Ṛk 6.67.8
Saṃhitā
ता जि॒ह्वया॒ सद॒मेदं सु॑मे॒धा आ यद्वां॑ स॒त्यो अ॑र॒तिर्ऋ॒ते भूत् ।
तद्वां॑ महि॒त्वं घृ॑तान्नावस्तु यु॒वं दा॒शुषे॒ वि च॑यिष्ट॒मंहः॑ ॥
ता जिह्वया सदम् एदं सुमेधा आ यद् वां सत्यो अरतिर् ऋते भूत् |
तद् वाम् महित्वं घृतान्नाव् अस्तु युवं दाशुषे वि चयिष्टम् अंहः ||
tā́ jihváyā sádamédám sumedhā́ ā́ yádvām satyó aratírṛté bhū́t ǀ
tádvām mahitvám ghṛtānnāvastu yuvám dāśúṣe ví cayiṣṭamáṃhaḥ ǁ
tā jihvayā sadam edaṃ sumedhā ā yad vāṃ satyo aratir ṛte bhūt |
tad vām mahitvaṃ ghṛtānnāv astu yuvaṃ dāśuṣe vi cayiṣṭam aṃhaḥ ||
Padapāṭha
ता । जि॒ह्वया॑ । सद॑म् । आ । इ॒दम् । सु॒ऽमे॒धाः । आ । यत् । वा॒म् । स॒त्यः । अ॒र॒तिः । ऋ॒ते । भूत् ।
तत् । वा॒म् । म॒हि॒ऽत्वम् । घृ॒त॒ऽअ॒न्नौ॒ । अ॒स्तु॒ । यु॒वम् । दा॒शुषे॑ । वि । च॒यि॒ष्ट॒म् । अंहः॑ ॥
ता । जिह्वया । सदम् । आ । इदम् । सुऽमेधाः । आ । यत् । वाम् । सत्यः । अरतिः । ऋते । भूत् ।
तत् । वाम् । महिऽत्वम् । घृतऽअन्नौ । अस्तु । युवम् । दाशुषे । वि । चयिष्टम् । अंहः ॥
tā́ ǀ jihváyā ǀ sádam ǀ ā́ ǀ idám ǀ su-medhā́ḥ ǀ ā́ ǀ yát ǀ vām ǀ satyáḥ ǀ aratíḥ ǀ ṛté ǀ bhū́t ǀ
tát ǀ vām ǀ mahi-tvám ǀ ghṛta-annau ǀ astu ǀ yuvám ǀ dāśúṣe ǀ ví ǀ cayiṣṭam ǀ áṃhaḥ ǁ
tā ǀ jihvayā ǀ sadam ǀ ā ǀ idam ǀ su-medhāḥ ǀ ā ǀ yat ǀ vām ǀ satyaḥ ǀ aratiḥ ǀ ṛte ǀ bhūt ǀ
tat ǀ vām ǀ mahi-tvam ǀ ghṛta-annau ǀ astu ǀ yuvam ǀ dāśuṣe ǀ vi ǀ cayiṣṭam ǀ aṃhaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.067.08
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.1.10.03
- Maṇḍala · Anuvāka · Ṛk
- 06.06.053
- Devatā देवता
- Mitra, Varuṇa
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.