Sūkta 63
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh, Ekapadā
Metres by ṛk
1st set of styles paṅktiḥ (2, 4, 6, 7); bhurikpaṅkti (3, 10); nicṛttriṣṭup (5, 9); svarāḍbṛhatī (1); svarāṭpaṅkti (8); āsurīpaṅkti (11)
2nd set of styles triṣṭubh (1-10); ekapadā (11)
-
Ṛk 1
क्व१॒॑ त्या व॒ल्गू पु॑रुहू॒ताद्य दू॒तो न स्तोमो॑ऽविद॒न्नम॑स्वान् ।
आ यो अ॒र्वाङ्नास॑त्या व॒वर्त॒ प्रेष्ठा॒ ह्यस॑थो अस्य॒ मन्म॑न् ॥क्व त्या वल्गू पुरुहूताद्य दूतो न स्तोमो ऽविदन् नमस्वान् |
आ यो अर्वाङ् नासत्या ववर्त प्रेष्ठा ह्य् असथो अस्य मन्मन् ||kvá tyā́ valgū́ puruhūtā́dyá dūtó ná stómo’vidannámasvān ǀ
ā́ yó arvā́ṅnā́satyā vavárta préṣṭhā hyásatho asya mánman ǁkva tyā valgū puruhūtādya dūto na stomo 'vidan namasvān |
ā yo arvāṅ nāsatyā vavarta preṣṭhā hy asatho asya manman ||क्व॑ । त्या । व॒ल्गू इति॑ । पु॒रु॒ऽहू॒ता । अ॒द्य । दू॒तः । न । स्तोमः॑ । अ॒वि॒द॒त् । नम॑स्वान् ।
आ । यः । अ॒र्वाक् । नास॑त्या । व॒वर्त॑ । प्रेष्ठा॑ । हि । अस॑थः । अ॒स्य॒ । मन्म॑न् ॥क्व । त्या । वल्गू इति । पुरुऽहूता । अद्य । दूतः । न । स्तोमः । अविदत् । नमस्वान् ।
आ । यः । अर्वाक् । नासत्या । ववर्त । प्रेष्ठा । हि । असथः । अस्य । मन्मन् ॥kvá ǀ tyā́ ǀ valgū́ íti ǀ puru-hūtā́ ǀ adyá ǀ dūtáḥ ǀ ná ǀ stómaḥ ǀ avidat ǀ námasvān ǀ
ā́ ǀ yáḥ ǀ arvā́k ǀ nā́satyā ǀ vavárta ǀ préṣṭhā ǀ hí ǀ ásathaḥ ǀ asya ǀ mánman ǁkva ǀ tyā ǀ valgū iti ǀ puru-hūtā ǀ adya ǀ dūtaḥ ǀ na ǀ stomaḥ ǀ avidat ǀ namasvān ǀ
ā ǀ yaḥ ǀ arvāk ǀ nāsatyā ǀ vavarta ǀ preṣṭhā ǀ hi ǀ asathaḥ ǀ asya ǀ manman ǁ6.63.1 Aṣṭaka 5.1.3.1Anuvāka 6.6.12
-
Ṛk 2
अरं॑ मे गंतं॒ हव॑नाया॒स्मै गृ॑णा॒ना यथा॒ पिबा॑थो॒ अंधः॑ ।
परि॑ ह॒ त्यद्व॒र्तिर्या॑थो रि॒षो न यत्परो॒ नांत॑रस्तुतु॒र्यात् ॥अरम् मे गन्तं हवनायास्मै गृणाना यथा पिबाथो अन्धः |
परि ह त्यद् वर्तिर् याथो रिषो न यत् परो नान्तरस् तुतुर्यात् ||áram me gantam hávanāyāsmái gṛṇānā́ yáthā píbātho ándhaḥ ǀ
pári ha tyádvartíryātho riṣó ná yátpáro nā́ntarastuturyā́t ǁaram me gantaṃ havanāyāsmai gṛṇānā yathā pibātho andhaḥ |
pari ha tyad vartir yātho riṣo na yat paro nāntaras tuturyāt ||अर॑म् । मे॒ । ग॒न्त॒म् । हव॑नाय । अ॒स्मै । गृ॒णा॒ना । यथा॑ । पिबा॑थः । अन्धः॑ ।
परि॑ । ह॒ । त्यत् । व॒र्तिः । या॒थः॒ । रि॒षः । न । यत् । परः॑ । न । अन्त॑रः । तु॒तु॒र्यात् ॥अरम् । मे । गन्तम् । हवनाय । अस्मै । गृणाना । यथा । पिबाथः । अन्धः ।
परि । ह । त्यत् । वर्तिः । याथः । रिषः । न । यत् । परः । न । अन्तरः । तुतुर्यात् ॥áram ǀ me ǀ gantam ǀ hávanāya ǀ asmái ǀ gṛṇānā́ ǀ yáthā ǀ píbāthaḥ ǀ ándhaḥ ǀ
pári ǀ ha ǀ tyát ǀ vartíḥ ǀ yāthaḥ ǀ riṣáḥ ǀ ná ǀ yát ǀ páraḥ ǀ ná ǀ ántaraḥ ǀ tuturyā́t ǁaram ǀ me ǀ gantam ǀ havanāya ǀ asmai ǀ gṛṇānā ǀ yathā ǀ pibāthaḥ ǀ andhaḥ ǀ
pari ǀ ha ǀ tyat ǀ vartiḥ ǀ yāthaḥ ǀ riṣaḥ ǀ na ǀ yat ǀ paraḥ ǀ na ǀ antaraḥ ǀ tuturyāt ǁ6.63.2 Aṣṭaka 5.1.3.2Anuvāka 6.6.13
-
Ṛk 3
अका॑रि वा॒मंध॑सो॒ वरी॑म॒न्नस्ता॑रि ब॒र्हिः सु॑प्राय॒णत॑मं ।
उ॒त्ता॒नह॑स्तो युव॒युर्व॑वं॒दा वां॒ नक्षं॑तो॒ अद्र॑य आंजन् ॥अकारि वाम् अन्धसो वरीमन्न् अस्तारि बर्हिः सुप्रायणतमम् |
उत्तानहस्तो युवयुर् ववन्दा वां नक्षन्तो अद्रय आञ्जन् ||ákāri vāmándhaso várīmannástāri barhíḥ suprāyaṇátamam ǀ
uttānáhasto yuvayúrvavandā́ vām nákṣanto ádraya āñjan ǁakāri vām andhaso varīmann astāri barhiḥ suprāyaṇatamam |
uttānahasto yuvayur vavandā vāṃ nakṣanto adraya āñjan ||अका॑रि । वा॒म् । अन्ध॑सः । वरी॑मन् । अस्ता॑रि । ब॒र्हिः । सु॒प्र॒ऽअ॒य॒नत॑मम् ।
उ॒त्ता॒नऽह॑स्तः । यु॒व॒युः । व॒व॒न्द॒ । आ । वा॒म् । नक्ष॑न्तः । अद्र॑यः । आ॒ञ्ज॒न् ॥अकारि । वाम् । अन्धसः । वरीमन् । अस्तारि । बर्हिः । सुप्रऽअयनतमम् ।
उत्तानऽहस्तः । युवयुः । ववन्द । आ । वाम् । नक्षन्तः । अद्रयः । आञ्जन् ॥ákāri ǀ vām ǀ ándhasaḥ ǀ várīman ǀ ástāri ǀ barhíḥ ǀ supra-ayanátamam ǀ
uttāná-hastaḥ ǀ yuvayúḥ ǀ vavanda ǀ ā́ ǀ vām ǀ nákṣantaḥ ǀ ádrayaḥ ǀ āñjan ǁakāri ǀ vām ǀ andhasaḥ ǀ varīman ǀ astāri ǀ barhiḥ ǀ supra-ayanatamam ǀ
uttāna-hastaḥ ǀ yuvayuḥ ǀ vavanda ǀ ā ǀ vām ǀ nakṣantaḥ ǀ adrayaḥ ǀ āñjan ǁ6.63.3 Aṣṭaka 5.1.3.3Anuvāka 6.6.14
-
Ṛk 4
ऊ॒र्ध्वो वा॑म॒ग्निर॑ध्व॒रेष्व॑स्था॒त्प्र रा॒तिरे॑ति जू॒र्णिनी॑ घृ॒ताची॑ ।
प्र होता॑ गू॒र्तम॑ना उरा॒णोऽयु॑क्त॒ यो नास॑त्या॒ हवी॑मन् ॥ऊर्ध्वो वाम् अग्निर् अध्वरेष्व् अस्थात् प्र रातिर् एति जूर्णिनी घृताची |
प्र होता गूर्तमना उराणो ऽयुक्त यो नासत्या हवीमन् ||ūrdhvó vāmagníradhvaréṣvasthātprá rātíreti jūrṇínī ghṛtā́cī ǀ
prá hótā gūrtámanā urāṇó’yukta yó nā́satyā hávīman ǁūrdhvo vām agnir adhvareṣv asthāt pra rātir eti jūrṇinī ghṛtācī |
pra hotā gūrtamanā urāṇo 'yukta yo nāsatyā havīman ||ऊ॒र्ध्वः । वा॒म् । अ॒ग्निः । अ॒ध्व॒रेषु॑ । अ॒स्था॒त् । प्र । रा॒तिः । ए॒ति॒ । जू॒र्णिनी॑ । घृ॒ताची॑ ।
प्र । होता॑ । गू॒र्तऽम॑नाः । उ॒रा॒णः । अयु॑क्त । यः । नास॑त्या । हवी॑मन् ॥ऊर्ध्वः । वाम् । अग्निः । अध्वरेषु । अस्थात् । प्र । रातिः । एति । जूर्णिनी । घृताची ।
प्र । होता । गूर्तऽमनाः । उराणः । अयुक्त । यः । नासत्या । हवीमन् ॥ūrdhváḥ ǀ vām ǀ agníḥ ǀ adhvaréṣu ǀ asthāt ǀ prá ǀ rātíḥ ǀ eti ǀ jūrṇínī ǀ ghṛtā́cī ǀ
prá ǀ hótā ǀ gūrtá-manāḥ ǀ urāṇáḥ ǀ áyukta ǀ yáḥ ǀ nā́satyā ǀ hávīman ǁūrdhvaḥ ǀ vām ǀ agniḥ ǀ adhvareṣu ǀ asthāt ǀ pra ǀ rātiḥ ǀ eti ǀ jūrṇinī ǀ ghṛtācī ǀ
pra ǀ hotā ǀ gūrta-manāḥ ǀ urāṇaḥ ǀ ayukta ǀ yaḥ ǀ nāsatyā ǀ havīman ǁ6.63.4 Aṣṭaka 5.1.3.4Anuvāka 6.6.15
-
Ṛk 5
अधि॑ श्रि॒ये दु॑हि॒ता सूर्य॑स्य॒ रथं॑ तस्थौ पुरुभुजा श॒तोतिं॑ ।
प्र मा॒याभि॑र्मायिना भूत॒मत्र॒ नरा॑ नृतू॒ जनि॑मन्य॒ज्ञिया॑नां ॥अधि श्रिये दुहिता सूर्यस्य रथं तस्थौ पुरुभुजा शतोतिम् |
प्र मायाभिर् मायिना भूतम् अत्र नरा नृतू जनिमन् यज्ञियानाम् ||ádhi śriyé duhitā́ sū́ryasya rátham tasthau purubhujā śatótim ǀ
prá māyā́bhirmāyinā bhūtamátra nárā nṛtū jánimanyajñíyānām ǁadhi śriye duhitā sūryasya rathaṃ tasthau purubhujā śatotim |
pra māyābhir māyinā bhūtam atra narā nṛtū janiman yajñiyānām ||अधि॑ । श्रि॒ये । दु॒हि॒ता । सूर्य॑स्य । रथ॑म् । त॒स्थौ॒ । पु॒रु॒ऽभु॒जा॒ । श॒तऽऊ॑तिम् ।
प्र । मा॒याभिः॑ । मा॒यि॒ना॒ । भू॒त॒म् । अत्र॑ । नरा॑ । नृ॒तू॒ इति॑ । जनि॑मन् । य॒ज्ञिया॑नाम् ॥अधि । श्रिये । दुहिता । सूर्यस्य । रथम् । तस्थौ । पुरुऽभुजा । शतऽऊतिम् ।
प्र । मायाभिः । मायिना । भूतम् । अत्र । नरा । नृतू इति । जनिमन् । यज्ञियानाम् ॥ádhi ǀ śriyé ǀ duhitā́ ǀ sū́ryasya ǀ rátham ǀ tasthau ǀ puru-bhujā ǀ śatá-ūtim ǀ
prá ǀ māyā́bhiḥ ǀ māyinā ǀ bhūtam ǀ átra ǀ nárā ǀ nṛtū íti ǀ jániman ǀ yajñíyānām ǁadhi ǀ śriye ǀ duhitā ǀ sūryasya ǀ ratham ǀ tasthau ǀ puru-bhujā ǀ śata-ūtim ǀ
pra ǀ māyābhiḥ ǀ māyinā ǀ bhūtam ǀ atra ǀ narā ǀ nṛtū iti ǀ janiman ǀ yajñiyānām ǁ6.63.5 Aṣṭaka 5.1.3.5Anuvāka 6.6.16
-
Ṛk 6
यु॒वं श्री॒भिर्द॑र्श॒ताभि॑रा॒भिः शु॒भे पु॒ष्टिमू॑हथुः सू॒र्यायाः॑ ।
प्र वां॒ वयो॒ वपु॒षेऽनु॑ पप्त॒न्नक्ष॒द्वाणी॒ सुष्टु॑ता धिष्ण्या वां ॥युवं श्रीभिर् दर्शताभिर् आभिः शुभे पुष्टिम् ऊहथुः सूर्यायाः |
प्र वां वयो वपुषे ऽनु पप्तन् नक्षद् वाणी सुष्टुता धिष्ण्या वाम् ||yuvám śrībhírdarśatā́bhirābhíḥ śubhé puṣṭímūhathuḥ sūryā́yāḥ ǀ
prá vām váyo vápuṣé’nu paptannákṣadvā́ṇī súṣṭutā dhiṣṇyā vām ǁyuvaṃ śrībhir darśatābhir ābhiḥ śubhe puṣṭim ūhathuḥ sūryāyāḥ |
pra vāṃ vayo vapuṣe 'nu paptan nakṣad vāṇī suṣṭutā dhiṣṇyā vām ||यु॒वम् । श्री॒भिः । द॒र्श॒ताभिः॑ । आ॒भिः । शु॒भे । पु॒ष्टिम् । ऊ॒ह॒थुः॒ । सू॒र्यायाः॑ ।
प्र । वा॒म् । वयः॑ । वपु॑षे । अनु॑ । प॒प्त॒न् । नक्ष॑त् । वाणी॑ । सुऽस्तु॑ता । धि॒ष्ण्या॒ । वा॒म् ॥युवम् । श्रीभिः । दर्शताभिः । आभिः । शुभे । पुष्टिम् । ऊहथुः । सूर्यायाः ।
प्र । वाम् । वयः । वपुषे । अनु । पप्तन् । नक्षत् । वाणी । सुऽस्तुता । धिष्ण्या । वाम् ॥yuvám ǀ śrībhíḥ ǀ darśatā́bhiḥ ǀ ābhíḥ ǀ śubhé ǀ puṣṭím ǀ ūhathuḥ ǀ sūryā́yāḥ ǀ
prá ǀ vām ǀ váyaḥ ǀ vápuṣe ǀ ánu ǀ paptan ǀ nákṣat ǀ vā́ṇī ǀ sú-stutā ǀ dhiṣṇyā ǀ vām ǁyuvam ǀ śrībhiḥ ǀ darśatābhiḥ ǀ ābhiḥ ǀ śubhe ǀ puṣṭim ǀ ūhathuḥ ǀ sūryāyāḥ ǀ
pra ǀ vām ǀ vayaḥ ǀ vapuṣe ǀ anu ǀ paptan ǀ nakṣat ǀ vāṇī ǀ su-stutā ǀ dhiṣṇyā ǀ vām ǁ6.63.6 Aṣṭaka 5.1.4.1Anuvāka 6.6.17
-
Ṛk 7
आ वां॒ वयोऽश्वा॑सो॒ वहि॑ष्ठा अ॒भि प्रयो॑ नासत्या वहंतु ।
प्र वां॒ रथो॒ मनो॑जवा असर्जी॒षः पृ॒क्ष इ॒षिधो॒ अनु॑ पू॒र्वीः ॥आ वां वयो ऽश्वासो वहिष्ठा अभि प्रयो नासत्या वहन्तु |
प्र वां रथो मनोजवा असर्जीषः पृक्ष इषिधो अनु पूर्वीः ||ā́ vām váyó’śvāso váhiṣṭhā abhí práyo nāsatyā vahantu ǀ
prá vām rátho mánojavā asarjīṣáḥ pṛkṣá iṣídho ánu pūrvī́ḥ ǁā vāṃ vayo 'śvāso vahiṣṭhā abhi prayo nāsatyā vahantu |
pra vāṃ ratho manojavā asarjīṣaḥ pṛkṣa iṣidho anu pūrvīḥ ||आ । वा॒म् । वयः॑ । अश्वा॑सः । वहि॑ष्ठाः । अ॒भि । प्रयः॑ । ना॒स॒त्या॒ । व॒ह॒न्तु॒ ।
प्र । वा॒म् । रथः॑ । मनः॑ऽजवाः । अ॒स॒र्जि॒ । इ॒षः । पृ॒क्षः । इ॒षिधः॑ । अनु॑ । पू॒र्वीः ॥आ । वाम् । वयः । अश्वासः । वहिष्ठाः । अभि । प्रयः । नासत्या । वहन्तु ।
प्र । वाम् । रथः । मनःऽजवाः । असर्जि । इषः । पृक्षः । इषिधः । अनु । पूर्वीः ॥ā́ ǀ vām ǀ váyaḥ ǀ áśvāsaḥ ǀ váhiṣṭhāḥ ǀ abhí ǀ práyaḥ ǀ nāsatyā ǀ vahantu ǀ
prá ǀ vām ǀ ráthaḥ ǀ mánaḥ-javāḥ ǀ asarji ǀ iṣáḥ ǀ pṛkṣáḥ ǀ iṣídhaḥ ǀ ánu ǀ pūrvī́ḥ ǁā ǀ vām ǀ vayaḥ ǀ aśvāsaḥ ǀ vahiṣṭhāḥ ǀ abhi ǀ prayaḥ ǀ nāsatyā ǀ vahantu ǀ
pra ǀ vām ǀ rathaḥ ǀ manaḥ-javāḥ ǀ asarji ǀ iṣaḥ ǀ pṛkṣaḥ ǀ iṣidhaḥ ǀ anu ǀ pūrvīḥ ǁ6.63.7 Aṣṭaka 5.1.4.2Anuvāka 6.6.18
-
Ṛk 8
पु॒रु हि वां॑ पुरुभुजा दे॒ष्णं धे॒नुं न॒ इषं॑ पिन्वत॒मस॑क्रां ।
स्तुत॑श्च वां माध्वी सुष्टु॒तिश्च॒ रसा॑श्च॒ ये वा॒मनु॑ रा॒तिमग्म॑न् ॥पुरु हि वाम् पुरुभुजा देष्णं धेनुं न इषम् पिन्वतम् असक्राम् |
स्तुतश् च वाम् माध्वी सुष्टुतिश् च रसाश् च ये वाम् अनु रातिम् अग्मन् ||purú hí vām purubhujā deṣṇám dhenúm na íṣam pinvatamásakrām ǀ
stútaśca vām mādhvī suṣṭutíśca rásāśca yé vāmánu rātímagman ǁpuru hi vām purubhujā deṣṇaṃ dhenuṃ na iṣam pinvatam asakrām |
stutaś ca vām mādhvī suṣṭutiś ca rasāś ca ye vām anu rātim agman ||पु॒रु । हि । वा॒म् । पु॒रु॒ऽभु॒जा॒ । दे॒ष्णम् । धे॒नुम् । नः॒ । इष॑म् । पि॒न्व॒त॒म् । अस॑क्राम् ।
स्तुतः॑ । च॒ । वा॒म् । मा॒ध्वी॒ इति॑ । सु॒ऽस्तु॒तिः । च॒ । रसाः॑ । च॒ । ये । वा॒म् । अनु॑ । रा॒तिम् । अग्म॑न् ॥पुरु । हि । वाम् । पुरुऽभुजा । देष्णम् । धेनुम् । नः । इषम् । पिन्वतम् । असक्राम् ।
स्तुतः । च । वाम् । माध्वी इति । सुऽस्तुतिः । च । रसाः । च । ये । वाम् । अनु । रातिम् । अग्मन् ॥purú ǀ hí ǀ vām ǀ puru-bhujā ǀ deṣṇám ǀ dhenúm ǀ naḥ ǀ íṣam ǀ pinvatam ǀ ásakrām ǀ
stútaḥ ǀ ca ǀ vām ǀ mādhvī íti ǀ su-stutíḥ ǀ ca ǀ rásāḥ ǀ ca ǀ yé ǀ vām ǀ ánu ǀ rātím ǀ ágman ǁpuru ǀ hi ǀ vām ǀ puru-bhujā ǀ deṣṇam ǀ dhenum ǀ naḥ ǀ iṣam ǀ pinvatam ǀ asakrām ǀ
stutaḥ ǀ ca ǀ vām ǀ mādhvī iti ǀ su-stutiḥ ǀ ca ǀ rasāḥ ǀ ca ǀ ye ǀ vām ǀ anu ǀ rātim ǀ agman ǁ6.63.8 Aṣṭaka 5.1.4.3Anuvāka 6.6.19
-
Ṛk 9
उ॒त म॑ ऋ॒ज्रे पुर॑यस्य र॒घ्वी सु॑मी॒ळ्हे श॒तं पे॑रु॒के च॑ प॒क्वा ।
शां॒डो दा॑द्धिर॒णिनः॒ स्मद्दि॑ष्टीं॒दश॑ व॒शासो॑ अभि॒षाच॑ ऋ॒ष्वान् ॥उत म ऋज्रे पुरयस्य रघ्वी सुमीऌहे शतम् पेरुके च पक्वा |
शाण्डो दाद् धिरणिनः स्मद्दिष्टीन् दश वशासो अभिषाच ऋष्वान् ||utá ma ṛjré púrayasya raghvī́ sumīḷhé śatám peruké ca pakvā́ ǀ
śāṇḍó dāddhiraṇínaḥ smáddiṣṭīndáśa vaśā́so abhiṣā́ca ṛṣvā́n ǁuta ma ṛjre purayasya raghvī sumīḷhe śatam peruke ca pakvā |
śāṇḍo dād dhiraṇinaḥ smaddiṣṭīn daśa vaśāso abhiṣāca ṛṣvān ||उ॒त । मे॒ । ऋ॒ज्रे इति॑ । पुर॑यस्य । र॒घ्वी इति॑ । सु॒ऽमी॒ळ्हे । श॒तम् । पे॒रु॒के । च॒ । प॒क्वा ।
शा॒ण्डः । दा॒त् । हि॒र॒णिनः॑ । स्मत्ऽदि॑ष्टीन् । दश॑ । व॒शासः॑ । अ॒भि॒ऽसाचः॑ । ऋ॒ष्वान् ॥उत । मे । ऋज्रे इति । पुरयस्य । रघ्वी इति । सुऽमीळ्हे । शतम् । पेरुके । च । पक्वा ।
शाण्डः । दात् । हिरणिनः । स्मत्ऽदिष्टीन् । दश । वशासः । अभिऽसाचः । ऋष्वान् ॥utá ǀ me ǀ ṛjré íti ǀ púrayasya ǀ raghvī́ íti ǀ su-mīḷhé ǀ śatám ǀ peruké ǀ ca ǀ pakvā́ ǀ
śāṇḍáḥ ǀ dāt ǀ hiraṇínaḥ ǀ smát-diṣṭīn ǀ dáśa ǀ vaśā́saḥ ǀ abhi-sā́caḥ ǀ ṛṣvā́n ǁuta ǀ me ǀ ṛjre iti ǀ purayasya ǀ raghvī iti ǀ su-mīḷhe ǀ śatam ǀ peruke ǀ ca ǀ pakvā ǀ
śāṇḍaḥ ǀ dāt ǀ hiraṇinaḥ ǀ smat-diṣṭīn ǀ daśa ǀ vaśāsaḥ ǀ abhi-sācaḥ ǀ ṛṣvān ǁ6.63.9 Aṣṭaka 5.1.4.4Anuvāka 6.6.20
-
Ṛk 10
सं वां॑ श॒ता ना॑सत्या स॒हस्राश्वा॑नां पुरु॒पंथा॑ गि॒रे दा॑त् ।
भ॒रद्वा॑जाय वीर॒ नू गि॒रे दा॑द्ध॒ता रक्षां॑सि पुरुदंससा स्युः ॥सं वां शता नासत्या सहस्राश्वानाम् पुरुपन्था गिरे दात् |
भरद्वाजाय वीर नू गिरे दाद् धता रक्षांसि पुरुदंससा स्युः ||sám vām śatā́ nāsatyā sahásrā́śvānām purupánthā giré dāt ǀ
bharádvājāya vīra nū́ giré dāddhatā́ rákṣāṃsi purudaṃsasā syuḥ ǁsaṃ vāṃ śatā nāsatyā sahasrāśvānām purupanthā gire dāt |
bharadvājāya vīra nū gire dād dhatā rakṣāṃsi purudaṃsasā syuḥ ||सम् । वा॒म् । श॒ता । ना॒स॒त्या॒ । स॒हस्रा॑ । अश्वा॑नाम् । पु॒रु॒ऽपन्थाः॑ । गि॒रे । दा॒त् ।
भ॒रत्ऽवा॑जाय । वी॒र॒ । नु । गि॒रे । दा॒त् । ह॒ता । रक्षां॑सि । पु॒रु॒ऽदं॒स॒सा॒ । स्यु॒रिति॑ स्युः ॥सम् । वाम् । शता । नासत्या । सहस्रा । अश्वानाम् । पुरुऽपन्थाः । गिरे । दात् ।
भरत्ऽवाजाय । वीर । नु । गिरे । दात् । हता । रक्षांसि । पुरुऽदंससा । स्युरिति स्युः ॥sám ǀ vām ǀ śatā́ ǀ nāsatyā ǀ sahásrā ǀ áśvānām ǀ puru-pánthāḥ ǀ giré ǀ dāt ǀ
bharát-vājāya ǀ vīra ǀ nú ǀ giré ǀ dāt ǀ hatā́ ǀ rákṣāṃsi ǀ puru-daṃsasā ǀ syuríti syuḥ ǁsam ǀ vām ǀ śatā ǀ nāsatyā ǀ sahasrā ǀ aśvānām ǀ puru-panthāḥ ǀ gire ǀ dāt ǀ
bharat-vājāya ǀ vīra ǀ nu ǀ gire ǀ dāt ǀ hatā ǀ rakṣāṃsi ǀ puru-daṃsasā ǀ syuriti syuḥ ǁ6.63.10 Aṣṭaka 5.1.4.5Anuvāka 6.6.21
-
Ṛk 11
आ वां॑ सु॒म्ने वरि॑मन्त्सू॒रिभिः॑ ष्यां ॥
आ वां सुम्ने वरिमन् सूरिभिः ष्याम् ||
ā́ vām sumné várimantsūríbhiḥ ṣyām ǁ
ā vāṃ sumne variman sūribhiḥ ṣyām ||
आ । वा॒म् । सु॒म्ने । वरि॑मन् । सू॒रिऽभिः॑ । स्या॒म् ॥
आ । वाम् । सुम्ने । वरिमन् । सूरिऽभिः । स्याम् ॥
ā́ ǀ vām ǀ sumné ǀ váriman ǀ sūrí-bhiḥ ǀ syām ǁ
ā ǀ vām ǀ sumne ǀ variman ǀ sūri-bhiḥ ǀ syām ǁ
6.63.11 Aṣṭaka 5.1.4.6Anuvāka 6.6.22
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.