Sūkta 3
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles nicṛttriṣṭup (2, 5-7); triṣṭup (1, 3, 4); bhurikpaṅkti (8)
2nd set of styles triṣṭubh
-
Ṛk 1
अग्ने॒ स क्षे॑षदृत॒पा ऋ॑ते॒जा उ॒रु ज्योति॑र्नशते देव॒युष्टे॑ ।
यं त्वं मि॒त्रेण॒ वरु॑णः स॒जोषा॒ देव॒ पासि॒ त्यज॑सा॒ मर्त॒मंहः॑ ॥अग्ने स क्षेषद् ऋतपा ऋतेजा उरु ज्योतिर् नशते देवयुष् टे |
यं त्वम् मित्रेण वरुणः सजोषा देव पासि त्यजसा मर्तम् अंहः ||ágne sá kṣeṣadṛtapā́ ṛtejā́ urú jyótirnaśate devayúṣṭe ǀ
yám tvám mitréṇa váruṇaḥ sajóṣā déva pā́si tyájasā mártamáṃhaḥ ǁagne sa kṣeṣad ṛtapā ṛtejā uru jyotir naśate devayuṣ ṭe |
yaṃ tvam mitreṇa varuṇaḥ sajoṣā deva pāsi tyajasā martam aṃhaḥ ||अग्ने॑ । सः । क्षे॒ष॒त् । ऋ॒त॒ऽपाः । ऋ॒ते॒ऽजाः । उ॒रु । ज्योतिः॑ । न॒श॒ते॒ । दे॒व॒ऽयुः । ते॒ ।
यम् । त्वम् । मि॒त्रेण॑ । वरु॑णः । स॒ऽजोषाः॑ । देव॑ । पासि॑ । त्यज॑सा । मर्त॑म् । अंहः॑ ॥अग्ने । सः । क्षेषत् । ऋतऽपाः । ऋतेऽजाः । उरु । ज्योतिः । नशते । देवऽयुः । ते ।
यम् । त्वम् । मित्रेण । वरुणः । सऽजोषाः । देव । पासि । त्यजसा । मर्तम् । अंहः ॥ágne ǀ sáḥ ǀ kṣeṣat ǀ ṛta-pā́ḥ ǀ ṛte-jā́ḥ ǀ urú ǀ jyótiḥ ǀ naśate ǀ deva-yúḥ ǀ te ǀ
yám ǀ tvám ǀ mitréṇa ǀ váruṇaḥ ǀ sa-jóṣāḥ ǀ déva ǀ pā́si ǀ tyájasā ǀ mártam ǀ áṃhaḥ ǁagne ǀ saḥ ǀ kṣeṣat ǀ ṛta-pāḥ ǀ ṛte-jāḥ ǀ uru ǀ jyotiḥ ǀ naśate ǀ deva-yuḥ ǀ te ǀ
yam ǀ tvam ǀ mitreṇa ǀ varuṇaḥ ǀ sa-joṣāḥ ǀ deva ǀ pāsi ǀ tyajasā ǀ martam ǀ aṃhaḥ ǁ6.3.1 Aṣṭaka 4.5.3.1Anuvāka 6.1.25
-
Ṛk 2
ई॒जे य॒ज्ञेभिः॑ शश॒मे शमी॑भिर्ऋ॒धद्वा॑राया॒ग्नये॑ ददाश ।
ए॒वा च॒न तं य॒शसा॒मजु॑ष्टि॒र्नांहो॒ मर्तं॑ नशते॒ न प्रदृ॑प्तिः ॥ईजे यज्ञेभिः शशमे शमीभिर् ऋधद्वारायाग्नये ददाश |
एवा चन तं यशसाम् अजुष्टिर् नांहो मर्तं नशते न प्रदृप्तिः ||ījé yajñébhiḥ śaśamé śámībhirṛdhádvārāyāgnáye dadāśa ǀ
evā́ caná tám yaśásāmájuṣṭirnā́ṃho mártam naśate ná prádṛptiḥ ǁīje yajñebhiḥ śaśame śamībhir ṛdhadvārāyāgnaye dadāśa |
evā cana taṃ yaśasām ajuṣṭir nāṃho martaṃ naśate na pradṛptiḥ ||ई॒जे । य॒ज्ञेभिः॑ । श॒श॒मे । शमी॑भिः । ऋ॒धत्ऽवा॑राय । अ॒ग्नये॑ । द॒दा॒श॒ ।
ए॒व । च॒न । तम् । य॒शसा॑म् । अजु॑ष्टिः । न । अंहः॑ । मर्त॑म् । न॒श॒ते॒ । न । प्रऽदृ॑प्तिः ॥ईजे । यज्ञेभिः । शशमे । शमीभिः । ऋधत्ऽवाराय । अग्नये । ददाश ।
एव । चन । तम् । यशसाम् । अजुष्टिः । न । अंहः । मर्तम् । नशते । न । प्रऽदृप्तिः ॥ījé ǀ yajñébhiḥ ǀ śaśamé ǀ śámībhiḥ ǀ ṛdhát-vārāya ǀ agnáye ǀ dadāśa ǀ
evá ǀ caná ǀ tám ǀ yaśásām ǀ ájuṣṭiḥ ǀ ná ǀ áṃhaḥ ǀ mártam ǀ naśate ǀ ná ǀ prá-dṛptiḥ ǁīje ǀ yajñebhiḥ ǀ śaśame ǀ śamībhiḥ ǀ ṛdhat-vārāya ǀ agnaye ǀ dadāśa ǀ
eva ǀ cana ǀ tam ǀ yaśasām ǀ ajuṣṭiḥ ǀ na ǀ aṃhaḥ ǀ martam ǀ naśate ǀ na ǀ pra-dṛptiḥ ǁ6.3.2 Aṣṭaka 4.5.3.2Anuvāka 6.1.26
-
Ṛk 3
सूरो॒ न यस्य॑ दृश॒तिर॑रे॒पा भी॒मा यदेति॑ शुच॒तस्त॒ आ धीः ।
हेष॑स्वतः शु॒रुधो॒ नायम॒क्तोः कुत्रा॑ चिद्र॒ण्वो व॑स॒तिर्व॑ने॒जाः ॥सूरो न यस्य दृशतिर् अरेपा भीमा यद् एति शुचतस् त आ धीः |
हेषस्वतः शुरुधो नायम् अक्तोः कुत्रा चिद् रण्वो वसतिर् वनेजाः ||sū́ro ná yásya dṛśatírarepā́ bhīmā́ yádéti śucatásta ā́ dhī́ḥ ǀ
héṣasvataḥ śurúdho nā́yámaktóḥ kútrā cidraṇvó vasatírvanejā́ḥ ǁsūro na yasya dṛśatir arepā bhīmā yad eti śucatas ta ā dhīḥ |
heṣasvataḥ śurudho nāyam aktoḥ kutrā cid raṇvo vasatir vanejāḥ ||सूरः॑ । न । यस्य॑ । दृ॒श॒तिः । अ॒रे॒पाः । भी॒मा । यत् । एति॑ । शु॒च॒तः । ते॒ । आ । धीः ।
हेष॑स्वतः । शु॒रुधः॑ । न । अ॒यम् । अ॒क्तोः । कुत्र॑ । चि॒त् । र॒ण्वः । व॒स॒तिः । व॒ने॒ऽजाः ॥सूरः । न । यस्य । दृशतिः । अरेपाः । भीमा । यत् । एति । शुचतः । ते । आ । धीः ।
हेषस्वतः । शुरुधः । न । अयम् । अक्तोः । कुत्र । चित् । रण्वः । वसतिः । वनेऽजाः ॥sū́raḥ ǀ ná ǀ yásya ǀ dṛśatíḥ ǀ arepā́ḥ ǀ bhīmā́ ǀ yát ǀ éti ǀ śucatáḥ ǀ te ǀ ā́ ǀ dhī́ḥ ǀ
héṣasvataḥ ǀ śurúdhaḥ ǀ ná ǀ ayám ǀ aktóḥ ǀ kútra ǀ cit ǀ raṇváḥ ǀ vasatíḥ ǀ vane-jā́ḥ ǁsūraḥ ǀ na ǀ yasya ǀ dṛśatiḥ ǀ arepāḥ ǀ bhīmā ǀ yat ǀ eti ǀ śucataḥ ǀ te ǀ ā ǀ dhīḥ ǀ
heṣasvataḥ ǀ śurudhaḥ ǀ na ǀ ayam ǀ aktoḥ ǀ kutra ǀ cit ǀ raṇvaḥ ǀ vasatiḥ ǀ vane-jāḥ ǁ6.3.3 Aṣṭaka 4.5.3.3Anuvāka 6.1.27
-
Ṛk 4
ति॒ग्मं चि॒देम॒ महि॒ वर्पो॑ अस्य॒ भस॒दश्वो॒ न य॑मसा॒न आ॒सा ।
वि॒जेह॑मानः पर॒शुर्न जि॒ह्वां द्र॒विर्न द्रा॑वयति॒ दारु॒ धक्ष॑त् ॥तिग्मं चिद् एम महि वर्पो अस्य भसद् अश्वो न यमसान आसा |
विजेहमानः परशुर् न जिह्वां द्रविर् न द्रावयति दारु धक्षत् ||tigmám cidéma máhi várpo asya bhásadáśvo ná yamasāná āsā́ ǀ
vijéhamānaḥ paraśúrná jihvā́m dravírná drāvayati dā́ru dhákṣat ǁtigmaṃ cid ema mahi varpo asya bhasad aśvo na yamasāna āsā |
vijehamānaḥ paraśur na jihvāṃ dravir na drāvayati dāru dhakṣat ||ति॒ग्मम् । चि॒त् । एम॑ । महि॑ । वर्पः॑ । अ॒स्य॒ । भस॑त् । अश्वः॑ । न । य॒म॒सा॒नः । आ॒सा ।
वि॒ऽजेह॑मानः । प॒र॒शुः । न । जि॒ह्वाम् । द्र॒विः । न । द्र॒व॒य॒ति॒ । दारु॑ । धक्ष॑त् ॥तिग्मम् । चित् । एम । महि । वर्पः । अस्य । भसत् । अश्वः । न । यमसानः । आसा ।
विऽजेहमानः । परशुः । न । जिह्वाम् । द्रविः । न । द्रवयति । दारु । धक्षत् ॥tigmám ǀ cit ǀ éma ǀ máhi ǀ várpaḥ ǀ asya ǀ bhásat ǀ áśvaḥ ǀ ná ǀ yamasānáḥ ǀ āsā́ ǀ
vi-jéhamānaḥ ǀ paraśúḥ ǀ ná ǀ jihvā́m ǀ dravíḥ ǀ ná ǀ dravayati ǀ dā́ru ǀ dhákṣat ǁtigmam ǀ cit ǀ ema ǀ mahi ǀ varpaḥ ǀ asya ǀ bhasat ǀ aśvaḥ ǀ na ǀ yamasānaḥ ǀ āsā ǀ
vi-jehamānaḥ ǀ paraśuḥ ǀ na ǀ jihvām ǀ draviḥ ǀ na ǀ dravayati ǀ dāru ǀ dhakṣat ǁ6.3.4 Aṣṭaka 4.5.3.4Anuvāka 6.1.28
-
Ṛk 5
स इदस्ते॑व॒ प्रति॑ धादसि॒ष्यंछिशी॑त॒ तेजोऽय॑सो॒ न धारां॑ ।
चि॒त्रध्र॑जतिरर॒तिर्यो अ॒क्तोर्वेर्न द्रु॒षद्वा॑ रघु॒पत्म॑जंहाः ॥स इद् अस्तेव प्रति धाद् असिष्यञ् छिशीत तेजो ऽयसो न धाराम् |
चित्रध्रजतिर् अरतिर् यो अक्तोर् वेर् न द्रुषद्वा रघुपत्मजंहाः ||sá ídásteva práti dhādasiṣyáñchíśīta téjó’yaso ná dhā́rām ǀ
citrádhrajatiraratíryó aktórvérná druṣádvā raghupátmajaṃhāḥ ǁsa id asteva prati dhād asiṣyañ chiśīta tejo 'yaso na dhārām |
citradhrajatir aratir yo aktor ver na druṣadvā raghupatmajaṃhāḥ ||सः । इत् । अस्ता॑ऽइव । प्रति॑ । धा॒त् । अ॒सि॒ष्यन् । शिशी॑त । तेजः॑ । अय॑सः । न । धारा॑म् ।
चि॒त्रऽध्र॑जतिः । अ॒र॒तिः । यः । अ॒क्तोः । वेः । न । द्रु॒ऽसद्वा॑ । र॒घु॒पत्म॑ऽजंहाः ॥सः । इत् । अस्ताऽइव । प्रति । धात् । असिष्यन् । शिशीत । तेजः । अयसः । न । धाराम् ।
चित्रऽध्रजतिः । अरतिः । यः । अक्तोः । वेः । न । द्रुऽसद्वा । रघुपत्मऽजंहाः ॥sáḥ ǀ ít ǀ ástā-iva ǀ práti ǀ dhāt ǀ asiṣyán ǀ śíśīta ǀ téjaḥ ǀ áyasaḥ ǀ ná ǀ dhā́rām ǀ
citrá-dhrajatiḥ ǀ aratíḥ ǀ yáḥ ǀ aktóḥ ǀ véḥ ǀ ná ǀ dru-sádvā ǀ raghupátma-jaṃhāḥ ǁsaḥ ǀ it ǀ astā-iva ǀ prati ǀ dhāt ǀ asiṣyan ǀ śiśīta ǀ tejaḥ ǀ ayasaḥ ǀ na ǀ dhārām ǀ
citra-dhrajatiḥ ǀ aratiḥ ǀ yaḥ ǀ aktoḥ ǀ veḥ ǀ na ǀ dru-sadvā ǀ raghupatma-jaṃhāḥ ǁ6.3.5 Aṣṭaka 4.5.3.5Anuvāka 6.1.29
-
Ṛk 6
स ईं॑ रे॒भो न प्रति॑ वस्त उ॒स्राः शो॒चिषा॑ रारपीति मि॒त्रम॑हाः ।
नक्तं॒ य ई॑मरु॒षो यो दिवा॒ नॄनम॑र्त्यो अरु॒षो यो दिवा॒ नॄन् ॥स ईं रेभो न प्रति वस्त उस्राः शोचिषा रारपीति मित्रमहाः |
नक्तं य ईम् अरुषो यो दिवा नॄन् अमर्त्यो अरुषो यो दिवा नॄन् ||sá īm rebhó ná práti vasta usrā́ḥ śocíṣā rārapīti mitrámahāḥ ǀ
náktam yá īmaruṣó yó dívā nṝ́námartyo aruṣó yó dívā nṝ́n ǁsa īṃ rebho na prati vasta usrāḥ śociṣā rārapīti mitramahāḥ |
naktaṃ ya īm aruṣo yo divā nṝn amartyo aruṣo yo divā nṝn ||सः । ई॒म् । रे॒भः । न । प्रति॑ । व॒स्ते॒ । उ॒स्राः । शो॒चिषा॑ । र॒र॒पी॒ति॒ । मि॒त्रऽम॑हाः ।
नक्त॑म् । यः । ई॒म् । अ॒रु॒षः । यः । दिवा॑ । नॄन् । अम॑र्त्यः । अ॒रु॒षः । यः । दिवा॑ । नॄन् ॥सः । ईम् । रेभः । न । प्रति । वस्ते । उस्राः । शोचिषा । ररपीति । मित्रऽमहाः ।
नक्तम् । यः । ईम् । अरुषः । यः । दिवा । नॄन् । अमर्त्यः । अरुषः । यः । दिवा । नॄन् ॥sáḥ ǀ īm ǀ rebháḥ ǀ ná ǀ práti ǀ vaste ǀ usrā́ḥ ǀ śocíṣā ǀ rarapīti ǀ mitrá-mahāḥ ǀ
náktam ǀ yáḥ ǀ īm ǀ aruṣáḥ ǀ yáḥ ǀ dívā ǀ nṝ́n ǀ ámartyaḥ ǀ aruṣáḥ ǀ yáḥ ǀ dívā ǀ nṝ́n ǁsaḥ ǀ īm ǀ rebhaḥ ǀ na ǀ prati ǀ vaste ǀ usrāḥ ǀ śociṣā ǀ rarapīti ǀ mitra-mahāḥ ǀ
naktam ǀ yaḥ ǀ īm ǀ aruṣaḥ ǀ yaḥ ǀ divā ǀ nṝn ǀ amartyaḥ ǀ aruṣaḥ ǀ yaḥ ǀ divā ǀ nṝn ǁ6.3.6 Aṣṭaka 4.5.4.1Anuvāka 6.1.30
-
Ṛk 7
दि॒वो न यस्य॑ विध॒तो नवी॑नो॒द्वृषा॑ रु॒क्ष ओष॑धीषु नूनोत् ।
घृणा॒ न यो ध्रज॑सा॒ पत्म॑ना॒ यन्ना रोद॑सी॒ वसु॑ना॒ दं सु॒पत्नी॑ ॥दिवो न यस्य विधतो नवीनोद् वृषा रुक्ष ओषधीषु नूनोत् |
घृणा न यो ध्रजसा पत्मना यन्न् आ रोदसी वसुना दं सुपत्नी ||divó ná yásya vidható návīnodvṛ́ṣā rukṣá óṣadhīṣu nūnot ǀ
ghṛ́ṇā ná yó dhrájasā pátmanā yánnā́ ródasī vásunā dám supátnī ǁdivo na yasya vidhato navīnod vṛṣā rukṣa oṣadhīṣu nūnot |
ghṛṇā na yo dhrajasā patmanā yann ā rodasī vasunā daṃ supatnī ||दि॒वः । न । यस्य॑ । वि॒ध॒तः । नवी॑नोत् । वृषा॑ । रु॒क्षः । ओष॑धीषु । नू॒नो॒त् ।
घृणा॑ । न । यः । ध्रज॑सा । पत्म॑ना । यन् । आ । रोद॑सी॒ इति॑ । वसु॑ना । दम् । सु॒पत्नी॒ इति॑ सु॒ऽपत्नी॑ ॥दिवः । न । यस्य । विधतः । नवीनोत् । वृषा । रुक्षः । ओषधीषु । नूनोत् ।
घृणा । न । यः । ध्रजसा । पत्मना । यन् । आ । रोदसी इति । वसुना । दम् । सुपत्नी इति सुऽपत्नी ॥diváḥ ǀ ná ǀ yásya ǀ vidhatáḥ ǀ návīnot ǀ vṛ́ṣā ǀ rukṣáḥ ǀ óṣadhīṣu ǀ nūnot ǀ
ghṛ́ṇā ǀ ná ǀ yáḥ ǀ dhrájasā ǀ pátmanā ǀ yán ǀ ā́ ǀ ródasī íti ǀ vásunā ǀ dám ǀ supátnī íti su-pátnī ǁdivaḥ ǀ na ǀ yasya ǀ vidhataḥ ǀ navīnot ǀ vṛṣā ǀ rukṣaḥ ǀ oṣadhīṣu ǀ nūnot ǀ
ghṛṇā ǀ na ǀ yaḥ ǀ dhrajasā ǀ patmanā ǀ yan ǀ ā ǀ rodasī iti ǀ vasunā ǀ dam ǀ supatnī iti su-patnī ǁ6.3.7 Aṣṭaka 4.5.4.2Anuvāka 6.1.31
-
Ṛk 8
धायो॑भिर्वा॒ यो युज्ये॑भिर॒र्कैर्वि॒द्युन्न द॑विद्यो॒त्स्वेभिः॒ शुष्मैः॑ ।
शर्धो॑ वा॒ यो म॒रुतां॑ त॒तक्ष॑ ऋ॒भुर्न त्वे॒षो र॑भसा॒नो अ॑द्यौत् ॥धायोभिर् वा यो युज्येभिर् अर्कैर् विद्युन् न दविद्योत् स्वेभिः शुष्मैः |
शर्धो वा यो मरुतां ततक्ष ऋभुर् न त्वेषो रभसानो अद्यौत् ||dhā́yobhirvā yó yújyebhirarkáirvidyúnná davidyotsvébhiḥ śúṣmaiḥ ǀ
śárdho vā yó marútām tatákṣa ṛbhúrná tveṣó rabhasānó adyaut ǁdhāyobhir vā yo yujyebhir arkair vidyun na davidyot svebhiḥ śuṣmaiḥ |
śardho vā yo marutāṃ tatakṣa ṛbhur na tveṣo rabhasāno adyaut ||धायः॑ऽभिः । वा॒ । यः । युज्ये॑भिः । अ॒र्कैः । वि॒ऽद्युत् । न । द॒वि॒द्यो॒त् । स्वेभिः॑ । शुष्मैः॑ ।
शर्धः॑ । वा॒ । यः । म॒रुता॑म् । त॒तक्ष॑ । ऋ॒भुः । न । त्वे॒षः । र॒भ॒सा॒नः । अ॒द्यौ॒त् ॥धायःऽभिः । वा । यः । युज्येभिः । अर्कैः । विऽद्युत् । न । दविद्योत् । स्वेभिः । शुष्मैः ।
शर्धः । वा । यः । मरुताम् । ततक्ष । ऋभुः । न । त्वेषः । रभसानः । अद्यौत् ॥dhā́yaḥ-bhiḥ ǀ vā ǀ yáḥ ǀ yújyebhiḥ ǀ arkáiḥ ǀ vi-dyút ǀ ná ǀ davidyot ǀ svébhiḥ ǀ śúṣmaiḥ ǀ
śárdhaḥ ǀ vā ǀ yáḥ ǀ marútām ǀ tatákṣa ǀ ṛbhúḥ ǀ ná ǀ tveṣáḥ ǀ rabhasānáḥ ǀ adyaut ǁdhāyaḥ-bhiḥ ǀ vā ǀ yaḥ ǀ yujyebhiḥ ǀ arkaiḥ ǀ vi-dyut ǀ na ǀ davidyot ǀ svebhiḥ ǀ śuṣmaiḥ ǀ
śardhaḥ ǀ vā ǀ yaḥ ǀ marutām ǀ tatakṣa ǀ ṛbhuḥ ǀ na ǀ tveṣaḥ ǀ rabhasānaḥ ǀ adyaut ǁ6.3.8 Aṣṭaka 4.5.4.3Anuvāka 6.1.32
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.