Ṛk 6.3.8
Saṃhitā
धायो॑भिर्वा॒ यो युज्ये॑भिर॒र्कैर्वि॒द्युन्न द॑विद्यो॒त्स्वेभिः॒ शुष्मैः॑ ।
शर्धो॑ वा॒ यो म॒रुतां॑ त॒तक्ष॑ ऋ॒भुर्न त्वे॒षो र॑भसा॒नो अ॑द्यौत् ॥
धायोभिर् वा यो युज्येभिर् अर्कैर् विद्युन् न दविद्योत् स्वेभिः शुष्मैः |
शर्धो वा यो मरुतां ततक्ष ऋभुर् न त्वेषो रभसानो अद्यौत् ||
dhā́yobhirvā yó yújyebhirarkáirvidyúnná davidyotsvébhiḥ śúṣmaiḥ ǀ
śárdho vā yó marútām tatákṣa ṛbhúrná tveṣó rabhasānó adyaut ǁ
dhāyobhir vā yo yujyebhir arkair vidyun na davidyot svebhiḥ śuṣmaiḥ |
śardho vā yo marutāṃ tatakṣa ṛbhur na tveṣo rabhasāno adyaut ||
Padapāṭha
धायः॑ऽभिः । वा॒ । यः । युज्ये॑भिः । अ॒र्कैः । वि॒ऽद्युत् । न । द॒वि॒द्यो॒त् । स्वेभिः॑ । शुष्मैः॑ ।
शर्धः॑ । वा॒ । यः । म॒रुता॑म् । त॒तक्ष॑ । ऋ॒भुः । न । त्वे॒षः । र॒भ॒सा॒नः । अ॒द्यौ॒त् ॥
धायःऽभिः । वा । यः । युज्येभिः । अर्कैः । विऽद्युत् । न । दविद्योत् । स्वेभिः । शुष्मैः ।
शर्धः । वा । यः । मरुताम् । ततक्ष । ऋभुः । न । त्वेषः । रभसानः । अद्यौत् ॥
dhā́yaḥ-bhiḥ ǀ vā ǀ yáḥ ǀ yújyebhiḥ ǀ arkáiḥ ǀ vi-dyút ǀ ná ǀ davidyot ǀ svébhiḥ ǀ śúṣmaiḥ ǀ
śárdhaḥ ǀ vā ǀ yáḥ ǀ marútām ǀ tatákṣa ǀ ṛbhúḥ ǀ ná ǀ tveṣáḥ ǀ rabhasānáḥ ǀ adyaut ǁ
dhāyaḥ-bhiḥ ǀ vā ǀ yaḥ ǀ yujyebhiḥ ǀ arkaiḥ ǀ vi-dyut ǀ na ǀ davidyot ǀ svebhiḥ ǀ śuṣmaiḥ ǀ
śardhaḥ ǀ vā ǀ yaḥ ǀ marutām ǀ tatakṣa ǀ ṛbhuḥ ǀ na ǀ tveṣaḥ ǀ rabhasānaḥ ǀ adyaut ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.003.08
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.5.04.03
- Maṇḍala · Anuvāka · Ṛk
- 06.01.032
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.