Ṛk 6.22.1
Saṃhitā
य एक॒ इद्धव्य॑श्चर्षणी॒नामिंद्रं॒ तं गी॒र्भिर॒भ्य॑र्च आ॒भिः ।
यः पत्य॑ते वृष॒भो वृष्ण्या॑वान्त्स॒त्यः सत्वा॑ पुरुमा॒यः सह॑स्वान् ॥
य एक इद् धव्यश् चर्षणीनाम् इन्द्रं तं गीर्भिर् अभ्य् अर्च आभिः |
यः पत्यते वृषभो वृष्ण्यावान् सत्यः सत्वा पुरुमायः सहस्वान् ||
yá éka íddhávyaścarṣaṇīnā́míndram tám gīrbhírabhyárca ābhíḥ ǀ
yáḥ pátyate vṛṣabhó vṛ́ṣṇyāvāntsatyáḥ sátvā purumāyáḥ sáhasvān ǁ
ya eka id dhavyaś carṣaṇīnām indraṃ taṃ gīrbhir abhy arca ābhiḥ |
yaḥ patyate vṛṣabho vṛṣṇyāvān satyaḥ satvā purumāyaḥ sahasvān ||
Padapāṭha
यः । एकः॑ । इत् । हव्यः॑ । च॒र्ष॒णी॒नाम् । इन्द्र॑म् । तम् । गीः॒ऽभिः । अ॒भि । अ॒र्चे॒ । आ॒भिः ।
यः । पत्य॑ते । वृ॒ष॒भः । वृष्ण्य॑ऽवान् । स॒त्यः । सत्वा॑ । पु॒रु॒ऽमा॒यः । सह॑स्वान् ॥
यः । एकः । इत् । हव्यः । चर्षणीनाम् । इन्द्रम् । तम् । गीःऽभिः । अभि । अर्चे । आभिः ।
यः । पत्यते । वृषभः । वृष्ण्यऽवान् । सत्यः । सत्वा । पुरुऽमायः । सहस्वान् ॥
yáḥ ǀ ékaḥ ǀ ít ǀ hávyaḥ ǀ carṣaṇīnā́m ǀ índram ǀ tám ǀ gīḥ-bhíḥ ǀ abhí ǀ arce ǀ ābhíḥ ǀ
yáḥ ǀ pátyate ǀ vṛṣabháḥ ǀ vṛ́ṣṇya-vān ǀ satyáḥ ǀ sátvā ǀ puru-māyáḥ ǀ sáhasvān ǁ
yaḥ ǀ ekaḥ ǀ it ǀ havyaḥ ǀ carṣaṇīnām ǀ indram ǀ tam ǀ gīḥ-bhiḥ ǀ abhi ǀ arce ǀ ābhiḥ ǀ
yaḥ ǀ patyate ǀ vṛṣabhaḥ ǀ vṛṣṇya-vān ǀ satyaḥ ǀ satvā ǀ puru-māyaḥ ǀ sahasvān ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.022.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.6.13.01
- Maṇḍala · Anuvāka · Ṛk
- 06.02.117
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.