Ṛk 6.67.3
Saṃhitā
आ या॑तं मित्रावरुणा सुश॒स्त्युप॑ प्रि॒या नम॑सा हू॒यमा॑ना ।
सं याव॑प्नः॒स्थो अ॒पसे॑व॒ जनां॑छ्रुधीय॒तश्चि॑द्यतथो महि॒त्वा ॥
आ यातम् मित्रावरुणा सुशस्त्य् उप प्रिया नमसा हूयमाना |
सं याव् अप्नस्थो अपसेव जनाञ् छ्रुधीयतश् चिद् यतथो महित्वा ||
ā́ yātam mitrāvaruṇā suśastyúpa priyā́ námasā hūyámānā ǀ
sám yā́vapnaḥsthó apáseva jánāñchrudhīyatáścidyatatho mahitvā́ ǁ
ā yātam mitrāvaruṇā suśasty upa priyā namasā hūyamānā |
saṃ yāv apnastho apaseva janāñ chrudhīyataś cid yatatho mahitvā ||
Padapāṭha
आ । या॒त॒म् । मि॒त्रा॒व॒रु॒णा॒ । सु॒ऽश॒स्ति । उप॑ । प्रि॒या । नम॑सा । हू॒यमा॑ना ।
सम् । यौ । अ॒प्नः॒ऽस्थः । अ॒पसा॑ऽइव । जना॑न् । श्रु॒धि॒ऽय॒तः । चि॒त् । य॒त॒थः॒ । म॒हि॒ऽत्वा ॥
आ । यातम् । मित्रावरुणा । सुऽशस्ति । उप । प्रिया । नमसा । हूयमाना ।
सम् । यौ । अप्नःऽस्थः । अपसाऽइव । जनान् । श्रुधिऽयतः । चित् । यतथः । महिऽत्वा ॥
ā́ ǀ yātam ǀ mitrāvaruṇā ǀ su-śastí ǀ úpa ǀ priyā́ ǀ námasā ǀ hūyámānā ǀ
sám ǀ yáu ǀ apnaḥ-stháḥ ǀ apásā-iva ǀ jánān ǀ śrudhi-yatáḥ ǀ cit ǀ yatathaḥ ǀ mahi-tvā́ ǁ
ā ǀ yātam ǀ mitrāvaruṇā ǀ su-śasti ǀ upa ǀ priyā ǀ namasā ǀ hūyamānā ǀ
sam ǀ yau ǀ apnaḥ-sthaḥ ǀ apasā-iva ǀ janān ǀ śrudhi-yataḥ ǀ cit ǀ yatathaḥ ǀ mahi-tvā ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.067.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.1.09.03
- Maṇḍala · Anuvāka · Ṛk
- 06.06.048
- Devatā देवता
- Mitra, Varuṇa
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.