Ṛgveda · Maṇḍala 6

Sūkta 19

Indra · Bharadvāja Bārhaspatya · 13 ṛks

Link
Devatā देवता
Indra
Ṛṣi ऋषि
Bharadvāja Bārhaspatya
Chandas छन्दस्
Triṣṭubh
Metres by ṛk

1st set of styles nicṛttriṣṭup (2, 4, 6, 7); virāṭtrisṭup (5, 10-12); bhurikpaṅkti (1, 3, 13); triṣṭup (8); paṅktiḥ (9)

2nd set of styles triṣṭubh

  1. Ṛk 1

    म॒हाँ इंद्रो॑ नृ॒वदा च॑र्षणि॒प्रा उ॒त द्वि॒बर्हा॑ अमि॒नः सहो॑भिः ।
    अ॒स्म॒द्र्य॑ग्वावृधे वी॒र्या॑यो॒रुः पृ॒थुः सुकृ॑तः क॒र्तृभि॑र्भूत् ॥

    महां इन्द्रो नृवद् आ चर्षणिप्रा उत द्विबर्हा अमिनः सहोभिः |
    अस्मद्र्यग् वावृधे वीर्यायोरुः पृथुः सुकृतः कर्तृभिर् भूत् ||

    mahā́m̐ índro nṛvádā́ carṣaṇiprā́ utá dvibárhā amináḥ sáhobhiḥ ǀ
    asmadryágvāvṛdhe vīryā́yorúḥ pṛthúḥ súkṛtaḥ kartṛ́bhirbhūt ǁ

    mahāṃ indro nṛvad ā carṣaṇiprā uta dvibarhā aminaḥ sahobhiḥ |
    asmadryag vāvṛdhe vīryāyoruḥ pṛthuḥ sukṛtaḥ kartṛbhir bhūt ||

    म॒हान् । इन्द्रः॑ । नृ॒ऽवत् । आ । च॒र्ष॒णि॒ऽप्राः । उ॒त । द्वि॒ऽबर्हाः॑ । अ॒मि॒नः । सहः॑ऽभिः ।
    अ॒स्म॒द्र्य॑क् । व॒वृ॒धे॒ । वी॒र्या॑य । उ॒रुः । पृ॒थुः । सुऽकृ॑तः । क॒र्तृऽभिः॑ । भू॒त् ॥

    महान् । इन्द्रः । नृऽवत् । आ । चर्षणिऽप्राः । उत । द्विऽबर्हाः । अमिनः । सहःऽभिः ।
    अस्मद्र्यक् । ववृधे । वीर्याय । उरुः । पृथुः । सुऽकृतः । कर्तृऽभिः । भूत् ॥

    mahā́n ǀ índraḥ ǀ nṛ-vát ǀ ā́ ǀ carṣaṇi-prā́ḥ ǀ utá ǀ dvi-bárhāḥ ǀ amináḥ ǀ sáhaḥ-bhiḥ ǀ
    asmadryák ǀ vavṛdhe ǀ vīryā́ya ǀ urúḥ ǀ pṛthúḥ ǀ sú-kṛtaḥ ǀ kartṛ́-bhiḥ ǀ bhūt ǁ

    mahān ǀ indraḥ ǀ nṛ-vat ǀ ā ǀ carṣaṇi-prāḥ ǀ uta ǀ dvi-barhāḥ ǀ aminaḥ ǀ sahaḥ-bhiḥ ǀ
    asmadryak ǀ vavṛdhe ǀ vīryāya ǀ uruḥ ǀ pṛthuḥ ǀ su-kṛtaḥ ǀ kartṛ-bhiḥ ǀ bhūt ǁ

    6.19.1 Aṣṭaka 4.6.7.1Anuvāka 6.2.79

  2. Ṛk 2

    इंद्र॑मे॒व धि॒षणा॑ सा॒तये॑ धाद्बृ॒हंत॑मृ॒ष्वम॒जरं॒ युवा॑नं ।
    अषा॑ळ्हेन॒ शव॑सा शूशु॒वांसं॑ स॒द्यश्चि॒द्यो वा॑वृ॒धे असा॑मि ॥

    इन्द्रम् एव धिषणा सातये धाद् बृहन्तम् ऋष्वम् अजरं युवानम् |
    अषाऌहेन शवसा शूशुवांसं सद्यश् चिद् यो वावृधे असामि ||

    índramevá dhiṣáṇā sātáye dhādbṛhántamṛṣvámajáram yúvānam ǀ
    áṣāḷhena śávasā śūśuvā́ṃsam sadyáścidyó vāvṛdhé asāmi ǁ

    indram eva dhiṣaṇā sātaye dhād bṛhantam ṛṣvam ajaraṃ yuvānam |
    aṣāḷhena śavasā śūśuvāṃsaṃ sadyaś cid yo vāvṛdhe asāmi ||

    इन्द्र॑म् । ए॒व । धि॒षणा॑ । सा॒तये॑ । धा॒त् । बृ॒हन्त॑म् । ऋ॒ष्वम् । अ॒जर॑म् । युवा॑नम् ।
    अषा॑ळ्हेन । शव॑सा । शू॒शु॒ऽवांस॑म् । स॒द्यः । चि॒त् । यः । व॒वृ॒धे । असा॑मि ॥

    इन्द्रम् । एव । धिषणा । सातये । धात् । बृहन्तम् । ऋष्वम् । अजरम् । युवानम् ।
    अषाळ्हेन । शवसा । शूशुऽवांसम् । सद्यः । चित् । यः । ववृधे । असामि ॥

    índram ǀ evá ǀ dhiṣáṇā ǀ sātáye ǀ dhāt ǀ bṛhántam ǀ ṛṣvám ǀ ajáram ǀ yúvānam ǀ
    áṣāḷhena ǀ śávasā ǀ śūśu-vā́ṃsam ǀ sadyáḥ ǀ cit ǀ yáḥ ǀ vavṛdhé ǀ ásāmi ǁ

    indram ǀ eva ǀ dhiṣaṇā ǀ sātaye ǀ dhāt ǀ bṛhantam ǀ ṛṣvam ǀ ajaram ǀ yuvānam ǀ
    aṣāḷhena ǀ śavasā ǀ śūśu-vāṃsam ǀ sadyaḥ ǀ cit ǀ yaḥ ǀ vavṛdhe ǀ asāmi ǁ

    6.19.2 Aṣṭaka 4.6.7.2Anuvāka 6.2.80

  3. Ṛk 3

    पृ॒थू क॒रस्ना॑ बहु॒ला गभ॑स्ती अस्म॒द्र्य१॒॑क्सं मि॑मीहि॒ श्रवां॑सि ।
    यू॒थेव॑ प॒श्वः प॑शु॒पा दमू॑ना अ॒स्माँ इं॑द्रा॒भ्या व॑वृत्स्वा॒जौ ॥

    पृथू करस्ना बहुला गभस्ती अस्मद्र्यक् सम् मिमीहि श्रवांसि |
    यूथेव पश्वः पशुपा दमूना अस्मां इन्द्राभ्य् आ ववृत्स्वाजौ ||

    pṛthū́ karásnā bahulā́ gábhastī asmadryáksám mimīhi śrávāṃsi ǀ
    yūthéva paśváḥ paśupā́ dámūnā asmā́m̐ indrābhyā́ vavṛtsvājáu ǁ

    pṛthū karasnā bahulā gabhastī asmadryak sam mimīhi śravāṃsi |
    yūtheva paśvaḥ paśupā damūnā asmāṃ indrābhy ā vavṛtsvājau ||

    पृ॒थू इति॑ । क॒रस्ना॑ । ब॒हु॒ला । गभ॑स्ती॒ इति॑ । अ॒स्म॒द्र्य॑क् । सम् । मि॒मी॒हि॒ । श्रवां॑सि ।
    यू॒थाऽइ॑व । प॒श्वः । प॒शु॒ऽपाः । दमू॑नाः । अ॒स्मान् । इ॒न्द्र॒ । अ॒भि । आ । व॒वृ॒त्स्व॒ । आ॒जौ ॥

    पृथू इति । करस्ना । बहुला । गभस्ती इति । अस्मद्र्यक् । सम् । मिमीहि । श्रवांसि ।
    यूथाऽइव । पश्वः । पशुऽपाः । दमूनाः । अस्मान् । इन्द्र । अभि । आ । ववृत्स्व । आजौ ॥

    pṛthū́ íti ǀ karásnā ǀ bahulā́ ǀ gábhastī íti ǀ asmadryák ǀ sám ǀ mimīhi ǀ śrávāṃsi ǀ
    yūthā́-iva ǀ paśváḥ ǀ paśu-pā́ḥ ǀ dámūnāḥ ǀ asmā́n ǀ indra ǀ abhí ǀ ā́ ǀ vavṛtsva ǀ ājáu ǁ

    pṛthū iti ǀ karasnā ǀ bahulā ǀ gabhastī iti ǀ asmadryak ǀ sam ǀ mimīhi ǀ śravāṃsi ǀ
    yūthā-iva ǀ paśvaḥ ǀ paśu-pāḥ ǀ damūnāḥ ǀ asmān ǀ indra ǀ abhi ǀ ā ǀ vavṛtsva ǀ ājau ǁ

    6.19.3 Aṣṭaka 4.6.7.3Anuvāka 6.2.81

  4. Ṛk 4

    तं व॒ इंद्रं॑ च॒तिन॑मस्य शा॒कैरि॒ह नू॒नं वा॑ज॒यंतो॑ हुवेम ।
    यथा॑ चि॒त्पूर्वे॑ जरि॒तार॑ आ॒सुरने॑द्या अनव॒द्या अरि॑ष्टाः ॥

    तं व इन्द्रं चतिनम् अस्य शाकैर् इह नूनं वाजयन्तो हुवेम |
    यथा चित् पूर्वे जरितार आसुर् अनेद्या अनवद्या अरिष्टाः ||

    tám va índram catínamasya śākáirihá nūnám vājayánto huvema ǀ
    yáthā citpū́rve jaritā́ra āsúránedyā anavadyā́ áriṣṭāḥ ǁ

    taṃ va indraṃ catinam asya śākair iha nūnaṃ vājayanto huvema |
    yathā cit pūrve jaritāra āsur anedyā anavadyā ariṣṭāḥ ||

    तम् । वः॒ । इन्द्र॑म् । च॒तिन॑म् । अ॒स्य॒ । शा॒कैः । इ॒ह । नू॒नम् । वा॒ज॒ऽयन्तः॑ । हु॒वे॒म॒ ।
    यथा॑ । चि॒त् । पूर्वे॑ । ज॒रि॒तारः॑ । आ॒सुः । अने॑द्याः । अ॒न॒व॒द्याः । अरि॑ष्टाः ॥

    तम् । वः । इन्द्रम् । चतिनम् । अस्य । शाकैः । इह । नूनम् । वाजऽयन्तः । हुवेम ।
    यथा । चित् । पूर्वे । जरितारः । आसुः । अनेद्याः । अनवद्याः । अरिष्टाः ॥

    tám ǀ vaḥ ǀ índram ǀ catínam ǀ asya ǀ śākáiḥ ǀ ihá ǀ nūnám ǀ vāja-yántaḥ ǀ huvema ǀ
    yáthā ǀ cit ǀ pū́rve ǀ jaritā́raḥ ǀ āsúḥ ǀ ánedyāḥ ǀ anavadyā́ḥ ǀ áriṣṭāḥ ǁ

    tam ǀ vaḥ ǀ indram ǀ catinam ǀ asya ǀ śākaiḥ ǀ iha ǀ nūnam ǀ vāja-yantaḥ ǀ huvema ǀ
    yathā ǀ cit ǀ pūrve ǀ jaritāraḥ ǀ āsuḥ ǀ anedyāḥ ǀ anavadyāḥ ǀ ariṣṭāḥ ǁ

    6.19.4 Aṣṭaka 4.6.7.4Anuvāka 6.2.82

  5. Ṛk 5

    धृ॒तव्र॑तो धन॒दाः सोम॑वृद्धः॒ स हि वा॒मस्य॒ वसु॑नः पुरु॒क्षुः ।
    सं ज॑ग्मिरे प॒थ्या॒३॒॑ रायो॑ अस्मिन्त्समु॒द्रे न सिंध॑वो॒ याद॑मानाः ॥

    धृतव्रतो धनदाः सोमवृद्धः स हि वामस्य वसुनः पुरुक्षुः |
    सं जग्मिरे पथ्या रायो अस्मिन् समुद्रे न सिन्धवो यादमानाः ||

    dhṛtávrato dhanadā́ḥ sómavṛddhaḥ sá hí vāmásya vásunaḥ purukṣúḥ ǀ
    sám jagmire pathyā́ rā́yo asmintsamudré ná síndhavo yā́damānāḥ ǁ

    dhṛtavrato dhanadāḥ somavṛddhaḥ sa hi vāmasya vasunaḥ purukṣuḥ |
    saṃ jagmire pathyā rāyo asmin samudre na sindhavo yādamānāḥ ||

    धृ॒तऽव्र॑तः । ध॒न॒ऽदाः । सोम॑ऽवृद्धः । सः । हि । वा॒मस्य॑ । वसु॑नः । पु॒रु॒ऽक्षुः ।
    सम् । ज॒ग्मि॒रे॒ । प॒थ्याः॑ । रायः॑ । अ॒स्मि॒न् । स॒मु॒द्रे । न । सिन्ध॑वः । याद॑मानाः ॥

    धृतऽव्रतः । धनऽदाः । सोमऽवृद्धः । सः । हि । वामस्य । वसुनः । पुरुऽक्षुः ।
    सम् । जग्मिरे । पथ्याः । रायः । अस्मिन् । समुद्रे । न । सिन्धवः । यादमानाः ॥

    dhṛtá-vrataḥ ǀ dhana-dā́ḥ ǀ sóma-vṛddhaḥ ǀ sáḥ ǀ hí ǀ vāmásya ǀ vásunaḥ ǀ puru-kṣúḥ ǀ
    sám ǀ jagmire ǀ pathyā́ḥ ǀ rā́yaḥ ǀ asmin ǀ samudré ǀ ná ǀ síndhavaḥ ǀ yā́damānāḥ ǁ

    dhṛta-vrataḥ ǀ dhana-dāḥ ǀ soma-vṛddhaḥ ǀ saḥ ǀ hi ǀ vāmasya ǀ vasunaḥ ǀ puru-kṣuḥ ǀ
    sam ǀ jagmire ǀ pathyāḥ ǀ rāyaḥ ǀ asmin ǀ samudre ǀ na ǀ sindhavaḥ ǀ yādamānāḥ ǁ

    6.19.5 Aṣṭaka 4.6.7.5Anuvāka 6.2.83

  6. Ṛk 6

    शवि॑ष्ठं न॒ आ भ॑र शूर॒ शव॒ ओजि॑ष्ठ॒मोजो॑ अभिभूत उ॒ग्रं ।
    विश्वा॑ द्यु॒म्ना वृष्ण्या॒ मानु॑षाणाम॒स्मभ्यं॑ दा हरिवो माद॒यध्यै॑ ॥

    शविष्ठं न आ भर शूर शव ओजिष्ठम् ओजो अभिभूत उग्रम् |
    विश्वा द्युम्ना वृष्ण्या मानुषाणाम् अस्मभ्यं दा हरिवो मादयध्यै ||

    śáviṣṭham na ā́ bhara śūra śáva ójiṣṭhamójo abhibhūta ugrám ǀ
    víśvā dyumnā́ vṛ́ṣṇyā mā́nuṣāṇāmasmábhyam dā harivo mādayádhyai ǁ

    śaviṣṭhaṃ na ā bhara śūra śava ojiṣṭham ojo abhibhūta ugram |
    viśvā dyumnā vṛṣṇyā mānuṣāṇām asmabhyaṃ dā harivo mādayadhyai ||

    शवि॑ष्ठम् । नः॒ । आ । भ॒र॒ । शू॒र॒ । शवः॑ । ओजि॑ष्ठम् । ओजः॑ । अ॒भि॒ऽभू॒ते॒ । उ॒ग्रम् ।
    विश्वा॑ । द्यु॒म्ना । वृष्ण्या॑ । मानु॑षाणाम् । अ॒स्मभ्य॑म् । दाः॒ । ह॒रि॒ऽवः॒ । मा॒द॒यध्यै॑ ॥

    शविष्ठम् । नः । आ । भर । शूर । शवः । ओजिष्ठम् । ओजः । अभिऽभूते । उग्रम् ।
    विश्वा । द्युम्ना । वृष्ण्या । मानुषाणाम् । अस्मभ्यम् । दाः । हरिऽवः । मादयध्यै ॥

    śáviṣṭham ǀ naḥ ǀ ā́ ǀ bhara ǀ śūra ǀ śávaḥ ǀ ójiṣṭham ǀ ójaḥ ǀ abhi-bhūte ǀ ugrám ǀ
    víśvā ǀ dyumnā́ ǀ vṛ́ṣṇyā ǀ mā́nuṣāṇām ǀ asmábhyam ǀ dāḥ ǀ hari-vaḥ ǀ mādayádhyai ǁ

    śaviṣṭham ǀ naḥ ǀ ā ǀ bhara ǀ śūra ǀ śavaḥ ǀ ojiṣṭham ǀ ojaḥ ǀ abhi-bhūte ǀ ugram ǀ
    viśvā ǀ dyumnā ǀ vṛṣṇyā ǀ mānuṣāṇām ǀ asmabhyam ǀ dāḥ ǀ hari-vaḥ ǀ mādayadhyai ǁ

    6.19.6 Aṣṭaka 4.6.8.1Anuvāka 6.2.84

  7. Ṛk 7

    यस्ते॒ मदः॑ पृतना॒षाळमृ॑ध्र॒ इंद्र॒ तं न॒ आ भ॑र शूशु॒वांसं॑ ।
    येन॑ तो॒कस्य॒ तन॑यस्य सा॒तौ मं॑सी॒महि॑ जिगी॒वांस॒स्त्वोताः॑ ॥

    यस् ते मदः पृतनाषाऌ अमृध्र इन्द्र तं न आ भर शूशुवांसम् |
    येन तोकस्य तनयस्य सातौ मंसीमहि जिगीवांसस् त्वोताः ||

    yáste mádaḥ pṛtanāṣā́ḷámṛdhra índra tám na ā́ bhara śūśuvā́ṃsam ǀ
    yéna tokásya tánayasya sātáu maṃsīmáhi jigīvā́ṃsastvótāḥ ǁ

    yas te madaḥ pṛtanāṣāḷ amṛdhra indra taṃ na ā bhara śūśuvāṃsam |
    yena tokasya tanayasya sātau maṃsīmahi jigīvāṃsas tvotāḥ ||

    यः । ते॒ । मदः॑ । पृ॒त॒ना॒षाट् । अमृ॑ध्रः । इन्द्र॑ । तम् । नः॒ । आ । भ॒र॒ । शू॒शु॒ऽवांस॑म् ।
    येन॑ । तो॒कस्य॑ । तन॑यस्य । सा॒तौ । मं॒सी॒महि॑ । जि॒गी॒वांसः॑ । त्वाऽऊ॑ताः ॥

    यः । ते । मदः । पृतनाषाट् । अमृध्रः । इन्द्र । तम् । नः । आ । भर । शूशुऽवांसम् ।
    येन । तोकस्य । तनयस्य । सातौ । मंसीमहि । जिगीवांसः । त्वाऽऊताः ॥

    yáḥ ǀ te ǀ mádaḥ ǀ pṛtanāṣā́ṭ ǀ ámṛdhraḥ ǀ índra ǀ tám ǀ naḥ ǀ ā́ ǀ bhara ǀ śūśu-vā́ṃsam ǀ
    yéna ǀ tokásya ǀ tánayasya ǀ sātáu ǀ maṃsīmáhi ǀ jigīvā́ṃsaḥ ǀ tvā́-ūtāḥ ǁ

    yaḥ ǀ te ǀ madaḥ ǀ pṛtanāṣāṭ ǀ amṛdhraḥ ǀ indra ǀ tam ǀ naḥ ǀ ā ǀ bhara ǀ śūśu-vāṃsam ǀ
    yena ǀ tokasya ǀ tanayasya ǀ sātau ǀ maṃsīmahi ǀ jigīvāṃsaḥ ǀ tvā-ūtāḥ ǁ

    6.19.7 Aṣṭaka 4.6.8.2Anuvāka 6.2.85

  8. Ṛk 8

    आ नो॑ भर॒ वृष॑णं॒ शुष्म॑मिंद्र धन॒स्पृतं॑ शूशु॒वांसं॑ सु॒दक्षं॑ ।
    येन॒ वंसा॑म॒ पृत॑नासु॒ शत्रूं॒तवो॒तिभि॑रु॒त जा॒मीँरजा॑मीन् ॥

    आ नो भर वृषणं शुष्मम् इन्द्र धनस्पृतं शूशुवांसं सुदक्षम् |
    येन वंसाम पृतनासु शत्रून् तवोतिभिर् उत जामींर् अजामीन् ||

    ā́ no bhara vṛ́ṣaṇam śúṣmamindra dhanaspṛ́tam śūśuvā́ṃsam sudákṣam ǀ
    yéna váṃsāma pṛ́tanāsu śátrūntávotíbhirutá jāmī́m̐rájāmīn ǁ

    ā no bhara vṛṣaṇaṃ śuṣmam indra dhanaspṛtaṃ śūśuvāṃsaṃ sudakṣam |
    yena vaṃsāma pṛtanāsu śatrūn tavotibhir uta jāmīṃr ajāmīn ||

    आ । नः॒ । भ॒र॒ । वृष॑णम् । शुष्म॑म् । इ॒न्द्र॒ । ध॒न॒ऽस्पृत॑म् । शू॒शु॒ऽवांस॑म् । सु॒ऽदक्ष॑म् ।
    येन॑ । वंसा॑म । पृत॑नासु । शत्रू॑न् । तव॑ । ऊ॒तिऽभिः॑ । उ॒त । जा॒मीन् । अजा॑मीन् ॥

    आ । नः । भर । वृषणम् । शुष्मम् । इन्द्र । धनऽस्पृतम् । शूशुऽवांसम् । सुऽदक्षम् ।
    येन । वंसाम । पृतनासु । शत्रून् । तव । ऊतिऽभिः । उत । जामीन् । अजामीन् ॥

    ā́ ǀ naḥ ǀ bhara ǀ vṛ́ṣaṇam ǀ śúṣmam ǀ indra ǀ dhana-spṛ́tam ǀ śūśu-vā́ṃsam ǀ su-dákṣam ǀ
    yéna ǀ váṃsāma ǀ pṛ́tanāsu ǀ śátrūn ǀ táva ǀ ūtí-bhiḥ ǀ utá ǀ jāmī́n ǀ ájāmīn ǁ

    ā ǀ naḥ ǀ bhara ǀ vṛṣaṇam ǀ śuṣmam ǀ indra ǀ dhana-spṛtam ǀ śūśu-vāṃsam ǀ su-dakṣam ǀ
    yena ǀ vaṃsāma ǀ pṛtanāsu ǀ śatrūn ǀ tava ǀ ūti-bhiḥ ǀ uta ǀ jāmīn ǀ ajāmīn ǁ

    6.19.8 Aṣṭaka 4.6.8.3Anuvāka 6.2.86

  9. Ṛk 9

    आ ते॒ शुष्मो॑ वृष॒भ ए॑तु प॒श्चादोत्त॒राद॑ध॒रादा पु॒रस्ता॑त् ।
    आ वि॒श्वतो॑ अ॒भि समे॑त्व॒र्वाङिंद्र॑ द्यु॒म्नं स्व॑र्वद्धेह्य॒स्मे ॥

    आ ते शुष्मो वृषभ एतु पश्चाद् ओत्तराद् अधराद् आ पुरस्तात् |
    आ विश्वतो अभि सम् एत्व् अर्वाङ् इन्द्र द्युम्नं स्वर्वद् धेह्य् अस्मे ||

    ā́ te śúṣmo vṛṣabhá etu paścā́dóttarā́dadharā́dā́ purástāt ǀ
    ā́ viśváto abhí sámetvarvā́ṅíndra dyumnám svárvaddhehyasmé ǁ

    ā te śuṣmo vṛṣabha etu paścād ottarād adharād ā purastāt |
    ā viśvato abhi sam etv arvāṅ indra dyumnaṃ svarvad dhehy asme ||

    आ । ते॒ । शुष्मः॑ । वृ॒ष॒भः । ए॒तु॒ । प॒श्चात् । आ । उ॒त्त॒रात् । अ॒ध॒रात् । आ । पु॒रस्ता॑त् ।
    आ । वि॒श्वतः॑ । अ॒भि । सम् । ए॒तु॒ । अ॒र्वाङ् । इन्द्र॑ । द्यु॒म्नम् । स्वः॑ऽवत् । धे॒हि॒ । अ॒स्मे इति॑ ॥

    आ । ते । शुष्मः । वृषभः । एतु । पश्चात् । आ । उत्तरात् । अधरात् । आ । पुरस्तात् ।
    आ । विश्वतः । अभि । सम् । एतु । अर्वाङ् । इन्द्र । द्युम्नम् । स्वःऽवत् । धेहि । अस्मे इति ॥

    ā́ ǀ te ǀ śúṣmaḥ ǀ vṛṣabháḥ ǀ etu ǀ paścā́t ǀ ā́ ǀ uttarā́t ǀ adharā́t ǀ ā́ ǀ purástāt ǀ
    ā́ ǀ viśvátaḥ ǀ abhí ǀ sám ǀ etu ǀ arvā́ṅ ǀ índra ǀ dyumnám ǀ sváḥ-vat ǀ dhehi ǀ asmé íti ǁ

    ā ǀ te ǀ śuṣmaḥ ǀ vṛṣabhaḥ ǀ etu ǀ paścāt ǀ ā ǀ uttarāt ǀ adharāt ǀ ā ǀ purastāt ǀ
    ā ǀ viśvataḥ ǀ abhi ǀ sam ǀ etu ǀ arvāṅ ǀ indra ǀ dyumnam ǀ svaḥ-vat ǀ dhehi ǀ asme iti ǁ

    6.19.9 Aṣṭaka 4.6.8.4Anuvāka 6.2.87

  10. Ṛk 10

    नृ॒वत्त॑ इंद्र॒ नृत॑माभिरू॒ती वं॑सी॒महि॑ वा॒मं श्रोम॑तेभिः ।
    ईक्षे॒ हि वस्व॑ उ॒भय॑स्य राजं॒धा रत्नं॒ महि॑ स्थू॒रं बृ॒हंतं॑ ॥

    नृवत् त इन्द्र नृतमाभिर् ऊती वंसीमहि वामं श्रोमतेभिः |
    ईक्षे हि वस्व उभयस्य राजन् धा रत्नम् महि स्थूरम् बृहन्तम् ||

    nṛvátta indra nṛ́tamābhirūtī́ vaṃsīmáhi vāmám śrómatebhiḥ ǀ
    ī́kṣe hí vásva ubháyasya rājandhā́ rátnam máhi sthūrám bṛhántam ǁ

    nṛvat ta indra nṛtamābhir ūtī vaṃsīmahi vāmaṃ śromatebhiḥ |
    īkṣe hi vasva ubhayasya rājan dhā ratnam mahi sthūram bṛhantam ||

    नृ॒ऽवत् । ते॒ । इ॒न्द्र॒ । नृऽत॑माभिः । ऊ॒ती । वं॒सी॒महि॑ । वा॒मम् । श्रोम॑तेभिः ।
    ईक्षे॑ । हि । वस्वः॑ । उ॒भय॑स्य । रा॒ज॒न् । धाः । रत्न॑म् । महि॑ । स्थू॒रम् । बृ॒हन्त॑म् ॥

    नृऽवत् । ते । इन्द्र । नृऽतमाभिः । ऊती । वंसीमहि । वामम् । श्रोमतेभिः ।
    ईक्षे । हि । वस्वः । उभयस्य । राजन् । धाः । रत्नम् । महि । स्थूरम् । बृहन्तम् ॥

    nṛ-vát ǀ te ǀ indra ǀ nṛ́-tamābhiḥ ǀ ūtī́ ǀ vaṃsīmáhi ǀ vāmám ǀ śrómatebhiḥ ǀ
    ī́kṣe ǀ hí ǀ vásvaḥ ǀ ubháyasya ǀ rājan ǀ dhā́ḥ ǀ rátnam ǀ máhi ǀ sthūrám ǀ bṛhántam ǁ

    nṛ-vat ǀ te ǀ indra ǀ nṛ-tamābhiḥ ǀ ūtī ǀ vaṃsīmahi ǀ vāmam ǀ śromatebhiḥ ǀ
    īkṣe ǀ hi ǀ vasvaḥ ǀ ubhayasya ǀ rājan ǀ dhāḥ ǀ ratnam ǀ mahi ǀ sthūram ǀ bṛhantam ǁ

    6.19.10 Aṣṭaka 4.6.8.5Anuvāka 6.2.88

  11. Ṛk 11

    म॒रुत्वं॑तं वृष॒भं वा॑वृधा॒नमक॑वारिं दि॒व्यं शा॒समिंद्रं॑ ।
    वि॒श्वा॒साह॒मव॑से॒ नूत॑नायो॒ग्रं स॑हो॒दामि॒ह तं हु॑वेम ॥

    मरुत्वन्तं वृषभं वावृधानम् अकवारिं दिव्यं शासम् इन्द्रम् |
    विश्वासाहम् अवसे नूतनायोग्रं सहोदाम् इह तं हुवेम ||

    marútvantam vṛṣabhám vāvṛdhānámákavārim divyám śāsámíndram ǀ
    viśvāsā́hamávase nū́tanāyográm sahodā́mihá tám huvema ǁ

    marutvantaṃ vṛṣabhaṃ vāvṛdhānam akavāriṃ divyaṃ śāsam indram |
    viśvāsāham avase nūtanāyograṃ sahodām iha taṃ huvema ||

    म॒रुत्व॑न्तम् । वृ॒ष॒भम् । व॒वृ॒धा॒नम् । अक॑वऽअरिम् । दि॒व्यम् । शा॒सम् । इन्द्र॑म् ।
    वि॒श्व॒ऽसह॑म् । अव॑से । नूत॑नाय । उ॒ग्रम् । स॒हः॒ऽदाम् । इ॒ह । तम् । हु॒वे॒म॒ ॥

    मरुत्वन्तम् । वृषभम् । ववृधानम् । अकवऽअरिम् । दिव्यम् । शासम् । इन्द्रम् ।
    विश्वऽसहम् । अवसे । नूतनाय । उग्रम् । सहःऽदाम् । इह । तम् । हुवेम ॥

    marútvantam ǀ vṛṣabhám ǀ vavṛdhānám ǀ ákava-arim ǀ divyám ǀ śāsám ǀ índram ǀ
    viśva-sáham ǀ ávase ǀ nū́tanāya ǀ ugrám ǀ sahaḥ-dā́m ǀ ihá ǀ tám ǀ huvema ǁ

    marutvantam ǀ vṛṣabham ǀ vavṛdhānam ǀ akava-arim ǀ divyam ǀ śāsam ǀ indram ǀ
    viśva-saham ǀ avase ǀ nūtanāya ǀ ugram ǀ sahaḥ-dām ǀ iha ǀ tam ǀ huvema ǁ

    6.19.11 Aṣṭaka 4.6.8.6Anuvāka 6.2.89

  12. Ṛk 12

    जनं॑ वज्रि॒न्महि॑ चि॒न्मन्य॑मानमे॒भ्यो नृभ्यो॑ रंधया॒ येष्वस्मि॑ ।
    अधा॒ हि त्वा॑ पृथि॒व्यां शूर॑सातौ॒ हवा॑महे॒ तन॑ये॒ गोष्व॒प्सु ॥

    जनं वज्रिन् महि चिन् मन्यमानम् एभ्यो नृभ्यो रन्धया येष्व् अस्मि |
    अधा हि त्वा पृथिव्यां शूरसातौ हवामहे तनये गोष्व् अप्सु ||

    jánam vajrinmáhi cinmányamānamebhyó nṛ́bhyo randhayā yéṣvásmi ǀ
    ádhā hí tvā pṛthivyā́m śū́rasātau hávāmahe tánaye góṣvapsú ǁ

    janaṃ vajrin mahi cin manyamānam ebhyo nṛbhyo randhayā yeṣv asmi |
    adhā hi tvā pṛthivyāṃ śūrasātau havāmahe tanaye goṣv apsu ||

    जन॑म् । व॒ज्रि॒न् । महि॑ । चि॒त् । मन्य॑मानम् । ए॒भ्यः । नृऽभ्यः॑ । र॒न्ध॒य॒ । येषु॑ । अस्मि॑ ।
    अध॑ । हि । त्वा॒ । पृ॒थि॒व्याम् । शूर॑ऽसातौ । हवा॑महे । तन॑ये । गोषु॑ । अ॒प्ऽसु ॥

    जनम् । वज्रिन् । महि । चित् । मन्यमानम् । एभ्यः । नृऽभ्यः । रन्धय । येषु । अस्मि ।
    अध । हि । त्वा । पृथिव्याम् । शूरऽसातौ । हवामहे । तनये । गोषु । अप्ऽसु ॥

    jánam ǀ vajrin ǀ máhi ǀ cit ǀ mányamānam ǀ ebhyáḥ ǀ nṛ́-bhyaḥ ǀ randhaya ǀ yéṣu ǀ ásmi ǀ
    ádha ǀ hí ǀ tvā ǀ pṛthivyā́m ǀ śū́ra-sātau ǀ hávāmahe ǀ tánaye ǀ góṣu ǀ ap-sú ǁ

    janam ǀ vajrin ǀ mahi ǀ cit ǀ manyamānam ǀ ebhyaḥ ǀ nṛ-bhyaḥ ǀ randhaya ǀ yeṣu ǀ asmi ǀ
    adha ǀ hi ǀ tvā ǀ pṛthivyām ǀ śūra-sātau ǀ havāmahe ǀ tanaye ǀ goṣu ǀ ap-su ǁ

    6.19.12 Aṣṭaka 4.6.8.7Anuvāka 6.2.90

  13. Ṛk 13

    व॒यं त॑ ए॒भिः पु॑रुहूत स॒ख्यैः शत्रोः॑शत्रो॒रुत्त॑र॒ इत्स्या॑म ।
    घ्नंतो॑ वृ॒त्राण्यु॒भया॑नि शूर रा॒या म॑देम बृह॒ता त्वोताः॑ ॥

    वयं त एभिः पुरुहूत सख्यैः शत्रोः-शत्रोर् उत्तर इत् स्याम |
    घ्नन्तो वृत्राण्य् उभयानि शूर राया मदेम बृहता त्वोताः ||

    vayám ta ebhíḥ puruhūta sakhyáiḥ śátroḥśatrorúttara ítsyāma ǀ
    ghnánto vṛtrā́ṇyubháyāni śūra rāyā́ madema bṛhatā́ tvótāḥ ǁ

    vayaṃ ta ebhiḥ puruhūta sakhyaiḥ śatroḥ-śatror uttara it syāma |
    ghnanto vṛtrāṇy ubhayāni śūra rāyā madema bṛhatā tvotāḥ ||

    व॒यम् । ते॒ । ए॒भिः । पु॒रु॒ऽहू॒त॒ । स॒ख्यैः । शत्रोः॑ऽशत्रोः । उत्ऽत॑रे । इत् । स्या॒म॒ ।
    घ्नन्तः॑ । वृ॒त्राणि॑ । उ॒भया॑नि । शू॒र॒ । रा॒या । म॒दे॒म॒ । बृ॒ह॒ता । त्वाऽऊ॑ताः ॥

    वयम् । ते । एभिः । पुरुऽहूत । सख्यैः । शत्रोःऽशत्रोः । उत्ऽतरे । इत् । स्याम ।
    घ्नन्तः । वृत्राणि । उभयानि । शूर । राया । मदेम । बृहता । त्वाऽऊताः ॥

    vayám ǀ te ǀ ebhíḥ ǀ puru-hūta ǀ sakhyáiḥ ǀ śátroḥ-śatroḥ ǀ út-tare ǀ ít ǀ syāma ǀ
    ghnántaḥ ǀ vṛtrā́ṇi ǀ ubháyāni ǀ śūra ǀ rāyā́ ǀ madema ǀ bṛhatā́ ǀ tvā́-ūtāḥ ǁ

    vayam ǀ te ǀ ebhiḥ ǀ puru-hūta ǀ sakhyaiḥ ǀ śatroḥ-śatroḥ ǀ ut-tare ǀ it ǀ syāma ǀ
    ghnantaḥ ǀ vṛtrāṇi ǀ ubhayāni ǀ śūra ǀ rāyā ǀ madema ǀ bṛhatā ǀ tvā-ūtāḥ ǁ

    6.19.13 Aṣṭaka 4.6.8.8Anuvāka 6.2.91

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 6.19 · Indra

Interpretations

Ralph T. H. Griffith

Ṛk 1

GREAT, hero-like controlling men is Indra, unwasting in his powers, doubled in vastness. He, turned to us, hath grown to hero vigour: broad, wide, he hath been decked by those who serve him.

Ṛk 2

The bowl made Indra swift to gather booty, the High, the Lofty, Youthful, Undecaying, Him who hath waxed by strength which none may conquer, and even at once grown to complete perfection.

Ṛk 3

Stretch out those hands of thine, extend to us-ward thy wide capacious arms, and grant us glory. Like as the household herdsman guards the cattle, so move thou round about us in the combat.

Ṛk 4

Now, fain for strength, let us invite your Indra hither, who lieth hidden with his Heroes,— Free from all blame, without reproach, uninjured, e’en as were those who sang, of old, his praises.

Ṛk 5

With steadfast laws, wealth-giver, strong through Soma, he hath much fair and precious food to feed us. In him unite all paths that lead to riches, like rivers that commingle with the ocean.

Ṛk 6

Bring unto us the mightiest might, O Hero, strong and most potent force, thou great Subduer! All splendid vigorous powers of men vouchsafe us, Lord of Bay Steeds, that they may make us joyful.

Ṛk 7

Bring us, grown mighty in its strength, O Indra, thy friendly rapturous joy that wins the battle, Wherewith by thee assisted and triumphant, we may laud thee in gaining seed and offspring.

Ṛk 8

Indra, bestow on us the power heroic skilled and exceeding strong, that wins the booty, Wherewith, by thine assistance, we may conquer our foes in battle, be they kin or stranger.

Ṛk 9

Let thine heroic strength come from behind us, before us, from above us or below us. From every side may it approach us, Indra. Give us the glory of the realm of splendour.

Ṛk 10

With most heroic aid from thee, like heroes Indra, may we win wealth by deeds glory. Thou, King, art Lord of earthly, heavenly treasure: vouchsafe us riches vast, sublime, and lasting.

Ṛk 11

The Bull, whose strength hath waxed, whom Maruts follow, free-giving Indra, the Celestial Ruler, Mighty, all-conquering, the victory-giver, him let us call to grant us new protection.

Ṛk 12

Give up the people who are high and haughty to these men and to me, O Thunder-wielder! Therefore upon the earth do we invoke thee, where heroes win, for sons and kine and waters.