Sūkta 54
- Devatā देवता
- Pūṣan
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Gāyatrī
Metres by ṛk
1st set of styles gāyatrī (1, 2, 4, 6-9); nicṛdgāyatrī (3, 10); virāḍgāyatrī (5)
2nd set of styles gāyatrī
-
Ṛk 1
सं पू॑षन्वि॒दुषा॑ नय॒ यो अंज॑सानु॒शास॑ति ।
य ए॒वेदमिति॒ ब्रव॑त् ॥सम् पूषन् विदुषा नय यो अञ्जसानुशासति |
य एवेदम् इति ब्रवत् ||sám pūṣanvidúṣā naya yó áñjasānuśā́sati ǀ
yá evédámíti brávat ǁsam pūṣan viduṣā naya yo añjasānuśāsati |
ya evedam iti bravat ||सम् । पू॒ष॒न् । वि॒दुषा॑ । न॒य॒ । यः । अञ्ज॑सा । अ॒नु॒ऽशास॑ति ।
यः । ए॒व । इ॒दम् । इति॑ । ब्रव॑त् ॥सम् । पूषन् । विदुषा । नय । यः । अञ्जसा । अनुऽशासति ।
यः । एव । इदम् । इति । ब्रवत् ॥sám ǀ pūṣan ǀ vidúṣā ǀ naya ǀ yáḥ ǀ áñjasā ǀ anu-śā́sati ǀ
yáḥ ǀ evá ǀ idám ǀ íti ǀ brávat ǁsam ǀ pūṣan ǀ viduṣā ǀ naya ǀ yaḥ ǀ añjasā ǀ anu-śāsati ǀ
yaḥ ǀ eva ǀ idam ǀ iti ǀ bravat ǁ6.54.1 Aṣṭaka 4.8.19.1Anuvāka 6.5.59
-
Ṛk 2
समु॑ पू॒ष्णा ग॑मेमहि॒ यो गृ॒हाँ अ॑भि॒शास॑ति ।
इ॒म ए॒वेति॑ च॒ ब्रव॑त् ॥सम् उ पूष्णा गमेमहि यो गृहां अभिशासति |
इम एवेति च ब्रवत् ||sámu pūṣṇā́ gamemahi yó gṛhā́m̐ abhiśā́sati ǀ
imá evéti ca brávat ǁsam u pūṣṇā gamemahi yo gṛhāṃ abhiśāsati |
ima eveti ca bravat ||सम् । ऊं॒ इति॑ । पू॒ष्णा । ग॒मे॒म॒हि॒ । यः । गृ॒हान् । अ॒भि॒ऽशास॑ति ।
इ॒मे । ए॒व । इति॑ । च॒ । ब्रव॑त् ॥सम् । ऊं इति । पूष्णा । गमेमहि । यः । गृहान् । अभिऽशासति ।
इमे । एव । इति । च । ब्रवत् ॥sám ǀ ūṃ íti ǀ pūṣṇā́ ǀ gamemahi ǀ yáḥ ǀ gṛhā́n ǀ abhi-śā́sati ǀ
imé ǀ evá ǀ íti ǀ ca ǀ brávat ǁsam ǀ ūṃ iti ǀ pūṣṇā ǀ gamemahi ǀ yaḥ ǀ gṛhān ǀ abhi-śāsati ǀ
ime ǀ eva ǀ iti ǀ ca ǀ bravat ǁ6.54.2 Aṣṭaka 4.8.19.2Anuvāka 6.5.60
-
Ṛk 3
पू॒ष्णश्च॒क्रं न रि॑ष्यति॒ न कोशोऽव॑ पद्यते ।
नो अ॑स्य व्यथते प॒विः ॥पूष्णश् चक्रं न रिष्यति न कोशो ऽव पद्यते |
नो अस्य व्यथते पविः ||pūṣṇáścakrám ná riṣyati ná kóśó’va padyate ǀ
nó asya vyathate pavíḥ ǁpūṣṇaś cakraṃ na riṣyati na kośo 'va padyate |
no asya vyathate paviḥ ||पू॒ष्णः । च॒क्रम् । न । रि॒ष्य॒ति॒ । न । कोशः॑ । अव॑ । प॒द्य॒ते॒ ।
नो इति॑ । अ॒स्य॒ । व्य॒थ॒ते॒ । प॒विः ॥पूष्णः । चक्रम् । न । रिष्यति । न । कोशः । अव । पद्यते ।
नो इति । अस्य । व्यथते । पविः ॥pūṣṇáḥ ǀ cakrám ǀ ná ǀ riṣyati ǀ ná ǀ kóśaḥ ǀ áva ǀ padyate ǀ
nó íti ǀ asya ǀ vyathate ǀ pavíḥ ǁpūṣṇaḥ ǀ cakram ǀ na ǀ riṣyati ǀ na ǀ kośaḥ ǀ ava ǀ padyate ǀ
no iti ǀ asya ǀ vyathate ǀ paviḥ ǁ6.54.3 Aṣṭaka 4.8.19.3Anuvāka 6.5.61
-
Ṛk 4
यो अ॑स्मै ह॒विषावि॑ध॒न्न तं पू॒षापि॑ मृष्यते ।
प्र॒थ॒मो विं॑दते॒ वसु॑ ॥यो अस्मै हविषाविधन् न तम् पूषापि मृष्यते |
प्रथमो विन्दते वसु ||yó asmai havíṣā́vidhanná tám pūṣā́pi mṛṣyate ǀ
prathamó vindate vásu ǁyo asmai haviṣāvidhan na tam pūṣāpi mṛṣyate |
prathamo vindate vasu ||यः । अ॒स्मै॒ । ह॒विषा॑ । अवि॑धत् । न । तम् । पू॒षा । अपि॑ । मृ॒ष्य॒ते॒ ।
प्र॒थ॒मः । वि॒न्द॒ते॒ । वसु॑ ॥यः । अस्मै । हविषा । अविधत् । न । तम् । पूषा । अपि । मृष्यते ।
प्रथमः । विन्दते । वसु ॥yáḥ ǀ asmai ǀ havíṣā ǀ ávidhat ǀ ná ǀ tám ǀ pūṣā́ ǀ ápi ǀ mṛṣyate ǀ
prathamáḥ ǀ vindate ǀ vásu ǁyaḥ ǀ asmai ǀ haviṣā ǀ avidhat ǀ na ǀ tam ǀ pūṣā ǀ api ǀ mṛṣyate ǀ
prathamaḥ ǀ vindate ǀ vasu ǁ6.54.4 Aṣṭaka 4.8.19.4Anuvāka 6.5.62
-
Ṛk 5
पू॒षा गा अन्वे॑तु नः पू॒षा र॑क्ष॒त्वर्व॑तः ।
पू॒षा वाजं॑ सनोतु नः ॥पूषा गा अन्व् एतु नः पूषा रक्षत्व् अर्वतः |
पूषा वाजं सनोतु नः ||pūṣā́ gā́ ánvetu naḥ pūṣā́ rakṣatvárvataḥ ǀ
pūṣā́ vā́jam sanotu naḥ ǁpūṣā gā anv etu naḥ pūṣā rakṣatv arvataḥ |
pūṣā vājaṃ sanotu naḥ ||पू॒षा । गाः । अनु॑ । ए॒तु॒ । नः॒ । पू॒षा । र॒क्ष॒तु॒ । अर्व॑तः ।
पू॒षा । वाज॑म् । स॒नो॒तु॒ । नः॒ ॥पूषा । गाः । अनु । एतु । नः । पूषा । रक्षतु । अर्वतः ।
पूषा । वाजम् । सनोतु । नः ॥pūṣā́ ǀ gā́ḥ ǀ ánu ǀ etu ǀ naḥ ǀ pūṣā́ ǀ rakṣatu ǀ árvataḥ ǀ
pūṣā́ ǀ vā́jam ǀ sanotu ǀ naḥ ǁpūṣā ǀ gāḥ ǀ anu ǀ etu ǀ naḥ ǀ pūṣā ǀ rakṣatu ǀ arvataḥ ǀ
pūṣā ǀ vājam ǀ sanotu ǀ naḥ ǁ6.54.5 Aṣṭaka 4.8.19.5Anuvāka 6.5.63
-
Ṛk 6
पूष॒न्ननु॒ प्र गा इ॑हि॒ यज॑मानस्य सुन्व॒तः ।
अ॒स्माकं॑ स्तुव॒तामु॒त ॥पूषन्न् अनु प्र गा इहि यजमानस्य सुन्वतः |
अस्माकं स्तुवताम् उत ||pū́ṣannánu prá gā́ ihi yájamānasya sunvatáḥ ǀ
asmā́kam stuvatā́mutá ǁpūṣann anu pra gā ihi yajamānasya sunvataḥ |
asmākaṃ stuvatām uta ||पूष॑न् । अनु॑ । प्र । गाः । इ॒हि॒ । यज॑मानस्य । सु॒न्व॒तः ।
अ॒स्माक॑म् । स्तु॒व॒ताम् । उ॒त ॥पूषन् । अनु । प्र । गाः । इहि । यजमानस्य । सुन्वतः ।
अस्माकम् । स्तुवताम् । उत ॥pū́ṣan ǀ ánu ǀ prá ǀ gā́ḥ ǀ ihi ǀ yájamānasya ǀ sunvatáḥ ǀ
asmā́kam ǀ stuvatā́m ǀ utá ǁpūṣan ǀ anu ǀ pra ǀ gāḥ ǀ ihi ǀ yajamānasya ǀ sunvataḥ ǀ
asmākam ǀ stuvatām ǀ uta ǁ6.54.6 Aṣṭaka 4.8.20.1Anuvāka 6.5.64
-
Ṛk 7
माकि॑र्नेश॒न्माकीं॑ रिष॒न्माकीं॒ सं शा॑रि॒ केव॑टे ।
अथारि॑ष्टाभि॒रा ग॑हि ॥माकिर् नेशन् माकीं रिषन् माकीं सं शारि केवटे |
अथारिष्टाभिर् आ गहि ||mā́kirneśanmā́kīm riṣanmā́kīm sám śāri kévaṭe ǀ
áthā́riṣṭābhirā́ gahi ǁmākir neśan mākīṃ riṣan mākīṃ saṃ śāri kevaṭe |
athāriṣṭābhir ā gahi ||माकिः॑ । ने॒श॒त् । माकी॑म् । रि॒ष॒त् । माकी॑म् । सम् । शा॒रि॒ । केव॑टे ।
अथ॑ । अरि॑ष्टाभिः । आ । ग॒हि॒ ॥माकिः । नेशत् । माकीम् । रिषत् । माकीम् । सम् । शारि । केवटे ।
अथ । अरिष्टाभिः । आ । गहि ॥mā́kiḥ ǀ neśat ǀ mā́kīm ǀ riṣat ǀ mā́kīm ǀ sám ǀ śāri ǀ kévaṭe ǀ
átha ǀ áriṣṭābhiḥ ǀ ā́ ǀ gahi ǁmākiḥ ǀ neśat ǀ mākīm ǀ riṣat ǀ mākīm ǀ sam ǀ śāri ǀ kevaṭe ǀ
atha ǀ ariṣṭābhiḥ ǀ ā ǀ gahi ǁ6.54.7 Aṣṭaka 4.8.20.2Anuvāka 6.5.65
-
Ṛk 8
शृ॒ण्वंतं॑ पू॒षणं॑ व॒यमिर्य॒मन॑ष्टवेदसं ।
ईशा॑नं रा॒य ई॑महे ॥शृण्वन्तम् पूषणं वयम् इर्यम् अनष्टवेदसम् |
ईशानं राय ईमहे ||śṛṇvántam pūṣáṇam vayámíryamánaṣṭavedasam ǀ
ī́śānam rāyá īmahe ǁśṛṇvantam pūṣaṇaṃ vayam iryam anaṣṭavedasam |
īśānaṃ rāya īmahe ||शृ॒ण्वन्त॑म् । पू॒षण॑म् । व॒यम् । इर्य॑म् । अन॑ष्टऽवेदसम् ।
ईशा॑नम् । रा॒यः । ई॒म॒हे॒ ॥शृण्वन्तम् । पूषणम् । वयम् । इर्यम् । अनष्टऽवेदसम् ।
ईशानम् । रायः । ईमहे ॥śṛṇvántam ǀ pūṣáṇam ǀ vayám ǀ íryam ǀ ánaṣṭa-vedasam ǀ
ī́śānam ǀ rāyáḥ ǀ īmahe ǁśṛṇvantam ǀ pūṣaṇam ǀ vayam ǀ iryam ǀ anaṣṭa-vedasam ǀ
īśānam ǀ rāyaḥ ǀ īmahe ǁ6.54.8 Aṣṭaka 4.8.20.3Anuvāka 6.5.66
-
Ṛk 9
पूषं॒तव॑ व्र॒ते व॒यं न रि॑ष्येम॒ कदा॑ च॒न ।
स्तो॒तार॑स्त इ॒ह स्म॑सि ॥पूषन् तव व्रते वयं न रिष्येम कदा चन |
स्तोतारस् त इह स्मसि ||pū́ṣantáva vraté vayám ná riṣyema kádā caná ǀ
stotā́rasta ihá smasi ǁpūṣan tava vrate vayaṃ na riṣyema kadā cana |
stotāras ta iha smasi ||पूष॑न् । तव॑ । व्र॒ते । व॒यम् । न । रि॒ष्ये॒म॒ । कदा॑ । च॒न ।
स्तो॒तारः॑ । ते॒ । इ॒ह । स्म॒सि॒ ॥पूषन् । तव । व्रते । वयम् । न । रिष्येम । कदा । चन ।
स्तोतारः । ते । इह । स्मसि ॥pū́ṣan ǀ táva ǀ vraté ǀ vayám ǀ ná ǀ riṣyema ǀ kádā ǀ caná ǀ
stotā́raḥ ǀ te ǀ ihá ǀ smasi ǁpūṣan ǀ tava ǀ vrate ǀ vayam ǀ na ǀ riṣyema ǀ kadā ǀ cana ǀ
stotāraḥ ǀ te ǀ iha ǀ smasi ǁ6.54.9 Aṣṭaka 4.8.20.4Anuvāka 6.5.67
-
Ṛk 10
परि॑ पू॒षा प॒रस्ता॒द्धस्तं॑ दधातु॒ दक्षि॑णं ।
पुन॑र्नो न॒ष्टमाज॑तु ॥परि पूषा परस्ताद् धस्तं दधातु दक्षिणम् |
पुनर् नो नष्टम् आजतु ||pári pūṣā́ parástāddhástam dadhātu dákṣiṇam ǀ
púnarno naṣṭámā́jatu ǁpari pūṣā parastād dhastaṃ dadhātu dakṣiṇam |
punar no naṣṭam ājatu ||परि॑ । पू॒षा । प॒रस्ता॑त् । हस्त॑म् । द॒धा॒तु॒ । दक्षि॑णम् ।
पुनः॑ । नः॒ । न॒ष्टम् । आ । अ॒ज॒तु॒ ॥परि । पूषा । परस्तात् । हस्तम् । दधातु । दक्षिणम् ।
पुनः । नः । नष्टम् । आ । अजतु ॥pári ǀ pūṣā́ ǀ parástāt ǀ hástam ǀ dadhātu ǀ dákṣiṇam ǀ
púnaḥ ǀ naḥ ǀ naṣṭám ǀ ā́ ǀ ajatu ǁpari ǀ pūṣā ǀ parastāt ǀ hastam ǀ dadhātu ǀ dakṣiṇam ǀ
punaḥ ǀ naḥ ǀ naṣṭam ǀ ā ǀ ajatu ǁ6.54.10 Aṣṭaka 4.8.20.5Anuvāka 6.5.68
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.