Sūkta 32
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Suhotra Bhāradvāja
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles triṣṭup (3, 5); bhurikpaṅkti (1); svarāṭpaṅkti (2); nicṛttriṣṭup (4)
2nd set of styles triṣṭubh
-
Ṛk 1
अपू॑र्व्या पुरु॒तमा॑न्यस्मै म॒हे वी॒राय॑ त॒वसे॑ तु॒राय॑ ।
वि॒र॒प्शिने॑ व॒ज्रिणे॒ शंत॑मानि॒ वचां॑स्या॒सा स्थवि॑राय तक्षं ॥अपूर्व्या पुरुतमान्य् अस्मै महे वीराय तवसे तुराय |
विरप्शिने वज्रिणे शन्तमानि वचांस्य् आसा स्थविराय तक्षम् ||ápūrvyā purutámānyasmai mahé vīrā́ya taváse turā́ya ǀ
virapśíne vajríṇe śáṃtamāni vácāṃsyāsā́ sthávirāya takṣam ǁapūrvyā purutamāny asmai mahe vīrāya tavase turāya |
virapśine vajriṇe śantamāni vacāṃsy āsā sthavirāya takṣam ||अपू॑र्व्या । पु॒रु॒ऽतमा॑नि । अ॒स्मै॒ । म॒हे । वी॒राय॑ । त॒वसे॑ । तु॒राय॑ ।
वि॒ऽर॒प्शिने॑ । व॒ज्रिणे॑ । शम्ऽत॑मानि । वचां॑सि । आ॒सा । स्थवि॑राय । त॒क्ष॒म् ॥अपूर्व्या । पुरुऽतमानि । अस्मै । महे । वीराय । तवसे । तुराय ।
विऽरप्शिने । वज्रिणे । शम्ऽतमानि । वचांसि । आसा । स्थविराय । तक्षम् ॥ápūrvyā ǀ puru-támāni ǀ asmai ǀ mahé ǀ vīrā́ya ǀ taváse ǀ turā́ya ǀ
vi-rapśíne ǀ vajríṇe ǀ śám-tamāni ǀ vácāṃsi ǀ āsā́ ǀ sthávirāya ǀ takṣam ǁapūrvyā ǀ puru-tamāni ǀ asmai ǀ mahe ǀ vīrāya ǀ tavase ǀ turāya ǀ
vi-rapśine ǀ vajriṇe ǀ śam-tamāni ǀ vacāṃsi ǀ āsā ǀ sthavirāya ǀ takṣam ǁ6.32.1 Aṣṭaka 4.7.4.1Anuvāka 6.3.60
-
Ṛk 2
स मा॒तरा॒ सूर्ये॑णा कवी॒नामवा॑सयद्रु॒जदद्रिं॑ गृणा॒नः ।
स्वा॒धीभि॒र्ऋक्व॑भिर्वावशा॒न उदु॒स्रिया॑णामसृजन्नि॒दानं॑ ॥स मातरा सूर्येणा कवीनाम् अवासयद् रुजद् अद्रिं गृणानः |
स्वाधीभिर् ऋक्वभिर् वावशान उद् उस्रियाणाम् असृजन् निदानम् ||sá mātárā sū́ryeṇā kavīnā́mávāsayadrujádádrim gṛṇānáḥ ǀ
svādhī́bhirṛ́kvabhirvāvaśāná údusríyāṇāmasṛjannidā́nam ǁsa mātarā sūryeṇā kavīnām avāsayad rujad adriṃ gṛṇānaḥ |
svādhībhir ṛkvabhir vāvaśāna ud usriyāṇām asṛjan nidānam ||सः । मा॒तरा॑ । सूर्ये॑ण । क॒वी॒नाम् । अवा॑सयत् । रु॒जत् । अद्रि॑म् । गृ॒णा॒नः ।
सु॒ऽआ॒धीभिः॑ । ऋक्व॑ऽभिः । वा॒व॒शा॒नः । उत् । उ॒स्रिया॑णाम् । अ॒सृ॒ज॒त् । नि॒ऽदान॑म् ॥सः । मातरा । सूर्येण । कवीनाम् । अवासयत् । रुजत् । अद्रिम् । गृणानः ।
सुऽआधीभिः । ऋक्वऽभिः । वावशानः । उत् । उस्रियाणाम् । असृजत् । निऽदानम् ॥sáḥ ǀ mātárā ǀ sū́ryeṇa ǀ kavīnā́m ǀ ávāsayat ǀ ruját ǀ ádrim ǀ gṛṇānáḥ ǀ
su-ādhī́bhiḥ ǀ ṛ́kva-bhiḥ ǀ vāvaśānáḥ ǀ út ǀ usríyāṇām ǀ asṛjat ǀ ni-dā́nam ǁsaḥ ǀ mātarā ǀ sūryeṇa ǀ kavīnām ǀ avāsayat ǀ rujat ǀ adrim ǀ gṛṇānaḥ ǀ
su-ādhībhiḥ ǀ ṛkva-bhiḥ ǀ vāvaśānaḥ ǀ ut ǀ usriyāṇām ǀ asṛjat ǀ ni-dānam ǁ6.32.2 Aṣṭaka 4.7.4.2Anuvāka 6.3.61
-
Ṛk 3
स वह्नि॑भि॒र्ऋक्व॑भि॒र्गोषु॒ शश्व॑न्मि॒तज्ञु॑भिः पुरु॒कृत्वा॑ जिगाय ।
पुरः॑ पुरो॒हा सखि॑भिः सखी॒यंदृ॒ळ्हा रु॑रोज क॒विभिः॑ क॒विः सन् ॥स वह्निभिर् ऋक्वभिर् गोषु शश्वन् मितज्ञुभिः पुरुकृत्वा जिगाय |
पुरः पुरोहा सखिभिः सखीयन् दृऌहा रुरोज कविभिः कविः सन् ||sá váhnibhirṛ́kvabhirgóṣu śáśvanmitájñubhiḥ purukṛ́tvā jigāya ǀ
púraḥ purohā́ sákhibhiḥ sakhīyándṛḷhā́ ruroja kavíbhiḥ kavíḥ sán ǁsa vahnibhir ṛkvabhir goṣu śaśvan mitajñubhiḥ purukṛtvā jigāya |
puraḥ purohā sakhibhiḥ sakhīyan dṛḷhā ruroja kavibhiḥ kaviḥ san ||सः । वह्नि॑ऽभिः । ऋक्व॑ऽभिः । गोषु॑ । शश्व॑त् । मि॒तज्ञु॑ऽभिः । पु॒रु॒ऽकृत्वा॑ । जि॒गा॒य॒ ।
पुरः॑ । पु॒रः॒ऽहा । सखि॑ऽभिः । स॒खि॒ऽयन् । दृ॒ळ्हाः । रु॒रो॒ज॒ । क॒विऽभिः॑ । क॒विः । सन् ॥सः । वह्निऽभिः । ऋक्वऽभिः । गोषु । शश्वत् । मितज्ञुऽभिः । पुरुऽकृत्वा । जिगाय ।
पुरः । पुरःऽहा । सखिऽभिः । सखिऽयन् । दृळ्हाः । रुरोज । कविऽभिः । कविः । सन् ॥sáḥ ǀ váhni-bhiḥ ǀ ṛ́kva-bhiḥ ǀ góṣu ǀ śáśvat ǀ mitájñu-bhiḥ ǀ puru-kṛ́tvā ǀ jigāya ǀ
púraḥ ǀ puraḥ-hā́ ǀ sákhi-bhiḥ ǀ sakhi-yán ǀ dṛḷhā́ḥ ǀ ruroja ǀ kaví-bhiḥ ǀ kavíḥ ǀ sán ǁsaḥ ǀ vahni-bhiḥ ǀ ṛkva-bhiḥ ǀ goṣu ǀ śaśvat ǀ mitajñu-bhiḥ ǀ puru-kṛtvā ǀ jigāya ǀ
puraḥ ǀ puraḥ-hā ǀ sakhi-bhiḥ ǀ sakhi-yan ǀ dṛḷhāḥ ǀ ruroja ǀ kavi-bhiḥ ǀ kaviḥ ǀ san ǁ6.32.3 Aṣṭaka 4.7.4.3Anuvāka 6.3.62
-
Ṛk 4
स नी॒व्या॑भिर्जरि॒तार॒मच्छा॑ म॒हो वाजे॑भिर्म॒हद्भि॑श्च॒ शुष्मैः॑ ।
पु॒रु॒वीरा॑भिर्वृषभ क्षिती॒नामा गि॑र्वणः सुवि॒ताय॒ प्र या॑हि ॥स नीव्याभिर् जरितारम् अच्छा महो वाजेभिर् महद्भिश् च शुष्मैः |
पुरुवीराभिर् वृषभ क्षितीनाम् आ गिर्वणः सुविताय प्र याहि ||sá nīvyā́bhirjaritā́ramácchā mahó vā́jebhirmahádbhiśca śúṣmaiḥ ǀ
puruvī́rābhirvṛṣabha kṣitīnā́mā́ girvaṇaḥ suvitā́ya prá yāhi ǁsa nīvyābhir jaritāram acchā maho vājebhir mahadbhiś ca śuṣmaiḥ |
puruvīrābhir vṛṣabha kṣitīnām ā girvaṇaḥ suvitāya pra yāhi ||सः । नी॒व्या॑भिः । ज॒रि॒तार॑म् । अच्छ॑ । म॒हः । वाजे॑भिः । म॒हत्ऽभिः॑ । च॒ । शुष्मैः॑ ।
पु॒रु॒ऽवीरा॑भिः । वृ॒ष॒भ॒ । क्षि॒ती॒नाम् । आ । गि॒र्व॒णः॒ । सु॒वि॒ताय॑ । प्र । या॒हि॒ ॥सः । नीव्याभिः । जरितारम् । अच्छ । महः । वाजेभिः । महत्ऽभिः । च । शुष्मैः ।
पुरुऽवीराभिः । वृषभ । क्षितीनाम् । आ । गिर्वणः । सुविताय । प्र । याहि ॥sáḥ ǀ nīvyā́bhiḥ ǀ jaritā́ram ǀ áccha ǀ maháḥ ǀ vā́jebhiḥ ǀ mahát-bhiḥ ǀ ca ǀ śúṣmaiḥ ǀ
puru-vī́rābhiḥ ǀ vṛṣabha ǀ kṣitīnā́m ǀ ā́ ǀ girvaṇaḥ ǀ suvitā́ya ǀ prá ǀ yāhi ǁsaḥ ǀ nīvyābhiḥ ǀ jaritāram ǀ accha ǀ mahaḥ ǀ vājebhiḥ ǀ mahat-bhiḥ ǀ ca ǀ śuṣmaiḥ ǀ
puru-vīrābhiḥ ǀ vṛṣabha ǀ kṣitīnām ǀ ā ǀ girvaṇaḥ ǀ suvitāya ǀ pra ǀ yāhi ǁ6.32.4 Aṣṭaka 4.7.4.4Anuvāka 6.3.63
-
Ṛk 5
स सर्गे॑ण॒ शव॑सा त॒क्तो अत्यै॑र॒प इंद्रो॑ दक्षिण॒तस्तु॑रा॒षाट् ।
इ॒त्था सृ॑जा॒ना अन॑पावृ॒दर्थं॑ दि॒वेदि॑वे विविषुरप्रमृ॒ष्यं ॥स सर्गेण शवसा तक्तो अत्यैर् अप इन्द्रो दक्षिणतस् तुराषाट् |
इत्था सृजाना अनपावृद् अर्थं दिवे-दिवे विविषुर् अप्रमृष्यम् ||sá sárgeṇa śávasā taktó átyairapá índro dakṣiṇatásturāṣā́ṭ ǀ
itthā́ sṛjānā́ ánapāvṛdártham divédive viviṣurapramṛṣyám ǁsa sargeṇa śavasā takto atyair apa indro dakṣiṇatas turāṣāṭ |
itthā sṛjānā anapāvṛd arthaṃ dive-dive viviṣur apramṛṣyam ||सः । सर्गे॑ण । शव॑सा । त॒क्तः । अत्यैः॑ । अ॒पः । इन्द्रः॑ । द॒क्षि॒ण॒तः । तु॒रा॒षाट् ।
इ॒त्था । सृ॒जा॒नाः । अन॑पऽवृत् । अर्थ॑म् । दि॒वेऽदि॑वे । वि॒वि॒षुः॒ । अ॒प्र॒ऽमृ॒ष्यम् ॥सः । सर्गेण । शवसा । तक्तः । अत्यैः । अपः । इन्द्रः । दक्षिणतः । तुराषाट् ।
इत्था । सृजानाः । अनपऽवृत् । अर्थम् । दिवेऽदिवे । विविषुः । अप्रऽमृष्यम् ॥sáḥ ǀ sárgeṇa ǀ śávasā ǀ taktáḥ ǀ átyaiḥ ǀ apáḥ ǀ índraḥ ǀ dakṣiṇatáḥ ǀ turāṣā́ṭ ǀ
itthā́ ǀ sṛjānā́ḥ ǀ ánapa-vṛt ǀ ártham ǀ divé-dive ǀ viviṣuḥ ǀ apra-mṛṣyám ǁsaḥ ǀ sargeṇa ǀ śavasā ǀ taktaḥ ǀ atyaiḥ ǀ apaḥ ǀ indraḥ ǀ dakṣiṇataḥ ǀ turāṣāṭ ǀ
itthā ǀ sṛjānāḥ ǀ anapa-vṛt ǀ artham ǀ dive-dive ǀ viviṣuḥ ǀ apra-mṛṣyam ǁ6.32.5 Aṣṭaka 4.7.4.5Anuvāka 6.3.64
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.