Sūkta 9
- Devatā देवता
- Agni Vaiśvānara
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles paṅktiḥ (3, 4); virāṭtrisṭup (1); bhurikpaṅkti (2); nicṛttriṣṭup (5); triṣṭup (6); bhurigjagatī (7)
2nd set of styles triṣṭubh
-
Ṛk 1
अह॑श्च कृ॒ष्णमह॒रर्जु॑नं च॒ वि व॑र्तेते॒ रज॑सी वे॒द्याभिः॑ ।
वै॒श्वा॒न॒रो जाय॑मानो॒ न राजावा॑तिर॒ज्ज्योति॑षा॒ग्निस्तमां॑सि ॥अहश् च कृष्णम् अहर् अर्जुनं च वि वर्तेते रजसी वेद्याभिः |
वैश्वानरो जायमानो न राजावातिरज् ज्योतिषाग्निस् तमांसि ||áhaśca kṛṣṇámáharárjunam ca ví vartete rájasī vedyā́bhiḥ ǀ
vaiśvānaró jā́yamāno ná rā́jā́vātirajjyótiṣāgnístámāṃsi ǁahaś ca kṛṣṇam ahar arjunaṃ ca vi vartete rajasī vedyābhiḥ |
vaiśvānaro jāyamāno na rājāvātiraj jyotiṣāgnis tamāṃsi ||अहः॑ । च॒ । कृ॒ष्णम् । अहः॑ । अर्जु॑नम् । च॒ । वि । व॒र्ते॒ते॒ इति॑ । रज॑सी॒ इति॑ । वे॒द्याभिः॑ ।
वै॒श्वा॒न॒रः । जाय॑मानः । न । राजा॑ । अव॑ । अ॒ति॒र॒त् । ज्योति॑षा । अ॒ग्निः । तमां॑सि ॥अहः । च । कृष्णम् । अहः । अर्जुनम् । च । वि । वर्तेते इति । रजसी इति । वेद्याभिः ।
वैश्वानरः । जायमानः । न । राजा । अव । अतिरत् । ज्योतिषा । अग्निः । तमांसि ॥áhaḥ ǀ ca ǀ kṛṣṇám ǀ áhaḥ ǀ árjunam ǀ ca ǀ ví ǀ vartete íti ǀ rájasī íti ǀ vedyā́bhiḥ ǀ
vaiśvānaráḥ ǀ jā́yamānaḥ ǀ ná ǀ rā́jā ǀ áva ǀ atirat ǀ jyótiṣā ǀ agníḥ ǀ támāṃsi ǁahaḥ ǀ ca ǀ kṛṣṇam ǀ ahaḥ ǀ arjunam ǀ ca ǀ vi ǀ vartete iti ǀ rajasī iti ǀ vedyābhiḥ ǀ
vaiśvānaraḥ ǀ jāyamānaḥ ǀ na ǀ rājā ǀ ava ǀ atirat ǀ jyotiṣā ǀ agniḥ ǀ tamāṃsi ǁ6.9.1 Aṣṭaka 4.5.11.1Anuvāka 6.1.69
-
Ṛk 2
नाहं तंतुं॒ न वि जा॑ना॒म्योतुं॒ न यं वयं॑ति सम॒रेऽत॑मानाः ।
कस्य॑ स्वित्पु॒त्र इ॒ह वक्त्वा॑नि प॒रो व॑दा॒त्यव॑रेण पि॒त्रा ॥नाहं तन्तुं न वि जानाम्य् ओतुं न यं वयन्ति समरे ऽतमानाः |
कस्य स्वित् पुत्र इह वक्त्वानि परो वदात्य् अवरेण पित्रा ||nā́hám tántum ná ví jānāmyótum ná yám váyanti samaré’tamānāḥ ǀ
kásya svitputrá ihá váktvāni paró vadātyávareṇa pitrā́ ǁnāhaṃ tantuṃ na vi jānāmy otuṃ na yaṃ vayanti samare 'tamānāḥ |
kasya svit putra iha vaktvāni paro vadāty avareṇa pitrā ||न । अ॒हम् । तन्तु॑म् । न । वि । जा॒ना॒मि॒ । ओतु॑म् । न । यम् । वय॑न्ति । स॒म्ऽअ॒रे । अत॑मानाः ।
कस्य॑ । स्वि॒त् । पु॒त्रः । इ॒ह । वक्त्वा॑नि । प॒रः । व॒दा॒ति॒ । अव॑रेण । पि॒त्रा ॥न । अहम् । तन्तुम् । न । वि । जानामि । ओतुम् । न । यम् । वयन्ति । सम्ऽअरे । अतमानाः ।
कस्य । स्वित् । पुत्रः । इह । वक्त्वानि । परः । वदाति । अवरेण । पित्रा ॥ná ǀ ahám ǀ tántum ǀ ná ǀ ví ǀ jānāmi ǀ ótum ǀ ná ǀ yám ǀ váyanti ǀ sam-aré ǀ átamānāḥ ǀ
kásya ǀ svit ǀ putráḥ ǀ ihá ǀ váktvāni ǀ paráḥ ǀ vadāti ǀ ávareṇa ǀ pitrā́ ǁna ǀ aham ǀ tantum ǀ na ǀ vi ǀ jānāmi ǀ otum ǀ na ǀ yam ǀ vayanti ǀ sam-are ǀ atamānāḥ ǀ
kasya ǀ svit ǀ putraḥ ǀ iha ǀ vaktvāni ǀ paraḥ ǀ vadāti ǀ avareṇa ǀ pitrā ǁ6.9.2 Aṣṭaka 4.5.11.2Anuvāka 6.1.70
-
Ṛk 3
स इत्तंतुं॒ स वि जा॑ना॒त्योतुं॒ स वक्त्वा॑न्यृतु॒था व॑दाति ।
य ईं॒ चिके॑तद॒मृत॑स्य गो॒पा अ॒वश्चर॑न्प॒रो अ॒न्येन॒ पश्य॑न् ॥स इत् तन्तुं स वि जानात्य् ओतुं स वक्त्वान्य् ऋतुथा वदाति |
य ईं चिकेतद् अमृतस्य गोपा अवश् चरन् परो अन्येन पश्यन् ||sá íttántum sá ví jānātyótum sá váktvānyṛtuthā́ vadāti ǀ
yá īm cíketadamṛ́tasya gopā́ aváścáranparó anyéna páśyan ǁsa it tantuṃ sa vi jānāty otuṃ sa vaktvāny ṛtuthā vadāti |
ya īṃ ciketad amṛtasya gopā avaś caran paro anyena paśyan ||सः । इत् । तन्तु॑म् । सः । वि । जा॒ना॒ति॒ । ओतु॑म् । सः । वक्त्वा॑नि । ऋ॒तु॒ऽथा । व॒दा॒ति॒ ।
यः । ई॒म् । चिके॑तत् । अ॒मृत॑स्य । गो॒पाः । अ॒वः । चर॑न् । प॒रः । अ॒न्येन॑ । पश्य॑न् ॥सः । इत् । तन्तुम् । सः । वि । जानाति । ओतुम् । सः । वक्त्वानि । ऋतुऽथा । वदाति ।
यः । ईम् । चिकेतत् । अमृतस्य । गोपाः । अवः । चरन् । परः । अन्येन । पश्यन् ॥sáḥ ǀ ít ǀ tántum ǀ sáḥ ǀ ví ǀ jānāti ǀ ótum ǀ sáḥ ǀ váktvāni ǀ ṛtu-thā́ ǀ vadāti ǀ
yáḥ ǀ īm ǀ cíketat ǀ amṛ́tasya ǀ gopā́ḥ ǀ aváḥ ǀ cáran ǀ paráḥ ǀ anyéna ǀ páśyan ǁsaḥ ǀ it ǀ tantum ǀ saḥ ǀ vi ǀ jānāti ǀ otum ǀ saḥ ǀ vaktvāni ǀ ṛtu-thā ǀ vadāti ǀ
yaḥ ǀ īm ǀ ciketat ǀ amṛtasya ǀ gopāḥ ǀ avaḥ ǀ caran ǀ paraḥ ǀ anyena ǀ paśyan ǁ6.9.3 Aṣṭaka 4.5.11.3Anuvāka 6.1.71
-
Ṛk 4
अ॒यं होता॑ प्रथ॒मः पश्य॑ते॒ममि॒दं ज्योति॑र॒मृतं॒ मर्त्ये॑षु ।
अ॒यं स ज॑ज्ञे ध्रु॒व आ निष॒त्तोऽम॑र्त्यस्त॒न्वा॒३॒॑ वर्ध॑मानः ॥अयं होता प्रथमः पश्यतेमम् इदं ज्योतिर् अमृतम् मर्त्येषु |
अयं स जज्ञे ध्रुव आ निषत्तो ऽमर्त्यस् तन्वा वर्धमानः ||ayám hótā prathamáḥ páśyatemámidám jyótiramṛ́tam mártyeṣu ǀ
ayám sá jajñe dhruvá ā́ níṣattó’martyastanvā́ várdhamānaḥ ǁayaṃ hotā prathamaḥ paśyatemam idaṃ jyotir amṛtam martyeṣu |
ayaṃ sa jajñe dhruva ā niṣatto 'martyas tanvā vardhamānaḥ ||अ॒यम् । होता॑ । प्र॒थ॒मः । पश्य॑त । इ॒मम् । इ॒दम् । ज्योतिः॑ । अ॒मृत॑म् । मर्त्ये॑षु ।
अ॒यम् । सः । ज॒ज्ञे॒ । ध्रु॒वः । आ । निऽस॑त्तः । अम॑र्त्यः । त॒न्वा॑ । वर्ध॑मानः ॥अयम् । होता । प्रथमः । पश्यत । इमम् । इदम् । ज्योतिः । अमृतम् । मर्त्येषु ।
अयम् । सः । जज्ञे । ध्रुवः । आ । निऽसत्तः । अमर्त्यः । तन्वा । वर्धमानः ॥ayám ǀ hótā ǀ prathamáḥ ǀ páśyata ǀ imám ǀ idám ǀ jyótiḥ ǀ amṛ́tam ǀ mártyeṣu ǀ
ayám ǀ sáḥ ǀ jajñe ǀ dhruváḥ ǀ ā́ ǀ ní-sattaḥ ǀ ámartyaḥ ǀ tanvā́ ǀ várdhamānaḥ ǁayam ǀ hotā ǀ prathamaḥ ǀ paśyata ǀ imam ǀ idam ǀ jyotiḥ ǀ amṛtam ǀ martyeṣu ǀ
ayam ǀ saḥ ǀ jajñe ǀ dhruvaḥ ǀ ā ǀ ni-sattaḥ ǀ amartyaḥ ǀ tanvā ǀ vardhamānaḥ ǁ6.9.4 Aṣṭaka 4.5.11.4Anuvāka 6.1.72
-
Ṛk 5
ध्रु॒वं ज्योति॒र्निहि॑तं दृ॒शये॒ कं मनो॒ जवि॑ष्ठं प॒तय॑त्स्वं॒तः ।
विश्वे॑ दे॒वाः सम॑नसः॒ सके॑ता॒ एकं॒ क्रतु॑म॒भि वि यं॑ति सा॒धु ॥ध्रुवं ज्योतिर् निहितं दृशये कम् मनो जविष्ठम् पतयत्स्व् अन्तः |
विश्वे देवाः समनसः सकेता एकं क्रतुम् अभि वि यन्ति साधु ||dhruvám jyótirníhitam dṛśáye kám máno jáviṣṭham patáyatsvantáḥ ǀ
víśve devā́ḥ sámanasaḥ sáketā ékam krátumabhí ví yanti sādhú ǁdhruvaṃ jyotir nihitaṃ dṛśaye kam mano javiṣṭham patayatsv antaḥ |
viśve devāḥ samanasaḥ saketā ekaṃ kratum abhi vi yanti sādhu ||ध्रु॒वम् । ज्योतिः॑ । निऽहि॑तम् । दृ॒शये॑ । कम् । मनः॑ । जवि॑ष्ठम् । प॒तय॑त्ऽसु । अ॒न्तरिति॑ ।
विश्वे॑ । दे॒वाः । सऽम॑नसः । सऽके॑ताः । एक॑म् । क्रतु॑म् । अ॒भि । वि । या॒न्ति॒ । सा॒धु ॥ध्रुवम् । ज्योतिः । निऽहितम् । दृशये । कम् । मनः । जविष्ठम् । पतयत्ऽसु । अन्तरिति ।
विश्वे । देवाः । सऽमनसः । सऽकेताः । एकम् । क्रतुम् । अभि । वि । यान्ति । साधु ॥dhruvám ǀ jyótiḥ ǀ ní-hitam ǀ dṛśáye ǀ kám ǀ mánaḥ ǀ jáviṣṭham ǀ patáyat-su ǀ antáríti ǀ
víśve ǀ devā́ḥ ǀ sá-manasaḥ ǀ sá-ketāḥ ǀ ékam ǀ krátum ǀ abhí ǀ ví ǀ yānti ǀ sādhú ǁdhruvam ǀ jyotiḥ ǀ ni-hitam ǀ dṛśaye ǀ kam ǀ manaḥ ǀ javiṣṭham ǀ patayat-su ǀ antariti ǀ
viśve ǀ devāḥ ǀ sa-manasaḥ ǀ sa-ketāḥ ǀ ekam ǀ kratum ǀ abhi ǀ vi ǀ yānti ǀ sādhu ǁ6.9.5 Aṣṭaka 4.5.11.5Anuvāka 6.1.73
-
Ṛk 6
वि मे॒ कर्णा॑ पतयतो॒ वि चक्षु॒र्वी॒३॒॑दं ज्योति॒र्हृद॑य॒ आहि॑तं॒ यत् ।
वि मे॒ मन॑श्चरति दू॒रआ॑धीः॒ किं स्वि॑द्व॒क्ष्यामि॒ किमु॒ नू म॑निष्ये ॥वि मे कर्णा पतयतो वि चक्षुर् वीदं ज्योतिर् हृदय आहितं यत् |
वि मे मनश् चरति दूरआधीः किं स्विद् वक्ष्यामि किम् उ नू मनिष्ये ||ví me kárṇā patayato ví cákṣurvī́dám jyótirhṛ́daya ā́hitam yát ǀ
ví me mánaścarati dūráādhīḥ kím svidvakṣyā́mi kímu nū́ maniṣye ǁvi me karṇā patayato vi cakṣur vīdaṃ jyotir hṛdaya āhitaṃ yat |
vi me manaś carati dūraādhīḥ kiṃ svid vakṣyāmi kim u nū maniṣye ||वि । मे॒ । कर्णा॑ । प॒त॒य॒तः॒ । वि । चक्षुः॑ । वि । इ॒दम् । ज्योतिः॑ । हृद॑ये । आऽहि॑तम् । यत् ।
वि । मे॒ । मनः॑ । च॒र॒ति॒ । दू॒रेऽआ॑धीः । किम् । स्वि॒त् । व॒क्ष्यामि॑ । किम् । ऊं॒ इति॑ । नु । म॒नि॒ष्ये॒ ॥वि । मे । कर्णा । पतयतः । वि । चक्षुः । वि । इदम् । ज्योतिः । हृदये । आऽहितम् । यत् ।
वि । मे । मनः । चरति । दूरेऽआधीः । किम् । स्वित् । वक्ष्यामि । किम् । ऊं इति । नु । मनिष्ये ॥ví ǀ me ǀ kárṇā ǀ patayataḥ ǀ ví ǀ cákṣuḥ ǀ ví ǀ idám ǀ jyótiḥ ǀ hṛ́daye ǀ ā́-hitam ǀ yát ǀ
ví ǀ me ǀ mánaḥ ǀ carati ǀ dūré-ādhīḥ ǀ kím ǀ svit ǀ vakṣyā́mi ǀ kím ǀ ūṃ íti ǀ nú ǀ maniṣye ǁvi ǀ me ǀ karṇā ǀ patayataḥ ǀ vi ǀ cakṣuḥ ǀ vi ǀ idam ǀ jyotiḥ ǀ hṛdaye ǀ ā-hitam ǀ yat ǀ
vi ǀ me ǀ manaḥ ǀ carati ǀ dūre-ādhīḥ ǀ kim ǀ svit ǀ vakṣyāmi ǀ kim ǀ ūṃ iti ǀ nu ǀ maniṣye ǁ6.9.6 Aṣṭaka 4.5.11.6Anuvāka 6.1.74
-
Ṛk 7
विश्वे॑ दे॒वा अ॑नमस्यन्भिया॒नास्त्वाम॑ग्ने॒ तम॑सि तस्थि॒वांसं॑ ।
वै॒श्वा॒न॒रो॑ऽवतू॒तये॒ नोऽम॑र्त्योऽवतू॒तये॑ नः ॥विश्वे देवा अनमस्यन् भियानास् त्वाम् अग्ने तमसि तस्थिवांसम् |
वैश्वानरो ऽवतूतये नो ऽमर्त्यो ऽवतूतये नः ||víśve devā́ anamasyanbhiyānā́stvā́magne támasi tasthivā́ṃsam ǀ
vaiśvānaró’vatūtáye nó’martyo’vatūtáye naḥ ǁviśve devā anamasyan bhiyānās tvām agne tamasi tasthivāṃsam |
vaiśvānaro 'vatūtaye no 'martyo 'vatūtaye naḥ ||विश्वे॑ । दे॒वाः । अ॒न॒म॒स्य॒न् । भि॒या॒नाः । त्वाम् । अ॒ग्ने॒ । तम॑सि । त॒स्थि॒ऽवांस॑म् ।
वै॒श्वा॒न॒रः । अ॒व॒तु॒ । ऊ॒तये॑ । नः॒ । अम॑र्त्यः । अ॒व॒तु॒ । ऊ॒तये॑ । नः॒ ॥विश्वे । देवाः । अनमस्यन् । भियानाः । त्वाम् । अग्ने । तमसि । तस्थिऽवांसम् ।
वैश्वानरः । अवतु । ऊतये । नः । अमर्त्यः । अवतु । ऊतये । नः ॥víśve ǀ devā́ḥ ǀ anamasyan ǀ bhiyānā́ḥ ǀ tvā́m ǀ agne ǀ támasi ǀ tasthi-vā́ṃsam ǀ
vaiśvānaráḥ ǀ avatu ǀ ūtáye ǀ naḥ ǀ ámartyaḥ ǀ avatu ǀ ūtáye ǀ naḥ ǁviśve ǀ devāḥ ǀ anamasyan ǀ bhiyānāḥ ǀ tvām ǀ agne ǀ tamasi ǀ tasthi-vāṃsam ǀ
vaiśvānaraḥ ǀ avatu ǀ ūtaye ǀ naḥ ǀ amartyaḥ ǀ avatu ǀ ūtaye ǀ naḥ ǁ6.9.7 Aṣṭaka 4.5.11.7Anuvāka 6.1.75
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.