Ṛk 6.41.4
Saṃhitā
सु॒तः सोमो॒ असु॑तादिंद्र॒ वस्या॑न॒यं श्रेयां॑चिकि॒तुषे॒ रणा॑य ।
ए॒तं ति॑तिर्व॒ उप॑ याहि य॒ज्ञं तेन॒ विश्वा॒स्तवि॑षी॒रा पृ॑णस्व ॥
सुतः सोमो असुताद् इन्द्र वस्यान् अयं श्रेयाञ् चिकितुषे रणाय |
एतं तितिर्व उप याहि यज्ञं तेन विश्वास् तविषीर् आ पृणस्व ||
sutáḥ sómo ásutādindra vásyānayám śréyāñcikitúṣe ráṇāya ǀ
etám titirva úpa yāhi yajñám téna víśvāstáviṣīrā́ pṛṇasva ǁ
sutaḥ somo asutād indra vasyān ayaṃ śreyāñ cikituṣe raṇāya |
etaṃ titirva upa yāhi yajñaṃ tena viśvās taviṣīr ā pṛṇasva ||
Padapāṭha
सु॒तः । सोमः॑ । असु॑तात् । इ॒न्द्र॒ । वस्या॑न् । अ॒यम् । श्रेया॑न् । चि॒कि॒तुषे॑ । रणा॑य ।
ए॒तम् । ति॒ति॒र्वः॒ । उप॑ । या॒हि॒ । य॒ज्ञम् । तेन॑ । विश्वाः॑ । तवि॑षीः । आ । पृ॒ण॒स्व॒ ॥
सुतः । सोमः । असुतात् । इन्द्र । वस्यान् । अयम् । श्रेयान् । चिकितुषे । रणाय ।
एतम् । तितिर्वः । उप । याहि । यज्ञम् । तेन । विश्वाः । तविषीः । आ । पृणस्व ॥
sutáḥ ǀ sómaḥ ǀ ásutāt ǀ indra ǀ vásyān ǀ ayám ǀ śréyān ǀ cikitúṣe ǀ ráṇāya ǀ
etám ǀ titirvaḥ ǀ úpa ǀ yāhi ǀ yajñám ǀ téna ǀ víśvāḥ ǀ táviṣīḥ ǀ ā́ ǀ pṛṇasva ǁ
sutaḥ ǀ somaḥ ǀ asutāt ǀ indra ǀ vasyān ǀ ayam ǀ śreyān ǀ cikituṣe ǀ raṇāya ǀ
etam ǀ titirvaḥ ǀ upa ǀ yāhi ǀ yajñam ǀ tena ǀ viśvāḥ ǀ taviṣīḥ ǀ ā ǀ pṛṇasva ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.041.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.7.13.04
- Maṇḍala · Anuvāka · Ṛk
- 06.03.108
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.