Ṛk 6.19.9
Saṃhitā
आ ते॒ शुष्मो॑ वृष॒भ ए॑तु प॒श्चादोत्त॒राद॑ध॒रादा पु॒रस्ता॑त् ।
आ वि॒श्वतो॑ अ॒भि समे॑त्व॒र्वाङिंद्र॑ द्यु॒म्नं स्व॑र्वद्धेह्य॒स्मे ॥
आ ते शुष्मो वृषभ एतु पश्चाद् ओत्तराद् अधराद् आ पुरस्तात् |
आ विश्वतो अभि सम् एत्व् अर्वाङ् इन्द्र द्युम्नं स्वर्वद् धेह्य् अस्मे ||
ā́ te śúṣmo vṛṣabhá etu paścā́dóttarā́dadharā́dā́ purástāt ǀ
ā́ viśváto abhí sámetvarvā́ṅíndra dyumnám svárvaddhehyasmé ǁ
ā te śuṣmo vṛṣabha etu paścād ottarād adharād ā purastāt |
ā viśvato abhi sam etv arvāṅ indra dyumnaṃ svarvad dhehy asme ||
Padapāṭha
आ । ते॒ । शुष्मः॑ । वृ॒ष॒भः । ए॒तु॒ । प॒श्चात् । आ । उ॒त्त॒रात् । अ॒ध॒रात् । आ । पु॒रस्ता॑त् ।
आ । वि॒श्वतः॑ । अ॒भि । सम् । ए॒तु॒ । अ॒र्वाङ् । इन्द्र॑ । द्यु॒म्नम् । स्वः॑ऽवत् । धे॒हि॒ । अ॒स्मे इति॑ ॥
आ । ते । शुष्मः । वृषभः । एतु । पश्चात् । आ । उत्तरात् । अधरात् । आ । पुरस्तात् ।
आ । विश्वतः । अभि । सम् । एतु । अर्वाङ् । इन्द्र । द्युम्नम् । स्वःऽवत् । धेहि । अस्मे इति ॥
ā́ ǀ te ǀ śúṣmaḥ ǀ vṛṣabháḥ ǀ etu ǀ paścā́t ǀ ā́ ǀ uttarā́t ǀ adharā́t ǀ ā́ ǀ purástāt ǀ
ā́ ǀ viśvátaḥ ǀ abhí ǀ sám ǀ etu ǀ arvā́ṅ ǀ índra ǀ dyumnám ǀ sváḥ-vat ǀ dhehi ǀ asmé íti ǁ
ā ǀ te ǀ śuṣmaḥ ǀ vṛṣabhaḥ ǀ etu ǀ paścāt ǀ ā ǀ uttarāt ǀ adharāt ǀ ā ǀ purastāt ǀ
ā ǀ viśvataḥ ǀ abhi ǀ sam ǀ etu ǀ arvāṅ ǀ indra ǀ dyumnam ǀ svaḥ-vat ǀ dhehi ǀ asme iti ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.019.09
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.6.08.04
- Maṇḍala · Anuvāka · Ṛk
- 06.02.087
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.