Ṛk 6.19.13
Saṃhitā
व॒यं त॑ ए॒भिः पु॑रुहूत स॒ख्यैः शत्रोः॑शत्रो॒रुत्त॑र॒ इत्स्या॑म ।
घ्नंतो॑ वृ॒त्राण्यु॒भया॑नि शूर रा॒या म॑देम बृह॒ता त्वोताः॑ ॥
वयं त एभिः पुरुहूत सख्यैः शत्रोः-शत्रोर् उत्तर इत् स्याम |
घ्नन्तो वृत्राण्य् उभयानि शूर राया मदेम बृहता त्वोताः ||
vayám ta ebhíḥ puruhūta sakhyáiḥ śátroḥśatrorúttara ítsyāma ǀ
ghnánto vṛtrā́ṇyubháyāni śūra rāyā́ madema bṛhatā́ tvótāḥ ǁ
vayaṃ ta ebhiḥ puruhūta sakhyaiḥ śatroḥ-śatror uttara it syāma |
ghnanto vṛtrāṇy ubhayāni śūra rāyā madema bṛhatā tvotāḥ ||
Padapāṭha
व॒यम् । ते॒ । ए॒भिः । पु॒रु॒ऽहू॒त॒ । स॒ख्यैः । शत्रोः॑ऽशत्रोः । उत्ऽत॑रे । इत् । स्या॒म॒ ।
घ्नन्तः॑ । वृ॒त्राणि॑ । उ॒भया॑नि । शू॒र॒ । रा॒या । म॒दे॒म॒ । बृ॒ह॒ता । त्वाऽऊ॑ताः ॥
वयम् । ते । एभिः । पुरुऽहूत । सख्यैः । शत्रोःऽशत्रोः । उत्ऽतरे । इत् । स्याम ।
घ्नन्तः । वृत्राणि । उभयानि । शूर । राया । मदेम । बृहता । त्वाऽऊताः ॥
vayám ǀ te ǀ ebhíḥ ǀ puru-hūta ǀ sakhyáiḥ ǀ śátroḥ-śatroḥ ǀ út-tare ǀ ít ǀ syāma ǀ
ghnántaḥ ǀ vṛtrā́ṇi ǀ ubháyāni ǀ śūra ǀ rāyā́ ǀ madema ǀ bṛhatā́ ǀ tvā́-ūtāḥ ǁ
vayam ǀ te ǀ ebhiḥ ǀ puru-hūta ǀ sakhyaiḥ ǀ śatroḥ-śatroḥ ǀ ut-tare ǀ it ǀ syāma ǀ
ghnantaḥ ǀ vṛtrāṇi ǀ ubhayāni ǀ śūra ǀ rāyā ǀ madema ǀ bṛhatā ǀ tvā-ūtāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.019.13
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.6.08.08
- Maṇḍala · Anuvāka · Ṛk
- 06.02.091
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.