Sūkta 22
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles triṣṭup (2, 4, 5); bhurikpaṅkti (1, 7); virāṭtrisṭup (6, 8); nicṛttriṣṭup (9, 11); svarāṭpaṅkti (3); paṅktiḥ (10)
2nd set of styles triṣṭubh
-
Ṛk 1
य एक॒ इद्धव्य॑श्चर्षणी॒नामिंद्रं॒ तं गी॒र्भिर॒भ्य॑र्च आ॒भिः ।
यः पत्य॑ते वृष॒भो वृष्ण्या॑वान्त्स॒त्यः सत्वा॑ पुरुमा॒यः सह॑स्वान् ॥य एक इद् धव्यश् चर्षणीनाम् इन्द्रं तं गीर्भिर् अभ्य् अर्च आभिः |
यः पत्यते वृषभो वृष्ण्यावान् सत्यः सत्वा पुरुमायः सहस्वान् ||yá éka íddhávyaścarṣaṇīnā́míndram tám gīrbhírabhyárca ābhíḥ ǀ
yáḥ pátyate vṛṣabhó vṛ́ṣṇyāvāntsatyáḥ sátvā purumāyáḥ sáhasvān ǁya eka id dhavyaś carṣaṇīnām indraṃ taṃ gīrbhir abhy arca ābhiḥ |
yaḥ patyate vṛṣabho vṛṣṇyāvān satyaḥ satvā purumāyaḥ sahasvān ||यः । एकः॑ । इत् । हव्यः॑ । च॒र्ष॒णी॒नाम् । इन्द्र॑म् । तम् । गीः॒ऽभिः । अ॒भि । अ॒र्चे॒ । आ॒भिः ।
यः । पत्य॑ते । वृ॒ष॒भः । वृष्ण्य॑ऽवान् । स॒त्यः । सत्वा॑ । पु॒रु॒ऽमा॒यः । सह॑स्वान् ॥यः । एकः । इत् । हव्यः । चर्षणीनाम् । इन्द्रम् । तम् । गीःऽभिः । अभि । अर्चे । आभिः ।
यः । पत्यते । वृषभः । वृष्ण्यऽवान् । सत्यः । सत्वा । पुरुऽमायः । सहस्वान् ॥yáḥ ǀ ékaḥ ǀ ít ǀ hávyaḥ ǀ carṣaṇīnā́m ǀ índram ǀ tám ǀ gīḥ-bhíḥ ǀ abhí ǀ arce ǀ ābhíḥ ǀ
yáḥ ǀ pátyate ǀ vṛṣabháḥ ǀ vṛ́ṣṇya-vān ǀ satyáḥ ǀ sátvā ǀ puru-māyáḥ ǀ sáhasvān ǁyaḥ ǀ ekaḥ ǀ it ǀ havyaḥ ǀ carṣaṇīnām ǀ indram ǀ tam ǀ gīḥ-bhiḥ ǀ abhi ǀ arce ǀ ābhiḥ ǀ
yaḥ ǀ patyate ǀ vṛṣabhaḥ ǀ vṛṣṇya-vān ǀ satyaḥ ǀ satvā ǀ puru-māyaḥ ǀ sahasvān ǁ6.22.1 Aṣṭaka 4.6.13.1Anuvāka 6.2.117
-
Ṛk 2
तमु॑ नः॒ पूर्वे॑ पि॒तरो॒ नव॑ग्वाः स॒प्त विप्रा॑सो अ॒भि वा॒जयं॑तः ।
न॒क्ष॒द्दा॒भं ततु॑रिं पर्वते॒ष्ठामद्रो॑घवाचं म॒तिभिः॒ शवि॑ष्ठं ॥तम् उ नः पूर्वे पितरो नवग्वाः सप्त विप्रासो अभि वाजयन्तः |
नक्षद्दाभं ततुरिम् पर्वतेष्ठाम् अद्रोघवाचम् मतिभिः शविष्ठम् ||támu naḥ pū́rve pitáro návagvāḥ saptá víprāso abhí vājáyantaḥ ǀ
nakṣaddābhám táturim parvateṣṭhā́mádroghavācam matíbhiḥ śáviṣṭham ǁtam u naḥ pūrve pitaro navagvāḥ sapta viprāso abhi vājayantaḥ |
nakṣaddābhaṃ taturim parvateṣṭhām adroghavācam matibhiḥ śaviṣṭham ||तम् । ऊं॒ इति॑ । नः॒ । पूर्वे॑ । पि॒तरः॑ । नव॑ऽग्वाः । स॒प्त । विप्रा॑सः । अ॒भि । वा॒जय॑न्तः ।
न॒क्ष॒त्ऽदा॒भम् । ततु॑रिम् । प॒र्व॒ते॒ऽस्थाम् । अद्रो॑घऽवाचम् । म॒तिऽभिः॑ । शवि॑ष्ठम् ॥तम् । ऊं इति । नः । पूर्वे । पितरः । नवऽग्वाः । सप्त । विप्रासः । अभि । वाजयन्तः ।
नक्षत्ऽदाभम् । ततुरिम् । पर्वतेऽस्थाम् । अद्रोघऽवाचम् । मतिऽभिः । शविष्ठम् ॥tám ǀ ūṃ íti ǀ naḥ ǀ pū́rve ǀ pitáraḥ ǀ náva-gvāḥ ǀ saptá ǀ víprāsaḥ ǀ abhí ǀ vājáyantaḥ ǀ
nakṣat-dābhám ǀ táturim ǀ parvate-sthā́m ǀ ádrogha-vācam ǀ matí-bhiḥ ǀ śáviṣṭham ǁtam ǀ ūṃ iti ǀ naḥ ǀ pūrve ǀ pitaraḥ ǀ nava-gvāḥ ǀ sapta ǀ viprāsaḥ ǀ abhi ǀ vājayantaḥ ǀ
nakṣat-dābham ǀ taturim ǀ parvate-sthām ǀ adrogha-vācam ǀ mati-bhiḥ ǀ śaviṣṭham ǁ6.22.2 Aṣṭaka 4.6.13.2Anuvāka 6.2.118
-
Ṛk 3
तमी॑मह॒ इंद्र॑मस्य रा॒यः पु॑रु॒वीर॑स्य नृ॒वतः॑ पुरु॒क्षोः ।
यो अस्कृ॑धोयुर॒जरः॒ स्व॑र्वां॒तमा भ॑र हरिवो माद॒यध्यै॑ ॥तम् ईमह इन्द्रम् अस्य रायः पुरुवीरस्य नृवतः पुरुक्षोः |
यो अस्कृधोयुर् अजरः स्वर्वान् तम् आ भर हरिवो मादयध्यै ||támīmaha índramasya rāyáḥ puruvī́rasya nṛvátaḥ purukṣóḥ ǀ
yó áskṛdhoyurajáraḥ svárvāntámā́ bhara harivo mādayádhyai ǁtam īmaha indram asya rāyaḥ puruvīrasya nṛvataḥ purukṣoḥ |
yo askṛdhoyur ajaraḥ svarvān tam ā bhara harivo mādayadhyai ||तम् । ई॒म॒हे॒ । इन्द्र॑म् । अ॒स्य॒ । रा॒यः । पु॒रु॒ऽवीर॑स्य । नृ॒ऽवतः॑ । पु॒रु॒ऽक्षोः ।
यः । अस्कृ॑धोयुः । अ॒जरः॑ । स्वः॑ऽवान् । तम् । आ । भ॒र॒ । ह॒रि॒ऽवः॒ । मा॒द॒यध्यै॑ ॥तम् । ईमहे । इन्द्रम् । अस्य । रायः । पुरुऽवीरस्य । नृऽवतः । पुरुऽक्षोः ।
यः । अस्कृधोयुः । अजरः । स्वःऽवान् । तम् । आ । भर । हरिऽवः । मादयध्यै ॥tám ǀ īmahe ǀ índram ǀ asya ǀ rāyáḥ ǀ puru-vī́rasya ǀ nṛ-vátaḥ ǀ puru-kṣóḥ ǀ
yáḥ ǀ áskṛdhoyuḥ ǀ ajáraḥ ǀ sváḥ-vān ǀ tám ǀ ā́ ǀ bhara ǀ hari-vaḥ ǀ mādayádhyai ǁtam ǀ īmahe ǀ indram ǀ asya ǀ rāyaḥ ǀ puru-vīrasya ǀ nṛ-vataḥ ǀ puru-kṣoḥ ǀ
yaḥ ǀ askṛdhoyuḥ ǀ ajaraḥ ǀ svaḥ-vān ǀ tam ǀ ā ǀ bhara ǀ hari-vaḥ ǀ mādayadhyai ǁ6.22.3 Aṣṭaka 4.6.13.3Anuvāka 6.2.119
-
Ṛk 4
तन्नो॒ वि वो॑चो॒ यदि॑ ते पु॒रा चि॑ज्जरि॒तार॑ आन॒शुः सु॒म्नमिं॑द्र ।
कस्ते॑ भा॒गः किं वयो॑ दुध्र खिद्वः॒ पुरु॑हूत पुरूवसोऽसुर॒घ्नः ॥तन् नो वि वोचो यदि ते पुरा चिज् जरितार आनशुः सुम्नम् इन्द्र |
कस् ते भागः किं वयो दुध्र खिद्वः पुरुहूत पुरूवसो ऽसुरघ्नः ||tánno ví voco yádi te purā́ cijjaritā́ra ānaśúḥ sumnámindra ǀ
káste bhāgáḥ kím váyo dudhra khidvaḥ púruhūta purūvaso’suraghnáḥ ǁtan no vi voco yadi te purā cij jaritāra ānaśuḥ sumnam indra |
kas te bhāgaḥ kiṃ vayo dudhra khidvaḥ puruhūta purūvaso 'suraghnaḥ ||तत् । नः॒ । वि । वो॒चः॒ । यदि॑ । ते॒ । पु॒रा । चि॒त् । ज॒रि॒तारः॑ । आ॒न॒शुः । सु॒म्नम् । इ॒न्द्र॒ ।
कः । ते॒ । भा॒गः । किम् । वयः॑ । दु॒ध्र॒ । खि॒द्वः॒ । पुरु॑ऽहूत । पु॒रु॒व॒सो॒ इति॑ पुरुऽवसो । अ॒सु॒र॒ऽघ्नः ॥तत् । नः । वि । वोचः । यदि । ते । पुरा । चित् । जरितारः । आनशुः । सुम्नम् । इन्द्र ।
कः । ते । भागः । किम् । वयः । दुध्र । खिद्वः । पुरुऽहूत । पुरुवसो इति पुरुऽवसो । असुरऽघ्नः ॥tát ǀ naḥ ǀ ví ǀ vocaḥ ǀ yádi ǀ te ǀ purā́ ǀ cit ǀ jaritā́raḥ ǀ ānaśúḥ ǀ sumnám ǀ indra ǀ
káḥ ǀ te ǀ bhāgáḥ ǀ kím ǀ váyaḥ ǀ dudhra ǀ khidvaḥ ǀ púru-hūta ǀ puruvaso íti puru-vaso ǀ asura-ghnáḥ ǁtat ǀ naḥ ǀ vi ǀ vocaḥ ǀ yadi ǀ te ǀ purā ǀ cit ǀ jaritāraḥ ǀ ānaśuḥ ǀ sumnam ǀ indra ǀ
kaḥ ǀ te ǀ bhāgaḥ ǀ kim ǀ vayaḥ ǀ dudhra ǀ khidvaḥ ǀ puru-hūta ǀ puruvaso iti puru-vaso ǀ asura-ghnaḥ ǁ6.22.4 Aṣṭaka 4.6.13.4Anuvāka 6.2.120
-
Ṛk 5
तं पृ॒च्छंती॒ वज्र॑हस्तं रथे॒ष्ठामिंद्रं॒ वेपी॒ वक्व॑री॒ यस्य॒ नू गीः ।
तु॒वि॒ग्रा॒भं तु॑विकू॒र्मिं र॑भो॒दां गा॒तुमि॑षे॒ नक्ष॑ते॒ तुम्र॒मच्छ॑ ॥तम् पृच्छन्ती वज्रहस्तं रथेष्ठाम् इन्द्रं वेपी वक्वरी यस्य नू गीः |
तुविग्राभं तुविकूर्मिं रभोदां गातुम् इषे नक्षते तुम्रम् अच्छ ||tám pṛcchántī vájrahastam ratheṣṭhā́míndram vépī vákvarī yásya nū́ gī́ḥ ǀ
tuvigrābhám tuvikūrmím rabhodā́m gātúmiṣe nákṣate túmramáccha ǁtam pṛcchantī vajrahastaṃ ratheṣṭhām indraṃ vepī vakvarī yasya nū gīḥ |
tuvigrābhaṃ tuvikūrmiṃ rabhodāṃ gātum iṣe nakṣate tumram accha ||तम् । पृ॒च्छन्ती॑ । वज्र॑ऽहस्तम् । र॒थे॒ऽस्थाम् । इन्द्र॑म् । वेपी॑ । वक्व॑री । यस्य॑ । नु । गीः ।
तु॒वि॒ऽग्रा॒भम् । तु॒वि॒ऽकू॒र्मिम् । र॒भः॒ऽदाम् । गा॒तुम् । इ॒षे॒ । नक्ष॑ते । तुम्र॑म् । अच्छ॑ ॥तम् । पृच्छन्ती । वज्रऽहस्तम् । रथेऽस्थाम् । इन्द्रम् । वेपी । वक्वरी । यस्य । नु । गीः ।
तुविऽग्राभम् । तुविऽकूर्मिम् । रभःऽदाम् । गातुम् । इषे । नक्षते । तुम्रम् । अच्छ ॥tám ǀ pṛcchántī ǀ vájra-hastam ǀ rathe-sthā́m ǀ índram ǀ vépī ǀ vákvarī ǀ yásya ǀ nú ǀ gī́ḥ ǀ
tuvi-grābhám ǀ tuvi-kūrmím ǀ rabhaḥ-dā́m ǀ gātúm ǀ iṣe ǀ nákṣate ǀ túmram ǀ áccha ǁtam ǀ pṛcchantī ǀ vajra-hastam ǀ rathe-sthām ǀ indram ǀ vepī ǀ vakvarī ǀ yasya ǀ nu ǀ gīḥ ǀ
tuvi-grābham ǀ tuvi-kūrmim ǀ rabhaḥ-dām ǀ gātum ǀ iṣe ǀ nakṣate ǀ tumram ǀ accha ǁ6.22.5 Aṣṭaka 4.6.13.5Anuvāka 6.2.121
-
Ṛk 6
अ॒या ह॒ त्यं मा॒यया॑ वावृधा॒नं म॑नो॒जुवा॑ स्वतवः॒ पर्व॑तेन ।
अच्यु॑ता चिद्वीळि॒ता स्वो॑जो रु॒जो वि दृ॒ळ्हा धृ॑ष॒ता वि॑रप्शिन् ॥अया ह त्यम् मायया वावृधानम् मनोजुवा स्वतवः पर्वतेन |
अच्युता चिद् वीऌइता स्वोजो रुजो वि दृऌहा धृषता विरप्शिन् ||ayā́ ha tyám māyáyā vāvṛdhānám manojúvā svatavaḥ párvatena ǀ
ácyutā cidvīḷitā́ svojo rujó ví dṛḷhā́ dhṛṣatā́ virapśin ǁayā ha tyam māyayā vāvṛdhānam manojuvā svatavaḥ parvatena |
acyutā cid vīḷitā svojo rujo vi dṛḷhā dhṛṣatā virapśin ||अ॒या । ह॒ । त्यम् । मा॒यया॑ । व॒वृ॒धा॒नम् । म॒नः॒ऽजुवा॑ । स्व॒ऽत॒वः॒ । पर्व॑तेन ।
अच्यु॑ता । चि॒त् । वी॒ळि॒ता । सु॒ऽओ॒जः॒ । रु॒जः । वि । दृ॒ळ्हा । धृ॒ष॒ता । वि॒ऽर॒प्शि॒न् ॥अया । ह । त्यम् । मायया । ववृधानम् । मनःऽजुवा । स्वऽतवः । पर्वतेन ।
अच्युता । चित् । वीळिता । सुऽओजः । रुजः । वि । दृळ्हा । धृषता । विऽरप्शिन् ॥ayā́ ǀ ha ǀ tyám ǀ māyáyā ǀ vavṛdhānám ǀ manaḥ-júvā ǀ sva-tavaḥ ǀ párvatena ǀ
ácyutā ǀ cit ǀ vīḷitā́ ǀ su-ojaḥ ǀ rujáḥ ǀ ví ǀ dṛḷhā́ ǀ dhṛṣatā́ ǀ vi-rapśin ǁayā ǀ ha ǀ tyam ǀ māyayā ǀ vavṛdhānam ǀ manaḥ-juvā ǀ sva-tavaḥ ǀ parvatena ǀ
acyutā ǀ cit ǀ vīḷitā ǀ su-ojaḥ ǀ rujaḥ ǀ vi ǀ dṛḷhā ǀ dhṛṣatā ǀ vi-rapśin ǁ6.22.6 Aṣṭaka 4.6.14.1Anuvāka 6.2.122
-
Ṛk 7
तं वो॑ धि॒या नव्य॑स्या॒ शवि॑ष्ठं प्र॒त्नं प्र॑त्न॒वत्प॑रितंस॒यध्यै॑ ।
स नो॑ वक्षदनिमा॒नः सु॒वह्मेंद्रो॒ विश्वा॒न्यति॑ दु॒र्गहा॑णि ॥तं वो धिया नव्यस्या शविष्ठम् प्रत्नम् प्रत्नवत् परितंसयध्यै |
स नो वक्षद् अनिमानः सुवह्मेन्द्रो विश्वान्य् अति दुर्गहाणि ||tám vo dhiyā́ návyasyā śáviṣṭham pratnám pratnavátparitaṃsayádhyai ǀ
sá no vakṣadanimānáḥ suváhméndro víśvānyáti durgáhāṇi ǁtaṃ vo dhiyā navyasyā śaviṣṭham pratnam pratnavat paritaṃsayadhyai |
sa no vakṣad animānaḥ suvahmendro viśvāny ati durgahāṇi ||तम् । वः॒ । धि॒या । नव्य॑स्या । शवि॑ष्ठम् । प्र॒त्नम् । प्र॒त्न॒ऽवत् । प॒रि॒ऽतं॒स॒यध्यै॑ ।
सः । नः॒ । व॒क्ष॒त् । अ॒नि॒ऽमा॒नः । सु॒ऽवह्ना॑ । इन्द्रः॑ । विश्वा॑नि । अति॑ । दुः॒ऽगहा॑नि ॥तम् । वः । धिया । नव्यस्या । शविष्ठम् । प्रत्नम् । प्रत्नऽवत् । परिऽतंसयध्यै ।
सः । नः । वक्षत् । अनिऽमानः । सुऽवह्ना । इन्द्रः । विश्वानि । अति । दुःऽगहानि ॥tám ǀ vaḥ ǀ dhiyā́ ǀ návyasyā ǀ śáviṣṭham ǀ pratnám ǀ pratna-vát ǀ pari-taṃsayádhyai ǀ
sáḥ ǀ naḥ ǀ vakṣat ǀ ani-mānáḥ ǀ su-váhnā ǀ índraḥ ǀ víśvāni ǀ áti ǀ duḥ-gáhāni ǁtam ǀ vaḥ ǀ dhiyā ǀ navyasyā ǀ śaviṣṭham ǀ pratnam ǀ pratna-vat ǀ pari-taṃsayadhyai ǀ
saḥ ǀ naḥ ǀ vakṣat ǀ ani-mānaḥ ǀ su-vahnā ǀ indraḥ ǀ viśvāni ǀ ati ǀ duḥ-gahāni ǁ6.22.7 Aṣṭaka 4.6.14.2Anuvāka 6.2.123
-
Ṛk 8
आ जना॑य॒ द्रुह्व॑णे॒ पार्थि॑वानि दि॒व्यानि॑ दीपयो॒ऽंतरि॑क्षा ।
तपा॑ वृषन्वि॒श्वतः॑ शो॒चिषा॒ तान्ब्र॑ह्म॒द्विषे॑ शोचय॒ क्षाम॒पश्च॑ ॥आ जनाय द्रुह्वणे पार्थिवानि दिव्यानि दीपयो ऽन्तरिक्षा |
तपा वृषन् विश्वतः शोचिषा तान् ब्रह्मद्विषे शोचय क्षाम् अपश् च ||ā́ jánāya drúhvaṇe pā́rthivāni divyā́ni dīpayo’ntárikṣā ǀ
tápā vṛṣanviśvátaḥ śocíṣā tā́nbrahmadvíṣe śocaya kṣā́mapáśca ǁā janāya druhvaṇe pārthivāni divyāni dīpayo 'ntarikṣā |
tapā vṛṣan viśvataḥ śociṣā tān brahmadviṣe śocaya kṣām apaś ca ||आ । जना॑य । द्रुह्व॑णे । पार्थि॑वानि । दि॒व्यानि॑ । दी॒प॒यः॒ । अ॒न्तरि॑क्षा ।
तप॑ । वृ॒ष॒न् । वि॒श्वतः॑ । शो॒चिषा॑ । तान् । ब्र॒ह्म॒ऽद्विषे॑ । शो॒च॒य॒ । क्षाम् । अ॒पः । च॒ ॥आ । जनाय । द्रुह्वणे । पार्थिवानि । दिव्यानि । दीपयः । अन्तरिक्षा ।
तप । वृषन् । विश्वतः । शोचिषा । तान् । ब्रह्मऽद्विषे । शोचय । क्षाम् । अपः । च ॥ā́ ǀ jánāya ǀ drúhvaṇe ǀ pā́rthivāni ǀ divyā́ni ǀ dīpayaḥ ǀ antárikṣā ǀ
tápa ǀ vṛṣan ǀ viśvátaḥ ǀ śocíṣā ǀ tā́n ǀ brahma-dvíṣe ǀ śocaya ǀ kṣā́m ǀ apáḥ ǀ ca ǁā ǀ janāya ǀ druhvaṇe ǀ pārthivāni ǀ divyāni ǀ dīpayaḥ ǀ antarikṣā ǀ
tapa ǀ vṛṣan ǀ viśvataḥ ǀ śociṣā ǀ tān ǀ brahma-dviṣe ǀ śocaya ǀ kṣām ǀ apaḥ ǀ ca ǁ6.22.8 Aṣṭaka 4.6.14.3Anuvāka 6.2.124
-
Ṛk 9
भुवो॒ जन॑स्य दि॒व्यस्य॒ राजा॒ पार्थि॑वस्य॒ जग॑तस्त्वेषसंदृक् ।
धि॒ष्व वज्रं॒ दक्षि॑ण इंद्र॒ हस्ते॒ विश्वा॑ अजुर्य दयसे॒ वि मा॒याः ॥भुवो जनस्य दिव्यस्य राजा पार्थिवस्य जगतस् त्वेषसंदृक् |
धिष्व वज्रं दक्षिण इन्द्र हस्ते विश्वा अजुर्य दयसे वि मायाः ||bhúvo jánasya divyásya rā́jā pā́rthivasya jágatastveṣasaṃdṛk ǀ
dhiṣvá vájram dákṣiṇa indra háste víśvā ajurya dayase ví māyā́ḥ ǁbhuvo janasya divyasya rājā pārthivasya jagatas tveṣasaṃdṛk |
dhiṣva vajraṃ dakṣiṇa indra haste viśvā ajurya dayase vi māyāḥ ||भुवः॑ । जन॑स्य । दि॒व्यस्य॑ । राजा॑ । पार्थि॑वस्य । जग॑तः । त्वे॒ष॒ऽस॒न्दृ॒क् ।
धि॒ष्व । वज्र॑म् । दक्षि॑णे । इ॒न्द्र॒ । हस्ते॑ । विश्वा॑ । अ॒जु॒र्य॒ । द॒य॒से॒ । वि । मा॒याः ॥भुवः । जनस्य । दिव्यस्य । राजा । पार्थिवस्य । जगतः । त्वेषऽसन्दृक् ।
धिष्व । वज्रम् । दक्षिणे । इन्द्र । हस्ते । विश्वा । अजुर्य । दयसे । वि । मायाः ॥bhúvaḥ ǀ jánasya ǀ divyásya ǀ rā́jā ǀ pā́rthivasya ǀ jágataḥ ǀ tveṣa-sandṛk ǀ
dhiṣvá ǀ vájram ǀ dákṣiṇe ǀ indra ǀ háste ǀ víśvā ǀ ajurya ǀ dayase ǀ ví ǀ māyā́ḥ ǁbhuvaḥ ǀ janasya ǀ divyasya ǀ rājā ǀ pārthivasya ǀ jagataḥ ǀ tveṣa-sandṛk ǀ
dhiṣva ǀ vajram ǀ dakṣiṇe ǀ indra ǀ haste ǀ viśvā ǀ ajurya ǀ dayase ǀ vi ǀ māyāḥ ǁ6.22.9 Aṣṭaka 4.6.14.4Anuvāka 6.2.125
-
Ṛk 10
आ सं॒यत॑मिंद्र णः स्व॒स्तिं श॑त्रु॒तूर्या॑य बृह॒तीममृ॑ध्रां ।
यया॒ दासा॒न्यार्या॑णि वृ॒त्रा करो॑ वज्रिन्त्सु॒तुका॒ नाहु॑षाणि ॥आ संयतम् इन्द्र णः स्वस्तिं शत्रुतूर्याय बृहतीम् अमृध्राम् |
यया दासान्य् आर्याणि वृत्रा करो वज्रिन् सुतुका नाहुषाणि ||ā́ saṃyátamindra ṇaḥ svastím śatrutū́ryāya bṛhatī́mámṛdhrām ǀ
yáyā dā́sānyā́ryāṇi vṛtrā́ káro vajrintsutúkā nā́huṣāṇi ǁā saṃyatam indra ṇaḥ svastiṃ śatrutūryāya bṛhatīm amṛdhrām |
yayā dāsāny āryāṇi vṛtrā karo vajrin sutukā nāhuṣāṇi ||आ । स॒म्ऽयत॑म् । इ॒न्द्र॒ । नः॒ । स्व॒स्तिम् । श॒त्रु॒ऽतूर्या॑य । बृ॒ह॒तीम् । अमृ॑ध्राम् ।
यया॑ । दासा॑नि । आर्या॑णि । वृ॒त्रा । करः॑ । व॒ज्रि॒न् । सु॒ऽतुका॑ । नाहु॑षाणि ॥आ । सम्ऽयतम् । इन्द्र । नः । स्वस्तिम् । शत्रुऽतूर्याय । बृहतीम् । अमृध्राम् ।
यया । दासानि । आर्याणि । वृत्रा । करः । वज्रिन् । सुऽतुका । नाहुषाणि ॥ā́ ǀ sam-yátam ǀ indra ǀ naḥ ǀ svastím ǀ śatru-tū́ryāya ǀ bṛhatī́m ǀ ámṛdhrām ǀ
yáyā ǀ dā́sāni ǀ ā́ryāṇi ǀ vṛtrā́ ǀ káraḥ ǀ vajrin ǀ su-túkā ǀ nā́huṣāṇi ǁā ǀ sam-yatam ǀ indra ǀ naḥ ǀ svastim ǀ śatru-tūryāya ǀ bṛhatīm ǀ amṛdhrām ǀ
yayā ǀ dāsāni ǀ āryāṇi ǀ vṛtrā ǀ karaḥ ǀ vajrin ǀ su-tukā ǀ nāhuṣāṇi ǁ6.22.10 Aṣṭaka 4.6.14.5Anuvāka 6.2.126
-
Ṛk 11
स नो॑ नि॒युद्भिः॑ पुरुहूत वेधो वि॒श्ववा॑राभि॒रा ग॑हि प्रयज्यो ।
न या अदे॑वो॒ वर॑ते॒ न दे॒व आभि॑र्याहि॒ तूय॒मा म॑द्र्य॒द्रिक् ॥स नो नियुद्भिः पुरुहूत वेधो विश्ववाराभिर् आ गहि प्रयज्यो |
न या अदेवो वरते न देव आभिर् याहि तूयम् आ मद्र्यद्रिक् ||sá no niyúdbhiḥ puruhūta vedho viśvávārābhirā́ gahi prayajyo ǀ
ná yā́ ádevo várate ná devá ā́bhiryāhi tū́yamā́ madryadrík ǁsa no niyudbhiḥ puruhūta vedho viśvavārābhir ā gahi prayajyo |
na yā adevo varate na deva ābhir yāhi tūyam ā madryadrik ||सः । नः॒ । नि॒युत्ऽभिः॑ । पु॒रु॒ऽहू॒त॒ । वे॒धः॒ । वि॒श्वऽवा॑राभिः । आ । ग॒हि॒ । प्र॒य॒ज्यो॒ इति॑ प्रऽयज्यो ।
न । याः । अदे॑वः । वर॑ते । न । दे॒वः । आ । आ॒भिः॒ । या॒हि॒ । तूय॑म् । आ । म॒द्र्य॒द्रिक् ॥सः । नः । नियुत्ऽभिः । पुरुऽहूत । वेधः । विश्वऽवाराभिः । आ । गहि । प्रयज्यो इति प्रऽयज्यो ।
न । याः । अदेवः । वरते । न । देवः । आ । आभिः । याहि । तूयम् । आ । मद्र्यद्रिक् ॥sáḥ ǀ naḥ ǀ niyút-bhiḥ ǀ puru-hūta ǀ vedhaḥ ǀ viśvá-vārābhiḥ ǀ ā́ ǀ gahi ǀ prayajyo íti pra-yajyo ǀ
ná ǀ yā́ḥ ǀ ádevaḥ ǀ várate ǀ ná ǀ deváḥ ǀ ā́ ǀ ābhiḥ ǀ yāhi ǀ tū́yam ǀ ā́ ǀ madryadrík ǁsaḥ ǀ naḥ ǀ niyut-bhiḥ ǀ puru-hūta ǀ vedhaḥ ǀ viśva-vārābhiḥ ǀ ā ǀ gahi ǀ prayajyo iti pra-yajyo ǀ
na ǀ yāḥ ǀ adevaḥ ǀ varate ǀ na ǀ devaḥ ǀ ā ǀ ābhiḥ ǀ yāhi ǀ tūyam ǀ ā ǀ madryadrik ǁ6.22.11 Aṣṭaka 4.6.14.6Anuvāka 6.2.127
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.