
ह॒तो वृ॒त्राण्यार्या॑ ह॒तो दासा॑नि॒ सत्प॑ती ।
ह॒तो विश्वा॒ अप॒ द्विषः॑ ॥हतो वृत्राण्य् आर्या हतो दासानि सत्पती |
हतो विश्वा अप द्विषः ||ható vṛtrā́ṇyā́ryā ható dā́sāni sátpatī ǀ
ható víśvā ápa dvíṣaḥ ǁhato vṛtrāṇy āryā hato dāsāni satpatī |
hato viśvā apa dviṣaḥ ||ह॒तः । वृ॒त्राणि॑ । आर्या॑ । ह॒तः । दासा॑नि । सत्प॑ती॒ इति॒ सत्ऽप॑ती ।
ह॒तः । विश्वाः॑ । अप॑ । द्विषः॑ ॥हतः । वृत्राणि । आर्या । हतः । दासानि । सत्पती इति सत्ऽपती ।
हतः । विश्वाः । अप । द्विषः ॥hatáḥ ǀ vṛtrā́ṇi ǀ ā́ryā ǀ hatáḥ ǀ dā́sāni ǀ sátpatī íti sát-patī ǀ
hatáḥ ǀ víśvāḥ ǀ ápa ǀ dvíṣaḥ ǁhataḥ ǀ vṛtrāṇi ǀ āryā ǀ hataḥ ǀ dāsāni ǀ satpatī iti sat-patī ǀ
hataḥ ǀ viśvāḥ ǀ apa ǀ dviṣaḥ ǁ6.60.6 Aṣṭaka 4.8.28.1Anuvāka 6.5.106
-
Ṛk 7
इंद्रा॑ग्नी यु॒वामि॒मे॒३॒॑ऽभि स्तोमा॑ अनूषत ।
पिब॑तं शंभुवा सु॒तं ॥इन्द्राग्नी युवाम् इमे ऽभि स्तोमा अनूषत |
पिबतं शम्भुवा सुतम् ||índrāgnī yuvā́mimé’bhí stómā anūṣata ǀ
píbatam śambhuvā sutám ǁindrāgnī yuvām ime 'bhi stomā anūṣata |
pibataṃ śambhuvā sutam ||इन्द्रा॑ग्नी॒ इति॑ । यु॒वाम् । इ॒मे । अ॒भि । स्तोमाः॑ । अ॒नू॒ष॒त॒ ।
पिब॑तम् । श॒म्ऽभु॒वा॒ । सु॒तम् ॥इन्द्राग्नी इति । युवाम् । इमे । अभि । स्तोमाः । अनूषत ।
पिबतम् । शम्ऽभुवा । सुतम् ॥índrāgnī íti ǀ yuvā́m ǀ imé ǀ abhí ǀ stómāḥ ǀ anūṣata ǀ
píbatam ǀ śam-bhuvā ǀ sutám ǁindrāgnī iti ǀ yuvām ǀ ime ǀ abhi ǀ stomāḥ ǀ anūṣata ǀ
pibatam ǀ śam-bhuvā ǀ sutam ǁ6.60.7 Aṣṭaka 4.8.28.2Anuvāka 6.5.107
-
Ṛk 8
या वां॒ संति॑ पुरु॒स्पृहो॑ नि॒युतो॑ दा॒शुषे॑ नरा ।
इंद्रा॑ग्नी॒ ताभि॒रा ग॑तं ॥या वां सन्ति पुरुस्पृहो नियुतो दाशुषे नरा |
इन्द्राग्नी ताभिर् आ गतम् ||yā́ vām sánti puruspṛ́ho niyúto dāśúṣe narā ǀ
índrāgnī tā́bhirā́ gatam ǁyā vāṃ santi puruspṛho niyuto dāśuṣe narā |
indrāgnī tābhir ā gatam ||याः । वा॒म् । सन्ति॑ । पु॒रु॒ऽस्पृहः॑ । नि॒ऽयुतः॑ । दा॒शुषे॑ । न॒रा॒ ।
इन्द्रा॑ग्नी॒ इति॑ । ताभिः॑ । आ । ग॒त॒म् ॥याः । वाम् । सन्ति । पुरुऽस्पृहः । निऽयुतः । दाशुषे । नरा ।
इन्द्राग्नी इति । ताभिः । आ । गतम् ॥yā́ḥ ǀ vām ǀ sánti ǀ puru-spṛ́haḥ ǀ ni-yútaḥ ǀ dāśúṣe ǀ narā ǀ
índrāgnī íti ǀ tā́bhiḥ ǀ ā́ ǀ gatam ǁyāḥ ǀ vām ǀ santi ǀ puru-spṛhaḥ ǀ ni-yutaḥ ǀ dāśuṣe ǀ narā ǀ
indrāgnī iti ǀ tābhiḥ ǀ ā ǀ gatam ǁ6.60.8 Aṣṭaka 4.8.28.3Anuvāka 6.5.108
-
Ṛk 9
ताभि॒रा ग॑च्छतं न॒रोपे॒दं सव॑नं सु॒तं ।
इंद्रा॑ग्नी॒ सोम॑पीतये ॥ताभिर् आ गच्छतं नरोपेदं सवनं सुतम् |
इन्द्राग्नी सोमपीतये ||tā́bhirā́ gacchatam narópedám sávanam sutám ǀ
índrāgnī sómapītaye ǁtābhir ā gacchataṃ naropedaṃ savanaṃ sutam |
indrāgnī somapītaye ||ताभिः॑ । आ । ग॒च्छ॒त॒म् । न॒रा॒ । उप॑ । इ॒दम् । सव॑नम् । सु॒तम् ।
इन्द्रा॑ग्नी॒ इति॑ । सोम॑ऽपीतये ॥ताभिः । आ । गच्छतम् । नरा । उप । इदम् । सवनम् । सुतम् ।
इन्द्राग्नी इति । सोमऽपीतये ॥tā́bhiḥ ǀ ā́ ǀ gacchatam ǀ narā ǀ úpa ǀ idám ǀ sávanam ǀ sutám ǀ
índrāgnī íti ǀ sóma-pītaye ǁtābhiḥ ǀ ā ǀ gacchatam ǀ narā ǀ upa ǀ idam ǀ savanam ǀ sutam ǀ
indrāgnī iti ǀ soma-pītaye ǁ6.60.9 Aṣṭaka 4.8.28.4Anuvāka 6.5.109
-
Ṛk 10
तमी॑ळिष्व॒ यो अ॒र्चिषा॒ वना॒ विश्वा॑ परि॒ष्वज॑त् ।
कृ॒ष्णा कृ॒णोति॑ जि॒ह्वया॑ ॥तम् ईऌइष्व यो अर्चिषा वना विश्वा परिष्वजत् |
कृष्णा कृणोति जिह्वया ||támīḷiṣva yó arcíṣā vánā víśvā pariṣvájat ǀ
kṛṣṇā́ kṛṇóti jihváyā ǁtam īḷiṣva yo arciṣā vanā viśvā pariṣvajat |
kṛṣṇā kṛṇoti jihvayā ||तम् । ई॒ळि॒ष्व॒ । यः । अ॒र्चिषा॑ । वना॑ । विश्वा॑ । प॒रि॒ऽस्वज॑त् ।
कृ॒ष्णा । कृ॒णोति॑ । जि॒ह्वया॑ ॥तम् । ईळिष्व । यः । अर्चिषा । वना । विश्वा । परिऽस्वजत् ।
कृष्णा । कृणोति । जिह्वया ॥tám ǀ īḷiṣva ǀ yáḥ ǀ arcíṣā ǀ vánā ǀ víśvā ǀ pari-svájat ǀ
kṛṣṇā́ ǀ kṛṇóti ǀ jihváyā ǁtam ǀ īḷiṣva ǀ yaḥ ǀ arciṣā ǀ vanā ǀ viśvā ǀ pari-svajat ǀ
kṛṣṇā ǀ kṛṇoti ǀ jihvayā ǁ6.60.10 Aṣṭaka 4.8.28.5Anuvāka 6.5.110
-
Ṛk 11
य इ॒द्ध आ॒विवा॑सति सु॒म्नमिंद्र॑स्य॒ मर्त्यः॑ ।
द्यु॒म्नाय॑ सु॒तरा॑ अ॒पः ॥य इद्ध आविवासति सुम्नम् इन्द्रस्य मर्त्यः |
द्युम्नाय सुतरा अपः ||yá iddhá āvívāsati sumnámíndrasya mártyaḥ ǀ
dyumnā́ya sutárā apáḥ ǁya iddha āvivāsati sumnam indrasya martyaḥ |
dyumnāya sutarā apaḥ ||यः । इ॒द्धे । आ॒ऽविवा॑सति । सु॒म्नम् । इन्द्र॑स्य । मर्त्यः॑ ।
द्यु॒म्नाय॑ । सु॒ऽतराः॑ । अ॒पः ॥यः । इद्धे । आऽविवासति । सुम्नम् । इन्द्रस्य । मर्त्यः ।
द्युम्नाय । सुऽतराः । अपः ॥yáḥ ǀ iddhé ǀ ā-vívāsati ǀ sumnám ǀ índrasya ǀ mártyaḥ ǀ
dyumnā́ya ǀ su-tárāḥ ǀ apáḥ ǁyaḥ ǀ iddhe ǀ ā-vivāsati ǀ sumnam ǀ indrasya ǀ martyaḥ ǀ
dyumnāya ǀ su-tarāḥ ǀ apaḥ ǁ6.60.11 Aṣṭaka 4.8.29.1Anuvāka 6.5.111
-
Ṛk 12
ता नो॒ वाज॑वती॒रिष॑ आ॒शून्पि॑पृत॒मर्व॑तः ।
इंद्र॑म॒ग्निं च॒ वोळ्ह॑वे ॥ता नो वाजवतीर् इष आशून् पिपृतम् अर्वतः |
इन्द्रम् अग्निं च वोऌहवे ||tā́ no vā́javatīríṣa āśū́npipṛtamárvataḥ ǀ
índramagním ca vóḷhave ǁtā no vājavatīr iṣa āśūn pipṛtam arvataḥ |
indram agniṃ ca voḷhave ||ता । नः॒ । वाज॑ऽवतीः । इषः॑ । आ॒शून् । पि॒पृ॒त॒म् । अर्व॑तः ।
इन्द्र॑म् । अ॒ग्निम् । च॒ । वोळ्ह॑वे ॥ता । नः । वाजऽवतीः । इषः । आशून् । पिपृतम् । अर्वतः ।
इन्द्रम् । अग्निम् । च । वोळ्हवे ॥tā́ ǀ naḥ ǀ vā́ja-vatīḥ ǀ íṣaḥ ǀ āśū́n ǀ pipṛtam ǀ árvataḥ ǀ
índram ǀ agním ǀ ca ǀ vóḷhave ǁtā ǀ naḥ ǀ vāja-vatīḥ ǀ iṣaḥ ǀ āśūn ǀ pipṛtam ǀ arvataḥ ǀ
indram ǀ agnim ǀ ca ǀ voḷhave ǁ6.60.12 Aṣṭaka 4.8.29.2Anuvāka 6.5.112
-
Ṛk 13
उ॒भा वा॑मिंद्राग्नी आहु॒वध्या॑ उ॒भा राध॑सः स॒ह मा॑द॒यध्यै॑ ।
उ॒भा दा॒तारा॑वि॒षां र॑यी॒णामु॒भा वाज॑स्य सा॒तये॑ हुवे वां ॥उभा वाम् इन्द्राग्नी आहुवध्या उभा राधसः सह मादयध्यै |
उभा दाताराव् इषां रयीणाम् उभा वाजस्य सातये हुवे वाम् ||ubhā́ vāmindrāgnī āhuvádhyā ubhā́ rā́dhasaḥ sahá mādayádhyai ǀ
ubhā́ dātā́rāviṣā́m rayīṇā́mubhā́ vā́jasya sātáye huve vām ǁubhā vām indrāgnī āhuvadhyā ubhā rādhasaḥ saha mādayadhyai |
ubhā dātārāv iṣāṃ rayīṇām ubhā vājasya sātaye huve vām ||उ॒भा । वा॒म् । इ॒न्द्रा॒ग्नी॒ इति॑ । आ॒ऽहु॒वध्यै॑ । उ॒भा । राध॑सः । स॒ह । मा॒द॒यध्यै॑ ।
उ॒भा । दा॒तारौ॑ । इ॒षाम् । र॒यी॒णाम् । उ॒भा । वाज॑स्य । सा॒तये॑ । हु॒वे॒ । वा॒म् ॥उभा । वाम् । इन्द्राग्नी इति । आऽहुवध्यै । उभा । राधसः । सह । मादयध्यै ।
उभा । दातारौ । इषाम् । रयीणाम् । उभा । वाजस्य । सातये । हुवे । वाम् ॥ubhā́ ǀ vām ǀ indrāgnī íti ǀ ā-huvádhyai ǀ ubhā́ ǀ rā́dhasaḥ ǀ sahá ǀ mādayádhyai ǀ
ubhā́ ǀ dātā́rau ǀ iṣā́m ǀ rayīṇā́m ǀ ubhā́ ǀ vā́jasya ǀ sātáye ǀ huve ǀ vām ǁubhā ǀ vām ǀ indrāgnī iti ǀ ā-huvadhyai ǀ ubhā ǀ rādhasaḥ ǀ saha ǀ mādayadhyai ǀ
ubhā ǀ dātārau ǀ iṣām ǀ rayīṇām ǀ ubhā ǀ vājasya ǀ sātaye ǀ huve ǀ vām ǁ6.60.13 Aṣṭaka 4.8.29.3Anuvāka 6.5.113
-
Ṛk 14
आ नो॒ गव्ये॑भि॒रश्व्यै॑र्वस॒व्यै॒३॒॑रुप॑ गच्छतं ।
सखा॑यौ दे॒वौ स॒ख्याय॑ शं॒भुवें॑द्रा॒ग्नी ता ह॑वामहे ॥आ नो गव्येभिर् अश्व्यैर् वसव्यैर् उप गच्छतम् |
सखायौ देवौ सख्याय शम्भुवेन्द्राग्नी ता हवामहे ||ā́ no gávyebhiráśvyairvasavyáirúpa gacchatam ǀ
sákhāyau deváu sakhyā́ya śambhúvendrāgnī́ tā́ havāmahe ǁā no gavyebhir aśvyair vasavyair upa gacchatam |
sakhāyau devau sakhyāya śambhuvendrāgnī tā havāmahe ||आ । नः॒ । गव्ये॑भिः । अश्व्यैः॑ । व॒स॒व्यैः॑ । उप॑ । ग॒च्छ॒त॒म् ।
सखा॑यौ । दे॒वौ । स॒ख्याय॑ । श॒म्ऽभुवा॑ । इ॒न्द्रा॒ग्नी इति॑ । ता । ह॒वा॒म॒हे॒ ॥आ । नः । गव्येभिः । अश्व्यैः । वसव्यैः । उप । गच्छतम् ।
सखायौ । देवौ । सख्याय । शम्ऽभुवा । इन्द्राग्नी इति । ता । हवामहे ॥ā́ ǀ naḥ ǀ gávyebhiḥ ǀ áśvyaiḥ ǀ vasavyáiḥ ǀ úpa ǀ gacchatam ǀ
sákhāyau ǀ deváu ǀ sakhyā́ya ǀ śam-bhúvā ǀ indrāgnī́ íti ǀ tā́ ǀ havāmahe ǁā ǀ naḥ ǀ gavyebhiḥ ǀ aśvyaiḥ ǀ vasavyaiḥ ǀ upa ǀ gacchatam ǀ
sakhāyau ǀ devau ǀ sakhyāya ǀ śam-bhuvā ǀ indrāgnī iti ǀ tā ǀ havāmahe ǁ6.60.14 Aṣṭaka 4.8.29.4Anuvāka 6.5.114
-
Ṛk 15
इंद्रा॑ग्नी शृणु॒तं हवं॒ यज॑मानस्य सुन्व॒तः ।
वी॒तं ह॒व्यान्या ग॑तं॒ पिब॑तं सो॒म्यं मधु॑ ॥इन्द्राग्नी शृणुतं हवं यजमानस्य सुन्वतः |
वीतं हव्यान्य् आ गतम् पिबतं सोम्यम् मधु ||índrāgnī śṛṇutám hávam yájamānasya sunvatáḥ ǀ
vītám havyā́nyā́ gatam píbatam somyám mádhu ǁindrāgnī śṛṇutaṃ havaṃ yajamānasya sunvataḥ |
vītaṃ havyāny ā gatam pibataṃ somyam madhu ||इन्द्रा॑ग्नी॒ इति॑ । शृ॒णु॒तम् । हव॑म् । यज॑मानस्य । सु॒न्व॒तः ।
वी॒तम् । ह॒व्यानि॑ । आ । ग॒त॒म् । पिब॑तम् । सो॒म्यम् । मधु॑ ॥इन्द्राग्नी इति । शृणुतम् । हवम् । यजमानस्य । सुन्वतः ।
वीतम् । हव्यानि । आ । गतम् । पिबतम् । सोम्यम् । मधु ॥índrāgnī íti ǀ śṛṇutám ǀ hávam ǀ yájamānasya ǀ sunvatáḥ ǀ
vītám ǀ havyā́ni ǀ ā́ ǀ gatam ǀ píbatam ǀ somyám ǀ mádhu ǁindrāgnī iti ǀ śṛṇutam ǀ havam ǀ yajamānasya ǀ sunvataḥ ǀ
vītam ǀ havyāni ǀ ā ǀ gatam ǀ pibatam ǀ somyam ǀ madhu ǁ6.60.15 Aṣṭaka 4.8.29.5Anuvāka 6.5.115
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.