Sūkta 67
- Devatā देवता
- Mitra, Varuṇa
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles nicṛttriṣṭup (3, 7, 8, 11); svarāṭpaṅkti (1, 9); bhurikpaṅkti (2, 10); triṣṭup (4, 5); virāṭtrisṭup (6)
2nd set of styles triṣṭubh
-
Ṛk 1
विश्वे॑षां वः स॒तां ज्येष्ठ॑तमा गी॒र्भिर्मि॒त्रावरु॑णा वावृ॒धध्यै॑ ।
सं या र॒श्मेव॑ य॒मतु॒र्यमि॑ष्ठा॒ द्वा जनाँ॒ अस॑मा बा॒हुभिः॒ स्वैः ॥विश्वेषां वः सतां ज्येष्ठतमा गीर्भिर् मित्रावरुणा वावृधध्यै |
सं या रश्मेव यमतुर् यमिष्ठा द्वा जनां असमा बाहुभिः स्वैः ||víśveṣām vaḥ satā́m jyéṣṭhatamā gīrbhírmitrā́váruṇā vāvṛdhádhyai ǀ
sám yā́ raśméva yamáturyámiṣṭhā dvā́ jánām̐ ásamā bāhúbhiḥ sváiḥ ǁviśveṣāṃ vaḥ satāṃ jyeṣṭhatamā gīrbhir mitrāvaruṇā vāvṛdhadhyai |
saṃ yā raśmeva yamatur yamiṣṭhā dvā janāṃ asamā bāhubhiḥ svaiḥ ||विश्वे॑षाम् । वः॒ । स॒ताम् । ज्येष्ठ॑ऽतमा । गीः॒ऽभिः । मि॒त्रावरु॑णा । व॒वृ॒धध्यै॑ ।
सम् । या । र॒श्माऽइ॑व । य॒मतुः॑ । यमि॑ष्ठा । द्वा । जना॑न् । अस॑मा । बा॒हुऽभिः॑ । स्वैः ॥विश्वेषाम् । वः । सताम् । ज्येष्ठऽतमा । गीःऽभिः । मित्रावरुणा । ववृधध्यै ।
सम् । या । रश्माऽइव । यमतुः । यमिष्ठा । द्वा । जनान् । असमा । बाहुऽभिः । स्वैः ॥víśveṣām ǀ vaḥ ǀ satā́m ǀ jyéṣṭha-tamā ǀ gīḥ-bhíḥ ǀ mitrā́váruṇā ǀ vavṛdhádhyai ǀ
sám ǀ yā́ ǀ raśmā́-iva ǀ yamátuḥ ǀ yámiṣṭhā ǀ dvā́ ǀ jánān ǀ ásamā ǀ bāhú-bhiḥ ǀ sváiḥ ǁviśveṣām ǀ vaḥ ǀ satām ǀ jyeṣṭha-tamā ǀ gīḥ-bhiḥ ǀ mitrāvaruṇā ǀ vavṛdhadhyai ǀ
sam ǀ yā ǀ raśmā-iva ǀ yamatuḥ ǀ yamiṣṭhā ǀ dvā ǀ janān ǀ asamā ǀ bāhu-bhiḥ ǀ svaiḥ ǁ6.67.1 Aṣṭaka 5.1.9.1Anuvāka 6.6.46
-
Ṛk 2
इ॒यं मद्वां॒ प्र स्तृ॑णीते मनी॒षोप॑ प्रि॒या नम॑सा ब॒र्हिरच्छ॑ ।
यं॒तं नो॑ मित्रावरुणा॒वधृ॑ष्टं छ॒र्दिर्यद्वां॑ वरू॒थ्यं॑ सुदानू ॥इयम् मद् वाम् प्र स्तृणीते मनीषोप प्रिया नमसा बर्हिर् अच्छ |
यन्तं नो मित्रावरुणाव् अधृष्टं छर्दिर् यद् वां वरूथ्यं सुदानू ||iyám mádvām prá stṛṇīte manīṣópa priyā́ námasā barhíráccha ǀ
yantám no mitrāvaruṇāvádhṛṣṭam chardíryádvām varūthyám sudānū ǁiyam mad vām pra stṛṇīte manīṣopa priyā namasā barhir accha |
yantaṃ no mitrāvaruṇāv adhṛṣṭaṃ chardir yad vāṃ varūthyaṃ sudānū ||इ॒यम् । मत् । वा॒म् । प्र । स्तृ॒णी॒ते॒ । म॒नी॒षा । उप॑ । प्रि॒या । नम॑सा । ब॒र्हिः । अच्छ॑ ।
य॒न्तम् । नः॒ । मि॒त्रा॒व॒रु॒णौ॒ । अधृ॑ष्टम् । छ॒र्दिः । यत् । वा॒म् । व॒रू॒थ्य॑म् । सु॒दा॒नू॒ इति॑ सुऽदानू ॥इयम् । मत् । वाम् । प्र । स्तृणीते । मनीषा । उप । प्रिया । नमसा । बर्हिः । अच्छ ।
यन्तम् । नः । मित्रावरुणौ । अधृष्टम् । छर्दिः । यत् । वाम् । वरूथ्यम् । सुदानू इति सुऽदानू ॥iyám ǀ mát ǀ vām ǀ prá ǀ stṛṇīte ǀ manīṣā́ ǀ úpa ǀ priyā́ ǀ námasā ǀ barhíḥ ǀ áccha ǀ
yantám ǀ naḥ ǀ mitrāvaruṇau ǀ ádhṛṣṭam ǀ chardíḥ ǀ yát ǀ vām ǀ varūthyám ǀ sudānū íti su-dānū ǁiyam ǀ mat ǀ vām ǀ pra ǀ stṛṇīte ǀ manīṣā ǀ upa ǀ priyā ǀ namasā ǀ barhiḥ ǀ accha ǀ
yantam ǀ naḥ ǀ mitrāvaruṇau ǀ adhṛṣṭam ǀ chardiḥ ǀ yat ǀ vām ǀ varūthyam ǀ sudānū iti su-dānū ǁ6.67.2 Aṣṭaka 5.1.9.2Anuvāka 6.6.47
-
Ṛk 3
आ या॑तं मित्रावरुणा सुश॒स्त्युप॑ प्रि॒या नम॑सा हू॒यमा॑ना ।
सं याव॑प्नः॒स्थो अ॒पसे॑व॒ जनां॑छ्रुधीय॒तश्चि॑द्यतथो महि॒त्वा ॥आ यातम् मित्रावरुणा सुशस्त्य् उप प्रिया नमसा हूयमाना |
सं याव् अप्नस्थो अपसेव जनाञ् छ्रुधीयतश् चिद् यतथो महित्वा ||ā́ yātam mitrāvaruṇā suśastyúpa priyā́ námasā hūyámānā ǀ
sám yā́vapnaḥsthó apáseva jánāñchrudhīyatáścidyatatho mahitvā́ ǁā yātam mitrāvaruṇā suśasty upa priyā namasā hūyamānā |
saṃ yāv apnastho apaseva janāñ chrudhīyataś cid yatatho mahitvā ||आ । या॒त॒म् । मि॒त्रा॒व॒रु॒णा॒ । सु॒ऽश॒स्ति । उप॑ । प्रि॒या । नम॑सा । हू॒यमा॑ना ।
सम् । यौ । अ॒प्नः॒ऽस्थः । अ॒पसा॑ऽइव । जना॑न् । श्रु॒धि॒ऽय॒तः । चि॒त् । य॒त॒थः॒ । म॒हि॒ऽत्वा ॥आ । यातम् । मित्रावरुणा । सुऽशस्ति । उप । प्रिया । नमसा । हूयमाना ।
सम् । यौ । अप्नःऽस्थः । अपसाऽइव । जनान् । श्रुधिऽयतः । चित् । यतथः । महिऽत्वा ॥ā́ ǀ yātam ǀ mitrāvaruṇā ǀ su-śastí ǀ úpa ǀ priyā́ ǀ námasā ǀ hūyámānā ǀ
sám ǀ yáu ǀ apnaḥ-stháḥ ǀ apásā-iva ǀ jánān ǀ śrudhi-yatáḥ ǀ cit ǀ yatathaḥ ǀ mahi-tvā́ ǁā ǀ yātam ǀ mitrāvaruṇā ǀ su-śasti ǀ upa ǀ priyā ǀ namasā ǀ hūyamānā ǀ
sam ǀ yau ǀ apnaḥ-sthaḥ ǀ apasā-iva ǀ janān ǀ śrudhi-yataḥ ǀ cit ǀ yatathaḥ ǀ mahi-tvā ǁ6.67.3 Aṣṭaka 5.1.9.3Anuvāka 6.6.48
-
Ṛk 4
अश्वा॒ न या वा॒जिना॑ पू॒तबं॑धू ऋ॒ता यद्गर्भ॒मदि॑ति॒र्भर॑ध्यै ।
प्र या महि॑ म॒हांता॒ जाय॑माना घो॒रा मर्ता॑य रि॒पवे॒ नि दी॑धः ॥अश्वा न या वाजिना पूतबन्धू ऋता यद् गर्भम् अदितिर् भरध्यै |
प्र या महि महान्ता जायमाना घोरा मर्ताय रिपवे नि दीधः ||áśvā ná yā́ vājínā pūtábandhū ṛtā́ yádgárbhamáditirbháradhyai ǀ
prá yā́ máhi mahā́ntā jā́yamānā ghorā́ mártāya ripáve ní dīdhaḥ ǁaśvā na yā vājinā pūtabandhū ṛtā yad garbham aditir bharadhyai |
pra yā mahi mahāntā jāyamānā ghorā martāya ripave ni dīdhaḥ ||अश्वा॑ । न । या । वा॒जिना॑ । पू॒तब॑न्धू॒ इति॑ पू॒तऽब॑न्धू । ऋ॒ता । यत् । गर्भ॑म् । अदि॑तिः । भर॑ध्यै ।
प्र । या । महि॑ । म॒हान्ता॑ । जाय॑माना । घो॒रा । मर्ता॑य । रि॒पवे॑ । नि । दी॒ध॒रिति॑ दीधः ॥अश्वा । न । या । वाजिना । पूतबन्धू इति पूतऽबन्धू । ऋता । यत् । गर्भम् । अदितिः । भरध्यै ।
प्र । या । महि । महान्ता । जायमाना । घोरा । मर्ताय । रिपवे । नि । दीधरिति दीधः ॥áśvā ǀ ná ǀ yā́ ǀ vājínā ǀ pūtábandhū íti pūtá-bandhū ǀ ṛtā́ ǀ yát ǀ gárbham ǀ áditiḥ ǀ bháradhyai ǀ
prá ǀ yā́ ǀ máhi ǀ mahā́ntā ǀ jā́yamānā ǀ ghorā́ ǀ mártāya ǀ ripáve ǀ ní ǀ dīdharíti dīdhaḥ ǁaśvā ǀ na ǀ yā ǀ vājinā ǀ pūtabandhū iti pūta-bandhū ǀ ṛtā ǀ yat ǀ garbham ǀ aditiḥ ǀ bharadhyai ǀ
pra ǀ yā ǀ mahi ǀ mahāntā ǀ jāyamānā ǀ ghorā ǀ martāya ǀ ripave ǀ ni ǀ dīdhariti dīdhaḥ ǁ6.67.4 Aṣṭaka 5.1.9.4Anuvāka 6.6.49
-
Ṛk 5
विश्वे॒ यद्वां॑ मं॒हना॒ मंद॑मानाः क्ष॒त्रं दे॒वासो॒ अद॑धुः स॒जोषाः॑ ।
परि॒ यद्भू॒थो रोद॑सी चिदु॒र्वी संति॒ स्पशो॒ अद॑ब्धासो॒ अमू॑राः ॥विश्वे यद् वाम् मंहना मन्दमानाः क्षत्रं देवासो अदधुः सजोषाः |
परि यद् भूथो रोदसी चिद् उर्वी सन्ति स्पशो अदब्धासो अमूराः ||víśve yádvām maṃhánā mándamānāḥ kṣatrám devā́so ádadhuḥ sajóṣāḥ ǀ
pári yádbhūthó ródasī cidurvī́ sánti spáśo ádabdhāso ámūrāḥ ǁviśve yad vām maṃhanā mandamānāḥ kṣatraṃ devāso adadhuḥ sajoṣāḥ |
pari yad bhūtho rodasī cid urvī santi spaśo adabdhāso amūrāḥ ||विश्वे॑ । यत् । वा॒म् । मं॒हना॑ । मन्द॑मानाः । क्ष॒त्रम् । दे॒वासः॑ । अद॑धुः । स॒ऽजोषाः॑ ।
परि॑ । यत् । भू॒थः । रोद॑सी॒ इति॑ । चि॒त् । उ॒र्वी इति॑ । सन्ति॑ । स्पशः॑ । अद॑ब्धासः । अमू॑राः ॥विश्वे । यत् । वाम् । मंहना । मन्दमानाः । क्षत्रम् । देवासः । अदधुः । सऽजोषाः ।
परि । यत् । भूथः । रोदसी इति । चित् । उर्वी इति । सन्ति । स्पशः । अदब्धासः । अमूराः ॥víśve ǀ yát ǀ vām ǀ maṃhánā ǀ mándamānāḥ ǀ kṣatrám ǀ devā́saḥ ǀ ádadhuḥ ǀ sa-jóṣāḥ ǀ
pári ǀ yát ǀ bhūtháḥ ǀ ródasī íti ǀ cit ǀ urvī́ íti ǀ sánti ǀ spáśaḥ ǀ ádabdhāsaḥ ǀ ámūrāḥ ǁviśve ǀ yat ǀ vām ǀ maṃhanā ǀ mandamānāḥ ǀ kṣatram ǀ devāsaḥ ǀ adadhuḥ ǀ sa-joṣāḥ ǀ
pari ǀ yat ǀ bhūthaḥ ǀ rodasī iti ǀ cit ǀ urvī iti ǀ santi ǀ spaśaḥ ǀ adabdhāsaḥ ǀ amūrāḥ ǁ6.67.5 Aṣṭaka 5.1.9.5Anuvāka 6.6.50
-
Ṛk 6
ता हि क्ष॒त्रं धा॒रये॑थे॒ अनु॒ द्यूंदृं॒हेथे॒ सानु॑मुप॒मादि॑व॒ द्योः ।
दृ॒ळ्हो नक्ष॑त्र उ॒त वि॒श्वदे॑वो॒ भूमि॒मातां॒द्यां धा॒सिना॒योः ॥ता हि क्षत्रं धारयेथे अनु द्यून् दृंहेथे सानुम् उपमाद् इव द्योः |
दृऌहो नक्षत्र उत विश्वदेवो भूमिम् आतान् द्यां धासिनायोः ||tā́ hí kṣatrám dhāráyethe ánu dyū́ndṛṃhéthe sā́numupamā́diva dyóḥ ǀ
dṛḷhó nákṣatra utá viśvádevo bhū́mimā́tāndyā́m dhāsínāyóḥ ǁtā hi kṣatraṃ dhārayethe anu dyūn dṛṃhethe sānum upamād iva dyoḥ |
dṛḷho nakṣatra uta viśvadevo bhūmim ātān dyāṃ dhāsināyoḥ ||ता । हि । क्ष॒त्रम् । धा॒रये॑थे॒ इति॑ । अनु॑ । द्यून् । दृं॒हेथे॒ इति॑ । सानु॑म् । उ॒प॒मात्ऽइ॑व । द्योः ।
दृ॒ळ्हः । नक्ष॑त्रः । उ॒त । वि॒श्वऽदे॑वः । भूमि॑म् । आ । अ॒ता॒न् । द्याम् । धा॒सिना॑ । आ॒योः ॥ता । हि । क्षत्रम् । धारयेथे इति । अनु । द्यून् । दृंहेथे इति । सानुम् । उपमात्ऽइव । द्योः ।
दृळ्हः । नक्षत्रः । उत । विश्वऽदेवः । भूमिम् । आ । अतान् । द्याम् । धासिना । आयोः ॥tā́ ǀ hí ǀ kṣatrám ǀ dhāráyethe íti ǀ ánu ǀ dyū́n ǀ dṛṃhéthe íti ǀ sā́num ǀ upamā́t-iva ǀ dyóḥ ǀ
dṛḷháḥ ǀ nákṣatraḥ ǀ utá ǀ viśvá-devaḥ ǀ bhū́mim ǀ ā́ ǀ atān ǀ dyā́m ǀ dhāsínā ǀ āyóḥ ǁtā ǀ hi ǀ kṣatram ǀ dhārayethe iti ǀ anu ǀ dyūn ǀ dṛṃhethe iti ǀ sānum ǀ upamāt-iva ǀ dyoḥ ǀ
dṛḷhaḥ ǀ nakṣatraḥ ǀ uta ǀ viśva-devaḥ ǀ bhūmim ǀ ā ǀ atān ǀ dyām ǀ dhāsinā ǀ āyoḥ ǁ6.67.6 Aṣṭaka 5.1.10.1Anuvāka 6.6.51
-
Ṛk 7
ता वि॒ग्रं धै॑थे ज॒ठरं॑ पृ॒णध्या॒ आ यत्सद्म॒ सभृ॑तयः पृ॒णंति॑ ।
न मृ॑ष्यंते युव॒तयोऽवा॑ता॒ वि यत्पयो॑ विश्वजिन्वा॒ भरं॑ते ॥ता विग्रं धैथे जठरम् पृणध्या आ यत् सद्म सभृतयः पृणन्ति |
न मृष्यन्ते युवतयो ऽवाता वि यत् पयो विश्वजिन्वा भरन्ते ||tā́ vigrám dhaithe jaṭháram pṛṇádhyā ā́ yátsádma sábhṛtayaḥ pṛṇánti ǀ
ná mṛṣyante yuvatáyó’vātā ví yátpáyo viśvajinvā bhárante ǁtā vigraṃ dhaithe jaṭharam pṛṇadhyā ā yat sadma sabhṛtayaḥ pṛṇanti |
na mṛṣyante yuvatayo 'vātā vi yat payo viśvajinvā bharante ||ता । वि॒ग्रम् । धै॒थे॒ इति॑ । ज॒ठर॑म् । पृ॒णध्यै॑ । आ । यत् । सद्म॑ । सऽभृ॑तयः । पृ॒णन्ति॑ ।
न । मृ॒ष्य॒न्ते॒ । यु॒व॒तयः॑ । अवा॑ताः । वि । यत् । पयः॑ । वि॒श्व॒ऽजि॒न्वा॒ । भर॑न्ते ॥ता । विग्रम् । धैथे इति । जठरम् । पृणध्यै । आ । यत् । सद्म । सऽभृतयः । पृणन्ति ।
न । मृष्यन्ते । युवतयः । अवाताः । वि । यत् । पयः । विश्वऽजिन्वा । भरन्ते ॥tā́ ǀ vigrám ǀ dhaithe íti ǀ jaṭháram ǀ pṛṇádhyai ǀ ā́ ǀ yát ǀ sádma ǀ sá-bhṛtayaḥ ǀ pṛṇánti ǀ
ná ǀ mṛṣyante ǀ yuvatáyaḥ ǀ ávātāḥ ǀ ví ǀ yát ǀ páyaḥ ǀ viśva-jinvā ǀ bhárante ǁtā ǀ vigram ǀ dhaithe iti ǀ jaṭharam ǀ pṛṇadhyai ǀ ā ǀ yat ǀ sadma ǀ sa-bhṛtayaḥ ǀ pṛṇanti ǀ
na ǀ mṛṣyante ǀ yuvatayaḥ ǀ avātāḥ ǀ vi ǀ yat ǀ payaḥ ǀ viśva-jinvā ǀ bharante ǁ6.67.7 Aṣṭaka 5.1.10.2Anuvāka 6.6.52
-
Ṛk 8
ता जि॒ह्वया॒ सद॒मेदं सु॑मे॒धा आ यद्वां॑ स॒त्यो अ॑र॒तिर्ऋ॒ते भूत् ।
तद्वां॑ महि॒त्वं घृ॑तान्नावस्तु यु॒वं दा॒शुषे॒ वि च॑यिष्ट॒मंहः॑ ॥ता जिह्वया सदम् एदं सुमेधा आ यद् वां सत्यो अरतिर् ऋते भूत् |
तद् वाम् महित्वं घृतान्नाव् अस्तु युवं दाशुषे वि चयिष्टम् अंहः ||tā́ jihváyā sádamédám sumedhā́ ā́ yádvām satyó aratírṛté bhū́t ǀ
tádvām mahitvám ghṛtānnāvastu yuvám dāśúṣe ví cayiṣṭamáṃhaḥ ǁtā jihvayā sadam edaṃ sumedhā ā yad vāṃ satyo aratir ṛte bhūt |
tad vām mahitvaṃ ghṛtānnāv astu yuvaṃ dāśuṣe vi cayiṣṭam aṃhaḥ ||ता । जि॒ह्वया॑ । सद॑म् । आ । इ॒दम् । सु॒ऽमे॒धाः । आ । यत् । वा॒म् । स॒त्यः । अ॒र॒तिः । ऋ॒ते । भूत् ।
तत् । वा॒म् । म॒हि॒ऽत्वम् । घृ॒त॒ऽअ॒न्नौ॒ । अ॒स्तु॒ । यु॒वम् । दा॒शुषे॑ । वि । च॒यि॒ष्ट॒म् । अंहः॑ ॥ता । जिह्वया । सदम् । आ । इदम् । सुऽमेधाः । आ । यत् । वाम् । सत्यः । अरतिः । ऋते । भूत् ।
तत् । वाम् । महिऽत्वम् । घृतऽअन्नौ । अस्तु । युवम् । दाशुषे । वि । चयिष्टम् । अंहः ॥tā́ ǀ jihváyā ǀ sádam ǀ ā́ ǀ idám ǀ su-medhā́ḥ ǀ ā́ ǀ yát ǀ vām ǀ satyáḥ ǀ aratíḥ ǀ ṛté ǀ bhū́t ǀ
tát ǀ vām ǀ mahi-tvám ǀ ghṛta-annau ǀ astu ǀ yuvám ǀ dāśúṣe ǀ ví ǀ cayiṣṭam ǀ áṃhaḥ ǁtā ǀ jihvayā ǀ sadam ǀ ā ǀ idam ǀ su-medhāḥ ǀ ā ǀ yat ǀ vām ǀ satyaḥ ǀ aratiḥ ǀ ṛte ǀ bhūt ǀ
tat ǀ vām ǀ mahi-tvam ǀ ghṛta-annau ǀ astu ǀ yuvam ǀ dāśuṣe ǀ vi ǀ cayiṣṭam ǀ aṃhaḥ ǁ6.67.8 Aṣṭaka 5.1.10.3Anuvāka 6.6.53
-
Ṛk 9
प्र यद्वां॑ मित्रावरुणा स्पू॒र्धन्प्रि॒या धाम॑ यु॒वधि॑ता मि॒नंति॑ ।
न ये दे॒वास॒ ओह॑सा॒ न मर्ता॒ अय॑ज्ञसाचो॒ अप्यो॒ न पु॒त्राः ॥प्र यद् वाम् मित्रावरुणा स्पूर्धन् प्रिया धाम युवधिता मिनन्ति |
न ये देवास ओहसा न मर्ता अयज्ञसाचो अप्यो न पुत्राः ||prá yádvām mitrāvaruṇā spūrdhánpriyā́ dhā́ma yuvádhitā minánti ǀ
ná yé devā́sa óhasā ná mártā áyajñasāco ápyo ná putrā́ḥ ǁpra yad vām mitrāvaruṇā spūrdhan priyā dhāma yuvadhitā minanti |
na ye devāsa ohasā na martā ayajñasāco apyo na putrāḥ ||प्र । यत् । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । स्पू॒र्धन् । प्रि॒या । धाम॑ । यु॒वऽधि॑ता । मि॒नन्ति॑ ।
न । ये । दे॒वासः॑ । ओह॑सा । न । मर्ताः॑ । अय॑ज्ञऽसाचः । अप्यः॑ । न । पु॒त्राः ॥प्र । यत् । वाम् । मित्रावरुणा । स्पूर्धन् । प्रिया । धाम । युवऽधिता । मिनन्ति ।
न । ये । देवासः । ओहसा । न । मर्ताः । अयज्ञऽसाचः । अप्यः । न । पुत्राः ॥prá ǀ yát ǀ vām ǀ mitrāvaruṇā ǀ spūrdhán ǀ priyā́ ǀ dhā́ma ǀ yuvá-dhitā ǀ minánti ǀ
ná ǀ yé ǀ devā́saḥ ǀ óhasā ǀ ná ǀ mártāḥ ǀ áyajña-sācaḥ ǀ ápyaḥ ǀ ná ǀ putrā́ḥ ǁpra ǀ yat ǀ vām ǀ mitrāvaruṇā ǀ spūrdhan ǀ priyā ǀ dhāma ǀ yuva-dhitā ǀ minanti ǀ
na ǀ ye ǀ devāsaḥ ǀ ohasā ǀ na ǀ martāḥ ǀ ayajña-sācaḥ ǀ apyaḥ ǀ na ǀ putrāḥ ǁ6.67.9 Aṣṭaka 5.1.10.4Anuvāka 6.6.54
-
Ṛk 10
वि यद्वाचं॑ की॒स्तासो॒ भरं॑ते॒ शंसं॑ति॒ के चि॑न्नि॒विदो॑ मना॒नाः ।
आद्वां॑ ब्रवाम स॒त्यान्यु॒क्था नकि॑र्दे॒वेभि॑र्यतथो महि॒त्वा ॥वि यद् वाचं कीस्तासो भरन्ते शंसन्ति के चिन् निविदो मनानाः |
आद् वाम् ब्रवाम सत्यान्य् उक्था नकिर् देवेभिर् यतथो महित्वा ||ví yádvā́cam kīstā́so bhárante śáṃsanti ké cinnivído manānā́ḥ ǀ
ā́dvām bravāma satyā́nyukthā́ nákirdevébhiryatatho mahitvā́ ǁvi yad vācaṃ kīstāso bharante śaṃsanti ke cin nivido manānāḥ |
ād vām bravāma satyāny ukthā nakir devebhir yatatho mahitvā ||वि । यत् । वाच॑म् । की॒स्तासः॑ । भर॑न्ते । शंस॑न्ति । के । चि॒त् । नि॒ऽविदः॑ । म॒ना॒नाः ।
आत् । वा॒म् । ब्र॒वा॒म॒ । स॒त्यानि॑ । उ॒क्था । नकिः॑ । दे॒वेभिः॑ । य॒त॒थः॒ । म॒हि॒ऽत्वा ॥वि । यत् । वाचम् । कीस्तासः । भरन्ते । शंसन्ति । के । चित् । निऽविदः । मनानाः ।
आत् । वाम् । ब्रवाम । सत्यानि । उक्था । नकिः । देवेभिः । यतथः । महिऽत्वा ॥ví ǀ yát ǀ vā́cam ǀ kīstā́saḥ ǀ bhárante ǀ śáṃsanti ǀ ké ǀ cit ǀ ni-vídaḥ ǀ manānā́ḥ ǀ
ā́t ǀ vām ǀ bravāma ǀ satyā́ni ǀ ukthā́ ǀ nákiḥ ǀ devébhiḥ ǀ yatathaḥ ǀ mahi-tvā́ ǁvi ǀ yat ǀ vācam ǀ kīstāsaḥ ǀ bharante ǀ śaṃsanti ǀ ke ǀ cit ǀ ni-vidaḥ ǀ manānāḥ ǀ
āt ǀ vām ǀ bravāma ǀ satyāni ǀ ukthā ǀ nakiḥ ǀ devebhiḥ ǀ yatathaḥ ǀ mahi-tvā ǁ6.67.10 Aṣṭaka 5.1.10.5Anuvāka 6.6.55
-
Ṛk 11
अ॒वोरि॒त्था वां॑ छ॒र्दिषो॑ अ॒भिष्टौ॑ यु॒वोर्मि॑त्रावरुणा॒वस्कृ॑धोयु ।
अनु॒ यद्गावः॑ स्फु॒रानृ॑जि॒प्यं धृ॒ष्णुं यद्रणे॒ वृष॑णं यु॒नज॑न् ॥अवोर् इत्था वां छर्दिषो अभिष्टौ युवोर् मित्रावरुणाव् अस्कृधोयु |
अनु यद् गाव स्फुरान् ऋजिप्यं धृष्णुं यद् रणे वृषणं युनजन् ||avóritthā́ vām chardíṣo abhíṣṭau yuvórmitrāvaruṇāváskṛdhoyu ǀ
ánu yádgā́vaḥ sphurā́nṛjipyám dhṛṣṇúm yádráṇe vṛ́ṣaṇam yunájan ǁavor itthā vāṃ chardiṣo abhiṣṭau yuvor mitrāvaruṇāv askṛdhoyu |
anu yad gāva sphurān ṛjipyaṃ dhṛṣṇuṃ yad raṇe vṛṣaṇaṃ yunajan ||अ॒वोः । इ॒त्था । वा॒म् । छ॒र्दिषः॑ । अ॒भिष्टौ॑ । यु॒वोः । मि॒त्रा॒व॒रु॒णौ॒ । अस्कृ॑धोयु ।
अनु॑ । यत् । गावः॑ । स्फु॒रान् । ऋ॒जि॒प्यम् । धृ॒ष्णुम् । यत् । रणे॑ । वृष॑णम् । यु॒नज॑न् ॥अवोः । इत्था । वाम् । छर्दिषः । अभिष्टौ । युवोः । मित्रावरुणौ । अस्कृधोयु ।
अनु । यत् । गावः । स्फुरान् । ऋजिप्यम् । धृष्णुम् । यत् । रणे । वृषणम् । युनजन् ॥avóḥ ǀ itthā́ ǀ vām ǀ chardíṣaḥ ǀ abhíṣṭau ǀ yuvóḥ ǀ mitrāvaruṇau ǀ áskṛdhoyu ǀ
ánu ǀ yát ǀ gā́vaḥ ǀ sphurā́n ǀ ṛjipyám ǀ dhṛṣṇúm ǀ yát ǀ ráṇe ǀ vṛ́ṣaṇam ǀ yunájan ǁavoḥ ǀ itthā ǀ vām ǀ chardiṣaḥ ǀ abhiṣṭau ǀ yuvoḥ ǀ mitrāvaruṇau ǀ askṛdhoyu ǀ
anu ǀ yat ǀ gāvaḥ ǀ sphurān ǀ ṛjipyam ǀ dhṛṣṇum ǀ yat ǀ raṇe ǀ vṛṣaṇam ǀ yunajan ǁ6.67.11 Aṣṭaka 5.1.10.6Anuvāka 6.6.56
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.