Ṛk 6.67.7
Saṃhitā
ता वि॒ग्रं धै॑थे ज॒ठरं॑ पृ॒णध्या॒ आ यत्सद्म॒ सभृ॑तयः पृ॒णंति॑ ।
न मृ॑ष्यंते युव॒तयोऽवा॑ता॒ वि यत्पयो॑ विश्वजिन्वा॒ भरं॑ते ॥
ता विग्रं धैथे जठरम् पृणध्या आ यत् सद्म सभृतयः पृणन्ति |
न मृष्यन्ते युवतयो ऽवाता वि यत् पयो विश्वजिन्वा भरन्ते ||
tā́ vigrám dhaithe jaṭháram pṛṇádhyā ā́ yátsádma sábhṛtayaḥ pṛṇánti ǀ
ná mṛṣyante yuvatáyó’vātā ví yátpáyo viśvajinvā bhárante ǁ
tā vigraṃ dhaithe jaṭharam pṛṇadhyā ā yat sadma sabhṛtayaḥ pṛṇanti |
na mṛṣyante yuvatayo 'vātā vi yat payo viśvajinvā bharante ||
Padapāṭha
ता । वि॒ग्रम् । धै॒थे॒ इति॑ । ज॒ठर॑म् । पृ॒णध्यै॑ । आ । यत् । सद्म॑ । सऽभृ॑तयः । पृ॒णन्ति॑ ।
न । मृ॒ष्य॒न्ते॒ । यु॒व॒तयः॑ । अवा॑ताः । वि । यत् । पयः॑ । वि॒श्व॒ऽजि॒न्वा॒ । भर॑न्ते ॥
ता । विग्रम् । धैथे इति । जठरम् । पृणध्यै । आ । यत् । सद्म । सऽभृतयः । पृणन्ति ।
न । मृष्यन्ते । युवतयः । अवाताः । वि । यत् । पयः । विश्वऽजिन्वा । भरन्ते ॥
tā́ ǀ vigrám ǀ dhaithe íti ǀ jaṭháram ǀ pṛṇádhyai ǀ ā́ ǀ yát ǀ sádma ǀ sá-bhṛtayaḥ ǀ pṛṇánti ǀ
ná ǀ mṛṣyante ǀ yuvatáyaḥ ǀ ávātāḥ ǀ ví ǀ yát ǀ páyaḥ ǀ viśva-jinvā ǀ bhárante ǁ
tā ǀ vigram ǀ dhaithe iti ǀ jaṭharam ǀ pṛṇadhyai ǀ ā ǀ yat ǀ sadma ǀ sa-bhṛtayaḥ ǀ pṛṇanti ǀ
na ǀ mṛṣyante ǀ yuvatayaḥ ǀ avātāḥ ǀ vi ǀ yat ǀ payaḥ ǀ viśva-jinvā ǀ bharante ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.067.07
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.1.10.02
- Maṇḍala · Anuvāka · Ṛk
- 06.06.052
- Devatā देवता
- Mitra, Varuṇa
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.