Sūkta 41
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles triṣṭup (2-4); virāṭtrisṭup (1); bhurikpaṅkti (5)
2nd set of styles triṣṭubh
-
Ṛk 1
अहे॑ळमान॒ उप॑ याहि य॒ज्ञं तुभ्यं॑ पवंत॒ इंद॑वः सु॒तासः॑ ।
गावो॒ न व॑ज्रि॒न्त्स्वमोको॒ अच्छेंद्रा ग॑हि प्रथ॒मो य॒ज्ञिया॑नां ॥अहेऌअमान उप याहि यज्ञं तुभ्यम् पवन्त इन्दवः सुतासः |
गावो न वज्रिन् स्वम् ओको अच्छेन्द्रा गहि प्रथमो यज्ञियानाम् ||áheḷamāna úpa yāhi yajñám túbhyam pavanta índavaḥ sutā́saḥ ǀ
gā́vo ná vajrintsvámóko ácchéndrā́ gahi prathamó yajñíyānām ǁaheḷamāna upa yāhi yajñaṃ tubhyam pavanta indavaḥ sutāsaḥ |
gāvo na vajrin svam oko acchendrā gahi prathamo yajñiyānām ||अहे॑ळमानः । उप॑ । या॒हि॒ । य॒ज्ञम् । तुभ्य॑म् । प॒व॒न्ते॒ । इन्द॑वः । सु॒तासः॑ ।
गावः॑ । न । व॒ज्रि॒न् । स्वम् । ओकः॑ । अच्छ॑ । इन्द्र॑ । आ । ग॒हि॒ । प्र॒थ॒मः । य॒ज्ञिया॑नाम् ॥अहेळमानः । उप । याहि । यज्ञम् । तुभ्यम् । पवन्ते । इन्दवः । सुतासः ।
गावः । न । वज्रिन् । स्वम् । ओकः । अच्छ । इन्द्र । आ । गहि । प्रथमः । यज्ञियानाम् ॥áheḷamānaḥ ǀ úpa ǀ yāhi ǀ yajñám ǀ túbhyam ǀ pavante ǀ índavaḥ ǀ sutā́saḥ ǀ
gā́vaḥ ǀ ná ǀ vajrin ǀ svám ǀ ókaḥ ǀ áccha ǀ índra ǀ ā́ ǀ gahi ǀ prathamáḥ ǀ yajñíyānām ǁaheḷamānaḥ ǀ upa ǀ yāhi ǀ yajñam ǀ tubhyam ǀ pavante ǀ indavaḥ ǀ sutāsaḥ ǀ
gāvaḥ ǀ na ǀ vajrin ǀ svam ǀ okaḥ ǀ accha ǀ indra ǀ ā ǀ gahi ǀ prathamaḥ ǀ yajñiyānām ǁ6.41.1 Aṣṭaka 4.7.13.1Anuvāka 6.3.105
-
Ṛk 2
या ते॑ का॒कुत्सुकृ॑ता॒ या वरि॑ष्ठा॒ यया॒ शश्व॒त्पिब॑सि॒ मध्व॑ ऊ॒र्मिं ।
तया॑ पाहि॒ प्र ते॑ अध्व॒र्युर॑स्था॒त्सं ते॒ वज्रो॑ वर्ततामिंद्र ग॒व्युः ॥या ते काकुत् सुकृता या वरिष्ठा यया शश्वत् पिबसि मध्व ऊर्मिम् |
तया पाहि प्र ते अध्वर्युर् अस्थात् सं ते वज्रो वर्तताम् इन्द्र गव्युः ||yā́ te kākútsúkṛtā yā́ váriṣṭhā yáyā śáśvatpíbasi mádhva ūrmím ǀ
táyā pāhi prá te adhvaryúrasthātsám te vájro vartatāmindra gavyúḥ ǁyā te kākut sukṛtā yā variṣṭhā yayā śaśvat pibasi madhva ūrmim |
tayā pāhi pra te adhvaryur asthāt saṃ te vajro vartatām indra gavyuḥ ||या । ते॒ । का॒कुत् । सुऽकृ॑ता । या । वरि॑ष्ठा । यया॑ । शश्व॑त् । पिब॑सि । मध्वः॑ । ऊ॒र्मिम् ।
तया॑ । पा॒हि॒ । प्र । ते॒ । अ॒ध्व॒र्युः । अ॒स्था॒त् । सम् । ते॒ । वज्रः॑ । व॒र्त॒ता॒म् । इ॒न्द्र॒ । ग॒व्युः ॥या । ते । काकुत् । सुऽकृता । या । वरिष्ठा । यया । शश्वत् । पिबसि । मध्वः । ऊर्मिम् ।
तया । पाहि । प्र । ते । अध्वर्युः । अस्थात् । सम् । ते । वज्रः । वर्तताम् । इन्द्र । गव्युः ॥yā́ ǀ te ǀ kākút ǀ sú-kṛtā ǀ yā́ ǀ váriṣṭhā ǀ yáyā ǀ śáśvat ǀ píbasi ǀ mádhvaḥ ǀ ūrmím ǀ
táyā ǀ pāhi ǀ prá ǀ te ǀ adhvaryúḥ ǀ asthāt ǀ sám ǀ te ǀ vájraḥ ǀ vartatām ǀ indra ǀ gavyúḥ ǁyā ǀ te ǀ kākut ǀ su-kṛtā ǀ yā ǀ variṣṭhā ǀ yayā ǀ śaśvat ǀ pibasi ǀ madhvaḥ ǀ ūrmim ǀ
tayā ǀ pāhi ǀ pra ǀ te ǀ adhvaryuḥ ǀ asthāt ǀ sam ǀ te ǀ vajraḥ ǀ vartatām ǀ indra ǀ gavyuḥ ǁ6.41.2 Aṣṭaka 4.7.13.2Anuvāka 6.3.106
-
Ṛk 3
ए॒ष द्र॒प्सो वृ॑ष॒भो वि॒श्वरू॑प॒ इंद्रा॑य॒ वृष्णे॒ सम॑कारि॒ सोमः॑ ।
ए॒तं पि॑ब हरिवः स्थातरुग्र॒ यस्येशि॑षे प्र॒दिवि॒ यस्ते॒ अन्नं॑ ॥एष द्रप्सो वृषभो विश्वरूप इन्द्राय वृष्णे सम् अकारि सोमः |
एतम् पिब हरिव स्थातर् उग्र यस्येशिषे प्रदिवि यस् ते अन्नम् ||eṣá drapsó vṛṣabhó viśvárūpa índrāya vṛ́ṣṇe sámakāri sómaḥ ǀ
etám piba harivaḥ sthātarugra yásyéśiṣe pradívi yáste ánnam ǁeṣa drapso vṛṣabho viśvarūpa indrāya vṛṣṇe sam akāri somaḥ |
etam piba hariva sthātar ugra yasyeśiṣe pradivi yas te annam ||ए॒षः । द्र॒प्सः । वृ॒ष॒भः । वि॒श्वऽरू॑पः । इन्द्रा॑य । वृष्णे॑ । सम् । अ॒का॒रि॒ । सोमः॑ ।
ए॒तम् । पि॒ब॒ । ह॒रि॒ऽवः॒ । स्था॒तः॒ । उ॒ग्र॒ । यस्य॑ । ईशि॑षे । प्र॒ऽदिवि॑ । यः । ते॒ । अन्न॑म् ॥एषः । द्रप्सः । वृषभः । विश्वऽरूपः । इन्द्राय । वृष्णे । सम् । अकारि । सोमः ।
एतम् । पिब । हरिऽवः । स्थातः । उग्र । यस्य । ईशिषे । प्रऽदिवि । यः । ते । अन्नम् ॥eṣáḥ ǀ drapsáḥ ǀ vṛṣabháḥ ǀ viśvá-rūpaḥ ǀ índrāya ǀ vṛ́ṣṇe ǀ sám ǀ akāri ǀ sómaḥ ǀ
etám ǀ piba ǀ hari-vaḥ ǀ sthātaḥ ǀ ugra ǀ yásya ǀ ī́śiṣe ǀ pra-dívi ǀ yáḥ ǀ te ǀ ánnam ǁeṣaḥ ǀ drapsaḥ ǀ vṛṣabhaḥ ǀ viśva-rūpaḥ ǀ indrāya ǀ vṛṣṇe ǀ sam ǀ akāri ǀ somaḥ ǀ
etam ǀ piba ǀ hari-vaḥ ǀ sthātaḥ ǀ ugra ǀ yasya ǀ īśiṣe ǀ pra-divi ǀ yaḥ ǀ te ǀ annam ǁ6.41.3 Aṣṭaka 4.7.13.3Anuvāka 6.3.107
-
Ṛk 4
सु॒तः सोमो॒ असु॑तादिंद्र॒ वस्या॑न॒यं श्रेयां॑चिकि॒तुषे॒ रणा॑य ।
ए॒तं ति॑तिर्व॒ उप॑ याहि य॒ज्ञं तेन॒ विश्वा॒स्तवि॑षी॒रा पृ॑णस्व ॥सुतः सोमो असुताद् इन्द्र वस्यान् अयं श्रेयाञ् चिकितुषे रणाय |
एतं तितिर्व उप याहि यज्ञं तेन विश्वास् तविषीर् आ पृणस्व ||sutáḥ sómo ásutādindra vásyānayám śréyāñcikitúṣe ráṇāya ǀ
etám titirva úpa yāhi yajñám téna víśvāstáviṣīrā́ pṛṇasva ǁsutaḥ somo asutād indra vasyān ayaṃ śreyāñ cikituṣe raṇāya |
etaṃ titirva upa yāhi yajñaṃ tena viśvās taviṣīr ā pṛṇasva ||सु॒तः । सोमः॑ । असु॑तात् । इ॒न्द्र॒ । वस्या॑न् । अ॒यम् । श्रेया॑न् । चि॒कि॒तुषे॑ । रणा॑य ।
ए॒तम् । ति॒ति॒र्वः॒ । उप॑ । या॒हि॒ । य॒ज्ञम् । तेन॑ । विश्वाः॑ । तवि॑षीः । आ । पृ॒ण॒स्व॒ ॥सुतः । सोमः । असुतात् । इन्द्र । वस्यान् । अयम् । श्रेयान् । चिकितुषे । रणाय ।
एतम् । तितिर्वः । उप । याहि । यज्ञम् । तेन । विश्वाः । तविषीः । आ । पृणस्व ॥sutáḥ ǀ sómaḥ ǀ ásutāt ǀ indra ǀ vásyān ǀ ayám ǀ śréyān ǀ cikitúṣe ǀ ráṇāya ǀ
etám ǀ titirvaḥ ǀ úpa ǀ yāhi ǀ yajñám ǀ téna ǀ víśvāḥ ǀ táviṣīḥ ǀ ā́ ǀ pṛṇasva ǁsutaḥ ǀ somaḥ ǀ asutāt ǀ indra ǀ vasyān ǀ ayam ǀ śreyān ǀ cikituṣe ǀ raṇāya ǀ
etam ǀ titirvaḥ ǀ upa ǀ yāhi ǀ yajñam ǀ tena ǀ viśvāḥ ǀ taviṣīḥ ǀ ā ǀ pṛṇasva ǁ6.41.4 Aṣṭaka 4.7.13.4Anuvāka 6.3.108
-
Ṛk 5
ह्वया॑मसि॒ त्वेंद्र॑ याह्य॒र्वाङरं॑ ते॒ सोम॑स्त॒न्वे॑ भवाति ।
शत॑क्रतो मा॒दय॑स्वा सु॒तेषु॒ प्रास्माँ अ॑व॒ पृत॑नासु॒ प्र वि॒क्षु ॥ह्वयामसि त्वेन्द्र याह्य् अर्वाङ् अरं ते सोमस् तन्वे भवाति |
शतक्रतो मादयस्वा सुतेषु प्रास्मां अव पृतनासु प्र विक्षु ||hváyāmasi tvéndra yāhyarvā́ṅáram te sómastanvé bhavāti ǀ
śátakrato mādáyasvā sutéṣu prā́smā́m̐ ava pṛ́tanāsu prá vikṣú ǁhvayāmasi tvendra yāhy arvāṅ araṃ te somas tanve bhavāti |
śatakrato mādayasvā suteṣu prāsmāṃ ava pṛtanāsu pra vikṣu ||ह्वया॑मसि । त्वा॒ । आ । इ॒न्द्र॒ । या॒हि॒ । अ॒र्वाङ् । अर॑म् । ते॒ । सोमः॑ । त॒न्वे॑ । भ॒वा॒ति॒ ।
शत॑क्रतो॒ इति॒ शत॑ऽक्रतो । मा॒दय॑स्व । सु॒तेषु॑ । प्र । अ॒स्मान् । अ॒व॒ । पृत॑नासु । प्र । वि॒क्षु ॥ह्वयामसि । त्वा । आ । इन्द्र । याहि । अर्वाङ् । अरम् । ते । सोमः । तन्वे । भवाति ।
शतक्रतो इति शतऽक्रतो । मादयस्व । सुतेषु । प्र । अस्मान् । अव । पृतनासु । प्र । विक्षु ॥hváyāmasi ǀ tvā ǀ ā́ ǀ indra ǀ yāhi ǀ arvā́ṅ ǀ áram ǀ te ǀ sómaḥ ǀ tanvé ǀ bhavāti ǀ
śátakrato íti śáta-krato ǀ mādáyasva ǀ sutéṣu ǀ prá ǀ asmā́n ǀ ava ǀ pṛ́tanāsu ǀ prá ǀ vikṣú ǁhvayāmasi ǀ tvā ǀ ā ǀ indra ǀ yāhi ǀ arvāṅ ǀ aram ǀ te ǀ somaḥ ǀ tanve ǀ bhavāti ǀ
śatakrato iti śata-krato ǀ mādayasva ǀ suteṣu ǀ pra ǀ asmān ǀ ava ǀ pṛtanāsu ǀ pra ǀ vikṣu ǁ6.41.5 Aṣṭaka 4.7.13.5Anuvāka 6.3.109
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.