Sūkta 45
- Devatā देवता
- 1-30: Indra; 31-33: Bṛbu Takṣan
- Ṛṣi ऋषि
- Śaṃyu Bārhaspatya
- Chandas छन्दस्
- Gāyatrī, Atinicṛt, Anuṣṭubh
Metres by ṛk
1st set of styles nicṛdgāyatrī (4, 7, 9-13, 15-19, 25, 26, 29); gāyatrī (1-3, 8, 14, 20-24, 28, 30, 32); virāḍgāyatrī (5, 6, 27); ārcyuṣṇik (31); anuṣṭup (33)
2nd set of styles gāyatrī (1-28, 30-32); atinicṛt (29); anuṣṭubh (33)
-
Ṛk 1
य आन॑यत्परा॒वतः॒ सुनी॑ती तु॒र्वशं॒ यदुं॑ ।
इंद्रः॒ स नो॒ युवा॒ सखा॑ ॥य आनयत् परावतः सुनीती तुर्वशं यदुम् |
इन्द्रः स नो युवा सखा ||yá ā́nayatparāvátaḥ súnītī turváśam yádum ǀ
índraḥ sá no yúvā sákhā ǁya ānayat parāvataḥ sunītī turvaśaṃ yadum |
indraḥ sa no yuvā sakhā ||यः । आ । अन॑यत् । प॒रा॒ऽवतः॑ । सुऽनी॑ती । तु॒र्वश॑म् । यदु॑म् ।
इन्द्रः॑ । सः । नः॒ । युवा॑ । सखा॑ ॥यः । आ । अनयत् । पराऽवतः । सुऽनीती । तुर्वशम् । यदुम् ।
इन्द्रः । सः । नः । युवा । सखा ॥yáḥ ǀ ā́ ǀ ánayat ǀ parā-vátaḥ ǀ sú-nītī ǀ turváśam ǀ yádum ǀ
índraḥ ǀ sáḥ ǀ naḥ ǀ yúvā ǀ sákhā ǁyaḥ ǀ ā ǀ anayat ǀ parā-vataḥ ǀ su-nītī ǀ turvaśam ǀ yadum ǀ
indraḥ ǀ saḥ ǀ naḥ ǀ yuvā ǀ sakhā ǁ6.45.1 Aṣṭaka 4.7.21.1Anuvāka 6.4.25
-
Ṛk 2
अ॒वि॒प्रे चि॒द्वयो॒ दध॑दना॒शुना॑ चि॒दर्व॑ता ।
इंद्रो॒ जेता॑ हि॒तं धनं॑ ॥अविप्रे चिद् वयो दधद् अनाशुना चिद् अर्वता |
इन्द्रो जेता हितं धनम् ||avipré cidváyo dádhadanāśúnā cidárvatā ǀ
índro jétā hitám dhánam ǁavipre cid vayo dadhad anāśunā cid arvatā |
indro jetā hitaṃ dhanam ||अ॒वि॒प्रे । चि॒त् । वयः॑ । दध॑त् । अ॒ना॒शुना॑ । चि॒त् । अर्व॑ता ।
इन्द्रः॑ । जेता॑ । हि॒तम् । धन॑म् ॥अविप्रे । चित् । वयः । दधत् । अनाशुना । चित् । अर्वता ।
इन्द्रः । जेता । हितम् । धनम् ॥avipré ǀ cit ǀ váyaḥ ǀ dádhat ǀ anāśúnā ǀ cit ǀ árvatā ǀ
índraḥ ǀ jétā ǀ hitám ǀ dhánam ǁavipre ǀ cit ǀ vayaḥ ǀ dadhat ǀ anāśunā ǀ cit ǀ arvatā ǀ
indraḥ ǀ jetā ǀ hitam ǀ dhanam ǁ6.45.2 Aṣṭaka 4.7.21.2Anuvāka 6.4.26
-
Ṛk 3
म॒हीर॑स्य॒ प्रणी॑तयः पू॒र्वीरु॒त प्रश॑स्तयः ।
नास्य॑ क्षीयंत ऊ॒तयः॑ ॥महीर् अस्य प्रणीतयः पूर्वीर् उत प्रशस्तयः |
नास्य क्षीयन्त ऊतयः ||mahī́rasya práṇītayaḥ pūrvī́rutá práśastayaḥ ǀ
nā́sya kṣīyanta ūtáyaḥ ǁmahīr asya praṇītayaḥ pūrvīr uta praśastayaḥ |
nāsya kṣīyanta ūtayaḥ ||म॒हीः । अ॒स्य॒ । प्रऽनी॑तयः । पू॒र्वीः । उ॒त । प्रऽश॑स्तयः ।
न । अ॒स्य॒ । क्षी॒य॒न्ते॒ । ऊ॒तयः॑ ॥महीः । अस्य । प्रऽनीतयः । पूर्वीः । उत । प्रऽशस्तयः ।
न । अस्य । क्षीयन्ते । ऊतयः ॥mahī́ḥ ǀ asya ǀ prá-nītayaḥ ǀ pūrvī́ḥ ǀ utá ǀ prá-śastayaḥ ǀ
ná ǀ asya ǀ kṣīyante ǀ ūtáyaḥ ǁmahīḥ ǀ asya ǀ pra-nītayaḥ ǀ pūrvīḥ ǀ uta ǀ pra-śastayaḥ ǀ
na ǀ asya ǀ kṣīyante ǀ ūtayaḥ ǁ6.45.3 Aṣṭaka 4.7.21.3Anuvāka 6.4.27
-
Ṛk 4
सखा॑यो॒ ब्रह्म॑वाह॒सेऽर्च॑त॒ प्र च॑ गायत ।
स हि नः॒ प्रम॑तिर्म॒ही ॥सखायो ब्रह्मवाहसे ऽर्चत प्र च गायत |
स हि नः प्रमतिर् मही ||sákhāyo bráhmavāhasé’rcata prá ca gāyata ǀ
sá hí naḥ prámatirmahī́ ǁsakhāyo brahmavāhase 'rcata pra ca gāyata |
sa hi naḥ pramatir mahī ||सखा॑यः । ब्रह्म॑ऽवाहसे । अर्च॑त । प्र । च॒ । गा॒य॒त॒ ।
सः । हि । नः॒ । प्रऽम॑तिः । म॒ही ॥सखायः । ब्रह्मऽवाहसे । अर्चत । प्र । च । गायत ।
सः । हि । नः । प्रऽमतिः । मही ॥sákhāyaḥ ǀ bráhma-vāhase ǀ árcata ǀ prá ǀ ca ǀ gāyata ǀ
sáḥ ǀ hí ǀ naḥ ǀ prá-matiḥ ǀ mahī́ ǁsakhāyaḥ ǀ brahma-vāhase ǀ arcata ǀ pra ǀ ca ǀ gāyata ǀ
saḥ ǀ hi ǀ naḥ ǀ pra-matiḥ ǀ mahī ǁ6.45.4 Aṣṭaka 4.7.21.4Anuvāka 6.4.28
-
Ṛk 5
त्वमेक॑स्य वृत्रहन्नवि॒ता द्वयो॑रसि ।
उ॒तेदृशे॒ यथा॑ व॒यं ॥त्वम् एकस्य वृत्रहन्न् अविता द्वयोर् असि |
उतेदृशे यथा वयम् ||tvámékasya vṛtrahannavitā́ dváyorasi ǀ
utédṛ́śe yáthā vayám ǁtvam ekasya vṛtrahann avitā dvayor asi |
utedṛśe yathā vayam ||त्वम् । एक॑स्य । वृ॒त्र॒ऽह॒न् । अ॒वि॒ता । द्वयोः॑ । अ॒सि॒ ।
उ॒त । ई॒दृशे॑ । यथा॑ । व॒यम् ॥त्वम् । एकस्य । वृत्रऽहन् । अविता । द्वयोः । असि ।
उत । ईदृशे । यथा । वयम् ॥tvám ǀ ékasya ǀ vṛtra-han ǀ avitā́ ǀ dváyoḥ ǀ asi ǀ
utá ǀ īdṛ́śe ǀ yáthā ǀ vayám ǁtvam ǀ ekasya ǀ vṛtra-han ǀ avitā ǀ dvayoḥ ǀ asi ǀ
uta ǀ īdṛśe ǀ yathā ǀ vayam ǁ6.45.5 Aṣṭaka 4.7.21.5Anuvāka 6.4.29
-
Ṛk 6
नय॒सीद्वति॒ द्विषः॑ कृ॒णोष्यु॑क्थशं॒सिनः॑ ।
नृभिः॑ सु॒वीर॑ उच्यसे ॥नयसीद् व् अति द्विषः कृणोष्य् उक्थशंसिनः |
नृभिः सुवीर उच्यसे ||náyasī́dváti dvíṣaḥ kṛṇóṣyukthaśaṃsínaḥ ǀ
nṛ́bhiḥ suvī́ra ucyase ǁnayasīd v ati dviṣaḥ kṛṇoṣy ukthaśaṃsinaḥ |
nṛbhiḥ suvīra ucyase ||नय॑सि । इत् । ऊं॒ इति॑ । अति॑ । द्विषः॑ । कृ॒णोषि॑ । उ॒क्थ॒ऽशं॒सिनः॑ ।
नृऽभिः॑ । सु॒ऽवीरः॑ । उ॒च्य॒से॒ ॥नयसि । इत् । ऊं इति । अति । द्विषः । कृणोषि । उक्थऽशंसिनः ।
नृऽभिः । सुऽवीरः । उच्यसे ॥náyasi ǀ ít ǀ ūṃ íti ǀ áti ǀ dvíṣaḥ ǀ kṛṇóṣi ǀ uktha-śaṃsínaḥ ǀ
nṛ́-bhiḥ ǀ su-vī́raḥ ǀ ucyase ǁnayasi ǀ it ǀ ūṃ iti ǀ ati ǀ dviṣaḥ ǀ kṛṇoṣi ǀ uktha-śaṃsinaḥ ǀ
nṛ-bhiḥ ǀ su-vīraḥ ǀ ucyase ǁ6.45.6 Aṣṭaka 4.7.22.1Anuvāka 6.4.30
-
Ṛk 7
ब्र॒ह्माणं॒ ब्रह्म॑वाहसं गी॒र्भिः सखा॑यमृ॒ग्मियं॑ ।
गां न दो॒हसे॑ हुवे ॥ब्रह्माणम् ब्रह्मवाहसं गीर्भिः सखायम् ऋग्मियम् |
गां न दोहसे हुवे ||brahmā́ṇam bráhmavāhasam gīrbhíḥ sákhāyamṛgmíyam ǀ
gā́m ná doháse huve ǁbrahmāṇam brahmavāhasaṃ gīrbhiḥ sakhāyam ṛgmiyam |
gāṃ na dohase huve ||ब्र॒ह्माण॑म् । ब्रह्म॑ऽवाहसम् । गीः॒ऽभिः । सखा॑यम् । ऋ॒ग्मिय॑म् ।
गाम् । न । दो॒हसे॑ । हु॒वे॒ ॥ब्रह्माणम् । ब्रह्मऽवाहसम् । गीःऽभिः । सखायम् । ऋग्मियम् ।
गाम् । न । दोहसे । हुवे ॥brahmā́ṇam ǀ bráhma-vāhasam ǀ gīḥ-bhíḥ ǀ sákhāyam ǀ ṛgmíyam ǀ
gā́m ǀ ná ǀ doháse ǀ huve ǁbrahmāṇam ǀ brahma-vāhasam ǀ gīḥ-bhiḥ ǀ sakhāyam ǀ ṛgmiyam ǀ
gām ǀ na ǀ dohase ǀ huve ǁ6.45.7 Aṣṭaka 4.7.22.2Anuvāka 6.4.31
-
Ṛk 8
यस्य॒ विश्वा॑नि॒ हस्त॑योरू॒चुर्वसू॑नि॒ नि द्वि॒ता ।
वी॒रस्य॑ पृतना॒षहः॑ ॥यस्य विश्वानि हस्तयोर् ऊचुर् वसूनि नि द्विता |
वीरस्य पृतनाषहः ||yásya víśvāni hástayorūcúrvásūni ní dvitā́ ǀ
vīrásya pṛtanāṣáhaḥ ǁyasya viśvāni hastayor ūcur vasūni ni dvitā |
vīrasya pṛtanāṣahaḥ ||यस्य॑ । विश्वा॑नि । हस्त॑योः । ऊ॒चुः । वसू॑नि । नि । द्वि॒ता ।
वी॒रस्य॑ । पृ॒त॒ना॒ऽसहः॑ ॥यस्य । विश्वानि । हस्तयोः । ऊचुः । वसूनि । नि । द्विता ।
वीरस्य । पृतनाऽसहः ॥yásya ǀ víśvāni ǀ hástayoḥ ǀ ūcúḥ ǀ vásūni ǀ ní ǀ dvitā́ ǀ
vīrásya ǀ pṛtanā-sáhaḥ ǁyasya ǀ viśvāni ǀ hastayoḥ ǀ ūcuḥ ǀ vasūni ǀ ni ǀ dvitā ǀ
vīrasya ǀ pṛtanā-sahaḥ ǁ6.45.8 Aṣṭaka 4.7.22.3Anuvāka 6.4.32
-
Ṛk 9
वि दृ॒ळ्हानि॑ चिदद्रिवो॒ जना॑नां शचीपते ।
वृ॒ह मा॒या अ॑नानत ॥वि दृऌहानि चिद् अद्रिवो जनानां शचीपते |
वृह माया अनानत ||ví dṛḷhā́ni cidadrivo jánānām śacīpate ǀ
vṛhá māyā́ anānata ǁvi dṛḷhāni cid adrivo janānāṃ śacīpate |
vṛha māyā anānata ||वि । दृ॒ळ्हानि॑ । चि॒त् । अ॒द्रि॒ऽवः॒ । जना॑नाम् । श॒ची॒ऽप॒ते॒ ।
वृ॒ह । मा॒याः । अ॒ना॒न॒त॒ ॥वि । दृळ्हानि । चित् । अद्रिऽवः । जनानाम् । शचीऽपते ।
वृह । मायाः । अनानत ॥ví ǀ dṛḷhā́ni ǀ cit ǀ adri-vaḥ ǀ jánānām ǀ śacī-pate ǀ
vṛhá ǀ māyā́ḥ ǀ anānata ǁvi ǀ dṛḷhāni ǀ cit ǀ adri-vaḥ ǀ janānām ǀ śacī-pate ǀ
vṛha ǀ māyāḥ ǀ anānata ǁ6.45.9 Aṣṭaka 4.7.22.4Anuvāka 6.4.33
-
Ṛk 10
तमु॑ त्वा सत्य सोमपा॒ इंद्र॑ वाजानां पते ।
अहू॑महि श्रव॒स्यवः॑ ॥तम् उ त्वा सत्य सोमपा इन्द्र वाजानाम् पते |
अहूमहि श्रवस्यवः ||támu tvā satya somapā índra vājānām pate ǀ
áhūmahi śravasyávaḥ ǁtam u tvā satya somapā indra vājānām pate |
ahūmahi śravasyavaḥ ||तम् । ऊं॒ इति॑ । त्वा॒ । स॒त्य॒ । सो॒म॒ऽपाः॒ । इन्द्र॑ । वा॒जा॒ना॒म् । प॒ते॒ ।
अहू॑महि । श्र॒व॒स्यवः॑ ॥तम् । ऊं इति । त्वा । सत्य । सोमऽपाः । इन्द्र । वाजानाम् । पते ।
अहूमहि । श्रवस्यवः ॥tám ǀ ūṃ íti ǀ tvā ǀ satya ǀ soma-pāḥ ǀ índra ǀ vājānām ǀ pate ǀ
áhūmahi ǀ śravasyávaḥ ǁtam ǀ ūṃ iti ǀ tvā ǀ satya ǀ soma-pāḥ ǀ indra ǀ vājānām ǀ pate ǀ
ahūmahi ǀ śravasyavaḥ ǁ6.45.10 Aṣṭaka 4.7.22.5Anuvāka 6.4.34
-
Ṛk 11
तमु॑ त्वा॒ यः पु॒रासि॑थ॒ यो वा॑ नू॒नं हि॒ते धने॑ ।
हव्यः॒ स श्रु॑धी॒ हवं॑ ॥तम् उ त्वा यः पुरासिथ यो वा नूनं हिते धने |
हव्यः स श्रुधी हवम् ||támu tvā yáḥ purā́sitha yó vā nūnám hité dháne ǀ
hávyaḥ sá śrudhī hávam ǁtam u tvā yaḥ purāsitha yo vā nūnaṃ hite dhane |
havyaḥ sa śrudhī havam ||तम् । ऊं॒ इति॑ । त्वा॒ । यः । पु॒रा । आसि॑थ । यः । वा॒ । नू॒नम् । हि॒ते । धने॑ ।
हव्यः॑ । सः । श्रु॒धि॒ । हव॑म् ॥तम् । ऊं इति । त्वा । यः । पुरा । आसिथ । यः । वा । नूनम् । हिते । धने ।
हव्यः । सः । श्रुधि । हवम् ॥tám ǀ ūṃ íti ǀ tvā ǀ yáḥ ǀ purā́ ǀ ā́sitha ǀ yáḥ ǀ vā ǀ nūnám ǀ hité ǀ dháne ǀ
hávyaḥ ǀ sáḥ ǀ śrudhi ǀ hávam ǁtam ǀ ūṃ iti ǀ tvā ǀ yaḥ ǀ purā ǀ āsitha ǀ yaḥ ǀ vā ǀ nūnam ǀ hite ǀ dhane ǀ
havyaḥ ǀ saḥ ǀ śrudhi ǀ havam ǁ6.45.11 Aṣṭaka 4.7.23.1Anuvāka 6.4.35
-
Ṛk 12
धी॒भिरर्व॑द्भि॒रर्व॑तो॒ वाजाँ॑ इंद्र श्र॒वाय्या॑न् ।
त्वया॑ जेष्म हि॒तं धनं॑ ॥धीभिर् अर्वद्भिर् अर्वतो वाजां इन्द्र श्रवाय्यान् |
त्वया जेष्म हितं धनम् ||dhībhírárvadbhirárvato vā́jām̐ indra śravā́yyān ǀ
tváyā jeṣma hitám dhánam ǁdhībhir arvadbhir arvato vājāṃ indra śravāyyān |
tvayā jeṣma hitaṃ dhanam ||धी॒भिः । अर्व॑त्ऽभिः । अर्व॑तः । वाजा॑न् । इ॒न्द्र॒ । श्र॒वाय्या॑न् ।
त्वया॑ । जे॒ष्म॒ । हि॒तम् । धन॑म् ॥धीभिः । अर्वत्ऽभिः । अर्वतः । वाजान् । इन्द्र । श्रवाय्यान् ।
त्वया । जेष्म । हितम् । धनम् ॥dhībhíḥ ǀ árvat-bhiḥ ǀ árvataḥ ǀ vā́jān ǀ indra ǀ śravā́yyān ǀ
tváyā ǀ jeṣma ǀ hitám ǀ dhánam ǁdhībhiḥ ǀ arvat-bhiḥ ǀ arvataḥ ǀ vājān ǀ indra ǀ śravāyyān ǀ
tvayā ǀ jeṣma ǀ hitam ǀ dhanam ǁ6.45.12 Aṣṭaka 4.7.23.2Anuvāka 6.4.36
-
Ṛk 13
अभू॑रु वीर गिर्वणो म॒हाँ इं॑द्र॒ धने॑ हि॒ते ।
भरे॑ वितंत॒साय्यः॑ ॥अभूर् उ वीर गिर्वणो महां इन्द्र धने हिते |
भरे वितन्तसाय्यः ||ábhūru vīra girvaṇo mahā́m̐ indra dháne hité ǀ
bháre vitantasā́yyaḥ ǁabhūr u vīra girvaṇo mahāṃ indra dhane hite |
bhare vitantasāyyaḥ ||अभूः॑ । ऊं॒ इति॑ । वी॒र॒ । गि॒र्व॒णः॒ । म॒हान् । इ॒न्द्र॒ । धने॑ । हि॒ते ।
भरे॑ । वि॒त॒न्त॒साय्यः॑ ॥अभूः । ऊं इति । वीर । गिर्वणः । महान् । इन्द्र । धने । हिते ।
भरे । वितन्तसाय्यः ॥ábhūḥ ǀ ūṃ íti ǀ vīra ǀ girvaṇaḥ ǀ mahā́n ǀ indra ǀ dháne ǀ hité ǀ
bháre ǀ vitantasā́yyaḥ ǁabhūḥ ǀ ūṃ iti ǀ vīra ǀ girvaṇaḥ ǀ mahān ǀ indra ǀ dhane ǀ hite ǀ
bhare ǀ vitantasāyyaḥ ǁ6.45.13 Aṣṭaka 4.7.23.3Anuvāka 6.4.37
-
Ṛk 14
या त॑ ऊ॒तिर॑मित्रहन्म॒क्षूज॑वस्त॒मास॑ति ।
तया॑ नो हिनुही॒ रथं॑ ॥या त ऊतिर् अमित्रहन् मक्षूजवस्तमासति |
तया नो हिनुही रथम् ||yā́ ta ūtíramitrahanmakṣū́javastamā́sati ǀ
táyā no hinuhī rátham ǁyā ta ūtir amitrahan makṣūjavastamāsati |
tayā no hinuhī ratham ||या । ते॒ । ऊ॒तिः । अ॒मि॒त्र॒ऽह॒न् । म॒क्षुज॑वःऽतमा । अस॑ति ।
तया॑ । नः॒ । हि॒नु॒हि॒ । रथ॑म् ॥या । ते । ऊतिः । अमित्रऽहन् । मक्षुजवःऽतमा । असति ।
तया । नः । हिनुहि । रथम् ॥yā́ ǀ te ǀ ūtíḥ ǀ amitra-han ǀ makṣújavaḥ-tamā ǀ ásati ǀ
táyā ǀ naḥ ǀ hinuhi ǀ rátham ǁyā ǀ te ǀ ūtiḥ ǀ amitra-han ǀ makṣujavaḥ-tamā ǀ asati ǀ
tayā ǀ naḥ ǀ hinuhi ǀ ratham ǁ6.45.14 Aṣṭaka 4.7.23.4Anuvāka 6.4.38
-
Ṛk 15
स रथे॑न र॒थीत॑मो॒ऽस्माके॑नाभि॒युग्व॑ना ।
जेषि॑ जिष्णो हि॒तं धनं॑ ॥स रथेन रथीतमो ऽस्माकेनाभियुग्वना |
जेषि जिष्णो हितं धनम् ||sá ráthena rathī́tamo’smā́kenābhiyúgvanā ǀ
jéṣi jiṣṇo hitám dhánam ǁsa rathena rathītamo 'smākenābhiyugvanā |
jeṣi jiṣṇo hitaṃ dhanam ||सः । रथे॑न । र॒थिऽत॑मः । अ॒स्माके॑न । अ॒भि॒ऽयुग्व॑ना ।
जेषि॑ । जि॒ष्णो॒ इति॑ । हि॒तम् । धन॑म् ॥सः । रथेन । रथिऽतमः । अस्माकेन । अभिऽयुग्वना ।
जेषि । जिष्णो इति । हितम् । धनम् ॥sáḥ ǀ ráthena ǀ rathí-tamaḥ ǀ asmā́kena ǀ abhi-yúgvanā ǀ
jéṣi ǀ jiṣṇo íti ǀ hitám ǀ dhánam ǁsaḥ ǀ rathena ǀ rathi-tamaḥ ǀ asmākena ǀ abhi-yugvanā ǀ
jeṣi ǀ jiṣṇo iti ǀ hitam ǀ dhanam ǁ6.45.15 Aṣṭaka 4.7.23.5Anuvāka 6.4.39
-
Ṛk 16
य एक॒ इत्तमु॑ ष्टुहि कृष्टी॒नां विच॑र्षणिः ।
पति॑र्ज॒ज्ञे वृष॑क्रतुः ॥य एक इत् तम् उ ष्टुहि कृष्टीनां विचर्षणिः |
पतिर् जज्ञे वृषक्रतुः ||yá éka íttámu ṣṭuhi kṛṣṭīnā́m vícarṣaṇiḥ ǀ
pátirjajñé vṛ́ṣakratuḥ ǁya eka it tam u ṣṭuhi kṛṣṭīnāṃ vicarṣaṇiḥ |
patir jajñe vṛṣakratuḥ ||यः । एकः॑ । इत् । तम् । ऊं॒ इति॑ । स्तु॒हि॒ । कृ॒ष्टी॒नाम् । विऽच॑र्षणिः ।
पतिः॑ । ज॒ज्ञे । वृष॑ऽक्रतुः ॥यः । एकः । इत् । तम् । ऊं इति । स्तुहि । कृष्टीनाम् । विऽचर्षणिः ।
पतिः । जज्ञे । वृषऽक्रतुः ॥yáḥ ǀ ékaḥ ǀ ít ǀ tám ǀ ūṃ íti ǀ stuhi ǀ kṛṣṭīnā́m ǀ ví-carṣaṇiḥ ǀ
pátiḥ ǀ jajñé ǀ vṛ́ṣa-kratuḥ ǁyaḥ ǀ ekaḥ ǀ it ǀ tam ǀ ūṃ iti ǀ stuhi ǀ kṛṣṭīnām ǀ vi-carṣaṇiḥ ǀ
patiḥ ǀ jajñe ǀ vṛṣa-kratuḥ ǁ6.45.16 Aṣṭaka 4.7.24.1Anuvāka 6.4.40
-
Ṛk 17
यो गृ॑ण॒तामिदासि॑था॒पिरू॒ती शि॒वः सखा॑ ।
स त्वं न॑ इंद्र मृळय ॥यो गृणताम् इद् आसिथापिर् ऊती शिवः सखा |
स त्वं न इन्द्र मृऌअय ||yó gṛṇatā́mídā́sithāpírūtī́ śiváḥ sákhā ǀ
sá tvám na indra mṛḷaya ǁyo gṛṇatām id āsithāpir ūtī śivaḥ sakhā |
sa tvaṃ na indra mṛḷaya ||यः । गृ॒ण॒ताम् । इत् । आसि॑थ । आ॒पिः । ऊ॒ती । शि॒वः । सखा॑ ।
सः । त्वम् । नः॒ । इ॒न्द्र॒ । मृ॒ळ॒य॒ ॥यः । गृणताम् । इत् । आसिथ । आपिः । ऊती । शिवः । सखा ।
सः । त्वम् । नः । इन्द्र । मृळय ॥yáḥ ǀ gṛṇatā́m ǀ ít ǀ ā́sitha ǀ āpíḥ ǀ ūtī́ ǀ śiváḥ ǀ sákhā ǀ
sáḥ ǀ tvám ǀ naḥ ǀ indra ǀ mṛḷaya ǁyaḥ ǀ gṛṇatām ǀ it ǀ āsitha ǀ āpiḥ ǀ ūtī ǀ śivaḥ ǀ sakhā ǀ
saḥ ǀ tvam ǀ naḥ ǀ indra ǀ mṛḷaya ǁ6.45.17 Aṣṭaka 4.7.24.2Anuvāka 6.4.41
-
Ṛk 18
धि॒ष्व वज्रं॒ गभ॑स्त्यो रक्षो॒हत्या॑य वज्रिवः ।
सा॒स॒ही॒ष्ठा अ॒भि स्पृधः॑ ॥धिष्व वज्रं गभस्त्यो रक्षोहत्याय वज्रिवः |
सासहीष्ठा अभि स्पृधः ||dhiṣvá vájram gábhastyo rakṣohátyāya vajrivaḥ ǀ
sāsahīṣṭhā́ abhí spṛ́dhaḥ ǁdhiṣva vajraṃ gabhastyo rakṣohatyāya vajrivaḥ |
sāsahīṣṭhā abhi spṛdhaḥ ||धि॒ष्व । वज्र॑म् । गभ॑स्त्योः । र॒क्षः॒ऽहत्या॑य । व॒ज्रि॒ऽवः॒ ।
स॒स॒ही॒ष्ठाः । अ॒भि । स्पृधः॑ ॥धिष्व । वज्रम् । गभस्त्योः । रक्षःऽहत्याय । वज्रिऽवः ।
ससहीष्ठाः । अभि । स्पृधः ॥dhiṣvá ǀ vájram ǀ gábhastyoḥ ǀ rakṣaḥ-hátyāya ǀ vajri-vaḥ ǀ
sasahīṣṭhā́ḥ ǀ abhí ǀ spṛ́dhaḥ ǁdhiṣva ǀ vajram ǀ gabhastyoḥ ǀ rakṣaḥ-hatyāya ǀ vajri-vaḥ ǀ
sasahīṣṭhāḥ ǀ abhi ǀ spṛdhaḥ ǁ6.45.18 Aṣṭaka 4.7.24.3Anuvāka 6.4.42
-
Ṛk 19
प्र॒त्नं र॑यी॒णां युजं॒ सखा॑यं कीरि॒चोद॑नं ।
ब्रह्म॑वाहस्तमं हुवे ॥प्रत्नं रयीणां युजं सखायं कीरिचोदनम् |
ब्रह्मवाहस्तमं हुवे ||pratnám rayīṇā́m yújam sákhāyam kīricódanam ǀ
bráhmavāhastamam huve ǁpratnaṃ rayīṇāṃ yujaṃ sakhāyaṃ kīricodanam |
brahmavāhastamaṃ huve ||प्र॒त्नम् । र॒यी॒णाम् । युज॑म् । सखा॑यम् । की॒रि॒ऽचोद॑नम् ।
ब्रह्म॑ऽवाहःऽतमम् । हु॒वे॒ ॥प्रत्नम् । रयीणाम् । युजम् । सखायम् । कीरिऽचोदनम् ।
ब्रह्मऽवाहःऽतमम् । हुवे ॥pratnám ǀ rayīṇā́m ǀ yújam ǀ sákhāyam ǀ kīri-códanam ǀ
bráhma-vāhaḥ-tamam ǀ huve ǁpratnam ǀ rayīṇām ǀ yujam ǀ sakhāyam ǀ kīri-codanam ǀ
brahma-vāhaḥ-tamam ǀ huve ǁ6.45.19 Aṣṭaka 4.7.24.4Anuvāka 6.4.43
-
Ṛk 20
स हि विश्वा॑नि॒ पार्थि॑वाँ॒ एको॒ वसू॑नि॒ पत्य॑ते ।
गिर्व॑णस्तमो॒ अध्रि॑गुः ॥स हि विश्वानि पार्थिवां एको वसूनि पत्यते |
गिर्वणस्तमो अध्रिगुः ||sá hí víśvāni pā́rthivām̐ éko vásūni pátyate ǀ
gírvaṇastamo ádhriguḥ ǁsa hi viśvāni pārthivāṃ eko vasūni patyate |
girvaṇastamo adhriguḥ ||सः । हि । विश्वा॑नि । पार्थि॑वा । एकः॑ । वसू॑नि । पत्य॑ते ।
गिर्व॑णःऽतमः । अध्रि॑ऽगुः ॥सः । हि । विश्वानि । पार्थिवा । एकः । वसूनि । पत्यते ।
गिर्वणःऽतमः । अध्रिऽगुः ॥sáḥ ǀ hí ǀ víśvāni ǀ pā́rthivā ǀ ékaḥ ǀ vásūni ǀ pátyate ǀ
gírvaṇaḥ-tamaḥ ǀ ádhri-guḥ ǁsaḥ ǀ hi ǀ viśvāni ǀ pārthivā ǀ ekaḥ ǀ vasūni ǀ patyate ǀ
girvaṇaḥ-tamaḥ ǀ adhri-guḥ ǁ6.45.20 Aṣṭaka 4.7.24.5Anuvāka 6.4.44
-
Ṛk 21
स नो॑ नि॒युद्भि॒रा पृ॑ण॒ कामं॒ वाजे॑भिर॒श्विभिः॑ ।
गोम॑द्भिर्गोपते धृ॒षत् ॥स नो नियुद्भिर् आ पृण कामं वाजेभिर् अश्विभिः |
गोमद्भिर् गोपते धृषत् ||sá no niyúdbhirā́ pṛṇa kā́mam vā́jebhiraśvíbhiḥ ǀ
gómadbhirgopate dhṛṣát ǁsa no niyudbhir ā pṛṇa kāmaṃ vājebhir aśvibhiḥ |
gomadbhir gopate dhṛṣat ||सः । नः॒ । नि॒युत्ऽभिः॑ । आ । पृ॒ण॒ । काम॑म् । वाजे॑भिः । अ॒श्विऽभिः॑ ।
गोम॑त्ऽभिः । गो॒ऽप॒ते॒ । धृ॒षत् ॥सः । नः । नियुत्ऽभिः । आ । पृण । कामम् । वाजेभिः । अश्विऽभिः ।
गोमत्ऽभिः । गोऽपते । धृषत् ॥sáḥ ǀ naḥ ǀ niyút-bhiḥ ǀ ā́ ǀ pṛṇa ǀ kā́mam ǀ vā́jebhiḥ ǀ aśví-bhiḥ ǀ
gómat-bhiḥ ǀ go-pate ǀ dhṛṣát ǁsaḥ ǀ naḥ ǀ niyut-bhiḥ ǀ ā ǀ pṛṇa ǀ kāmam ǀ vājebhiḥ ǀ aśvi-bhiḥ ǀ
gomat-bhiḥ ǀ go-pate ǀ dhṛṣat ǁ6.45.21 Aṣṭaka 4.7.25.1Anuvāka 6.4.45
-
Ṛk 22
तद्वो॑ गाय सु॒ते सचा॑ पुरुहू॒ताय॒ सत्व॑ने ।
शं यद्गवे॒ न शा॒किने॑ ॥तद् वो गाय सुते सचा पुरुहूताय सत्वने |
शं यद् गवे न शाकिने ||tádvo gāya suté sácā puruhūtā́ya sátvane ǀ
śám yádgáve ná śākíne ǁtad vo gāya sute sacā puruhūtāya satvane |
śaṃ yad gave na śākine ||तत् । वः॒ । गा॒य॒ । सु॒ते । सचा॑ । पु॒रु॒ऽहू॒ताय॑ । सत्व॑ने ।
शम् । यत् । गवे॑ । न । शा॒किने॑ ॥तत् । वः । गाय । सुते । सचा । पुरुऽहूताय । सत्वने ।
शम् । यत् । गवे । न । शाकिने ॥tát ǀ vaḥ ǀ gāya ǀ suté ǀ sácā ǀ puru-hūtā́ya ǀ sátvane ǀ
śám ǀ yát ǀ gáve ǀ ná ǀ śākíne ǁtat ǀ vaḥ ǀ gāya ǀ sute ǀ sacā ǀ puru-hūtāya ǀ satvane ǀ
śam ǀ yat ǀ gave ǀ na ǀ śākine ǁ6.45.22 Aṣṭaka 4.7.25.2Anuvāka 6.4.46
-
Ṛk 23
न घा॒ वसु॒र्नि य॑मते दा॒नं वाज॑स्य॒ गोम॑तः ।
यत्सी॒मुप॒ श्रव॒द्गिरः॑ ॥न घा वसुर् नि यमते दानं वाजस्य गोमतः |
यत् सीम् उप श्रवद् गिरः ||ná ghā vásurní yamate dānám vā́jasya gómataḥ ǀ
yátsīmúpa śrávadgíraḥ ǁna ghā vasur ni yamate dānaṃ vājasya gomataḥ |
yat sīm upa śravad giraḥ ||न । घ॒ । वसुः॑ । नि । य॒म॒ते॒ । दा॒नम् । वाज॑स्य । गोऽम॑तः ।
यत् । सी॒म् । उप॑ । श्रव॑त् । गिरः॑ ॥न । घ । वसुः । नि । यमते । दानम् । वाजस्य । गोऽमतः ।
यत् । सीम् । उप । श्रवत् । गिरः ॥ná ǀ gha ǀ vásuḥ ǀ ní ǀ yamate ǀ dānám ǀ vā́jasya ǀ gó-mataḥ ǀ
yát ǀ sīm ǀ úpa ǀ śrávat ǀ gíraḥ ǁna ǀ gha ǀ vasuḥ ǀ ni ǀ yamate ǀ dānam ǀ vājasya ǀ go-mataḥ ǀ
yat ǀ sīm ǀ upa ǀ śravat ǀ giraḥ ǁ6.45.23 Aṣṭaka 4.7.25.3Anuvāka 6.4.47
-
Ṛk 24
कु॒वित्स॑स्य॒ प्र हि व्र॒जं गोमं॑तं दस्यु॒हा गम॑त् ।
शची॑भि॒रप॑ नो वरत् ॥कुवित्सस्य प्र हि व्रजं गोमन्तं दस्युहा गमत् |
शचीभिर् अप नो वरत् ||kuvítsasya prá hí vrajám gómantam dasyuhā́ gámat ǀ
śácībhirápa no varat ǁkuvitsasya pra hi vrajaṃ gomantaṃ dasyuhā gamat |
śacībhir apa no varat ||कु॒वित्ऽस॑स्य । प्र । हि । व्र॒जम् । गोऽम॑न्तम् । द॒स्यु॒ऽहा । गम॑त् ।
शची॑भिः । अप॑ । नः॒ । व॒र॒त् ॥कुवित्ऽसस्य । प्र । हि । व्रजम् । गोऽमन्तम् । दस्युऽहा । गमत् ।
शचीभिः । अप । नः । वरत् ॥kuvít-sasya ǀ prá ǀ hí ǀ vrajám ǀ gó-mantam ǀ dasyu-hā́ ǀ gámat ǀ
śácībhiḥ ǀ ápa ǀ naḥ ǀ varat ǁkuvit-sasya ǀ pra ǀ hi ǀ vrajam ǀ go-mantam ǀ dasyu-hā ǀ gamat ǀ
śacībhiḥ ǀ apa ǀ naḥ ǀ varat ǁ6.45.24 Aṣṭaka 4.7.25.4Anuvāka 6.4.48
-
Ṛk 25
इ॒मा उ॑ त्वा शतक्रतो॒ऽभि प्र णो॑नुवु॒र्गिरः॑ ।
इंद्र॑ व॒त्सं न मा॒तरः॑ ॥इमा उ त्वा शतक्रतो ऽभि प्र णोनुवुर् गिरः |
इन्द्र वत्सं न मातरः ||imā́ u tvā śatakrato’bhí prá ṇonuvurgíraḥ ǀ
índra vatsám ná mātáraḥ ǁimā u tvā śatakrato 'bhi pra ṇonuvur giraḥ |
indra vatsaṃ na mātaraḥ ||इ॒माः । ऊं॒ इति॑ । त्वा॒ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । अ॒भि । प्र । नो॒नु॒वुः॒ । गिरः॑ ।
इन्द्र॑ । व॒त्सम् । न । मा॒तरः॑ ॥इमाः । ऊं इति । त्वा । शतक्रतो इति शतऽक्रतो । अभि । प्र । नोनुवुः । गिरः ।
इन्द्र । वत्सम् । न । मातरः ॥imā́ḥ ǀ ūṃ íti ǀ tvā ǀ śatakrato íti śata-krato ǀ abhí ǀ prá ǀ nonuvuḥ ǀ gíraḥ ǀ
índra ǀ vatsám ǀ ná ǀ mātáraḥ ǁimāḥ ǀ ūṃ iti ǀ tvā ǀ śatakrato iti śata-krato ǀ abhi ǀ pra ǀ nonuvuḥ ǀ giraḥ ǀ
indra ǀ vatsam ǀ na ǀ mātaraḥ ǁ6.45.25 Aṣṭaka 4.7.25.5Anuvāka 6.4.49
-
Ṛk 26
दू॒णाशं॑ स॒ख्यं तव॒ गौर॑सि वीर गव्य॒ते ।
अश्वो॑ अश्वाय॒ते भ॑व ॥दूणाशं सख्यं तव गौर् असि वीर गव्यते |
अश्वो अश्वायते भव ||dūṇā́śam sakhyám táva gáurasi vīra gavyaté ǀ
áśvo aśvāyaté bhava ǁdūṇāśaṃ sakhyaṃ tava gaur asi vīra gavyate |
aśvo aśvāyate bhava ||दुः॒ऽनश॑म् । स॒ख्यम् । तव॑ । गौः । अ॒सि॒ । वी॒र॒ । ग॒व्य॒ते ।
अश्वः॑ । अ॒श्व॒ऽय॒ते । भ॒व॒ ॥दुःऽनशम् । सख्यम् । तव । गौः । असि । वीर । गव्यते ।
अश्वः । अश्वऽयते । भव ॥duḥ-náśam ǀ sakhyám ǀ táva ǀ gáuḥ ǀ asi ǀ vīra ǀ gavyaté ǀ
áśvaḥ ǀ aśva-yaté ǀ bhava ǁduḥ-naśam ǀ sakhyam ǀ tava ǀ gauḥ ǀ asi ǀ vīra ǀ gavyate ǀ
aśvaḥ ǀ aśva-yate ǀ bhava ǁ6.45.26 Aṣṭaka 4.7.26.1Anuvāka 6.4.50
-
Ṛk 27
स मं॑दस्वा॒ ह्यंध॑सो॒ राध॑से त॒न्वा॑ म॒हे ।
न स्तो॒तारं॑ नि॒दे क॑रः ॥स मन्दस्वा ह्य् अन्धसो राधसे तन्वा महे |
न स्तोतारं निदे करः ||sá mandasvā hyándhaso rā́dhase tanvā́ mahé ǀ
ná stotā́ram nidé karaḥ ǁsa mandasvā hy andhaso rādhase tanvā mahe |
na stotāraṃ nide karaḥ ||सः । म॒न्द॒स्व॒ । हि । अन्ध॑सः । राध॑से । त॒न्वा॑ । म॒हे ।
न । स्तो॒तार॑म् । नि॒दे । क॒रः॒ ॥सः । मन्दस्व । हि । अन्धसः । राधसे । तन्वा । महे ।
न । स्तोतारम् । निदे । करः ॥sáḥ ǀ mandasva ǀ hí ǀ ándhasaḥ ǀ rā́dhase ǀ tanvā́ ǀ mahé ǀ
ná ǀ stotā́ram ǀ nidé ǀ karaḥ ǁsaḥ ǀ mandasva ǀ hi ǀ andhasaḥ ǀ rādhase ǀ tanvā ǀ mahe ǀ
na ǀ stotāram ǀ nide ǀ karaḥ ǁ6.45.27 Aṣṭaka 4.7.26.2Anuvāka 6.4.51
-
Ṛk 28
इ॒मा उ॑ त्वा सु॒तेसु॑ते॒ नक्षं॑ते गिर्वणो॒ गिरः॑ ।
व॒त्सं गावो॒ न धे॒नवः॑ ॥इमा उ त्वा सुते-सुते नक्षन्ते गिर्वणो गिरः |
वत्सं गावो न धेनवः ||imā́ u tvā sutésute nákṣante girvaṇo gíraḥ ǀ
vatsám gā́vo ná dhenávaḥ ǁimā u tvā sute-sute nakṣante girvaṇo giraḥ |
vatsaṃ gāvo na dhenavaḥ ||इ॒माः । ऊं॒ इति॑ । त्वा॒ । सु॒तेऽसु॑ते । नक्ष॑न्ते । गि॒र्व॒णः॒ । गिरः॑ ।
व॒त्सम् । गावः॑ । न । धे॒नवः॑ ॥इमाः । ऊं इति । त्वा । सुतेऽसुते । नक्षन्ते । गिर्वणः । गिरः ।
वत्सम् । गावः । न । धेनवः ॥imā́ḥ ǀ ūṃ íti ǀ tvā ǀ suté-sute ǀ nákṣante ǀ girvaṇaḥ ǀ gíraḥ ǀ
vatsám ǀ gā́vaḥ ǀ ná ǀ dhenávaḥ ǁimāḥ ǀ ūṃ iti ǀ tvā ǀ sute-sute ǀ nakṣante ǀ girvaṇaḥ ǀ giraḥ ǀ
vatsam ǀ gāvaḥ ǀ na ǀ dhenavaḥ ǁ6.45.28 Aṣṭaka 4.7.26.3Anuvāka 6.4.52
-
Ṛk 29
पु॒रू॒तमं॑ पुरू॒णां स्तो॑तॄ॒णां विवा॑चि ।
वाजे॑भिर्वाजय॒तां ॥पुरूतमम् पुरूणां स्तोतॄणां विवाचि |
वाजेभिर् वाजयताम् ||purūtámam purūṇā́m stotṝṇā́m vívāci ǀ
vā́jebhirvājayatā́m ǁpurūtamam purūṇāṃ stotṝṇāṃ vivāci |
vājebhir vājayatām ||पु॒रु॒ऽतम॑म् । पु॒रू॒णाम् । स्तो॒तॄ॒णाम् । विऽवा॑चि ।
वाजे॑भिः । वा॒ज॒ऽय॒ताम् ॥पुरुऽतमम् । पुरूणाम् । स्तोतॄणाम् । विऽवाचि ।
वाजेभिः । वाजऽयताम् ॥puru-támam ǀ purūṇā́m ǀ stotṝṇā́m ǀ ví-vāci ǀ
vā́jebhiḥ ǀ vāja-yatā́m ǁpuru-tamam ǀ purūṇām ǀ stotṝṇām ǀ vi-vāci ǀ
vājebhiḥ ǀ vāja-yatām ǁ6.45.29 Aṣṭaka 4.7.26.4Anuvāka 6.4.53
-
Ṛk 30
अ॒स्माक॑मिंद्र भूतु ते॒ स्तोमो॒ वाहि॑ष्ठो॒ अंत॑मः ।
अ॒स्मान्रा॒ये म॒हे हि॑नु ॥अस्माकम् इन्द्र भूतु ते स्तोमो वाहिष्ठो अन्तमः |
अस्मान् राये महे हिनु ||asmā́kamindra bhūtu te stómo vā́hiṣṭho ántamaḥ ǀ
asmā́nrāyé mahé hinu ǁasmākam indra bhūtu te stomo vāhiṣṭho antamaḥ |
asmān rāye mahe hinu ||अ॒स्माक॑म् । इ॒न्द्र॒ । भू॒तु॒ । ते॒ । स्तोमः॑ । वाहि॑ष्ठः । अन्त॑मः ।
अ॒स्मान् । रा॒ये । म॒हे । हि॒नु॒ ॥अस्माकम् । इन्द्र । भूतु । ते । स्तोमः । वाहिष्ठः । अन्तमः ।
अस्मान् । राये । महे । हिनु ॥asmā́kam ǀ indra ǀ bhūtu ǀ te ǀ stómaḥ ǀ vā́hiṣṭhaḥ ǀ ántamaḥ ǀ
asmā́n ǀ rāyé ǀ mahé ǀ hinu ǁasmākam ǀ indra ǀ bhūtu ǀ te ǀ stomaḥ ǀ vāhiṣṭhaḥ ǀ antamaḥ ǀ
asmān ǀ rāye ǀ mahe ǀ hinu ǁ6.45.30 Aṣṭaka 4.7.26.5Anuvāka 6.4.54
-
Ṛk 31
अधि॑ बृ॒बुः प॑णी॒नां वर्षि॑ष्ठे मू॒र्धन्न॑स्थात् ।
उ॒रुः कक्षो॒ न गां॒ग्यः ॥अधि बृबुः पणीनां वर्षिष्ठे मूर्धन्न् अस्थात् |
उरुः कक्षो न गाङ्ग्यः ||ádhi bṛbúḥ paṇīnā́m várṣiṣṭhe mūrdhánnasthāt ǀ
urúḥ kákṣo ná gāṅgyáḥ ǁadhi bṛbuḥ paṇīnāṃ varṣiṣṭhe mūrdhann asthāt |
uruḥ kakṣo na gāṅgyaḥ ||अधि॑ । बृ॒बुः । प॒णी॒नाम् । वर्षि॑ष्ठे । मू॒र्धन् । अ॒स्था॒त् ।
उ॒रुः । कक्षः॑ । न । गा॒ङ्ग्यः ॥अधि । बृबुः । पणीनाम् । वर्षिष्ठे । मूर्धन् । अस्थात् ।
उरुः । कक्षः । न । गाङ्ग्यः ॥ádhi ǀ bṛbúḥ ǀ paṇīnā́m ǀ várṣiṣṭhe ǀ mūrdhán ǀ asthāt ǀ
urúḥ ǀ kákṣaḥ ǀ ná ǀ gāṅgyáḥ ǁadhi ǀ bṛbuḥ ǀ paṇīnām ǀ varṣiṣṭhe ǀ mūrdhan ǀ asthāt ǀ
uruḥ ǀ kakṣaḥ ǀ na ǀ gāṅgyaḥ ǁ6.45.31 Aṣṭaka 4.7.26.6Anuvāka 6.4.55
-
Ṛk 32
यस्य॑ वा॒योरि॑व द्र॒वद्भ॒द्रा रा॒तिः स॑ह॒स्रिणी॑ ।
स॒द्यो दा॒नाय॒ मंह॑ते ॥यस्य वायोर् इव द्रवद् भद्रा रातिः सहस्रिणी |
सद्यो दानाय मंहते ||yásya vāyóriva dravádbhadrā́ rātíḥ sahasríṇī ǀ
sadyó dānā́ya máṃhate ǁyasya vāyor iva dravad bhadrā rātiḥ sahasriṇī |
sadyo dānāya maṃhate ||यस्य॑ । वा॒योःऽइ॑व । द्र॒वत् । भ॒द्रा । रा॒तिः । स॒ह॒स्रिणी॑ ।
स॒द्यः । दा॒नाय॑ । मंह॑ते ॥यस्य । वायोःऽइव । द्रवत् । भद्रा । रातिः । सहस्रिणी ।
सद्यः । दानाय । मंहते ॥yásya ǀ vāyóḥ-iva ǀ dravát ǀ bhadrā́ ǀ rātíḥ ǀ sahasríṇī ǀ
sadyáḥ ǀ dānā́ya ǀ máṃhate ǁyasya ǀ vāyoḥ-iva ǀ dravat ǀ bhadrā ǀ rātiḥ ǀ sahasriṇī ǀ
sadyaḥ ǀ dānāya ǀ maṃhate ǁ6.45.32 Aṣṭaka 4.7.26.7Anuvāka 6.4.56
-
Ṛk 33
तत्सु नो॒ विश्वे॑ अ॒र्य आ सदा॑ गृणंति का॒रवः॑ ।
बृ॒बुं स॑हस्र॒दात॑मं सू॒रिं स॑हस्र॒सात॑मं ॥तत् सु नो विश्वे अर्य आ सदा गृणन्ति कारवः |
बृबुं सहस्रदातमं सूरिं सहस्रसातमम् ||tátsú no víśve aryá ā́ sádā gṛṇanti kārávaḥ ǀ
bṛbúm sahasradā́tamam sūrím sahasrasā́tamam ǁtat su no viśve arya ā sadā gṛṇanti kāravaḥ |
bṛbuṃ sahasradātamaṃ sūriṃ sahasrasātamam ||तत् । सु । नः॒ । विश्वे॑ । अ॒र्यः । आ । सदा॑ । गृ॒ण॒न्ति॒ । का॒रवः॑ ।
बृ॒बुम् । स॒ह॒स्र॒ऽदात॑मम् । सू॒रिम् । स॒ह॒स्र॒ऽसात॑मम् ॥तत् । सु । नः । विश्वे । अर्यः । आ । सदा । गृणन्ति । कारवः ।
बृबुम् । सहस्रऽदातमम् । सूरिम् । सहस्रऽसातमम् ॥tát ǀ sú ǀ naḥ ǀ víśve ǀ aryáḥ ǀ ā́ ǀ sádā ǀ gṛṇanti ǀ kārávaḥ ǀ
bṛbúm ǀ sahasra-dā́tamam ǀ sūrím ǀ sahasra-sā́tamam ǁtat ǀ su ǀ naḥ ǀ viśve ǀ aryaḥ ǀ ā ǀ sadā ǀ gṛṇanti ǀ kāravaḥ ǀ
bṛbum ǀ sahasra-dātamam ǀ sūrim ǀ sahasra-sātamam ǁ6.45.33 Aṣṭaka 4.7.26.8Anuvāka 6.4.57
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.