Ṛgveda · Maṇḍala 6

Sūkta 29

Indra · Bharadvāja Bārhaspatya · 6 ṛks

Link
Devatā देवता
Indra
Ṛṣi ऋषि
Bharadvāja Bārhaspatya
Chandas छन्दस्
Triṣṭubh
Metres by ṛk

1st set of styles nicṛttriṣṭup (1, 3, 5); bhurikpaṅkti (2); triṣṭup (4); brāhmyuṣnik (6)

2nd set of styles triṣṭubh

  1. Ṛk 1

    इंद्रं॑ वो॒ नरः॑ स॒ख्याय॑ सेपुर्म॒हो यंतः॑ सुम॒तये॑ चका॒नाः ।
    म॒हो हि दा॒ता वज्र॑हस्तो॒ अस्ति॑ म॒हामु॑ र॒ण्वमव॑से यजध्वं ॥

    इन्द्रं वो नरः सख्याय सेपुर् महो यन्तः सुमतये चकानाः |
    महो हि दाता वज्रहस्तो अस्ति महाम् उ रण्वम् अवसे यजध्वम् ||

    índram vo náraḥ sakhyā́ya sepurmahó yántaḥ sumatáye cakānā́ḥ ǀ
    mahó hí dātā́ vájrahasto ásti mahā́mu raṇvámávase yajadhvam ǁ

    indraṃ vo naraḥ sakhyāya sepur maho yantaḥ sumataye cakānāḥ |
    maho hi dātā vajrahasto asti mahām u raṇvam avase yajadhvam ||

    इन्द्र॑म् । वः॒ । नरः॑ । स॒ख्याय॑ । से॒पुः॒ । म॒हः । यन्तः॑ । सु॒ऽम॒तये॑ । च॒का॒नाः ।
    म॒हः । हि । दा॒ता । वज्र॑ऽहस्तः । अस्ति॑ । म॒हाम् । ऊं॒ इति॑ । र॒ण्वम् । अव॑से । य॒ज॒ध्व॒म् ॥

    इन्द्रम् । वः । नरः । सख्याय । सेपुः । महः । यन्तः । सुऽमतये । चकानाः ।
    महः । हि । दाता । वज्रऽहस्तः । अस्ति । महाम् । ऊं इति । रण्वम् । अवसे । यजध्वम् ॥

    índram ǀ vaḥ ǀ náraḥ ǀ sakhyā́ya ǀ sepuḥ ǀ maháḥ ǀ yántaḥ ǀ su-matáye ǀ cakānā́ḥ ǀ
    maháḥ ǀ hí ǀ dātā́ ǀ vájra-hastaḥ ǀ ásti ǀ mahā́m ǀ ūṃ íti ǀ raṇvám ǀ ávase ǀ yajadhvam ǁ

    indram ǀ vaḥ ǀ naraḥ ǀ sakhyāya ǀ sepuḥ ǀ mahaḥ ǀ yantaḥ ǀ su-mataye ǀ cakānāḥ ǀ
    mahaḥ ǀ hi ǀ dātā ǀ vajra-hastaḥ ǀ asti ǀ mahām ǀ ūṃ iti ǀ raṇvam ǀ avase ǀ yajadhvam ǁ

    6.29.1 Aṣṭaka 4.7.1.1Anuvāka 6.3.44

  2. Ṛk 2

    आ यस्मि॒न्हस्ते॒ नर्या॑ मिमि॒क्षुरा रथे॑ हिर॒ण्यये॑ रथे॒ष्ठाः ।
    आ र॒श्मयो॒ गभ॑स्त्योः स्थू॒रयो॒राध्व॒न्नश्वा॑सो॒ वृष॑णो युजा॒नाः ॥

    आ यस्मिन् हस्ते नर्या मिमिक्षुर् आ रथे हिरण्यये रथेष्ठाः |
    आ रश्मयो गभस्त्यो स्थूरयोर् आध्वन्न् अश्वासो वृषणो युजानाः ||

    ā́ yásminháste náryā mimikṣúrā́ ráthe hiraṇyáye ratheṣṭhā́ḥ ǀ
    ā́ raśmáyo gábhastyoḥ sthūráyorā́dhvannáśvāso vṛ́ṣaṇo yujānā́ḥ ǁ

    ā yasmin haste naryā mimikṣur ā rathe hiraṇyaye ratheṣṭhāḥ |
    ā raśmayo gabhastyo sthūrayor ādhvann aśvāso vṛṣaṇo yujānāḥ ||

    आ । यस्मि॑न् । हस्ते॑ । नर्याः॑ । मि॒मि॒क्षुः । आ । रथे॑ । हि॒र॒ण्यये॑ । र॒थे॒ऽस्थाः ।
    आ । र॒श्मयः॑ । गभ॑स्त्योः । स्थू॒रयोः॑ । आ । अध्व॑न् । अश्वा॑सः । वृष॑णः । यु॒जा॒नाः ॥

    आ । यस्मिन् । हस्ते । नर्याः । मिमिक्षुः । आ । रथे । हिरण्यये । रथेऽस्थाः ।
    आ । रश्मयः । गभस्त्योः । स्थूरयोः । आ । अध्वन् । अश्वासः । वृषणः । युजानाः ॥

    ā́ ǀ yásmin ǀ háste ǀ náryāḥ ǀ mimikṣúḥ ǀ ā́ ǀ ráthe ǀ hiraṇyáye ǀ rathe-sthā́ḥ ǀ
    ā́ ǀ raśmáyaḥ ǀ gábhastyoḥ ǀ sthūráyoḥ ǀ ā́ ǀ ádhvan ǀ áśvāsaḥ ǀ vṛ́ṣaṇaḥ ǀ yujānā́ḥ ǁ

    ā ǀ yasmin ǀ haste ǀ naryāḥ ǀ mimikṣuḥ ǀ ā ǀ rathe ǀ hiraṇyaye ǀ rathe-sthāḥ ǀ
    ā ǀ raśmayaḥ ǀ gabhastyoḥ ǀ sthūrayoḥ ǀ ā ǀ adhvan ǀ aśvāsaḥ ǀ vṛṣaṇaḥ ǀ yujānāḥ ǁ

    6.29.2 Aṣṭaka 4.7.1.2Anuvāka 6.3.45

  3. Ṛk 3

    श्रि॒ये ते॒ पादा॒ दुव॒ आ मि॑मिक्षुर्धृ॒ष्णुर्व॒ज्री शव॑सा॒ दक्षि॑णावान् ।
    वसा॑नो॒ अत्कं॑ सुर॒भिं दृ॒शे कं स्व१॒॑र्ण नृ॑तविषि॒रो ब॑भूथ ॥

    श्रिये ते पादा दुव आ मिमिक्षुर् धृष्णुर् वज्री शवसा दक्षिणावान् |
    वसानो अत्कं सुरभिं दृशे कं स्वर् ण नृतव् इषिरो बभूथ ||

    śriyé te pā́dā dúva ā́ mimikṣurdhṛṣṇúrvajrī́ śávasā dákṣiṇāvān ǀ
    vásāno átkam surabhím dṛśé kám svárṇá nṛtaviṣiró babhūtha ǁ

    śriye te pādā duva ā mimikṣur dhṛṣṇur vajrī śavasā dakṣiṇāvān |
    vasāno atkaṃ surabhiṃ dṛśe kaṃ svar ṇa nṛtav iṣiro babhūtha ||

    श्रि॒ये । ते॒ । पादा॑ । दुवः॑ । आ । मि॒मि॒क्षुः॒ । धृ॒ष्णुः । व॒ज्री । शव॑सा । दक्षि॑णऽवान् ।
    वसा॑नः । अत्क॑म् । सु॒र॒भिम् । दृ॒शे । कम् । स्वः॑ । न । नृ॒तो॒ इति॑ । इ॒षि॒रः । ब॒भू॒थ॒ ॥

    श्रिये । ते । पादा । दुवः । आ । मिमिक्षुः । धृष्णुः । वज्री । शवसा । दक्षिणऽवान् ।
    वसानः । अत्कम् । सुरभिम् । दृशे । कम् । स्वः । न । नृतो इति । इषिरः । बभूथ ॥

    śriyé ǀ te ǀ pā́dā ǀ dúvaḥ ǀ ā́ ǀ mimikṣuḥ ǀ dhṛṣṇúḥ ǀ vajrī́ ǀ śávasā ǀ dákṣiṇa-vān ǀ
    vásānaḥ ǀ átkam ǀ surabhím ǀ dṛśé ǀ kám ǀ sváḥ ǀ ná ǀ nṛto íti ǀ iṣiráḥ ǀ babhūtha ǁ

    śriye ǀ te ǀ pādā ǀ duvaḥ ǀ ā ǀ mimikṣuḥ ǀ dhṛṣṇuḥ ǀ vajrī ǀ śavasā ǀ dakṣiṇa-vān ǀ
    vasānaḥ ǀ atkam ǀ surabhim ǀ dṛśe ǀ kam ǀ svaḥ ǀ na ǀ nṛto iti ǀ iṣiraḥ ǀ babhūtha ǁ

    6.29.3 Aṣṭaka 4.7.1.3Anuvāka 6.3.46

  4. Ṛk 4

    स सोम॒ आमि॑श्लतमः सु॒तो भू॒द्यस्मि॑न्प॒क्तिः प॒च्यते॒ संति॑ धा॒नाः ।
    इंद्रं॒ नरः॑ स्तु॒वंतो॑ ब्रह्मका॒रा उ॒क्था शंसं॑तो दे॒ववा॑ततमाः ॥

    स सोम आमिश्लतमः सुतो भूद् यस्मिन् पक्तिः पच्यते सन्ति धानाः |
    इन्द्रं नर स्तुवन्तो ब्रह्मकारा उक्था शंसन्तो देववाततमाः ||

    sá sóma ā́miślatamaḥ sutó bhūdyásminpaktíḥ pacyáte sánti dhānā́ḥ ǀ
    índram náraḥ stuvánto brahmakārā́ ukthā́ śáṃsanto devávātatamāḥ ǁ

    sa soma āmiślatamaḥ suto bhūd yasmin paktiḥ pacyate santi dhānāḥ |
    indraṃ nara stuvanto brahmakārā ukthā śaṃsanto devavātatamāḥ ||

    सः । सोमः॑ । आमि॑श्लऽतमः । सु॒तः । भू॒त् । यस्मि॑न् । प॒क्तिः । प॒च्यते॑ । सन्ति॑ । धा॒नाः ।
    इन्द्र॑म् । नरः॑ । स्तु॒वन्तः॑ । ब्र॒ह्म॒ऽका॒राः । उ॒क्था । शंस॑न्तः । दे॒ववा॑तऽतमाः ॥

    सः । सोमः । आमिश्लऽतमः । सुतः । भूत् । यस्मिन् । पक्तिः । पच्यते । सन्ति । धानाः ।
    इन्द्रम् । नरः । स्तुवन्तः । ब्रह्मऽकाराः । उक्था । शंसन्तः । देववातऽतमाः ॥

    sáḥ ǀ sómaḥ ǀ ā́miśla-tamaḥ ǀ sutáḥ ǀ bhūt ǀ yásmin ǀ paktíḥ ǀ pacyáte ǀ sánti ǀ dhānā́ḥ ǀ
    índram ǀ náraḥ ǀ stuvántaḥ ǀ brahma-kārā́ḥ ǀ ukthā́ ǀ śáṃsantaḥ ǀ devávāta-tamāḥ ǁ

    saḥ ǀ somaḥ ǀ āmiśla-tamaḥ ǀ sutaḥ ǀ bhūt ǀ yasmin ǀ paktiḥ ǀ pacyate ǀ santi ǀ dhānāḥ ǀ
    indram ǀ naraḥ ǀ stuvantaḥ ǀ brahma-kārāḥ ǀ ukthā ǀ śaṃsantaḥ ǀ devavāta-tamāḥ ǁ

    6.29.4 Aṣṭaka 4.7.1.4Anuvāka 6.3.47

  5. Ṛk 5

    न ते॒ अंतः॒ शव॑सो धाय्य॒स्य वि तु बा॑बधे॒ रोद॑सी महि॒त्वा ।
    आ ता सू॒रिः पृ॑णति॒ तूतु॑जानो यू॒थेवा॒प्सु स॒मीज॑मान ऊ॒ती ॥

    न ते अन्तः शवसो धाय्य् अस्य वि तु बाबधे रोदसी महित्वा |
    आ ता सूरिः पृणति तूतुजानो यूथेवाप्सु समीजमान ऊती ||

    ná te ántaḥ śávaso dhāyyasyá ví tú bābadhe ródasī mahitvā́ ǀ
    ā́ tā́ sūríḥ pṛṇati tū́tujāno yūthévāpsú samī́jamāna ūtī́ ǁ

    na te antaḥ śavaso dhāyy asya vi tu bābadhe rodasī mahitvā |
    ā tā sūriḥ pṛṇati tūtujāno yūthevāpsu samījamāna ūtī ||

    न । ते॒ । अन्तः॑ । शव॑सः । धा॒यि॒ । अ॒स्य । वि । तु । बा॒ब॒धे॒ । रोद॑सी॒ इति॑ । म॒हि॒ऽत्वा ।
    आ । ता । सू॒रिः । पृ॒ण॒ति॒ । तूतु॑जानः । यू॒थाऽइ॑व । अ॒प्ऽसु । स॒म्ऽईज॑मानः । ऊ॒ती ॥

    न । ते । अन्तः । शवसः । धायि । अस्य । वि । तु । बाबधे । रोदसी इति । महिऽत्वा ।
    आ । ता । सूरिः । पृणति । तूतुजानः । यूथाऽइव । अप्ऽसु । सम्ऽईजमानः । ऊती ॥

    ná ǀ te ǀ ántaḥ ǀ śávasaḥ ǀ dhāyi ǀ asyá ǀ ví ǀ tú ǀ bābadhe ǀ ródasī íti ǀ mahi-tvā́ ǀ
    ā́ ǀ tā́ ǀ sūríḥ ǀ pṛṇati ǀ tū́tujānaḥ ǀ yūthā́-iva ǀ ap-sú ǀ sam-ī́jamānaḥ ǀ ūtī́ ǁ

    na ǀ te ǀ antaḥ ǀ śavasaḥ ǀ dhāyi ǀ asya ǀ vi ǀ tu ǀ bābadhe ǀ rodasī iti ǀ mahi-tvā ǀ
    ā ǀ tā ǀ sūriḥ ǀ pṛṇati ǀ tūtujānaḥ ǀ yūthā-iva ǀ ap-su ǀ sam-ījamānaḥ ǀ ūtī ǁ

    6.29.5 Aṣṭaka 4.7.1.5Anuvāka 6.3.48

  6. Ṛk 6

    ए॒वेदिंद्रः॑ सु॒हव॑ ऋ॒ष्वो अ॑स्तू॒ती अनू॑ती हिरिशि॒प्रः सत्वा॑ ।
    ए॒वा हि जा॒तो अस॑मात्योजाः पु॒रू च॑ वृ॒त्रा ह॑नति॒ नि दस्यू॑न् ॥

    एवेद् इन्द्रः सुहव ऋष्वो अस्तूती अनूती हिरिशिप्रः सत्वा |
    एवा हि जातो असमात्योजाः पुरू च वृत्रा हनति नि दस्यून् ||

    evédíndraḥ suháva ṛṣvó astūtī́ ánūtī hiriśipráḥ sátvā ǀ
    evā́ hí jātó ásamātyojāḥ purū́ ca vṛtrā́ hanati ní dásyūn ǁ

    eved indraḥ suhava ṛṣvo astūtī anūtī hiriśipraḥ satvā |
    evā hi jāto asamātyojāḥ purū ca vṛtrā hanati ni dasyūn ||

    ए॒व । इत् । इन्द्रः॑ । सु॒ऽहवः॑ । ऋ॒ष्वः । अ॒स्तु॒ । ऊ॒ती । अनू॑ती । हि॒रि॒ऽशि॒प्रः । सत्वा॑ ।
    ए॒व । हि । जा॒तः । अस॑मातिऽओजाः । पु॒रु । च॒ । वृ॒त्रा । ह॒न॒ति॒ । नि । दस्यू॑न् ॥

    एव । इत् । इन्द्रः । सुऽहवः । ऋष्वः । अस्तु । ऊती । अनूती । हिरिऽशिप्रः । सत्वा ।
    एव । हि । जातः । असमातिऽओजाः । पुरु । च । वृत्रा । हनति । नि । दस्यून् ॥

    evá ǀ ít ǀ índraḥ ǀ su-hávaḥ ǀ ṛṣváḥ ǀ astu ǀ ūtī́ ǀ ánūtī ǀ hiri-śipráḥ ǀ sátvā ǀ
    evá ǀ hí ǀ jātáḥ ǀ ásamāti-ojāḥ ǀ purú ǀ ca ǀ vṛtrā́ ǀ hanati ǀ ní ǀ dásyūn ǁ

    eva ǀ it ǀ indraḥ ǀ su-havaḥ ǀ ṛṣvaḥ ǀ astu ǀ ūtī ǀ anūtī ǀ hiri-śipraḥ ǀ satvā ǀ
    eva ǀ hi ǀ jātaḥ ǀ asamāti-ojāḥ ǀ puru ǀ ca ǀ vṛtrā ǀ hanati ǀ ni ǀ dasyūn ǁ

    6.29.6 Aṣṭaka 4.7.1.6Anuvāka 6.3.49

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 6.29 · Indra

Interpretations

Ralph T. H. Griffith

Ṛk 1

YOUR men have followed Indra for his friendship, and for his loving-kindness glorified him. For he bestows great wealth, the Thunder-wielder: worship him, Great and Kind, to win his favour.

Ṛk 2

Him to whose hand, men closely cling, and drivers stand on his golden chariot firmly stationed. With his firm arms he holds the reins; his Horses, the Stallions, are yoked ready for the journey.

Ṛk 3

Thy devotees embrace thy feet for glory. Bold, thunder-armed, rich, through thy strength, in guerdon, Robed in a garment fair as heaven to look on, thou hast displayed thee like an active dancer.

Ṛk 4

That Soma when effused hath best consistence, for which the food is dressed and grain is mingled; By which the men who pray, extolling Indra chief favourites of Gods, recite their praises.

Ṛk 5

No limit of thy might hath been appointed, which by its greatness sundered earth and heaven. These the Prince filleth full with strong endeavour, driving, as ’twere, with help his flocks to waters.