Ṛk 6.29.6
Saṃhitā
ए॒वेदिंद्रः॑ सु॒हव॑ ऋ॒ष्वो अ॑स्तू॒ती अनू॑ती हिरिशि॒प्रः सत्वा॑ ।
ए॒वा हि जा॒तो अस॑मात्योजाः पु॒रू च॑ वृ॒त्रा ह॑नति॒ नि दस्यू॑न् ॥
एवेद् इन्द्रः सुहव ऋष्वो अस्तूती अनूती हिरिशिप्रः सत्वा |
एवा हि जातो असमात्योजाः पुरू च वृत्रा हनति नि दस्यून् ||
evédíndraḥ suháva ṛṣvó astūtī́ ánūtī hiriśipráḥ sátvā ǀ
evā́ hí jātó ásamātyojāḥ purū́ ca vṛtrā́ hanati ní dásyūn ǁ
eved indraḥ suhava ṛṣvo astūtī anūtī hiriśipraḥ satvā |
evā hi jāto asamātyojāḥ purū ca vṛtrā hanati ni dasyūn ||
Padapāṭha
ए॒व । इत् । इन्द्रः॑ । सु॒ऽहवः॑ । ऋ॒ष्वः । अ॒स्तु॒ । ऊ॒ती । अनू॑ती । हि॒रि॒ऽशि॒प्रः । सत्वा॑ ।
ए॒व । हि । जा॒तः । अस॑मातिऽओजाः । पु॒रु । च॒ । वृ॒त्रा । ह॒न॒ति॒ । नि । दस्यू॑न् ॥
एव । इत् । इन्द्रः । सुऽहवः । ऋष्वः । अस्तु । ऊती । अनूती । हिरिऽशिप्रः । सत्वा ।
एव । हि । जातः । असमातिऽओजाः । पुरु । च । वृत्रा । हनति । नि । दस्यून् ॥
evá ǀ ít ǀ índraḥ ǀ su-hávaḥ ǀ ṛṣváḥ ǀ astu ǀ ūtī́ ǀ ánūtī ǀ hiri-śipráḥ ǀ sátvā ǀ
evá ǀ hí ǀ jātáḥ ǀ ásamāti-ojāḥ ǀ purú ǀ ca ǀ vṛtrā́ ǀ hanati ǀ ní ǀ dásyūn ǁ
eva ǀ it ǀ indraḥ ǀ su-havaḥ ǀ ṛṣvaḥ ǀ astu ǀ ūtī ǀ anūtī ǀ hiri-śipraḥ ǀ satvā ǀ
eva ǀ hi ǀ jātaḥ ǀ asamāti-ojāḥ ǀ puru ǀ ca ǀ vṛtrā ǀ hanati ǀ ni ǀ dasyūn ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.029.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.7.01.06
- Maṇḍala · Anuvāka · Ṛk
- 06.03.049
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- ऋषभः
Text and interpretations from the Ṛgveda database of theveda.org.in.