Ṛgveda · Maṇḍala 6 · Sūkta 32

Ṛk 6.32.5

Indra · Suhotra Bhāradvāja

The whole sūkta Link

Saṃhitā

स सर्गे॑ण॒ शव॑सा त॒क्तो अत्यै॑र॒प इंद्रो॑ दक्षिण॒तस्तु॑रा॒षाट् ।
इ॒त्था सृ॑जा॒ना अन॑पावृ॒दर्थं॑ दि॒वेदि॑वे विविषुरप्रमृ॒ष्यं ॥

स सर्गेण शवसा तक्तो अत्यैर् अप इन्द्रो दक्षिणतस् तुराषाट् |
इत्था सृजाना अनपावृद् अर्थं दिवे-दिवे विविषुर् अप्रमृष्यम् ||

sá sárgeṇa śávasā taktó átyairapá índro dakṣiṇatásturāṣā́ṭ ǀ
itthā́ sṛjānā́ ánapāvṛdártham divédive viviṣurapramṛṣyám ǁ

sa sargeṇa śavasā takto atyair apa indro dakṣiṇatas turāṣāṭ |
itthā sṛjānā anapāvṛd arthaṃ dive-dive viviṣur apramṛṣyam ||

Padapāṭha

सः । सर्गे॑ण । शव॑सा । त॒क्तः । अत्यैः॑ । अ॒पः । इन्द्रः॑ । द॒क्षि॒ण॒तः । तु॒रा॒षाट् ।
इ॒त्था । सृ॒जा॒नाः । अन॑पऽवृत् । अर्थ॑म् । दि॒वेऽदि॑वे । वि॒वि॒षुः॒ । अ॒प्र॒ऽमृ॒ष्यम् ॥

सः । सर्गेण । शवसा । तक्तः । अत्यैः । अपः । इन्द्रः । दक्षिणतः । तुराषाट् ।
इत्था । सृजानाः । अनपऽवृत् । अर्थम् । दिवेऽदिवे । विविषुः । अप्रऽमृष्यम् ॥

sáḥ ǀ sárgeṇa ǀ śávasā ǀ taktáḥ ǀ átyaiḥ ǀ apáḥ ǀ índraḥ ǀ dakṣiṇatáḥ ǀ turāṣā́ṭ ǀ
itthā́ ǀ sṛjānā́ḥ ǀ ánapa-vṛt ǀ ártham ǀ divé-dive ǀ viviṣuḥ ǀ apra-mṛṣyám ǁ

saḥ ǀ sargeṇa ǀ śavasā ǀ taktaḥ ǀ atyaiḥ ǀ apaḥ ǀ indraḥ ǀ dakṣiṇataḥ ǀ turāṣāṭ ǀ
itthā ǀ sṛjānāḥ ǀ anapa-vṛt ǀ artham ǀ dive-dive ǀ viviṣuḥ ǀ apra-mṛṣyam ǁ

References

Maṇḍala · Sūkta · Ṛk
06.032.05
Aṣṭaka · Adhyāya · Varga · Ṛk
4.7.04.05
Maṇḍala · Anuvāka · Ṛk
06.03.064
Devatā देवता
Indra
Ṛṣi ऋषि
Suhotra Bhāradvāja
Chandas छन्दस्
Triṣṭubh
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 6.32.5

Interpretations

Sāyaṇa

यओजिष्ठइतिपंचर्चंदशमंसूक्तं शुनहोत्रस्यार्षंत्रैष्टुभमैन्द्रं अनुक्रम्यतेच—यओजिष्ठः शुनहोत्रस्त्विति । महाव्रतेपिनिष्केवल्यउक्तोविनि- योगः ।